पक्षितीर्थस्तुतिः
%८९
यत्र शङ्खाभिधं तीर्थं यत्र वेदगिरिर्महान् ।
भक्तवत्सल ईशश्च पक्षितीर्थं तदुत्तमम् ॥ १॥
विधेः सुतौ शम्भुशापाद्विधेः कङ्कत्वमेत्यसौ ।
भक्तदत्तं गृह्णतोऽम्भो भक्तमन्वहमत्र हि ॥ २॥
प्रांशुवेदगिरेः शीष्र्णं निषेव्य ब्रह्मचर्यतः ।
शिवमात्मानमिव यः पश्येत्स गतिमाप्नुयात् ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता पक्षितीर्थस्तुतिः समाप्ता ।