शिवस्तोत्रम् विष्णुकृतम्
(सौरपुराणे ३४-अध्यायान्तर्गतम्)
अधर्मबहुलं कृत्वा त्रिपुरं मुनिपुङ्गवाः ।
महादेवमनुप्राप्य शरणं सर्वदेहिनाम् ॥ ५१॥
तुष्टाव स्तोत्रवर्येण भगवन्तं सनातनम् ।
दण्डवत्मणिपत्याह जले स्थित्वा समाहितः ॥ ५२॥
नमः सर्वात्मने तुभ्यं शङ्करायार्तिहारिणे ।
रुद्राय नीलकण्ठाय कद्रुद्राय प्रचेतसे ॥ ५३॥
गतिस्त्वं सर्वदाऽस्माकं नान्यदेवारिमर्दन ।
त्वमादिस्त्वमनादिस्त्वमनन्तश्चाक्षयः प्रभुः ॥ ५४॥
प्रकृतिः पुरुषः साक्षाद्द्रष्टा हर्ता जगद्गुरुः ।
त्राता नेता जगत्यस्मिन्न्द्विजादीन्द्विजवत्सलः ॥ ५५॥
वरदो वाङ्मयो वाच्यो वाच्यवाचकवर्जितः ।
ध्येयो मुक्त्यर्थमीशानो योगिभिर्योगवित्तमैः ॥ ५६॥
हृत्पुण्डरीकसुषिरे योगिनां संस्थितं सदा ।
वदन्ति सूरयः सन्तं परब्रह्मस्वरूपिणम् ॥ ५७॥
भवन्तं तत्त्वमित्याहुस्तेजोराशिं परात्परम् ।
परमात्मानमित्याहुरस्मिञ्जगति यद्विभो ॥ ५८॥
दृष्टं श्रुतं स्थितं सर्व जायमानं जगद्गुरो ।
अणोरल्पतरं पाहुमहतोऽपि महत्तरम् ॥ ५९॥
सर्वतःपाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ॥
महादेवमनिर्देश्यं सर्वज्ञं त्वामनामयम् ॥ ६०॥
विश्वरूपं विरूपाक्षं सदाशिवमनुत्तमम् ।
कोटिभास्करसङ्काशं कोटिशीतांशुसन्निभम् ॥ ६१॥
कोटिकालाग्निसङ्काशं षड्विंशात्मकमीश्वरम् ।
प्रवर्तकं जगत्यस्मिन्प्रकृतेः प्रपितामहम् ॥ ६२॥
वदन्ति वरदं देवं सर्वावासं स्वयम्भुवम् ।
श्रुतयः श्रुतिसारं त्वां श्रुतिसारविदश्च ये ॥ ६३॥
अदृष्टमस्माभिरनेकमूर्ते द्विधा कृतं यद्भवता नु लोके ।
तदेव दैत्यासुरभूसुराश्च देवासुराः स्थावरजङ्गन्माश्च ॥ ६४॥
पाहि नान्या गतिः शम्भो विनिहत्यासुरान्क्षणात् ।
मायया मोहिताः सर्वे दैत्यास्ते परमेश्वर ॥ ६५॥
यथा तरङ्गाः शफरीसमूहा युध्यन्ति(?) चान्योन्यमपान्निधौ तु
जडाश्रयादेव जडीकृताश्च सुरासुरास्तद्विजये हि सर्वे ॥ ६६॥
इति सौरपुराणे चतुर्त्रिंशत्यध्यायान्तर्गतं विष्णुकृतं
शिवस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran