श्रीमृन्नाथस्तोत्रम्
श्रीमत्भू समेत मृदधीश हरे मुरारे
पादाम्बुजं विजयते परमाद्भुतं ते ।
यस्मिन् जना दृढतरात्मनिबन्धनेन
मुक्तिं प्रयान्ति सुनिरस्तसमस्तबन्धाः ॥ १॥
रूपाणि ते बहुविधानि विभो भवन्ती
त्याहुः परापरविदो मुनयः शुकाद्याः ।
तेष्वेकमप्यलमबोधहताशयानां
अस्मादृशां नयनयोरयनं न याति ॥ २॥
यद्रूपदर्शनसुखानुबुभूषुलोकान्
उच्चस्तरामनुजिघृक्षुरुपात्तहादः ।
हित्वा पयोजलनिधिं युतमृन्निकेतं
अध्यूषिवानसि विभो प्रतिमामिषेण ॥ ३॥
तत्ते वपुर्भुवनचारु निरीक्ष्य कर्तु
निष्पापतां वसुवतां (?) च मया न शक्यम् ।
प्राग्जन्मनिर्मितशुभेतरकर्मणा य
द्भाग्यागतेः सुदृढसङ्घटितः कवाटः ॥ ४॥
अन्यानि पापशमनानि सुखावहानि
कर्माणि सन्त्यलमपेक्षितसाधनानि ।
तेषां विधिः पटुतरैरपि यत्नसाध्यः
कायं क वा विवशभावमुपागतोऽहम् ॥ ५॥
त्वद्रूपवर्णनमघान्तसुखाप्तिहेतुः
पुंसां भवेद्भुवि यथामतिवाग्विलासम् ।
इत्याहुरातवचसस्तदहं यतिष्ये
तत्कर्तुमत्र मयि बेहि कृपाकटाक्षम् ॥ ६॥
नाथ त्वदीयमकुटद्युतिनिर्जितोऽसौ
शोकातिरेकवहनेन भिदेलिमात्मा ।
भानोर्गभरितरुपयाति सहस्रतां यत्
तेनाभिधीयत इहैष सहस्त्रधामा ॥ ७॥
विश्वामरेश्वरनिरन्तरसन्निधान
स्थानरय हेममयभूमिधराधिपस्य ।
शश्वत्प्रदक्षिणमसौ विदधाति भानु
व त्वदुज्ज्वलकिरीटरुचः प्रलोभात् ॥ ८॥
प्रद्योतनः प्रतिदिनं भवतः किरीट
शुत्याग्रहाद्वसुगणान् वितरन् समन्तात् ।
यत्तश्विरादसमवाप्तमनोरथः स
नस्तं प्रयाति खलु होनवसुः क्रमेण ॥ ९॥
आत्मावलोकनविधावधिकप्रमोद
नेत्रेषु संविदधता जगतामधीश ।
त्वन्मौलिना कथमनेन तुलामुपैतु
हक्पीडनं विरचयन्नयमुष्णतेजाः ॥ १०॥
कैश्यं सतोयघनदेश्यमतीव दृश्यं
विश्वेश ते विजयते धृतसौरभं तत् ।
यत्रार्पणे सुमनासाममरद्रमाणां
अर्थित्वमेति निवहोऽर्थिषु दत्तकामः ॥ ११॥
अन्तःस्थिता कुटिलता मलिनात्मता च
दोषाविति त्रिजगति प्रथितैव वार्ता ।
त एव ते चिकुरभारगते गुणौ स्तः
सूते महत्फलमहो महतां हि सेवा ॥ १२॥
भागीरथीं भवशिरोनिलयां विलोक्य
ताक्पदं महितमात्मकृतेऽपि कर्तुम् ।
त्वत्पूजनं विहितवत्युपलब्धकामा
मित्रात्मजेव तव भाति कचालिरेषा ॥ १३॥
मन्दारपुष्पमिलितो मकुटोपनद्ध
माणिक्यरत्नकिरणास्तरणाभिरामः ।
चन्द्रार्करश्मिनिकरच्छुरिताम्बुवाह
च्छायस्त्वदीयचिकुरणकरो विभाति ॥ १४॥
फालेन ते भुवनमोहनमोहनेन
बालः शशी समतुलामधिशेढुमिच्छन् ।
जातशिरार्गल इति प्रथितखिलोक्यां
को वानुचान जनवादमनहकारी ॥ १५॥
एव स्वृत्तरहितश्च कलङ्कवांश्च
यातुं ललाटसमतां मम वाञ्छतीति ।
रोषरत्वया मयि न कार्य इतीव शंसन्
बालः शशी शरणमाश्रयते पदं ते ॥ १६॥
यत्ते ललाटफलके तिलकं विभाति
स्मर्तुः समस्तभयहारि च हानिहारि ।
शक्राइमपट्टलिखितामलरूप्यरेखा
विद्वेषि मन्यसनमेतदपाकरोतु ॥ १७॥
ब्रह्मादयोऽपि च यदीयमहामहिना
सम्मोहिता निजनिजाधिकृतौ निबद्धा ।
मायापि यञ्चलनमात्रवशात् स्वकार्ये
सा गल्भते जयति सा युगली भ्रुवोस्ते ॥ १८॥
नेत्राभिपूर्णकरुणारसवीचिशोभां
आबिभ्रती मदनकार्मुकमातृका सा ।
भ्रूवल्लरी विजयते जगतीविधान
स्थानप्रहाणचतुरा चतुराकृतिस्ते ॥ १९॥
पड्केरुहाणि भवदीक्षणसाम्यलेशम् ।
हत्वा पुनस्तदपराधविमार्जनाय ।
पद्मां भवत्प्रणयिनीमलमर्थयित्वा
नित्यं निजान्तरगृहेषु निवासयन्ति ॥ २०॥
यत्प्राहुराप्तवचसो महतां हि दृष्टे
नों शत्रुबान्धवभिदेत्यमृषा वचस्तत् ।
चक्षुः सरोजयुगली भवतस्तथा हि
कर्ण गता च विजयं च गतेयमारते ॥ २१॥
उत्कर्षमीप्सु कुमुदादरविन्दजातं
पत्रद्वयीमुपजहार मनोहरां ते ।
आदाय तामकुरुथा निजनेत्रयुग्मं
तेनैति सर्वविबुधार्चनयोग्यतां तत् ॥ २२॥
अर्कात्मकं भवति दक्षिणमीक्षणं ते
वामं च सोममयमित्यमृषा वचस्तत् ।
यसम्प्रपातवशतो हृदि भक्तिभाजां
नो वा कदाप्युदयगेति नमोऽणुनापि ॥ २३॥
तापप्रदो दिनकरस्तव दक्षिणा हक्
भूत्वा समस्तजनतापमपाकरोति ।
तद्वज्जडप्रकृतिरोषधिपोऽपि सव्य
नेत्रत्वमेत्य जगतां जडतां धुनोति ॥ २४॥
नासा विभो तव विभाति तिलप्रसून
सूनं रुचा विदधती च समुन्नताप्रा ।
यस्याः समं निजकतुण्डमिति स्मरन्तः
कीरा भवन्ति बत पञ्जरबन्धयोग्याः ॥ २५॥
वक्त्राभिधानसरसीरहमण्डने ते
नासाह्वये रुचिविराजिनि बीजकोशे ।
चित्ताम्बुजं लसतु मे भगवन्नजलं
युक्तं सजातिकमिथःपरिमेलनं स्यात् ॥ २६॥
उद्भिद्यमानतरुपल्लवतुल्यकल्यौ
ओष्ठाधरौ तव वरिष्ठतरौ विभातः ।
यत्पानयोग्यमतिभाग्यमुपेत्य लक्ष्मीः
श्लाघ्या भवत्यखिललोकविलासिनीषु ॥ २७॥
देव त्वदीयरदनच्छदपल्लवेऽस्मिन्
आरुण्यमेतदधरीकृतबिम्बशोभम् ।
लक्ष्मया हृदन्तरनिरन्तरतोत्पतिष्णुः
पानप्रसक्त इव रागभरो विभाति ॥ २८॥
माधुर्यमीप्सुरधरामृतसम्भवं ते-
माता जगत्त्रयभुवामरविन्दवासा ।
त्यक्त्वा पयोजलधिमाप्तवती भवन्तं
कोवोत्तरोत्तररसाभिरतिं न कुर्यात् ॥ २९॥
ओष्टेन ते मृदुनरेण हरे रमायाः
शुद्धैर्द्विजैविरचितं क्षतमाप्यते यत् ।
एतस्य सा निरपराधनवप्रवाल
सङ्केषु भङ्गकरणस्य फलानुभूतिः ॥ ३०॥
मुक्तावलेर्निजरुचा सवदीयदन्तात्
उनत्वमस्ति यदम निजदोषमेषा ।
हतुं सदा व्यवसिता नखरच्छलेन
त्वत्पादपदापरिषेवणमादधाति ॥ ३१॥
दन्तप्रभाप्रविजितं तव पङ्कजाक्ष
कुन्दप्रसूनमतनोरिषुतामवाप्य ।
त्वन्नायकं त्रिभुवनं क्षुभितं तनोति
मानधये सति क एव हि जोषमास्ते ॥ ३२॥
मन्दस्मितं मधुरिपो मधुरं त्वदीयं
चन्द्रप्रभा मम मनोमयकैरवस्य ।
उन्निद्रतां जनयतादतितीव्रताप
संसारभास्करविलासनिपीडितस्य ॥ ३३॥
यद्यम्बुजस्य विदलदलमण्डितस्य
मध्यं बता तुहिनदीधितिदीधितिः स्यात् ।
तमुम्बुजाक्ष भवदास्यमहोत्पले त्व-
न्मन्दस्मितातिरसावुपमामुपेयात् ॥ ३४॥
गण्डद्वयं मकरकुण्डलमण्डितं ते
निर्णिक्तशक्रमणिदर्पणदर्पहारि ।
वर्णप्रकर्षजनितक्षणमीक्षणानां
अर्णोरहाक्ष मम चेतसि सन्निधत्ताम् ॥ ३५॥
एषा कपोलयुगली मणिकर्णिकायाः-
स्नानं सदा विदधती रुचिवारिपूरे ।
नैर्मल्यमीगुपलब्धवतीति वक्तुं
सामर्थ्यमेत भुवने कतमस्य जिह्वा ॥ ३६॥
कृत्वा समुद्रमथनं भवता किमर्थ
मुत्थापिस्तदुरसि स्थित एष चन्द्रः ।
आ ज्ञातमात्मवदनं नितराममुष्मा
दुत्कृष्टशोभमिति बोधयितुं जनैघान् ॥ ३७॥
त्वद्वक्त्रपद्मसुषमाकणिकाशतांश
स्तेयादभून्महदघं जलजन्मनां यत् ।
स्नानेन तैरविरतं परिधूतमेतत्
सन्दृश्यते पयसि शैवलकैतवेन ॥ ३८॥
लोकत्रयेऽत्र रमणीयपदार्थसार्थान्-
आतन्वतो बहुविधानरबिन्दयोनेः ।
एकत्र वापि भवदास्यतुलां विधातुं
लोकेश नालमभवत् करकौशलं तत् ॥ ३९॥
पूर्णः कलाभिरखिलाभिरपि द्विजानां
राजापि तन्न खलु वन्द्यत एष चन्द्रः ।
यत्तावकेन वदनेन समत्सरोऽसौ
स्वात्मापकर्षकर एव महद्विरोधः ॥ ४०॥
देधारत्वदीयवचनामृतभाग्यभाग
माधुर्यलेशमुपगृह्य किमप्यकार्षीत ।
द्राक्षां सितां मधु पयः कदलीफलं च
किं विस्तरेण वचसां मधुरं समस्तम् ॥ ४१॥
कण्ठेन ते परिभवं बत लम्भितास्ते
शङ्काः सरिद्रमणवारिणि लीनवन्तः ।
आक्रन्दितेन गुरुशोकभरोत्थितेन
साहायकं विदधते जलधि दाध्वनीनाम् ॥ ४२॥
वक्षःस्थलीलसितकौस्तुभरत्नभाभिः
कण्ठप्रकाण्डमरणीकृतमाविभाति ।
अर्कप्रभाझरनिमनतनोर्घनस्य
लक्ष्मी परामनुहरन् मधुकैटभारे ॥ ४३॥
पद्मालयानखपदैः परिभूषितं ते
तत्कर्णनालमुपमापदवीं लभेत ।
भास्वत्पलाशमुकुलानि सुलोहितानि
स्कन्धं तमालनगमस्य यदि श्रयेयुः ॥ ४४॥
वक्षस्तव स्मरणशीलजनानभीष्ट
द्वारावृतिस्थिरकवाटमिदं विभाति ।
यत्र श्रियः ससुखखेलनयोग्यगेहे
मुक्तादिरत्ननिकरा विलसन्त्यनेके ॥ ४५॥
देव त्वदीयहृदगं तृशकदा नात्
लक्ष्म्याः स्तनद्वरासहं सुदढोपगूढे ।
भक्तानुकम्पनविधावतिमार्दवं च
तचित्रमेव भगवन् हृदयं ममैति ॥ ४६॥
दोर्भिश्चतुर्भिरमरेऽत्र अमरेन्द्र मणिप्रवलुप्त
स्तम्भैः प्रशुम्भितमुरः श्रितपुष्पमास्यम् ।
उद्रत्नदीपमुदितांशुबितानकं तत्
पद्मालयानटनरङ्गतलं विभाति ॥ ४७॥
भूना निजस्य महसः परिपूरिताशो
लोकेऽत्र सन्तमसमन्तगतं च तन्वन् ।
उत्थानमभ्युपगतः पयसां निधेश्च
त्वद्वक्षसि स्फुरति कौस्तुभबालकार्कः ॥ ४८॥
चन्द्रश्च कौस्तुभमणिश्च सहोदरौ द्वा
वेकस्तयोर्मदनसैन्यपतित्वमागात् ।
अन्यः समेत्य भगिनीसदनं तवोरः
सम्पन्नमीश तनुते महसा निजेन ॥ ४९॥
हारीति वक्तुमुचितं खलु तद्वदत्र
हारेण युक्तमरविन्ददुलायताक्ष ।
वक्षःस्थलेन तव योगमुपागतः सन्
हारः पुनर्भवति हारिपदाभिधेयः ॥ ५०॥
यैषा तवोरसि विराजति वैजयन्ती
तामात्मदत्वमयते किमये गुणस्ते ।
यत्सा करोति सहसा सरसीरहाक्ष
सेवानुषक्तजनतामपि वैजयन्तीम् ॥ ५१॥
भावत्कवक्षसि विभो परिभासमानं
श्रीवत्ससंज्ञमृषिवर्यपदाब्जचिह्नम् ।
वेधत्रिलोचनभवत्सु परात्मरूपं
त्वामेव सत्त्वमयमूर्तिरिति ब्रवीति ॥ ५२॥
स्वालकृतिस्थितमहाघमणिप्रकाण्ड
प्रोद्यत्प्रभौघशबलाः सबला भुजारते ।
तापत्रयं सपदि तज्जनिकर्तृपापं
चापास्य मे ददतु मुक्तियुतं त्रिवर्गम् ॥ ५३॥
एकः सुधीरिव गृहीतसुदर्शनस्ते
बाहुः परो धनदबत्समुपेतशङ्खः ।
पदनान्वितोऽन्यतम इभ्यगृहोपमश्च
शेषो महागदतयर्षभशैलतुल्यः (?) ॥ ५४॥
धारासहस्रकृतदानववंशदाह
दोषानुषङ्गपरिदृद्धगुणं तवेदम् ।
चक्रं निरस्तभवचक्रमुपाश्रिताना
मारमाकरक्षणमनुक्षणमादधातु ॥ ५५॥
अब्जन्मनैव न हि केवलमापदात्यात् (?)
अप्याप्तवान् सहजतामनृतद्युतेर्यः ।
सोऽयं भुजाग्रवसतिस्तव पाञ्चजन्यः
श्रूयेत मन्द्रनिनदो मदसुप्रयाणे ॥ ५६॥
पङ्केरुहं करगतं तव पाणिपाद
नेत्राननं युधि विजेतुमुपागतेषु ।
एकं गृहीतमिव भाति सरोरुहेषु
भीत्या प्रधाव्य पतितानि वने परणि ॥ ५७॥
कौमोदकी त्वसमयेष्वपि रोषभारत्
दैत्यान् समेत्य सतृणं निहनिष्यतीति ।
मत्वा ततः किमु निरोधुमयि त्वयासौ
एकेन पाणिकमलेन धृता सदास्ते ॥ ५८॥
रोमावलिस्तव विराजति हारयष्टयो
मध्यस्थिता विमलयोर्मधुपस्नगाभा ।
गङ्गाप्रवाहयुगलस्य गतोऽन्तरालं
ऊर्ध्वं प्रवृत्त इव भानुसुताप्रवाहः ॥ ५९॥
अभ्यर्थितानि ददती भजतां फलानि
नाभ्यालवालत उदेत्य रुगम्बुपूर्णात् ।
आरूढवत्युदरदेशमतीत्य वक्षो
रोमालिकल्पलतिका तव भासते सा ॥ ६०॥
नाभिप्रहिर्विमलया प्रभया पयोभि
रापूरितस्तव विभाति गभीररूपः ।
श्रीमृनाथस्तोत्रं यस्मादुदञ्चितविचित्रसरोरुहेण
त्वत्प्रेरितत्रिभुवनं कृतवान् विधाता ॥ ६१॥
मध्यप्रदेशमतिसूक्ष्मतरस्वरूप
मप्युह्यमानभुवनत्रयमण्डलं ते ।
उहामदाममाहितोदरबन्धनद्धं
श्रद्धापुरस्सरमर्दिवमभ्युपैमि ॥ ६२॥
मध्यं तवेदशभितीश कथं ब्रवीमि
हरभ्यां निजानुभवतस्तनु निश्चितं यत् ।
अभ्यासितं त्रिभुवनैरिति सज्जनोक्त्या
विस्तारयुक्तमतिमात्रमिति श्रुतिभ्याम् ॥ ६३॥
कान्तिप्रवाहि तपदेव तव देव नितन्बबिम्ब
काचीगुणाकलितमित्यगि केचिदाहुः ।
नैते प्रमादसहिता अनुयोगयोग्या-
काञ्चीप्रधानकलितं तु वयं वदामः (?) ॥ ६४॥
विद्योतते वरद ते स कटि प्रदेशः
लक्ष्म्या घनेन जघनेन समागमाद्यः ।
सौभाग्यमात्मसमवेतमनन्यलभ्यं
व्यक्तं ब्रवीति सकलोपरि वर्तमानम् ॥ ६५॥
आपादितो यदि शताङ्गपरो निजार्थः-
स्यादेव ते गुरुनितम्बभरेण हास्यः (?) ।
मत्वेति मन्दमरुतं स्वरथं मनोभूः
चक्रे यदस्य तदनागतकर्तृताहो ॥ ६६॥
काञ्ची तवेयमरुणैः किरणैनितम्ब-
प्रान्तस्तमालसदृशां च रुचां प्ररोहैः ।
शोणासिसं कमपि कान्तिझरं विधाय
तेनानुलिम्पत इमानि दिशां मुखानि ॥ ६७॥
मुक्तावलीपरिचिता सुमनोरमा च
प्रोद्योतमानमणिभूषणतां च याता ।
त्वत्काचिकामहितलोचनचन्द्रिका च
भूमन् कथं न विबुधैः परिपूजनीया ॥ ६८॥
सन्ध्यापयोधरमनोहरमम्बरं ते
सन्ध्यानयोग्यमनिशं जनशं दधानम् ।
वन्ध्येतरं जनयितुं जननपयासं
सन्धारचेमहि हृदन्तरतन्तकीर्ते ॥ ६९॥
पादारविन्दयुगलं भजतां जनानां
दूरीकृतं रचयितुं तरसा तमोऽन्धम् ।
मालः प्रभाकृदुदितः किमिहेति शकां
पीताम्बरं वितनुते भवदीयमेतत् ॥ ७०॥
चित्तं यथा विटजनस्य नितान्तरक्तं
विस्तारवञ्च मतिवद्विदुषां जनानाम् ।
शाब्दं च शास्त्रमिव सूत्रगणैर्सहार्वैः
क्लप्तं विराजतितरां भवदुत्तरीयम् ॥ ७१॥
ऊरुद्वयेन भवतः कृतमत्सराय ये
भास्वन्द्वपाधिपकरा भुवनोत्तरेण ।
प्राणाधिका अपि गजा अपराधतोऽस्मान्
न्यूनैर्भवन्ति खलु शङ्खलया निबद्धाः ॥ ७२॥
स्थूणागणाश्च भवदुरुतुलाभिलाषो
त्कर्षादुदारमपराधमवाप्तवन्तः ।
तद्दण्डनाय विधिना विहितं शिरस्सु
नैकेतनं भरमहर्दिवमुद्वहन्ति ॥ ७३॥
त्वक्सक्थिसाम्यकृतदोषशमाय रम्भा
विश्राण्य ते निजफलानि जितामृतानि ।
त्वत्सम्प्रसादजनितान्तरमोदजातं
शैत्यं तनोर्बहिरपि प्रसृतं बहन्ति ॥ ७४॥
अष्टीवतोयमनिष्टनिरासधृष्टं
निष्टयतनिर्मलसुनीलरुचिप्रपञ्चम् ।
जबोरुहामनामयुतदेशयुगान्तराले
सीमावबोधनिहितोपलवद्विभाति ॥ ७५॥
पुष्पायुधो भुवनमोहविधानदक्षं-
चूर्ण विधाय मणिसम्पुटकद्वयान्ते ।
विन्यस्य तन्निहितवान् किमिहेति शङ्का
मङ्क्रयत्यजित जानुयुगं तवेदम् ॥ ७६॥
नात्यायते च न च वामनतापुपेते
दैत्यारिनाथमणिमण्डतुलामुपेते ।
मञ्जीरनद्धमणिदीप्तिनिमग्नरूपे
संज्ञायतां मम मनः प्रसृते गतं ते (?) ॥ ७७॥
दग्धः पुरा पुरभिदा पुनरात्मजन्ते
भूत्वा स पुष्पविशिखं कलयाञ्चकार ।
यद्रूपसौष्ठवमवेक्ष्य निजं निषङ्गं
जवाद्वयं जयति ते जगदर्यमेतत् ॥ ७८॥
कस्यापि जात्वपि निजान्वयजस्य कण्ठ
स्त्वज्जन्या समरुचिः किमुदेष्यतीति ।
ज्ञातुं महागणकमाश्रयते शिखीन्द्रः ।
स्कन्दं न वक्ति स च शुक्कृतितन्द्रितोऽस्य ॥ ७९॥
मञ्जीर एष भवतो महनीयरूपः
सवृत्ततामुपगतः श्रवणीयशब्दः ।
वन्द्यः सतां च भवतीति किमत्र चित्रं
ताहग्गुणो न कथमस्तु सुवर्णजन्मा ॥ ८०॥
त्वञ्चाररूपमणिनू पुरनिस्वनस्य
सादृश्यमाकलयितुं निनदे स्वकीये ।
हंसः प्रपद्य शरणं चतुराननं तं
तत्पत्रतामनुभजन भजतेऽनुवेलम् ॥ ८१॥
आकर्णनीयनिनदो भृशदृश्यरूपः-
स्पर्शान्वितो रसदवर्णनतां प्रपन्नः ।
सौरभ्यवानपि विभो तव नू पुरोऽयं
सन्तर्पणो विजयते सकलेन्द्रियाणाम् ॥ ८२॥
पादाप्रमेतदयि ते न हि वर्णयामि
किं तन्निमित्तमिति चेदिदमुच्यते च ।
तद्वर्णने कमठजातिमुपैतु लज्जां
तद्वंशजां तु तव मूर्ति मियं न थायात् ॥ ८३॥
पढेरुइस्य अपतः पदसंज्ञितस्य
पत्राणि भान्ति परमगुलिसंज्ञितानि ।
येषु क्षरन्मधुरसेषु सतां मुनीनां
चेतोऽभिधा मधुकराः सततं रमन्ते ॥ ८४॥
मुद्राकृताधिकरुचिस्ततिरङ्गुलीनां
मुद्राविहीनरुचिरप्यवभासते ते ।
लक्ष्मीपते भवति पल्लवहारितास्या
भक्तावलेरपि विपलबहारिता च ॥ ८५॥
आशादशाधिवसतां निजसेवकानां
आशानुपूरणकृतेऽगुलयो दशैताः ।
त्वत्पादयोरपि च तत्तमलां विलुप्त्यै
ज्योत्स्नाकिरश्च दश तन्नखचन्द्रडिम्भाः ॥ ८६॥
धावल्यमस्ति नखरेषु तवेति केचित्
प्राहुर्बुधाः कतिचिदत्र तु रक्तिमेति ।
पक्षी निसर्गरमणीयतया त्रिलोक्या
भक्तानुरागभजनादपि तौ घटेते ॥ ८७॥
एकस्थिति वितनुतो न गुणौ विरुद्धौ
पादद्वये तु तव नैवममेयधामन् ।
मुक्तावलीसुखकरा नखरास्त एव
मुक्तावलीसुखहराश्च भवन्ति चित्रम् ॥ ८८॥
श्यामात्मनस्तव कुतो नु पदाम्बुजाभ्या
मासादितः परमशोभन एष रागः ।
किं वा नमत्सुरकिरीटमणेरुताहो
संवाहनेषु कमलाकरपल्लवाभ्याम् ॥ ८९॥
दानक्रियाधरितकल्पकवृक्षमूर्ध
न्यासेन तत्किसलयोत्करतः किमाहो ।
दैत्यारिनाथमथनक्रमणे तदास्य
निष्यन्दमानबहलक्षतजप्रवाहात् ॥ ९०॥
मुक्तिप्रदं महितकान्तियुतं समस्त
सम्पत्करं च विपदां हरणप्रवीणम् ।
ऋष्यनग्नाधनविपन्नजयाशयानां
सङ्घट्टसङ्कटनिवासपदं पदं ते ॥ ९१॥
श्रीमृनाथस्तोत्रं अम्भोरुहाणि नवपादपपल्लवानि
त्वत्पादयोरभिलषन्ति सहक्षतां यत् ।
सैषां न दोष इह किं नु वनेशयानां
स्वस्यापरस्य च विशेषनिबोधलेशः ॥ ९२॥
यत्पादपद्ममहिमगितीश शक्यं
नो देदितुं प्रसितिरस्ति तथा विकारिकि कापि ।
यत्तत्परागवहनेन पुरा स्वमूर्ना
शक्तोऽभवत् कमलभूर्भुवनानि कर्तुम् ॥ १३॥
एतावतापि पदयोर्महिमानुमेय
स्तोयं यदीयनखधावनपूतपूतम् ।
लोकत्रयीवृजिनकाननदाहदक्षं
दक्षारिणा शिरसि यद्भियतेऽनुवेलम् ॥ ९४॥
रेखा विभाति चरणे तव सूक्ष्मसूक्ष्मा
स्थूलस्य मङ्गलशतस्य सदा सवित्री ।
कार्याणि कारणगुणान् दधतीति वातों
मिथ्येति या कथयते निजचेष्टयैव ॥ ९५॥
चित्रं भवोष्महरणं महदकुशं च
सेवाकृतां व्यसनवारणवारणार्थम् ।
हर्षाभिषेकविधये कलशाङ्करेखा
रूपं दधजयति ते पदपद्मयुग्मम् ॥ ९६॥
तोयं निपीय तव कान्तिमवाप्य मेघा
गर्जन्त अर्जितमदा दिवि सञ्चरन्तः ।
तस्मिन् गते विरुचयो लघवश्च सन्ति
शोभां लभेत भुवि कः स्वधनप्रणाशे ॥ ९७॥
त्वत्कान्तिलेशहरणादपराधवन्त
स्वासात्तमालतरवो विपिने निलीनाः ।
सत्त्वाश्रयोऽपि च गभीरतरोऽपि सिन्धुः
शब्दायते तरलतां च मुहुः प्रयाति ॥ ९८॥
त्वचारुविग्रहगुणान् भणितुं फणीन्द्रः
शब्दान् विधाय विततान् विविधप्रमाणान् ।
जिह्वासहस्त्रयुगलेन निगद्य नान्तं
गच्छन्ननन्त इति नाम जगादमि नूनम् ॥ ९९॥
तत्तादृशामपि मुकुन्द भवद्गुणानां-
तावत्प्रशंसनविधौ भुति कः समर्थः ।
बुद्भथा प्रगृह्य कवयोऽपि तदीयलेशं
उक्त्वा सविस्तरमहो विरमन्ति वाचः ॥ १००॥
ईङ्ग्विधा तव विभो तनुरैहिकस्य
पारत्रिकस्य च सुखस्य नृणां विधात्री ।
चेतःस्थिति मम विधाय विधूय दुःखा
न्यानन्दभारमधिकं विदधातु नित्यम् ॥ १०१॥
स्तोत्रं मया कृतमिद प्रतिवासरं ये ।
सङ्कीर्तयन्ति कलयन्ति च कर्णयोर्ये ।
देष श्रीभूसमेत मृदधीश भवत्प्रसादात्
एषां च सबैमभिकाशितमस्तु सिद्धम् ॥ १०२॥
इति श्री श्रीयुतमृन्नाथस्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan