अभयदानम्

अभयदानम्

अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते ॥ यं नत्वा मुनयश्चिरेप्सितपदं गच्छन्ति निर्विघ्नतः यो वै सर्वगणाधिपः प्रभुरिति ख्यातः स्वयं निर्गुणः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १॥ विद्याख्या परमेश्वरी भवति या मुख्या च भूमाप्तये ब्रह्मैक्यं निजमूलमन्वयति यच्छिष्टं पदं प्राणिनाम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ २॥ नाम्ना श्रीधर चिन्मयो धरति यो नित्यं च मोक्षश्रियम् जीवानां तरणाय सद्गुरुरिति ख्यातः स्वयं शाश्वतः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ३॥ यत्प्राप्तं सनकादिभिर्मुनिबरैः प्राप्तं शुकेनापि यत् यन्नित्यं ह्युररीकृतं च खलु वे ब्रह्मादिभिर्दैवतैः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ४॥ ओङ्कार व्यभजच्छ्रुतिर्बहुविधा ब्रूते चतुर्धाष्टधा तुर्यं शुद्धमिति स्फुटं च परमं श्रीरामभद्रश्च यत् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ५॥ न स्त्री नैव पुमानकाय इति यो ह्यात्मा च सर्वान्तरः गोत्रं यस्य न लिङ्ग मस्ति न तथा वर्णो न वा ह्याश्रमः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ६॥ सर्वात्मा श्रुतिरप्यहो वदति यज्ज्ञात्वा न शोकः पुनः सर्वोपाधिविवर्जितं भवति यच्छान्तं पदं निर्गुणम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ७॥ भेदाभेदविभेदशून्यमिति यन्नास्ति द्वयं यस्य वै सूक्ष्मात्सूक्ष्मतरं ह्यणुर्न महतो यद्वै महद्विश्रुतम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ८॥ अज्ञानेन विभाति दुःखमिति तन्नाशाय भोगभ्रमः आनन्दोऽसि न भोगकर्म तव भो वाक्यैर्महद्भिः स्फुटम् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ९॥ पक्षीवापि पशुः पिशाच मनुजा, गन्धर्वयक्षाः सुराः आब्रह्मादिपिपीलिकान्तनृषु नो नारीषु भेदः क्वचित् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १०॥ भीरस्तु द्वितयान्न सा खलु वसेज्ज्ञानैकमात्रे शिवे स्वानन्दे विततेऽद्वये सुविमले सर्वात्मकेऽरूपतः । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ ११॥ यत्पूर्व सकलस्य भिन्नमपि नो यस्मिन्विकारः क्वचित् माया नास्ति न चेश जीवकलनाऽविद्या न यस्मिन्मिषत् । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १२॥ आनन्दोऽद्वय एक एव सततं ज्ञानैकमात्रोस्म्यहम् कार्यं नाऽपि च कारणं किमपि वा ब्रह्माण्डपिण्डावपि । तद्ब्रह्मैव सनातनं विभुरहं ज्ञातं च यस्मादतः सर्वेभ्योऽप्यभयं तनोमि कुशलं ब्रह्माभयं वै यतः ॥ १३॥ अभयं सर्वभूतेभ्यो मतः सर्वं प्रवर्तते । ॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवता श्रीधरस्वामिना विरचितं अभयदानं सम्पूर्णम् ॥ लेखनकाल दिनाङ्क २९-१०-१९४२ Abhayadana means giving a promise, assurance, or guarantee of safety or protection to all the beings. This is given by sannyAsi who is granted sannyAsa by a Guru. It is also considered as a greatest gift in Buddhism.
% Text title            : Abhayadanam
% File name             : abhayadAnashrIdharasvAmI.itx
% itxtitle              : abhayadAnam (shrIdharasvAmIvirachitam)
% engtitle              : abhayadAna
% Category              : misc, shrIdharasvAmI, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : shrIdharasvAmI stotraratnAkara.
% Indexextra            : (Marathi, Collection 1, 2, buddhist)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org