.. सरस्वतीरहस्योपनिषत् . ..
प्रतियोगिविनिर्मुक्तब्रह्मविद्यैकगोचरम् .
अखण्डनिर्विकल्पं तद्रामचन्द्रपदं भजे ..
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-
माविरावीर्म एधि .. वेदस्य म आणीस्थः श्रुतं मे
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु अवतु मामवतु वक्तार-
मवतु वक्तारम् .. ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. ऋषयो ह वै भगवन्तमाश्वलायनं संपूज्य
पप्रच्छुः केनोपायेन तज्ज्ञानं तत्पदार्थावभासकम् .
यदुपासनया तत्त्वं जानासि भगवन्वद .. १..
सरस्वती दशश्लोक्या सऋचा बीजमिश्रया . स्तुत्वा जप्त्वा
परां सिद्धिमलभं मुनिपुङ्गवाः .. २.. ऋषय ऊचुः .
कथं सारस्वतप्राप्तिः केन ध्यानेन सुव्रत .
महासरस्वती येन तुष्टा भगवती वद .. ३..
स होवाचाश्वलायनः . अस्य श्रीसरस्वतीदशश्लोकीमहामन्त्रस्य .
अहमाश्वलायन ऋषिः . अनुष्टुप् छन्दः . श्री वागीश्वरी
देवता . यद्वागिति बीजम् . देवीं वाचमिति शक्तिः . प्रणो देवीति कीलकम् .
विनियोगस्तत्प्रीत्यर्थे . श्रद्धा मेधा प्रज्ञा धारणा वाग्देवता
महासरस्वतीत्येतैरङ्गन्यासः .. नीहारहारघनसारसुधाकराभां
कल्याणदां कनकचम्पकदामभूषाम् . उत्तुङ्गपीनकुचकुंभ-
मनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै .. १..
ॐ प्रणोदेवीत्यस्य मन्त्रस्य भरद्वाज ऋषिः . गायत्री छन्दः .
श्रीसरस्वती देवता . प्रणवेन बीजशक्तिः कीलकम् . इष्टार्थे विनियोगः .
मन्त्रेण न्यासः .. या वेदान्तार्थतत्त्वैकस्वरूपा परमार्थतः .
नामरूपात्मना व्यक्ता सा मां पातु सरस्वती .. ॐ प्रणो देवी सरस्वती
वाजेभिर्वाजिनीवती .. धीनामवित्र्यवतु .. १..
आ नो दिव इति मन्त्रस्य अत्रिरृषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . ह्रीमिति बीजशक्तिः कीलकम् . इष्टार्थे
विनियोगः . मन्त्रेण न्यासः .. या साङ्गोपाङ्गवेदेषु
चतुर्ष्वेकैव गीयते . अद्वैता ब्रह्मणः शक्तिः सा मां
पातु सरस्वती .. ह्रीं आ नो दिवो बृहतः पर्वतादा सरस्वती
यजतागं तु यज्ञम् . हवं देवी जुजुषाणा घृताची
शग्मां नो वाचमुशती श्रुणोतु .. २..
पावका न इति मन्त्रस्य . मधुच्छन्द ऋषिः . गायत्री
छन्दः . सरस्वती देवता . श्रीमिति बीजशक्तिः कीलकम् .
इष्टार्थे विनियोगः . मन्त्रेण न्यासः .. या वर्णपदवाक्यार्थ-
स्वरूपेणैव वर्तते . अनादिनिधनानन्ता सा मां पातु
सरस्वती .. श्रीं पावका नः सरस्वती वाजेभिर्वाजिनीवती . यज्ञं
वष्टु धिया वसुः .. ३..
चोदयित्रीति मन्त्रस्य मधुच्छन्द ऋषिः . गायत्री छन्दः .
सरस्वती देवता . ब्लूमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः ..
अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी . प्रत्यगास्ते
वदन्ती या सा मां पातु सरस्वती .. ब्लूं चोदयित्री सूनृतानां
चेतन्ती सुमतीनाम् . यज्ञं दधे सरस्वती .. ४..
महो अर्ण इति मन्त्रस्य . मधुच्छन्द ऋषिः . गायत्री छन्दः .
सरस्वती देवता . सौरिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति .
रुद्रादित्यारूपस्था यस्यामावेश्य तां पुनः . ध्यायन्ति
सर्वरूपैका सा मां पातु सरस्वती . सौः महो अर्णः
सरस्वती प्रचेतयति केतुना . धियो विश्वा विराजति .. ५..
चत्वारि वागिति मन्त्रस्य उचथ्यपुत्र ऋषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . ऐमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
या प्रत्यग्दृष्टिभिर्जीवैर्व्यज्यमानानुभूयते . व्यापिनी
ज़्' नप्तिरूपैका सा मां पातु सरस्वती .. ऐं चत्वारि वाक्
परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः . गुहा त्रीणि
निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति .. ६..
यद्राग्वदन्तीति मन्त्रस्य भार्गव ऋषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . क्लीमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता . निर्विकल्पात्मना
व्यक्ता सा मां पातु सरस्वती .. क्लीं यद्वाग्वदन्त्यविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा . चतस्र ऊर्जं दुदुहे
पयांसि क्व स्विदस्याः परमं जगाम .. ७..
देवीं वाचमिति मन्त्रस्य भार्गव ऋषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . सौरिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम् . सर्वकामदुधा
धेनुः सा मां पातु सरस्वती .. सौः देवीं वाचमजनयन्त
देवास्ता विश्वरूपाः पशवो वदन्ति . सा नो मन्द्रेषमूर्जं
दुहाना धेनुर्वागस्मानुपसुष्टुतैतु .. ८..
उत त्व इति मन्त्रस्य बृहस्पतिरृषिः . त्रिष्टुप् छन्दः .
सरस्वती देवता . समिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना . योगी याति
परं स्थानं सा मां पातु सरस्वती .. सं उत त्वः पश्यन्न
ददर्श वाचमुत त्वः श्रुण्वन्न श्रुणोत्येनाम् . उतो त्वस्मै
तन्वं १ विसस्रे जायेव पत्य उशती सुवासाः .. ९..
अम्बितम इति मन्त्रस्य गृत्समद ऋषिः . अनुष्टुप् छन्दः .
सरस्वती देवता . ऐमिति बीजशक्तिः कीलकम् . मन्त्रेण न्यासः .
नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः .
ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती .. ऐं अम्बितमे
नदीतमे देवितमे सरस्वती . अप्रशस्ता इव स्मसि प्रशस्तिमम्ब
नस्कृधि .. १०..
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम .
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती .. १..
नमस्ते शारदे देवि काश्मीरपुरवासिनि .
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे .. २..
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी .
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा .. ३..
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता .
महासरस्वती देवी जिह्वाग्रे संनिविश्यताम् .. ४..
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा .
भक्तजिह्वाग्रसदना शमादिगुणदायिनी .. ५..
नमामि यामिनीनाथलेखालङ्कृतकुन्तलाम् .
भवानीं भवसन्तापनिर्वापणसुधानदीम् .. ६..
यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति .
सोऽभैर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम् .. ७..
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम् .
भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् .. ८..
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा .
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः .. ९..
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः .
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती .. १०..
आत्मविद्या मया लब्ध्वा ब्रह्मणैव सनातनी .
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः .. ११..
प्रकृतित्वं ततः सृष्टं सत्त्वादिगुणसाम्यतः .
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत् .. १२..
तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः .
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते .. १३..
शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः .
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते .. १४..
सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि .
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु .. १५..
सात्विकत्वात्समष्टित्वात्साक्षित्वाज्जगतामपि .
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते .. १६..
यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः .
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् .. १७..
विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत्सृजेत् .
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः .. १८..
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् .
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम् .. १९..
चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः .
अस्य जीवत्वमारोपात्साक्षिण्यप्यवभासते .. २०..
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् .
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति .. २१..
या शक्तिस्त्वद्वशाद्ब्रह्म विकृतत्वेन भासते .
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः .. २२..
भेदस्तयोर्विकारः स्यात्सर्गे न ब्रह्मणि क्वचित् .
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् .. २३..
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् .
अपेक्ष्य नामरूपद्वे सच्चिदानन्दतत्परः .. २४..
समाधिं सर्वदा कुर्याधृदये वाथ वा बहिः .
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि .. २५..
दृश्यशब्दानुभेदेन स विकल्पः पुनर्द्विधा .
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् .. २६..
ध्यायद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः .
स्वानुभूतिरसावेशाद्दृश्यशब्दाद्यपेक्षितुः .. २८..
निर्विकल्पः समाधिः स्यान्निवान्तस्थितदीपवत् .
हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि .. २९..
समाधिराद्यसन्मात्रान्नामरूपपृथक्कृतिः .
स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः .. ३०..
एतैः समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् .
देहाभिमाने गलिते विज्ञाते परमात्मनि .
यत्र यत्र मनो याति तत्र तत्र परामृतम् .. ३१..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः .
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. ३२..
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि .
इति यस्तु विजानाति स मुक्तो नात्र संशयः .. ३३..
इत्युपनिषत् ..
ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित-
माविरावीर्म एधि .. वेदस्य म आणीस्थः श्रुतं मे मा
प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधामि ऋतं वदिष्यामि
सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मामवतु
वक्तारमवतु वक्तारम् .. ॐ शान्तिः शान्तिः शान्तिः ..
इति सरस्वतीरहस्योपनिषत्समाप्ता ..
Encoded by Sunder Hattangadi (sunderh@hotmail.com)
This page uses Unicode utf-8 encoding for devanagari. Please set the fonts and
languages setting in your web browser to display the correct Unicode font.
Questions, comments:sanskrit@cheerful.com