श्रीसूर्यशतकम्

श्रीसूर्यशतकम्

श्रिया समेत श्रितपारिजातं वियत्प्रदीपं विततप्रतापम् । नयप्रचारं नगराजधीरं दयासमुद्रं तपनं नमामि ॥ १॥ तेजोमये मण्डलमध्यभागे सिंहासने रत्नमयेऽब्जरूपे । असीनमुग्रायुधदीप्तहस्तं, छायापतिं चण्डकरं नमामि ॥ २॥ हिरण्यगर्भाप्तवरान् बलाढ्यान् मन्देहदैत्याननलोग्रबाणैः । सर्वासु सन्ध्यासु निवारयन्तं संज्ञापतिं देवमहं नमामि ॥ ३॥ हिरण्यगर्भाच्युतपार्वतीशैः स्वपार्श्वसंस्थैः परिगीयमानम् । मुक्तिस्थलीयायिमुनीश्वराणां घण्टापथं भास्करमाश्रयामि ॥ ४॥ किरीट-काञ्ची-वलयाङ्गुलाद्यै- र्विभूषणैर्भूषितमग्निवर्णम् । सौवर्णवस्त्रं श्रितवालखिल्यैः संसेव्यमानं हरिमाश्रयेऽहम् ॥ ५॥ अष्टापदश्मश्रुकचैश्च सर्वै- र्हिरण्मयाङ्गैर्युतमप्रतर्क्यम् । देदीप्यमानं किरणैः सहस्रै- रम्भोजमित्रं रविमाश्रयामि ॥ ६॥ अनूरुवैदग्ध्यनिजाध्वधाव- त्सप्ताश्वयुक्ते फणिपाशबद्धे । छन्दोमये दिव्यरथे स्थितं श्री- सरोजिनीनाथमहं नमामि ॥ ७॥ दिने दिने मेरुगिरेः समन्तात् प्रदक्षिणप्रक्रमणं वहन्तम् । सुरासुरैर्वन्दितपादपद्मं प्रभाकरं त्वां शरणं प्रपद्ये ॥ ८॥ मित्रं पवित्रं नलिनीकलत्रं हिरण्यगात्रं हिमवीतिहोत्रम् । तमोलतादात्रममर्त्यचैत्रं विशालनेत्रं रविमाश्रयेऽहम ॥ ९॥ अजाण्डगेहान्तररत्नदीपं सन्ध्यासु सन्ध्यासु समस्तविप्रैः । होमार्चनध्यानतपोजपाद्यौ- राराध्यमानं दिननाथमीडे ॥ १०॥ चतुःशतैरंशुभिरम्बुवृष्टिं तावन्मि तैरातपमुग्ररूपम् । तदर्धमानैः किरणैर्हिमानीम् । प्रकाशयन्तं प्रभुमाश्रयामि ॥ ११॥ मासाष्टकं भूमिगताम्बु पीत्वा क्षितौ पुनर्मासचतुष्टयेन । वृ ष्ट्या तटाकादिजलप्रदेशान् प्रपूरयन्तं पुरुषं भजेऽहम् ॥ १२॥ यन्मण्डले वारिधरप्रकोपात् अदृश्यमाने दिवसो नराणाम् । स्याद्दुर्दिनं तस्य दिवाकरस्य । श्रीपादयुग्मं शरणं भजेऽहम् ॥ १३॥ प्रत्यक्षदैवं परिपूर्णबिम्बं समुज्ज्वलं दीधितिभिः सहस्रैः । निशातमश्चित्तगतं तमश्च प्रध्वंसयन्तं परमेशमीडे ॥ १४॥ कलिङ्गदेशेष्वभिमानपूर्णं प्रागाननं सारसपीठसंस्थम् । प्रवालसङ्काशलसच्छरीरं प्रभाकरं त्वां प्रणमामि भक्त्या ॥ १५॥ प्रभाकराय प्रमदप्रदाय प्राचीनवाक्प्रत्ययकारणाय । प्रपञ्चकेषु प्रकटीकृतात्म- प्रसिद्धये चास्तु नमः प्रभाते ॥ १६॥ ऋग्वेदरूपेण च मण्डलेन सामस्वरूपैः किरणैः सहस्रैः । यजुर्मयाञ्चद्वपुषा समेतं त्रयीमयं सप्तहयं नमामि ॥ १७॥ यो याज्ञवल्क्याख्यमुनीश्वराय साङ्गं ददौ शुक्लयजुर्विशेषम् । सप्ताष्टशाखासहितं पवित्रं तस्मै नमो देशिकदेशिकाय ॥ १८॥ तपः प्रपूर्णाय मयासुराय ग्रहागमं यं प्रददौ समग्रम् । वेदाङ्गभूतं परमं रहस्यं नमोऽस्तु तस्मै नलिनीप्रियाय ॥ १९॥ दिने दिने कोटिसुवर्णनिष्का- नुत्पादयन्तं जगदेकपूज्यम् । ददौ स्यमन्ताख्यमणीवरं यः सत्राजिते तं सवितारमीडे ॥ २०॥ तमोऽभिभूतं भवतीति विश्वं सञ्चिन्त्य सायं समये कृशानौ । निधाय तेजोलवमात्मनो यो ययौ तमीशं करुणार्द्रमीडे ॥ २१॥ यद्रश्मयो वारिधिगर्भसंस्था वायुप्रकोपेषु तटिल्लताः स्युः । दृश्यार्धभागे प्रसृता हिमांशु- कलास्तमीडेऽमितकान्तिपुञ्जम् ॥ २२॥ यस्यामृतान्नौ भिषजौ सुराणां हविर्भुजौ मर्दितदैत्यवर्यौ । हयाधिरूढौ तनयावभूतां दस्रौ तमर्कं शरणं ब्रजामि ॥ २३॥ यस्यात्मजो धर्मभृतां वरिष्ठो वर्णाश्रमाचारविधानकर्ता । नृपालवंशादिमबीजभूतो मनुस्तम्भोजहितं नमामि ॥ २४॥ विद्युन्मणीजाठरबाडबाग्नि- ग्रहर्क्षजाम्बूनदचन्द्रकान्तिः । यदंशलेशद्युतिसम्भवा तं प्रभामयं देवमहं नमामि ॥ २५॥ यन्नन्दनः प्राणिकृताघपुण्य- फलप्रदो याम्यदिशाधिनाथः । धर्मिष्ठवर्यः समवर्तनोऽभू- द्यमस्तमम्भोजहितं नमामि ॥ २६॥ मासर्तुवर्षादिविभक्तकालः खण्डाह्वयो येन समुत्थितोऽभूत् । तं विश्वसर्गावननाशहेतुं- नमाम्यहं काश्यपगोत्रमीशम् ॥ २७॥ वियोगदुःखार्दितचक्रवाक- द्विजानवश्यायनिपीडिताङ्गान् । पद्मांश्च शीतार्तियुतान् दरिद्रान् सन्तोषयन्तं सवितारमीडे ॥ २८॥ उद्बोधका यस्य मरीचयः स्युः विश्वस्य निद्राभरविस्मृतस्य । चोरव्रजस्यायसश‍ृङ्खलाः स्युः तस्मै नमः सारसबान्धवाय ॥ २९॥ सन्ध्याद्वये यस्य मरीचयः स्युः बन्धूकपुष्पप्रतिमानवर्णाः । मध्यन्दिने वज्रविभोपमानाः तस्मै नमस्तीव्रकराय तुभ्यम् ॥ ३०॥ त्रिनाभियुक्तामररूपकैक- चक्रेण संविन्मयकूबरेण । समन्विते दिव्यरथे वसन्तं नितान्तकान्तं भगवन्तमीडे ॥ ३१॥ यः कश्यपः स्यादिति गर्भगोलात् जातः सुरेन्द्राय जयं प्रदातुम् । द्विषट्करूपैरमितप्रभाढ्यैः तं हेमवर्णं पुरुषं नमामि ॥ ३२॥ नमः प्रभाते विधिरूपकाय मध्यन्दिने माधवरूपकाय । दिनावसाने हररूपकाय निशासु सर्वासु चिदात्मकाय ॥ ३३॥ पूर्वाचलाग्रेऽस्तनगस्य श‍ृङ्गे सुराध्वमध्ये विचरन्तमह्नि । निशासु पातालगताम्बरे च प्रभाकरं त्वां प्रणमामि भक्त्या ॥ ३४॥ लोकस्य बन्धुं गगनस्य रत्नं चक्षुष्मता नेत्रमजाण्डरूपम् । वेदस्य मूलं पतिमम्बुजानां प्रभाततेजस्करमीशमीडे ॥ ३५॥ रक्तप्रसूनाक्षतगन्धपर्णैः यन्त्रे च मूर्तौ मनुजोऽतिभक्त्या । यमर्चयित्वा लभते स्वकामां- स्तं वासुदेवं हृदि भावयामि ॥ ३६॥ शुद्धाशयाङ्गा मनुजाः प्रभाते सौरारुणिभ्यां विधिवद्यमीशम् । सम्पूज्य कामानपवर्गसौख्य- मवाप्नुयुस्तं पुरुषं भजेऽहम् ॥ ३७॥ छायास्ति भाति प्रियनामरूपे- ष्वन्त्या चतुर्थी कथिता च संज्ञा । आद्यत्रयं त्वं परमात्मतत्त्वं ततो रवे त्वां शरणं ब्रजामि ॥ ३८॥ नमः पतङ्गाय सुरार्चिताय नमस्तमोघ्नाय हिमान्तकाय । नमः सवित्रे जगदेकभर्त्रे नमो ग्रहेशाय नमोऽव्ययाय ॥ ३९॥ यमन्तरादित्यसमग्रविद्या- हृत्पद्मकोशान्तररन्ध्रसंस्थम् । नीवारशूकादपि सूक्ष्ममीशं प्रोवाच तं चिन्मयमाश्रयामि ॥ ४०॥ यद्रश्मयः स्युः परिवेषरूपाः सितासिताभोज्ज्वलकेतवश्च । भीमाशनीपातशतह्रदाश्च तस्मै नमो दीधितिमालिने ते ॥ ४१॥ तुषारवृष्ट्यान्वितपुष्करे य- न्मरीचयो रत्नचयाञ्चितस्य । सुरेन्द्रचापस्य समानरूपाः भवन्ति तं द्वादशरूपमीडे ॥ ४२॥ मित्राणि यस्येन्दुसुरेज्यभौमाः शत्रू सितार्की शशिजस्तटस्थः । त्रिषड्दशा येषु गतश्च राशेः शुभप्रदस्तं श्रुतिबोध्यमीडे ॥ ४३॥ प्रभातकालेऽस्तमयाख्यकाले यन्मण्डलं व्योम्नि वितस्तिमानम् । अष्टाङ्गुलं स्यात् कुतपे च दृष्टं तस्मै नमः श्रीनलिनीप्रियाय ॥ ४४॥ तुलादिषट्-सङ्क्रमणेषु यस्य बिम्बं भवेद्दक्षिणभागसंस्थम् । मेषादिषट्के च निरक्षदेशात् उदक्स्थितं तं प्रणमामि भानुम् ॥ ४५॥ अहःक्षयं कर्कटकादिषट्के निशाक्षयं नक्रगृहादिषट्के । निरक्षदेशोत्तरसंस्थितानां करोति यस्तं दिननाथमीडे ॥ ४६॥ यन्मण्डले राशियुगे च संस्थे सङ्क्रान्तिनामाधिकपुण्यकालः । चन्द्रान्विते दर्शसमाह्वयः स्यात् तस्मै नमो देवपितृस्तुताय ॥ ४७॥ अहर्निशाह्रासविवृद्धिदान- मनेकधा भिन्नमहीगतानाम् । कुर्वन्तमर्कं घृणिमण्डलस्थ- महोमयं वेदमयं नमामि ॥ ४८॥ धीरं महोदारममेयसारं सूरं नुतारं धृतचारुहारम् । वीराधिवीरं कृतवारिपूरं शुभप्रचारं सुविचारमीडे ॥ ४९॥ यस्यांशजः कीशगणाधिनाथो विकर्णनासं युधि कुम्भकर्णम् । पादाहतं पङ्क्तिगलं च चक्रे- रुमापतिस्तं शरणं ब्रजामि ॥ ५०॥ यद्वंशजातो भगवान् मुकुन्दो विश्वस्य सर्वस्य च रक्षणाय । क्रूरासुराणां च वधाय रामः परात्परं तं दिवसेशमीडे ॥ ५१॥ ध्यानस्य कालेऽखिलयोगिवर्या यद्बिम्बमादौ हृदये विचिन्त्य । ध्यायन्ति तन्मण्डलमध्यदेशे देवं तमीशं तदभिन्नमीडे ॥ ५२॥ यस्यात्मजा रूपवती कलिन्द- कन्या मुकुन्दस्य सती बभूव । प्रवाहरूपेण पयःपयोघिं गता तमर्कं मनसा स्मरामि ॥ ५३॥ घटीद्वयध्यानतपोऽधिकाय युधिष्ठिरायाधिकधार्मिकाय । अक्षय्यमन्नं प्रददौ रसाढ्यं यः पुण्यवांस्तं ग्रहराजमीडे ॥ ५४॥ सन्ध्याविधौ होमविधौ द्विजेन्द्रैः दिने दिने यः परिपूज्यमानः । यस्यार्चनं वर्गचतुष्कदान- क्षमं तमीशं शरणं व्रजामि ॥ ५५॥ उद्यन्तमर्कं भजते पुमान् यः स वै नरो ब्राह्मणशब्दवाच्यः । उपैति भद्रं परमार्थरूप- मित्याह वेदः खलु विश्वनाथ ॥ ५६॥ ब्रह्मेति नाम त्वयि योगरूढि- प्राप्तं श्रुतिः प्राह वियुक्तबाधम् । सन्ध्यासु सन्ध्यासु च विप्रवर्यैः तदेव सूक्तं खलु पद्मबन्धो ॥ ५७॥ चराचराणामिह सूर्य आत्मे- त्यन्तस्तमुक्त्वा यमयन्तमीशम् । तेषां च संविन्मयरूपमर्कं पुनः श्रुतिः प्राह दिनाधिपं त्वाम् ॥ ५८॥ ज्ञानस्वरूपस्य तवाज्ञता न ज्ञानं च सत्त्वप्रकृतेश्च योगात् । अनन्तकल्याणगुणाश्च भान्ति मेऽध्यात्मकाले जलजातबन्धो ॥ ५९॥ त्वां कर्मणां साक्षिणमागमानां स्वरूपभूतं जगतां च बन्धुम् । कालस्य कर्तारमुशन्ति वेदाः परात्परस्त्वामपहाय कोऽन्यः ॥ ६०॥ श्रीशङ्कराचार्यगुरुर्महात्मा पञ्चामराणां प्रथमं यमाह । आलोक्य सर्वोपनिषन्निगूढ- वाक्यानि वन्दे पुरुषं तमर्कम् ॥ ६१॥ प्राग्भूमिभृन्मौलिधृतं प्रभाते माणिक्यकोटीरमिव प्रदीप्तम् । सरोजिनीपुण्यफलस्वरूप- मुद्यन्तमर्कं प्रणमामि भक्त्या ॥ ६२॥ प्राचीवधूरम्यमुखे हिमाम्बु- प्रक्षालिते कुङ्कुमपङ्कचित्रम् । काल्येन निक्षिप्तमिव प्रदीप्त- मुद्यन्तमर्कं मृदुरश्मिमीडे ॥ ६३॥ सन्ध्यास्त्रिया कालकुमारकस्य प्राक्शैलमञ्चोर्ध्वतले निबद्धम् । गुञ्जामयं गुच्छमिव प्रदीप्तं बालं रविं कोमलदेहमीडे ॥ ६४॥ कालप्रबोधाय सुराधिपेन प्राक्शैलहर्म्योर्ध्वतले निबद्धा । रत्नब्रजस्थापितझल्लरीव यः संस्थितस्तं पृथुकार्कमीडे ॥ ६५॥ प्रभातकालाह्वयकेशवस्य प्राचीदिशाख्येन्दिरया युतस्य । समर्पितं कौस्तुभनामरत्न- मिव ज्वलन्तं पृथुकार्कमीडे ॥ ६६॥ सुरेन्द्रदिक्पर्वतवेदिकायां कालाख्ययज्वप्रवरेण दीप्तम् । अङ्गारसङ्घातमिव ज्वलन्तं बालं रविं शोणतनुं नमामि ॥ ६७॥ निशाख्यगौरीकृतपूजनेन गाढान्धकाराङ्गजताडितेन । उन्मीलितं प्राग्गिरिशङ्करेण जालामयाक्षीव लसन्तमीडे ॥ ६८॥ पूर्वाद्रिश‍ृङ्गस्थितकिङ्किरात- द्रुमे प्रभाताख्यवसन्तकाले । जातं महागुच्छमिवारुणांशुं नमाम्यहं कश्यपमौनिपुत्रम् ॥ ६९॥ दृष्ट्वा शचीसंयुतमात्मनाथं प्रागङ्गनायाः पतिकोपवत्याः । रक्तांशुयुक्तास्यमिव स्फुरन्तं नमामि बालं नलिनीकलत्रम् ॥ ७०॥ काल्यप्रभाशोणनदीप्रवाहे मरीचिकिञ्जल्कविराजमानम् । रक्तोत्पलं जातमतीव भान्तम् उद्यन्तमर्कं हरिदश्वमीडे ॥ ७१॥ मन्दाकिनीकोकसुरासुरौघैः काल्यप्रभामन्दरपर्वतेन । चान्द्रीपयोब्धौ भथिते प्रभूत- चिन्तामणीव स्थितमर्कमीडे ॥ ७२॥ प्रभातसूनोरभिषेचनाय प्राचीरमण्यातपवारिदीप्तम् । आनीतमष्टापदरत्नकुम्भ- मिव स्थितं पद्महितं नमामि ॥ ७३॥ प्रभातनारायणहस्तसंस्थं गाढान्धकारासुररक्तसिक्तम् । मरीचिधारापरिपूर्णचक्र- मिव स्थित बालरविं नमामि ॥ १४॥ प्रागब्धिवेलावलयोद्भवाया हिमाम्बुसद्योहदवर्धितायाः । काल्यप्रभाविद्रुमवल्लि कायाः फलेन तुल्यं तरुणार्कमीडे ॥ ७५॥ हिमोदकोद्रेकमवेक्ष्य रात्रौ पानाय तस्याब्धिजलं विहाय । नभोगतौर्वाग्निमिव प्रदीप्तं शोणद्युतिं बालरविं नमामि ॥ ७६॥ चक्रद्विजानामतनुक्रियाणा- मुद्बोधकं रात्रिमुखेऽतिमोहात् । अम्भोजिनीकुड्मलमध्यगस्य भृङ्गस्य मोक्षप्रदमर्कमीडे ॥ ७७॥ इन्दीवराणां पललाशनानां घूकादिकानां च विभावरीणाम् । जारस्य चोरस्य च दुःखहेतुं सतां च वृद्धिप्रदमर्कमीडे ॥ ७८॥ भास्वान् रविर्भानुरनन्तरत्नं दिवाकरश्चण्डगभस्तिरर्कः । मार्ताण्ड आदित्य इनो विवस्वान् मित्रोऽर्यमा रक्षतु मां दयाब्धिः ॥ ७९॥ रक्तातपत्रध्वजचामराढ्यं रक्ताम्बरं रक्तमरीचिबिम्बम् । रक्तैर्विभूषासुमगन्धमाला- बजैर्युतं पद्महितं नमामि ॥ ८०॥ आनन्दकन्दं हतशत्रुवृन्दं दयासमुद्रं दमशालिभद्रम् । संज्ञासमेतं सवनप्रपूतं दीप्तप्रबोधं दिननाथमीडे ॥ ८१॥ यस्योदये दीधितयः रबकीया मन्देहदेहक्षतजोपमानाः । प्राचीसतीभूषणरत्नरोचि- र्निभास्तमादित्यमहं नमामि ॥ ८२॥ यन्मण्डलं पञ्चशताधिकाञ्च- त्सहस्रषट्कोज्ज्वलयोजनेन । व्यासेन युक्तं घनगोलरूपं तस्मै नमः पङ्कजबान्धवाय ॥ ८३॥ सव्यं सुराणामपसव्यवृत्त्या रक्षोवराणां गगने चरन्तम् । तेषां दिन मानववत्सरेण प्रपूरयन्तं रविमाश्रयामि ॥ ८४॥ नमामि देवं महितप्रभावं विपक्षदावं परिशुद्धभावम् । रणाङ्गगणप्रोत्थितशङ्खरावं छायासतीकल्पितनूत्नसेवम् ॥ ८५॥ समञ्चिताह्लादमुरुप्रसादं सरोजपादं श्रितसर्ववेदम् । मृगेन्द्रनाथं कृतदैत्यखेदं समग्रवादं सवितारमीडे ॥ ८६॥ नमामि सूर्य नगराजधैर्यं कृपार्द्रचर्यं कृतपुण्यकार्यम् । सुपर्ववर्यं सुगुणौघधुर्यं पञ्चास्यवीर्यं परिपालितार्यम् ॥ ८७॥ वन्दे दिनेशं वरहेमकेशं सत्कीर्तिकाशं सततप्रकाशम् । श्रीमत्प्रदेशं श्रितपापनाशं प्रभावृताशं प्रथितप्रजेशम् ॥ ८८॥ सत्याय नित्याय चिदात्मकाय गूढाय रूढाय परात्पराय । दिव्याय भव्याय दिवाकराय मान्याय धन्याय नमो नमस्ते ॥ ८९॥ अचिन्त्यमव्यक्तमनादिमध्यं चिद्रूपमानन्दघनं प्रशान्तम् । ज्योतिर्मयं यं प्रवदन्ति वेदाः तस्मै नमस्तेऽस्तु विकर्तनाय ॥ ९०॥ दुर्गागणाधीश्वरशम्भुविष्णु- सूर्याह्वयैः पञ्चविधस्वरूपैः । समन्वितं भक्तजनाय कामान् दिशन्तमीशं प्रणमामि नित्यम् ॥ ९१॥ ग्रहर्क्षभूगोलसहस्रकोटि- प्रस्फीतवेधोऽण्डशतायुतस्य । अन्तर्बहिःपूर्णमनन्तशक्ति- महोमयं देवमहं प्रपद्ये ॥ ९२॥ कल्याणरूपं कविराजसेव्यं समग्रसत्त्वं विततात्मबिम्बम् । कल्याणरूपं कविराजसेव्यं समग्रसत्वं विततं नमामि ॥ ९३॥ यं योगिनः साङ्ख्यविदश्च पाञ्च- रात्रव्रताः पाशुपतागमज्ञाः । वेदान्तविद्यानिरता भजन्तः प्रयान्ति मुक्तिं तमजं भजेऽहम् ॥ ९४॥ सर्वेषु कालेषु च बालरूपं सर्वेषु कालेषु च यौवनस्थम् । सर्वेषु कालेषु च वृद्धभावं विकारशून्यं रविमाश्रयामि ॥ ९५॥ निरञ्जनं निर्गुणमप्रमेयं कूटस्थमव्यक्तमनन्तमाद्यम् । निर्द्वन्द्वमानन्दमखण्डमेकं चैतन्यरूपं रविमाश्रयामि ॥ ९६॥ कोदण्डरामाह्वयविप्रवर्य- प्रपूजितं श्लोकशताब्जपुष्पैः । छायाख्यबिब्बोकवतीसमेतं संज्ञापतिं त्वां शरणं प्रपद्ये ॥ ९७॥ योगीश्वरो वेङ्कटकुष्णयज्वा तत्पुत्रकं कोट्केलपूडिवंश्यम् । कोदण्डरामाह्वयविप्रवर्यं मां पाहि मां पाहि सरोजबन्धो ॥ ९८॥ हे सूर्य हे भास्कर हे दिनेश हे देव हे काश्यप तमोघ्न । पापैः समेतं समवर्तिभीतं मां रक्ष मां रक्ष कृपार्द्रदृष्टे ॥ ९९॥ भव त्कुमारं शमनं गुणाढ्यं केनाप्युपायेन तु शान्तचित्तम् । मद्रक्षणायाशु कुरुष्व नो चेत् सायुज्यमुक्तिं दिश मे दिनेश ॥ १००॥ संसारकूपे पतितं महाघैः जुष्टं यमाद्भीतमपुण्यलेशम् । मां रक्षितुं त्वामपहाय कोऽन्यः शक्तोऽस्ति भानो परिपालयाशु ॥ १०१॥ पुण्यात्मनां रक्षणतो न ते स्यात् घनत्वमब्जप्रिय मादृशानाम् । पापात्मनां रक्षणतो यशस्ते भवत्यपारं परमेश पाहि ॥ १०२॥ श्रुतिस्मृतिभ्यां निगमान्तहोरा- गमैः पुराणैर्भवदीयतत्त्वम् । जानामि किञ्चिद्दिननाथ तस्मा- त्संरक्षणीयोऽस्मि तवाहमद्य ॥ १०३॥ त्यागेन दोषो भवतीश्वराणां भक्तस्य पुंसः शरणागतस्य । अज्ञातमर्थं तव नास्ति तस्मात् रक्षस्व भानो शरणागतं माम् ॥ १०४॥ संज्ञान्विताय श्रितरक्षकाय छायासमेताय परात्पराय । चक्रस्तुतायाम्बुजिनीप्रियाय महात्मने मङ्गलमस्तु नित्यम् ॥ १०५॥ त्वत्सुन्दरीभ्यां भवदात्मजेभ्यः त्वत्पुत्रिकाभ्यस्तव सेवकेभ्यः । तुभ्यं हरे सौम्यमते दयालो जगद्गते मङ्गलमस्तु नित्यम् ॥ १०६॥ कोदण्डरामार्यकृतस्तुतिं ये पठन्ति श‍ृण्वन्ति च भक्तियुक्ताः । तेषां श्रियं पुत्रकलत्रसौख्यं स्वर्गं च मोक्षं दिननाथ देहि ॥ १०७॥ ॥ इति श्रीसूर्यशतकं सम्पूर्णम् ॥ Proofread by Musiri Janakiraman Stotrarnava 06.42
% Text title            : sUryashatakam 2
% File name             : sUryashatakam2.itx
% itxtitle              : sUryashatakam 2
% engtitle              : sUryashatakam 2
% Category              : shataka, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Musiri Janakiraman
% Description-comments  : From stotrArNavaH 06.42
% Indexextra            : (Scan)
% Latest update         : July 16, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org