जानकी सहस्रनामस्तोत्रम्

जानकी सहस्रनामस्तोत्रम्

श्रीजानकीचरितामृते सप्ताशीतितमोऽध्यायः ॥ ८७॥ अथ श्रीयोगेश्वरकवि द्वारा वर्णितं श्रीजानकीसहस्रनामस्तोत्रम् । श्रीकविरुवाच । नीलेन्दीवरलोचनां जनकजां विस्मेरबिम्बाधरां ब्रह्माविष्णुमहेशसेव्यचरणां दीव्यत्सुवर्णप्रभाम् । सव्ये श्रीमिथिलेशितुः सुनयनाक्रोडे मुदा राजितां वन्दे बन्धुगणान्वितामनुचरीवृन्दैः समाराधिताम् ॥ १॥ ॐ अकल्पाऽकल्मषाऽकामा अकायाऽकारचर्चिता । अकारणाऽकोपपूज्या अक्रूरैकाऽक्षणाऽक्षरा ॥ २॥ अगदाऽगुणाऽग्रगण्या अचलापुत्रिकाऽचला । अच्युताऽजाऽजेयबुद्धिरज्ञातगतिसत्तमा ॥ ३॥ अणोरणीयस्यतर्क्या अतीन्द्रियचयाऽतुला । अदभ्रमहिमाऽदृश्या अद्वितीयक्षमानिधिः ॥ ४॥ अद्वितीयदयामूर्तिरद्वितीयानहङ्कृतिः । अदीनवुद्धिरद्वैता अधृताऽधोक्षजाऽनघा ॥ ५॥ अनन्तविग्रहाऽनन्ता अनन्तैश्वर्यसंयुता । अनन्यभावसन्तुष्टा अनर्थौघनिवारिणी ॥ ६॥ अनवद्याऽनामरूपा अनिर्देश्यस्वरूपिणी । अनिर्वाच्यसुखाम्भोधिरनिर्वाच्याङ्घ्रिमार्दवा ॥ ७॥ अनिर्विण्णाऽनुकूलैका अनुकम्पैकविग्रहा । अनुत्तमाऽनुत्तमात्मा अनुरागर्भराञ्चिता ॥ ८॥ अपारमहिमाऽपारभववारिधितारिणी । अपूर्वचरिताऽपूर्वसिद्धान्ताऽपूर्वसौभगा ॥ ९॥ अप्रकृष्टाऽप्रतिद्वन्द्वविक्रमाऽप्रतिमद्युतिः । अप्रतिमाऽप्रमत्तात्मा अप्रमेयसुखाकृतिः ॥ १०॥ अप्राकृतगुणैश्वर्यविश्वमोहनविग्रहा । अभिवाद्याऽमलाऽमाना अमिताऽमृतरूपिणी ॥ ११॥ अमृताऽमृतदृष्टिश्च अमृताशाऽमृतोद्भवा । अयोनिसम्भवाऽरौद्रा अलोलाऽवनिपुत्रिका ॥ १२॥ अवराऽवर्ण्यमाधुर्य्या अवर्ण्यकरुणावधिः । अविचिन्त्याऽविशिष्टात्मा अव्यक्ताऽव्ययशेमुषी ॥ १३॥ अव्याजकरुणामूर्तिरशोकाऽसङ्ख्यकाऽसमा । असम्मिताऽऽप्तसङ्कल्पा आत्मज्ञानविभाकरी ॥ १४॥ आत्मोद्भवाऽऽत्ममर्मज्ञा आत्मलाभप्रदायिनी । आत्मवत्यादिकर्त्र्यादिराधारपरमालया ॥ १५॥ आध्येयाङ्घ्रिसरोजाङ्का आनन्दामृतवर्षिणी । आम्नायवेद्यचरणा आश्रितत्राणतत्परा ॥ १६॥ आसक्त्यपहृतासक्तिरास्यस्पर्द्धिविधुव्रजा । आह्लादसूपमासिन्धुरिनवंश्यपरप्रिया ॥ १७॥ इन्दुपूर्णोल्लसद्वक्त्रा इभराजसुतागतिः । इयत्त्वरहितेर्वाल्वी प्रपन्नसकलापदाम् ॥ १८॥ इष्टा समस्तदेवानामीप्सितार्थप्रदायिनी । ईश्वरी सर्वलोकानामुच्छिन्नाश्रित्तसंशया ॥ १९॥ उज्ज्वलैकसमाराध्या उत्फुल्लेन्दीवरेक्षणा । उत्तरोत्तानहस्ताब्जा उत्तमोत्सङ्गभूषणा ॥ २०॥ उदारकीर्त्तनोदारचरितोदारवन्दना । उदारजपपाठेज्या उदारध्यानसंस्तवा ॥ २१॥ उदारवल्लभोदारवीक्षणस्मितभाषिता । उदारश्रीनामरूपलीलाधामगुणव्रजा ॥ २२॥ उदारालिगणोदारोपासका ॠतरूपिणी । ॠभुवन्द्याङ्घ्रिरॄकारा लॄपुत्री लॄस्वरूपिणी ॥ २३॥ एकैकशरणं पुंसामैक्यभावप्रसादिता । ओकःप्रधानिकौजोऽव्धिरौदार्यौत्कर्ष्य विश्रुता ॥ २४॥ कमला कमलाराध्या करणं कलभाषिणी । कलाधारा कलाभिज्ञा कलामूर्तिः कलावधिः ॥ २५॥ कल्पवृक्षाश्रया कल्प्या कल्मषौघनिवारिणी । कल्याणदात्री कल्याणप्रकृतिः कामचारिणी ॥ २६॥ कामदा काम्यसंसक्तिः कारणाद्वयकारणम् । कारुण्यार्द्रविशालाक्षी कालचक्रप्रवर्तिका ॥ २७॥ कीनाशभयमूलघ्नी कुञ्जकेलिसुखप्रदा । कुञ्जराधीशगतिका कृतज्ञार्च्या कृतागमा ॥ २८॥ कृपापीयूषजलधिः कोमलार्च्यपदाम्बुजा । कौशल्याप्रतिमाम्भोधिः कौशल्यासुतवल्लभा ॥ २९॥ खरारिहृदयातुल्यपरमोत्सवरूपिणी । खलान्यमतिसन्दात्री खवासीशादिवन्दिता ॥ ३०॥ खेलमात्रजगत्सृष्टिर्गणनाथार्च्चिता गतिः । गतैश्वर्यस्मयश्रेष्ठा गभीरा गम्यभावना ॥ ३१॥ गहनाग्र्या गीर्गीर्वाणहितसाधनतत्परा । गुप्ता गुहेशया गुह्या गेयोदारयशस्ततिः ॥ ३२॥ गोपनीयपदासक्तिर्गोप्त्री गोविदनुत्तमा । ग्रहणीयशुभादर्शा ग्लौपुञ्जाभनखच्छविः ॥ ३३॥ घनश्यामात्मनिलया घर्मद्युतिकुलस्नुषा । घृणालुका ङस्वरूपा चतुरात्मा चतुर्गतिः ॥ ३४॥ चतुर्भावा चतुर्व्यूहा चतुर्वर्गप्रदायिनी । चतुर्वेदविदां श्रेष्ठा चपलासत्कृतद्युतिः ॥ ३५॥ चन्द्रकलासमाराध्या चन्द्रबिम्बोपमानना । चारुशीलादिभिः सेव्या चारुसम्पावनास्मिता ॥ ३६॥ चारुरूपगुणोपेता चारुस्मरणमङ्गला । चार्वङ्गी चिदलङ्कारा चिदानन्दस्वरूपिणी ॥ ३७॥ छविक्षुब्धरतिः छिन्नप्रणताशेषसंशया । जगत्क्षेमविधानज्ञा जगत्सेतुनिबन्धिनी ॥ ३८॥ जगदादिर्जगदात्मप्रेयसी जगदात्मिका । जगदालयवृन्देशी जगदालयसङ्घसूः ॥ ३९॥ जगदुद्भवादिकर्त्री जगदेकपरायणम् । जगन्नेत्री जगन्माता जगन्माङ्गल्यमङ्गला ॥ ४०॥ जगन्मोहनमाधुर्यमनोमोहनविग्रहा । जतुशोभिपदाम्भोजा जनकानन्दवर्धिनी ॥ ४१॥ जनकल्याणसक्तात्मा जननी सर्वदेहिनाम् । जननीहृदयानन्दा जनबाधानिवारिणी ॥ ४२॥ जनसन्तापशमनी जनित्री सुखसम्पदाम् । जनेश्वरेड्या जन्मान्तत्रासनिर्णाशचिन्तना ॥ ४३॥ जपनीया जयघोषाराध्यमाना जयप्रदा । जया जयावहा जन्मजरामृत्युभयातिगा ॥ ४४॥ जलकेलिमहाप्राज्ञा जलजासनवन्दिता । जलजारुणहस्ताङ्घ्रिर्जलजायतलोचना ॥ ४५॥ जवानतमनोवेगा जाड्यध्वान्तनिवारिणी । जानकी जितमायैका जितामित्रा जितच्छविः ॥ ४६॥ जितद्वन्द्वा जितामर्षा जीवमुक्तिप्रदायिनी । जीवानां परमाराध्या जीवेशी जेतृसद्गतिः ॥ ४७॥ जेत्री ज्ञानदा ज्ञानपाथोधिर्ज्ञानिनां गतिः । ज्ञेयाऽऽत्महितकामानां ज्येष्ठा ज्योत्स्नाधिपानना ॥ ४८॥ ज्वरातिगा ज्वलत्कान्तिर्ज्वालामालासमाकुला । झणन्नूपुरपादाब्जा झम्पाकेशप्रसादिता ॥ ४९॥ झपकेतुप्रियायूथसञ्चितच्छविमोहिनी । झाटवाटोत्सवाधारा ञरूपा टुण्टुकेतरा ॥ ५०॥ ठात्मिका डम्बरोत्कृष्टा दामराधीशगामिनी । ढुण्ढीष्टदेवता ढक्कामञ्जुनादप्रहर्षिता ॥ ५१॥ णकारा तडिदोघाभदीप्ताङ्गी तत्त्वरूपिणी । तत्त्वकुशला तत्त्वात्मा तत्त्वादिस्तनुमध्यमा ॥ ५२॥ तन्तुप्रवर्द्धिनी तन्वी तपनीयनिभद्युतिः । तपोमूर्तिस्तपोवासा तमसः परतः परा ॥ ५३॥ तमोघ्नी तापशमनी तारिणी तुष्टमानसा । तुष्टिप्रदायिका तृप्ता तृप्तिस्तृप्त्येककारिणी ॥ ५४॥ तेजःस्वरूपिणी तेजोवृषा तोयभवार्चिता । त्रिकालज्ञा त्रिलोकेशी थै थै शब्दप्रमोदिनी ॥ ५५॥ दक्षा दनुजदर्पघ्नी दमिताश्रितकण्टका । दम्भादिमलमूलघ्नी दयार्द्राक्षी दयामयी ॥ ५६॥ दशस्यन्दनजप्रेष्ठा दाक्षिण्याखिलपूजिता । दान्ता दारिद्र्यशमनी दिव्यध्येयशुभाकृतिः ॥ ५७॥ दिव्यात्मा दिव्यचरिता दिव्योदारगुणान्विता । दिव्या दिव्यात्मविभवा दीनोद्धरणतत्परा ॥ ५८॥ दीप्ताङ्गी दीप्तमहिमा दीप्यमानमुखाम्बुजा । दुरासदा दुराराध्या दुरितघ्नी दुर्मर्षणा ॥ ५९॥ दुर्ज्ञेया दुष्प्रकृतिघ्नी दुःस्वप्नादिप्रणाशिनी । द्युतिर्द्युतिमति देवचूडामणिप्रभुप्रिया ॥ ६०॥ देवताहितदा दैन्यभावाचिरसुतोषिता । धराकन्या धरानन्दा धरामोदविवर्धिनी ॥ ६१॥ धरारत्नं धर्मनिधिर्धर्म सेतुनिबन्धिनी । धर्मशास्त्रानुगा धामपरिभूततडिद्द्युतिः ॥ ६२॥ धृतिर्ध्रुवा नतिप्रीता नयशास्त्रविशारदा । नामनिर्धूतनिरया निगमान्तप्रतिष्ठिता ॥ ६३॥ निगमैर्गीतचरिता नित्यमुक्तनिषेविता । निधिर्निमिकुलोत्तंसा निमित्तज्ञानिसत्तमा ॥ ६४॥ नियतेन्द्रियसम्भाव्या नियतात्मा निरञ्जना । निराकारा निरातङ्का निराधारा निरामया ॥ ६५॥ निर्व्याजकरुणामूर्तिनीतिः पङ्केरुहेक्षणा । पतितोद्धारिणी पद्मगन्धेष्टा पद्मजार्च्चिता ॥ ६६॥ पद्मपादा पद्मवक्त्रा पद्मिनी परमेश्वरी । परब्रह्म परस्पष्टा पराशक्तिः परिग्रहा ॥ ६७॥ परित्रात्री परिश्लाघ्या परेप्टा पर्यवस्थिता । पवित्रं पाटवाधारा पातिव्रत्यधुरन्धरा ॥ ६८॥ पापिपापौघसंहर्त्री पारिजातसुमार्च्चिता । पावनानुत्तमादर्शा पावनी पुण्यदर्शना ॥ ६९॥ पुण्यश्रवणचरिता पुण्यश्लोकवरीयसी । पुष्पालङ्कारसम्पन्ना पुष्टिः पुष्टिप्रदायिनी ॥ ७०॥ पूतात्मा पूतसर्वेहा पूज्यपादाम्बुजद्वया । पूर्णा पूर्णेन्दुवदना प्रकृतिः प्रकृतेः परा ॥ ७१॥ प्रकृष्टात्मा प्रणम्याङ्घ्रिः प्रणयातिशयप्रिया । प्रणतातुल्यवात्सल्य प्रणतध्वस्तसंसृतिः ॥ ७२॥ प्रणविनी प्रतिष्ठात्री प्रथमा प्रथिता प्रधीः । प्रपन्नरक्षणोद्योगा प्रवित्तं प्रविशारदा ॥ ७३॥ प्रह्वी प्राणप्रदा प्राणनिलया प्राणवल्लभा । प्राणात्मिका प्रार्थनीया प्रियमोहनदर्शना ॥ ७४॥ प्रियार्हा प्रीतितत्त्वज्ञा प्रीतिदा प्रीतिवर्धिनी । प्रेज्या प्रेमरता प्रेमवल्लभातीववल्लभा ॥ ७५॥ प्रेमवारां निधिः प्रेमविग्रहा प्रेमवैभवा । प्रेमशक्त्येकविवशा प्रेमसंसाध्यदर्शना ॥ ७६॥ प्रेमैकहाटकागारा प्रेमैकाद्भुतविग्रहा । फणीन्द्रावर्ण्यविभवा फलरूपा सुकर्मणाम् ॥ ७७॥ बुद्धिदा बुधमृग्याङ्घ्रिकमला बोधवारिधिः । ब्रह्मलेखातिगा ब्रह्मवेत्त्री ब्रह्माण्डवृन्दसूः ॥ ७८॥ भक्तत्राणविधानज्ञा भक्तिसंसाध्यदर्शना । भजनीयगुणोपेता भयघ्नी भवतारिणी ॥ ७९॥ भवपूज्या भवाराध्या भवोत्पत्यादिकारिणी । भाग्यैकसंशोधयित्री भावैकपरितोषिता ॥ ८०॥ भूतप्रसूतिर्भूतात्मा भूतादिर्भूतिदायिनी । भूतिमत्समुपास्याङ्घ्रिर्भूसुता भ्रान्तिहारिणी ॥ ८१॥ मङ्गलाशेषमाङ्गल्या मङ्गलैकमहानिधिः । मधुरा मधुराकारा मननीयगुणावलिः ॥ ८२॥ मनोजवा मनोज्ञाङ्गी मनोरमगुणान्विता । मनः स्वरूपा महती महनीयगुणाम्बुधिः ॥ ८३॥ महद्ध्र्येका महाकीर्तिर्महाकोशा महाक्रतुः । महाक्रमा महागर्ता महाछविर्महाद्युतिः ॥ ८४॥ महादृष्टिर्महाधाम्नी महानन्दस्वरूपिणी । महानायकसम्मात्या महानैपुण्यवारिधिः ॥ ८५॥ महापूज्या महाप्राज्ञा महाप्रेज्या महाफला । महाभागा महाभोगा महामतिमतां वरा ॥ ८६॥ महामाधुर्यसम्पन्ना महामायास्वरूपिणी । महायोगप्रसाध्यैका महायोगेश्वरप्रिया ॥ ८७॥ महारतिर्महालक्ष्मीर्महाविद्यास्वरूपिणी । महाशक्तिर्महाश्रेष्ठा महाश्लाघ्ययशोऽन्विता ॥ ८८॥ महासिद्धिर्महासेव्या महासौभाग्यदायिनी । महाहविर्महार्हार्हा महिष्टात्मा महीयसी ॥ ८९॥ महीशजा महोत्कर्षा महोत्साहा महोदया । महोदारा महेशादिसमालभ्व्याङ्घ्रिपङ्कजा ॥ ९०॥ माता समस्त जगतां माधुरीजितमाधुरी । मान्यपरमसम्मान्या मा मितकोकिलस्वना ॥ ९१॥ मिथिलेशक्रतूद्भूता मिथिलेश्वरनन्दिनी । मीनाक्षी मुक्तिवरदा मुनिसेव्यपदाम्बुजा ॥ ९२॥ मुनीन्द्रावर्ण्यमहिमा मूलप्रकृतिसंज्ञिता । मृगनेत्रा मृगाङ्काभवदना मृदुभाषिणी ॥ ९३॥ मृदुला मूदुलाचारा मृदुसमोहनेक्षणा । मृदुस्वभावसम्पन्ना मृद्वी मेधसमुद्भवा ॥ ९४॥ मेधेशी मैथिली मोदवर्षिणी मौढ्यभञ्जिका । यतचित्तेन्द्रियग्रामा युक्ता युक्तात्मभाषिता ॥ ९५॥ योगदा योगनिलया योगस्था योगिनां गतिः । योगिनां समुपालभ्या योगिराजप्रियात्मजा ॥ ९६॥ रक्तोत्पललसद्धस्ता रघुनन्दनवल्लभा । रघुनाथस्वभावज्ञा रघुवीरसुखे रता ॥ ९७॥ रतिसौन्दर्यदर्पघ्नी रतीशेहाहरस्मृतिः । रविमण्डलध्यस्था रविवंशेन्दुहृत्स्थिता ॥ ९८॥ रसज्ञा रसभावज्ञा रसानन्दविवर्धिनी । रमणीयगुणग्रामा रमाराध्या रमालया ॥ ९९॥ रम्यरम्यनिधी रम्याशेषा रसमयाकृतिः । रसापुत्री रसासक्ता रसिकानां परागतिः ॥ १००॥ रसिकेन्द्रप्रिया राकाधिपपुञ्जनिभानना । राघवेन्द्रप्रभावज्ञा राधा रासरसेश्वरी ॥ १०१॥ रासलीलाकलापज्ञा रासानन्दप्रदायिनी । रासेशी रूपदाक्षिण्यमण्डिता लक्ष्मणार्च्चिता ॥ १०२॥ ललनादर्शचरिता ललनाधर्मदीपिका । ललामैकनामरूपलीलाधामगुणादिका ॥ १०३॥ ललिताम्भोजपत्राक्षी ललिताशेषचेष्टिता । लावण्यजितपाथोधिर्लाकृतिर्लीनरक्षिका ॥ १०४॥ लीलाभूमाधवप्रेष्ठा लोककल्याणतत्परा । लोकत्रयमहाराज्ञीलोकमृग्याङ्घ्रिपङ्कजा ॥ १०५॥ लोकज्ञा लोकशरणं लोकपावनपावनी । लोकप्रगीतमहिमा लोकानुत्तमदर्शना ॥ १०६॥ लोकालयकलापाम्बा लोकोत्पत्यादिकारिणी । लोकेशकान्ता लोकेशी लोकैकप्रियकाङ्क्षिणी ॥ १०७॥ लोचनादीन्द्रियव्रातशक्तिसञ्चारकारिणी । लोपयित्री लोभहरा लोमशादिकभाविता ॥ १०८॥ वत्सरा वत्सलोत्कृष्टा वदान्या वनजेक्षणा । वनमालाञ्चिता वभ्व्री वरणीयपदाश्रया ॥ १०९॥ वरदाधिराजकान्ता वरदा वरवर्णिनी । वरबोधा वरारोहाभूषिता वर्णनातिगा ॥ ११०॥ वर्णाभावा वर्णश्रेष्ठा वर्णाश्रमविधायिनी । वर्ण्यानवद्यचित्केलिर्वर्द्धिनी सुखसम्पदाम् ॥ १११॥ वशकृद्वशगश्रेष्ठा वश्या वसुप्रदायिनी । बहुश्रुतो वाच्यकीर्तिर्वारिजासनवन्दिता ॥ ११२ ॥ विकल्मषा विक्षरात्मा विगतेहा विजेतृका । विज्ञानदात्री विज्ञानमयाप्राकृतविग्रहा ॥ ११३॥ विज्ञा विज्वरा विदिता विदिशा विद्ययाऽन्विता । विद्यावत्पुङ्गवोत्कृष्टा विधात्री विधिकेतना ॥ ११४ ॥ विधिदुर्ज्ञेयमहिमा विधुपूर्णमुखाम्बुजा । विनयार्हा विनीतात्मा विपक्वात्मा विपद्धरा ॥ ११५॥ विमत्सरा विमलार्च्या विमुक्तात्मा विमुक्तिदा । विमोहिनी वियन्मूर्तिर्विरतिप्रदचिन्तना ॥ ११६॥ विरामा विलसत्क्षान्तिर्विबुधर्षिगणार्चिता । विवेकपरमाधारा विवेकवदुपासिता ॥ ११७॥ विशदश्लोकसम्पूज्या विशालेन्दीवरेक्षणा । विशिष्टात्मा विशेषज्ञा विश्वलीलाप्रसारिणी ॥ ११८॥ विश्वतः पाणिपादास्या विश्वमात्रैकधारिणी । विश्वभरणी विश्वात्मा विश्वालयव्रजेश्वरी ॥ ११९॥ विश्वासरूपा विश्वेषां साक्षिणी विस्तृतोत्तमा । वीणावाणी वीतभ्रान्तिः वीतरागस्मयादिका ॥ १२०॥ वीतशङ्कासमाराध्या वीतसम्पूर्णसाध्वसा । बुधाराध्याङ्घ्रिकमला वृपपा वेदकारणम् ॥ १२१॥ वेदगा वेदनिःश्वासा वेदप्रणुतवैभवा । वेदप्रतिपाद्यतत्त्वा वेदवेदान्तकोविदा ॥ १२२॥ वेदरक्षाविधानज्ञा वेदसारमयाकृतिः । वेदान्तवेद्या वेदान्ता वैदेही वैभवार्णवा ॥ १२३॥ वङ्कचिकुरा वङ्कभ्रूर्वङ्काकर्षणवीक्षणा । शक्तिव्रजेश्वरी शक्तिः शतमूर्तिः शतोदिता ॥ १२४॥ शब्दब्रह्मातिगा शब्दविग्रहा शमदायिनी । शमिताश्रितसङ्क्लेशा शमिभक्त्याशुतोषिता ॥ १२५॥ शम्पादामोल्लसत्कान्तिः शम्प्रदध्यानसंस्तवा । शम्मयाशेषकैङ्कर्य्या शरणं सर्वदेहिनाम् ॥ १२६॥ शरणागतसन्त्रात्री शरण्यैकाऽसुधारिणाम् । शबरीमानदप्रेष्ठा शान्ता शान्तिप्रदायिनी ॥ १२७॥ शाश्वतचिन्तनीयाङ्घ्रिकमला शाश्वतस्थिरा । शाश्वती शासिकोत्कृष्टा शिरोधार्यकराम्बुजा ॥ १२८॥ शिशिरा शीलसम्पन्ना शुचिगम्याङ्घ्रिचिन्तना । शुचिप्राप्यपदासक्तिः शुद्धान्तःकरणालया ॥ १२९॥ शुद्धा शुद्धिप्रदध्याना शूलत्रयनिवारिणी । शैलराजसुतादीष्टा शोभासागर सत्कृता ॥ १३०॥ शौर्यपाथोनिधिः श्यामा श्रयणीयपदाम्बुजा । श्रवणीययशोगाथा श्रीकरी श्रीप्रदायिनी ॥ १३१॥ श्रीमदुत्तंसमहिता श्रीमयी श्रीमहानिधिः । श्रीलक्ष्म्यादिभिः सेव्या श्रीवासा श्रीसमुद्भवा ॥ १३२॥ श्रीः श्रुतिगीतचरिता श्रुत्यन्तप्रतिपादिता । श्रेयोगुणेरणा श्रेयोनिधिः श्रेयोमयस्मृतिः ॥ १३३॥ श्रोत्रियैकसमाराध्या श्लक्ष्णसूनृतभाषिणी । श्लाघनीयमहाकीर्तिः श्लीलचारित्र्यविश्रुता ॥ १३४॥ श्लोकलोकार्चिताब्जाङ्घ्रिः श्वसनाधीशसत्कृता । श्वेतधामोल्लसद्वक्त्रा षट्चतुर्वस्विलोदिता ॥ १३५ ॥ षडतीता षडाधारा षडर्द्धाक्षहृदिस्थिता । सखीमण्डलमध्यस्था सगुणा सङ्क्षयोज्झिता ॥ १३६॥ सङ्ख्यातीतगुणा सङ्गमुक्ता सङ्गीतकोविदा । सङ्गीर्णप्रणतत्राणा सङ्ग्रहानुग्रहे रता ॥ १३७॥ सख्यशीघ्रसमासाद्या सज्जनोपासिताङ्घ्रिका । सतताराध्यचरणा सतीत्वादर्शदायिनी ॥ १३८॥ सतीवृन्दशिरोरत्नं सतीशाजस्रभाविता । सत्तमा सत्यधर्मैकपालिका सत्यरूपिणी ॥ १३९॥ सत्यसञ्चिन्तना सत्यसन्धा सत्यापतिस्नुषा । सत्या सत्रधरागर्भोद्भूता सत्ववदग्रणीः ॥ १४०॥ सदाचारा सदासेव्या सदृशातीतशेमुषी । सनातनी सदानम्या सन्तोषैकप्रदायिनी ॥ १४१॥ सन्देहापहरा सन्धिः सन्निषेव्यसमाश्रिता । सन्नुत्याशेषचरिता सभ्यलोकसभाजिता ॥ १४२॥ समग्रज्ञानवैराग्यधर्मश्रीर्यशोनिधिः । समग्रैश्वर्यसम्पन्ना समतीतगुणोपमा ॥ १४३॥ समदृष्टिः समर्च्यैका समर्थाग्रा समर्धका । समविश्वमनोज्ञाङ्गी समवेक्ष्याङ्घ्रिलाञ्छना ॥ १४४॥ समाकर्ण्ययशोगाथा समाहर्त्री समाहिता । समानात्मा समाराध्या समालम्ब्याङ्घ्रिपङ्कजा ॥ १४५॥ समावर्ता समासेव्या समार्हा समितिञ्जया । समीक्ष्याव्याजकरुणा सविभाव्यसुविग्रहा ॥ १४६॥ सरयूपुलिनाक्रीडा सरला सरसेक्षणा । सर्गस्थित्यन्तप्रभवा सर्वकामप्रदायिनी ॥ १४७॥ सर्वकार्यबुधा सर्वच्छद्मज्ञा सर्वजन्मदा । सर्वजीवहिता सर्वज्ञानिनां ज्ञेयसत्तमा ॥ १४८॥ सर्वज्ञाननिधिः सर्वज्ञानवद्भिरुपासिता । सर्वज्ञा सर्वज्येष्ठादिः सर्वतीर्थमयस्मृतिः ॥ १४९॥ सर्वतोऽक्ष्यास्यहस्ताङ्घ्रिकमला सर्वदर्शना । सर्वदिव्यगुणोपेता सर्वदुःखहरस्मिता ॥ १५०॥ सर्वदेवनुता सर्वधर्मतत्त्वविदां वरा । सर्वधर्मनिधिः सर्वनायकोत्तमनायिका ॥ १५१॥ सर्वनीतिरहस्यज्ञा सर्वनैपुण्यमण्डिता । सर्वपापहरध्याना सर्वपावनपावनी ॥ १५२॥ सर्वभक्तावनाभिज्ञा सर्वभक्तिमतां गतिः । सर्वभावपदातीता सर्वभावप्रपूरिका ॥ १५३॥ सर्वभक्तिप्रदोत्कृष्टा सर्वभूतहिते रता । सर्वभूताशयाभिज्ञा सर्वभृतसुधारिणी ॥ १५४॥ सर्वमङ्गलमाङ्गल्या सर्वमण्डनमण्डना । सर्वमेधाविनां श्रेष्ठा सर्वमोदमयेक्षणा ॥ १५५॥ सर्वमोहच्छिदासक्तिः सर्वमोहनमोहिनी । सर्वमौलिमणिप्रेष्ठा सर्वयज्ञफलप्रदा ॥ १५६॥ सर्वयज्ञव्रतस्नाता सर्वयोगविनिःसृता । सर्वरम्यगुणागारा सर्वलक्षणलक्षिता ॥ १५७॥ सर्वलावण्यजलधिः सर्वलीलाप्रसारिणी । सर्वलोकनमस्कार्या सर्वलोकेश्वरप्रिया ॥ १५८॥ सर्वलोकेश्वरी सर्वलौकिकेतरवैभवा । सर्वविद्याव्रतस्नाता सर्ववैभवकारणम् ॥ १५९॥ सर्वशक्तिमतामिष्टा सर्वशक्तिमहेश्वरी । सर्वशत्रुहरा सर्वशरणं सर्वशर्मदा ॥ १६०॥ सर्वश्रेयस्करी सर्वसहा सर्वसदर्चिता । सर्वसद्भावनाधारा सर्वसद्भावपोषिणी ॥ १६१॥ सर्वसौख्यप्रदा सर्वसौभाग्यैकप्रदायिनी । साकेतपरमस्थाना साकेतपरमोत्सवा ॥ १६२॥ साकेताधिपतिप्रेष्ठा साकेतानन्दवर्षिणी । साक्षान्छ्रीः साक्षिणी सर्वदेहिनां सर्वकर्मणाम् ॥ १६३॥ साघप्राणिजनारुष्टा सातपत्रोत्तमासना । साधनातीतसम्प्राप्तिः साध्या साध्वीजनप्रिया ॥ १६४॥ सामगा सामगोद्गीता साफल्यैकप्रदायिनी । सामर्थ्यजगदाधारमोहिनी साम्यदायिनी ॥ १६५॥ सारज्ञा सिद्धसङ्कल्पा सिद्धसेव्यपदाम्बुजा । सिद्धार्था सिद्धिदा सिद्धिरूपिणी सिद्धिसाधनम् ॥ १६६ । सीता सीमन्तिनीश्रेष्ठा सीरध्वजनृपात्मजा । सुकटाक्षा सुकीर्तीड्या सुकृतीनां महाफला ॥ १६७॥ सुकेशीसुखमूलैका सुखसन्दोहदर्शना । सुगमा सुघनज्ञाना सुचार्वी सुजवोत्तमा ॥ १६८॥ सुज्ञा सुतन्वी सुदती, सुदाननिरताश्रया । सुधावाणी सुधीरात्मा सुधीश्रेष्ठा सुधेक्षणा ॥ १६९॥ सुनयनाक्रोडरत्नं सुनयनाप्रपोषिता । सुनयनामहाराज्ञीहृदयानन्दवर्द्धिनी ॥ १७०॥ सुनासा सुनिदिध्यास्या सुनीतिः सुप्रतिष्ठिता । सुप्रसादा सुभगायाः करपल्लवचर्चिता ॥ १७१॥ सुभगा सुभुजा सुभ्रूः सुमुखी सुरपूजिता । सुराध्यक्षा सुरानम्या सुराधीशजरक्षिका ॥ १७२॥ सुरेश्वरी च सुलभा सुवर्णाभाङ्गशोभना । सुवेद्यैका सुशरणं सुश्रीः सुश्लोकसत्तामा ॥ १७३॥ सृष्टदीनहितोपाया सृष्टिजन्मादिकारिणी । सेव्या सैरध्वजीज्येष्ठा सोमवत्प्रियदर्शना ॥ १७४॥ सौभाग्यजननी सौम्या स्थानं सर्वासुधारिणाम् । स्थिरा स्थूलदया चैव स्थूलसूक्ष्मविलक्षणा ॥ १७५॥ स्रष्टृपात्रन्तकर्तॄणामीश्वरी स्वगतिप्रदा । स्वङ्घ्रिका स्वच्छहृदया स्वच्छन्दा स्वजनप्रिया ॥ १७६॥ स्वजनानन्दनिवहा स्वतर्क्या स्वधरस्मिता । स्वधर्माचरणाख्याता स्वधर्मावनपण्डिता ॥ १७७॥ स्वधास्वरूपा स्वधृता स्वभावाघहरस्मिता । स्वभावापास्तनार्शस्या स्वभावावर्ण्यमार्दवा ॥ १७८॥ स्वभावावाच्यवात्सल्या स्ववशा स्वस्तिदक्षिणा । स्वस्तिदा स्वस्तिरूपा च स्वामिनीसर्वदेहिनाम् ॥ १७९॥ स्वास्या स्वाश्रितसर्वेष्टदायिनी स्विष्टदेवता । स्वेच्छाचारेणरहिता हरिणोत्फुल्ललोचना ॥ १८०॥ हारसम्भूषिता हास्यस्पर्द्धिचन्द्रकरव्रजा । हितैका सर्वजगतां हृदयानन्दवर्द्धिनी ॥ १८१॥ हृदयेशी च हृद्यैका हेमागारनिवासिनी । हेमासेव्यपदाम्भोजा हेयपादाब्जविस्मृतिः ॥ १८२॥ ह्लादिनी ह्रीमतां श्रेष्ठा क्षमाध्वस्तधरास्मया । क्षमास्वरूपा क्षमिणां क्षमेशी क्षान्तिविग्रहा ॥ १८३॥ क्षितीशतनया क्षेमदायिनी क्षेमयाऽर्चिता । सुता तवैषा कल्याणी सर्वोपास्येति में मतम् ॥ १८४॥ इयं हि राजन् ! मृगपोतलोचना वागीश्वरीशैलसुतारमादिभिः । निषेव्यमाणाड्घ्रिसरोरुहद्वया विराजते पूर्णसुधाकरानना ॥ १८५॥ महामुनीनां यतिपुङ्गवानां योगेश्वराणां सुरसत्तमानाम् । सिद्धीश्वराणां विगतैषणानां भोगार्थिनां मोक्षपदेच्छुकानाम् ॥ १८६॥ हानीतरोत्सुक्यसमन्वितानां स्वजन्मनो भूमिपतेऽखिलानाम् । सम्भावनीया समुपासनीया ज्ञेयाऽनुगेया तनया तवेयम् ॥ १८७॥ अनन्तनामानि तवात्मजायाः सन्ति क्षितीशप्रवराद्य तेषाम् । मया सहस्रेण मुदा प्रगीता तनोतु शं सेयमयोनिजा नः ॥ १८८॥ भक्त्याऽनुरक्त्या पठतामजस्र ध्यानान्वितानां तनया धरण्या । दृग्गोचरी वञ्छितसिद्धिदात्री भूयाद्द्रुतं नाम सहस्रमेतत् ॥ १८९॥ श्रीशिव उवाच । नृणां चतुर्वर्गविलोलचेतसां पाट्यं सङ्कल्पमिदं शुभावहम् । गिरीन्द्रकन्ये ! मधुराक्षरान्विते श्रीजानकीनामसहस्रमन्वहम् ॥ १९०॥ इति सप्ताशीतितमोऽध्यायान्तर्गतं श्रीजानकीसहस्रनामस्तोत्रं सम्पूर्णम् ॥८७॥ Proofread by Raman. M, PSA Easwaran
% Text title            : Janaki Sahasranama Stotram 1
% File name             : jAnakIsahasranAmastotram.itx
% itxtitle              : jAnakI sahasranAmastotram 1 (shrIjAnakIcharitAmRite saptAshItitamo.adhyAyaH)
% engtitle              : jAnakI sahasranAmastotram 1
% Category              : devii, devI, sItA, sahasranAma, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sItA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Raman. M, PSA Easwaran
% Description/comments  : See corresponding text with Hindi meaning. From shrIjAnakIcharitAmritam saptAshItitamo.adhyAyaH 87
% Indexextra            : (Scan, Hindi)
% Latest update         : December 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org