श्रीदक्षिणामूर्तिस्तोत्रम्
नतखेटनिशाटकिरीटतटी घटितोपलपाटलपीठितलम् ।
तटिदाभजटापटलीमकुटं वटमूलकुटीनिलयं कलये ॥ १॥
स्मरणं खलु यच्चरणाम्बुजयोर्भरणाय भवोत्तरणाय भवेत् ।
शरणं करुणावरुणावसथं भज बालसुधाकिरणाभरणम् ॥ २॥
परिकीर्णसुवर्णसवर्णजटाभ्रमदभ्रसरिच्छरदभ्ररुचिः ।
मकुटोकुटिलं छटयन् शशिनं निटिलेनलदृग्जटिलो जयति ॥ ३॥
वरभूजकुटीघटितस्फटिकोपलकुट्टिमवेदितले विमले ।
स्मितफुल्लमुखं चिदुपात्तसुखं पुरवैरिमहः करवै हृदये ॥ ४॥
अकलङ्कशशाङ्कसहस्रसहोदरदीधितिदीपितदिग्वलयम् ।
निगमागमनीरधिनिर्मथनोदितमाकलयाम्यमृतं किमपि ॥ ५॥
विषभूषमपाकृतदोषचयं मुनिवेषविशेषमशेषगुरुम् ।
धृतचिन्मयमुद्रमहं कलये गतनिद्रममुद्रसमाधिविधौ ॥ ६॥
दृढयोगरसानुभवोत्कलिकं प्रसरत्पुलकं क्रतुभुक्तिलकम् ।
भसितोल्लसितालिकविस्फुरितानलदृक्तिलकं कलयेन्दुशिखम् ॥ ७॥
वद चित्त किमात्तमभूद्भवता भ्रमता बहुधाखिलदिक्षु मुधा ।
निजशर्मकरं कुरु कर्म परं भवमेव भयापहमाकलय ॥ ८॥
वरपुस्तकहस्तमपास्ततमः श्रुतिमस्तकशस्तसमस्तगुणम् ।
मम निस्तुलवस्तु पुरोऽस्तु वरं प्रणवप्रवणप्रवरावगतम् ॥ ९॥
इति श्रीदक्षिणामूर्तिस्तोत्रं सम्पूर्णम् ॥