श्रीरामकृष्णस्तोत्रदशकम्
ब्रह्म-रूपमादि-मध्य-शेष-सर्वभासकं
भावषट्कहीनरूप नित्यसत्यमद्वयम् ।
वाङ्मनोऽति-गोचरञ्च नेति-नेति भावितं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ १॥
आदितेय भीहरं सुरारिदैत्यनाशकं
साधु-शिष्ट-कामदं महीसुभार हारकम् ।
स्वात्मरूपतत्त्वकं युगे युगे च दर्शितं
तं नमामि देव-देव रामकृष्णमीश्वरम् ॥ २॥
सर्व-भूत-सर्ग-कर्म-सूत्र-बन्ध कारणं
ज्ञान-कर्म-पाप-पुण्य-तारतम्य साधनम् ।
बुद्धि-वास-साक्षि-रूप-सर्व-कर्म-भासनं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ३॥
सर्व-जीव-पाप-नाश कारणं भवेश्वरं
स्वीकृतं च गर्भवास देह पापमीदृशम् ।
यापितं स्वलीलया च येन दिव्यजीवनं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ४॥
तुल्य लोष्ट-काञ्चनं च हेय नेय धीगतं
स्त्रीषु-नित्य-मातृरूप शक्तिभाव भावुकम् ।
ज्ञानभक्ति भुक्ति मुक्ति शुद्ध बुद्धि दायकं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ५॥
सर्व-धर्म-गम्यमूल-सत्य-तत्त्व-देशकं
सिद्ध सर्व सम्प्रदाय साम्प्रदाय वर्जितम् ।
सर्वशास्त्रमर्मदर्शि सर्व विन्निरक्षरं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ६॥
चारुदर्श-कालिका सुगीत-चारु-गायकं
कीर्तनेषु मत्तवच्च नित्य-भाव विह्वलम् ।
सूपदेश-दायकं हि शोक-ताप-वारकं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ७॥
पाद-पद्म-तत्त्व-बोध-शान्ति-सौख्य-दायकं
सक्तचित्त-भक्त-सूनु-नित्य-वित्तवर्द्धकम् ।
दम्भि-दर्प-दारणं तु निर्भयं जगद्गुरुं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ८॥
पञ्चवर्ष बालभाव युक्तहंसरूपिणं
सर्वलोकरञ्जनं भवाब्धि सङ्ग भञ्जनम् ।
शान्ति-सौख्य सद्मजीव जन्मभीति नाशनं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ ९॥
धर्महानहारकं त्वधर्मकर्मवारकं
लोकधर्मचारणं च सर्वधर्मकोविदम् ।
त्यागि गेहि सेव्य नित्य पावनाङ्घ्रि पङ्कजं
तं नमामि देव-देव-रामकृष्णमीश्वरम् ॥ १०॥
स्तोत्र-शून्य-सोमकं सदीश-भाव-व्यञ्जकं
नित्य-पाठकस्य वै विपत्ति-पुञ्ज-नाशकम् ।
स्यात् कदापि जाप याग-योग-भोग-सौलभं
दुर्लभं तु रामकृष्ण-राग-भक्ति-भावनम् ॥ ११॥
इति श्रीविरजानन्दरचितं भक्तिसाधकम् ।
स्तवसारं समाप्तं वै श्रीरामकृष्ण तूणकम् ॥ १२॥
Proofread by Aruna Narayanan