श्रीचन्द्रशेखरभारति पञ्चरत्नस्तोत्रम्
श्रीमच्छङ्करदेशिकेन्द्रकलिते व्याख्यानसिंहासने
श्रीमद्वार्तिककारमुख्यमुनिभिः सर्वज्ञकल्पैः पुरा ।
अध्यूढे विमलेऽभिषिक्तमधुना सत्यात्मनिष्ठापरं
वन्दे देशिकसार्वभौममनिशं श्रीचन्द्रचूडाह्वयम् ॥ १॥
नानादेशसमागतान् पदनतांश्छात्रान् विभिन्नाशयान्
आधिव्याधिविचित्रतापविवशान् स्वास्थ्यं निनीषुर्मुनिः ।
तत्तत्काङ्क्षितपूरणाय वरदां संप्रार्थयन्नम्बिकां
यो लोकत्रयदेशिको विजयते सेवे तदङ्घ्रिद्वयम् ॥ २॥
मिथ्याज्ञानविजृम्भितं भवसुखं सन्त्यज्य नित्यं सुखं
प्राप्तुं स्वीयपदाम्बुजं श्रितवतो भक्तस्य पुण्यात्मनः ।
ब्रह्मात्मैक्यविबोधकश्रुतिवचःपीयूषसन्दायिनं
वन्दे ब्रह्मविदुत्तमं प्रतिदिनं श्रीशृङ्गशैलाधिपम् ॥ ३॥
शान्ताजानिपदाब्जरेणुकणिकासम्पर्कसम्पाविते
श्रीशृङ्गाचलसानुमध्यविलसत्तुङ्गापगातीरगे ।
नानापादपशोभितेऽतिमधुरं कूजद्विहङ्गावृते
देशे चित्तविशोधके गुरुवरं सेवे कदा वा पुनः ॥ ४॥
संसाराम्बुधिलङ्घने कृतधियो यत्पादपङ्केरुहं
भक्तक्षेमधुरन्धरं भयहरं नौकायमानं विदुः ।
तस्यैतस्य नृपालसेवितपदस्याचार्यचूडामणेः
सम्मान्यौ चरणावनन्यशरणः शीर्षे निदध्यां कदा ॥ ५॥
इति ब्रह्मश्री कृष्णस्वाम्यार्येण विरचितं पञ्चरत्नस्तोत्रं सम्पूर्णम् ।
(एम्. ए. बि. एल्. अड्व्होकेट्. इत्यादिबिरुदालङ्कृतेन
वीरराघवपुरवास्तव्येन ब्रह्मश्री कृष्णस्वाम्यार्येण विरचितम् )
(Author Sri R. Krishnaswami Aiyar, M. A., B. L.,
Advocate, Viraraghavapuram, Tinnevelly.)
A string of five stanzas devoted to the glorification of
Sri Chandrasekhara Bharati, the presiding Pontiff at Sringeri.
Proofread by Ravi Venkatraman