श्रीवानाद्रिनाथदयितास्तोत्रम्

श्रीवानाद्रिनाथदयितास्तोत्रम्

मातः समस्तजगतां वनशैलनाथ- वक्षोविहारिणि मनोहरदिव्यवक्त्रे । श्रीभूषणैर्मणिमयैः शुभदिव्यगात्रे त्वत्पादपङ्कजयुगं शरणं प्रपद्ये ॥ १॥ श्रीमद्वनाद्रितटगस्य सुसुन्दरस्य दोर्दण्डषण्डसुविहारिणि सिन्धुकन्ये । त्वद्वीक्षणैर्विलसितैः स्तिमितैः शुभैश्च लक्ष्मि त्वमेव परिपालय दुर्बलं माम् ॥ २॥ दयानिधे कोमलदिव्यगात्रे शुचिस्मिते निर्मलचन्द्रवक्त्रे । सरोजकान्तायतलोचने त्वं ममाब्धिकन्ये सुमुखं प्रदेहि ॥ ३॥ पिता च भाता च गुरुश्च बन्धुः त्वमेव सर्वं मम सिन्धुकन्ये । पदारविन्दे शरणं गतं मां ततस्तु ते पालय लोकमातः ॥ ४॥ मणिसङ्घभूषणगणैरलङ्कृते गणनाविहीनसुगुणैर्विभूषिते । अपि मां सुधाब्धितनये शुचिस्मिते गुणहीनकं च परिपालयेन्दिरे ॥ ५॥ वनशैलनाथदयिते दयानिधे भुवनाधिपेश्वरि शुचिस्मितानने । नलिनायताक्षि नमतां सुखप्रदे तव पादपङ्कजयुगं भजे सदा ॥ ६॥ वृषाचलेशस्य सुसुन्दरस्य भुजान्तरारामयथेच्छलीले । गुणेन रूपेण विलासितैस्त्वं रमे सदानन्दयसे मुकुन्दम् ॥ ७॥ मुकुन्दवक्षःस्थलदिव्यलीला- विलासितस्त्वं वनशैलराजम् । त्वदङ्गसौन्दर्यसदाविमुग्धं हरिप्रिये नन्दयसे त्वदीशम् ॥ ८॥ सर्वाङ्गसुन्दरहरिस्तव दिव्यागात्र- सौन्दर्यमज्जितहृदस्तमितान्यभावः । त्वां वीक्षते सततमब्धिसुते सुशीले सौन्दर्यवल्लि कमले परिपाहि मां त्वम् ॥ ९॥ सौन्दर्यवल्लि कमले सकलैकमातः सर्वाङ्गसुन्दरमनोहरदिव्यरूपे । पद्मे मनोज्ञवदने सुभगे सुशीले त्वत्पादपङ्कजयुगं शरणं गतोऽस्मि ॥ १०॥ वितर वितर भद्रं सम्पदं भक्तिरूपा- मिह च मम परत्र श्रीपतौ भाष्यकारे । वरवरमुनिवर्ये त्वत्पदाम्भोजयुग्मे मम तु जलधिकन्ये निश्चलां लोकमातः ॥ ११॥ कलशजलधिकन्ये लोकमातः सुशीले स्मितविलसितवक्त्रे कल्पवल्लि श्रितानाम् । दिवि भुवि वनशैलक्ष्मापतेर्वल्लभे श्रीः मम तु तव पदाब्जे निश्चला भक्तिरस्तु ॥ १२॥ दिवि भुवि मम पझे सम्पदं भक्तिरूपां वितर तव पदाब्जे सुन्दरश्रीपदाब्जे । शठरिपुपदपद्मे भाष्यकारे यतीन्द्रे वरवरमुनिवर्ये लक्ष्मि कल्याणशीले ॥ १३॥ कल्याणशीले रमणीयगात्रे लावण्यसौन्दर्यनिधे मनोज्ञे । कल्याणदे कल्पलते श्रितानां पझे प्रयच्छ प्रियमब्धिकन्ये ॥ १४॥ प्रियमिह मम पद्मे सम्प्रयच्छ प्रयच्छ तव तु चरणपद्मे संस्मरामि स्मरामि । गतिरिह मम नास्ति त्वत्पदाम्भोजयुग्मा- दशरणमतिदीनं पाहि मां सिन्धुकन्ये ॥ १५॥ शरणमिह परत्र त्वत्पदाम्भोजयुग्मं मम वनगिरिराजः पादकैङ्कर्यलक्ष्म्याः । सपदि किल ततस्त्वं लक्ष्मि पद्मायताक्षि सकलभुवनमातः पाहि मां सिन्धुकन्ये ॥ १६॥ नमो लोकमातो न माता विना त्वां रमे सिन्धुकन्ये सरोजायताक्षि । ततस्त्वं सुशीले प्रसीद प्रसीद प्रियं विष्णुकान्ते प्रयच्छ प्रयच्छ ॥ १७॥ कृतान्मे सुशीले तनुस्वान्तवाग्भिः समस्तापचारान् ममाम्ब क्षमस्व । वनाद्रीश्वरि त्वं पयस्सिन्धुकन्ये सरोजाक्षि पद्मे प्रसन्नाब्जवक्त्रे ॥ १८॥ न माता पिता वा विना त्वां सुशीले न नाथः प्रियो वा बिना सुन्दरेशम् । कलानाथवक्त्रे कटाक्षैस्ततस्त्वं सुधासिन्धुकाये रमे रक्ष मां त्वम् ॥ १९॥ श्रियै सुन्दरराजस्य महिष्यै नित्यमङ्गलम् । माणिक्यभूषणोद्दीप्रतन्वङ्ग्यै जयमङ्गलम् ॥ २०॥ इति श्रीवानाद्रिनाथदयितास्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Vanadrinathadayita Stotram 08 26
% File name             : vAnAdrinAthadayitAstotram.itx
% itxtitle              : vAnAdrinAthadayitAstotram
% engtitle              : vAnAdrinAthadayitAstotram
% Category              : devii, devI, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-26
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org