प्रणवकल्पः प्रणवकल्पप्रकाशाख्यभाष्ययुतः

प्रणवकल्पः प्रणवकल्पप्रकाशाख्यभाष्ययुतः

श्रीः । आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना ॥ रसिकालिकुलं कुर्यादमन्दाऽऽमदमोहितम् ॥ २॥ स्तबकः-४१८ Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares The Chowkhamba Sanskrit Series No.418 The Pranavakalpa From Shri Skandapurana With the Commentary Pranava Kalpa Prakasha Pranava Bhashya by Pandit Gangadharendra Sarasvati Edited by Nyayacharya Kayatirtha Pandit Shri Dhundhiraja Shastri Principal N. Veda Vidyalaya, Benares. Jai Krishna Das-haridas Gupta, The Chowkhamba Sanskrit Series Office, Benares. 1933. All Rights Reserved by the Publisher Printed-published and Sold by Jai Krishnadas-haridas Gupta, The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir, Benaress City. Printed by Jai Krishna Das Gupta at the Vidays Vidas Fress, Benares.

विषयसूचीपत्रम् ।

अध्यायः १ १.१ प्रणवजपे परमहंसानामेवाधिकारप्रदर्शनम् । १.२ प्रणवकवचम्, प्रणवपुरश्चर्याविधिकथनम् । १.३ प्रणवहृदयम् १.४ प्रणवजपमहिमा । शौनकादिकृता सूतप्रशंसा अध्यायः २ २.१ शौनकादीनामष्टोत्तरशतनामश्रवणप्रश्नः । प्रणवस्य सर्वदेवात्मकत्वकथनम् । अष्टोत्तरशतनामऋष्यादिवर्णनम् । २.२ ओङ्काराद्यष्टोत्तरशतनामकथनम् । तत्र मातृकावर्णक्रमेणाकारादिनामारम्भः । ञकारठकारादिनाम्नामसम्भवात्तन्मध्यनामकथनम् । लकारादिनामदौर्लभ्यात्तदुपान्त्यनामकथनम् । अष्टोतरशतनामपाठफलतदधिकारिकथनम् । २.३ अथर्वरहस्यप्रणवषोडशनामवर्णनम् । उक्तषोडशनामकथनप्रयोजनम् । षोडशनामपाठफलकथनम् । अध्यायः ३ ३.१ प्रणवपञ्जरवर्णनम् । सर्वशास्त्रवित्त्वरूपपञ्जरपाठफलप्रशंसा । ३.२ प्रणवनाममालामन्त्रवर्णनम् । प्रणवनाममालामन्त्रपाठफलकथनम् । ३.३ प्रणवगायत्रीवर्णनम् । प्रणवगायत्रीतात्पर्यार्थकथनम् । प्रणवगायत्र्यक्षरार्थव्याख्यानम् । ३.४ प्रणवयन्त्रप्रतिपादनम् । मन्त्रदेवताप्रकाशिकोक्तं तल्लक्षणम् । प्रणवयन्त्रलेखनविधिः । ३.५ वेदान्तार्थपरप्रणवस्तवराजवर्णनम् । स्तवराजश्रवणादिफलकथनम् । ३.६ प्रणवनवांशगुणमाहात्म्यादिप्रकाशकाक्षरमालिकास्तोत्रवर्णनम् । तत्र नवांशविशिष्टोङ्कारध्यानविधिः । नवांशान्तर्गतप्रथमांशा१कारस्य विष्णुरूपेण ध्यानम् । २ उकारांशस्य ब्रह्मरूपेण ध्यानविधिः । ३ मकारांशस्य शिवस्वरूपेण ध्यानविधिः । ४सुषुप्तिसमष्ट्यात्मकरूपप्रपञ्चाकारणेश्वररूपेण बिन्द्वंशध्यानवर्णनम् । ५सदाशिवरूपशब्दब्रह्मस्वरूपेण नादांशध्यानम् । ६ सर्वम्बीजभूतोङ्कारध्यानविधिः । ७ ओङ्काररूपदेवीध्यानम् । ८ अर्धमात्रात्मकप्रणवध्यानम् । ९ शान्ताख्यनवमांशध्यानविधिः । ओङ्काराक्षरमालिकास्तवपाठफलकथनम् । ३.७ प्रणवानुस्मृतिवर्णनम् । अनुस्मृत्यनुसन्धानफलश्रुतिः । ३.८ अङ्गस्तुत्याद्यनुस्मृत्याङ्गजपप्रशंसा । अङ्गश्रवणेन शौनकादीनां हर्षस्तत्कृतसूतोत्कर्षवर्णनम् । अध्यायः ४ *पार्वत्यानन्ददायकप्रणवगीतावर्णनारम्भः । *गीताशब्दार्थः । *तारकब्रह्मध्यानात्पार्वत्यास्तत्साक्षात्कारः । *विदेहमुक्तौ जीवन्मुक्तौ च ध्यातॄणां स्थितिवर्णनम् । *साक्षात्कारविश्रान्तिकाले आकाशवाण्या कृतं देवीप्रणवजपादिप्रशंसावर्णनम् । *प्रणवजपे सन्न्यासिनामेव तत्कल्पश्रवणादौ च चतुर्णामप्याश्रमाणामधिकारः । *प्रणवस्यैव सर्वात्मकत्वं ब्रह्मतद्विद्यात्मकत्वं चेति प्रतिपादनम् । चिदात्मन एव सर्वद्रष्टृत्वम् । *उक्तार्थप्रतिपादकतलवकारोपनिदाख्यानसूचनम् । *प्रणवार्थज्ञानाय श्रवणादिविधानम् । *सत एवात्मनोऽवस्थात्रयजीवन्मुक्त्यादिरिति कथनम् । *ब्रह्माद्वयसिद्धावुपनिषदादिप्रमाणपञ्चकवर्णनम् । *उक्तार्थकाऽऽकाशवाण्याः पार्वतीमुखाच्छ्रवणे शिवयोस्तन्निश्चयवर्णनम् । *कुटीचकादीनां परमहंसवत्प्रणवजपेऽनधिकार इति वर्णनम् । *यतिबटुनारीणां गायत्रीप्रणवमन्त्रजपे दोषकथनम् । *गायत्रीगीतागायनफलश्रुतिः अध्यायः ५ द्वैपायनशब्दार्थः । सहस्रनामश्रवणार्थं शौनकादिप्रश्नः । सूतोक्तं प्रणवसहस्रनामप्रश्नप्रशंसावर्णनम् । सहस्रनामऋष्यादिवर्णनम् । सहस्रनामध्यानम् । ॐकारादिसहस्रनामप्रारम्भः । यथासम्भवमकारादिवर्णानुक्रमेण नामानि । सङ्ख्यापूरकरुद्राध्यायीयनामकथनम् । शिवशब्दार्थः । भक्त्यतिशयाच्चतुर्थ्यन्तसम्बन्ध्यन्तनामकथनम् । सहस्रनामपाठफलवर्णनम् । ग्रन्थसमाप्तिः । यतिप्रवरगङ्गाधरेन्द्रसरस्वतीविरचितेन प्रणवकल्प प्रकाशाख्य-प्रणवभाष्येन समलङ्कृतः प्रणवकल्पः ।

अथ प्रथमोऽध्यायः ।

श्रीगणाधिपतये नमः । गुरुगणपतिशम्भुश्रीशवाणीशदुर्गा- रविशशिशुचिमुख्यान्सर्वगीर्वाणनाथान् । प्रणवमपि च वेदान् व्यासपूर्वांश्च नत्वा प्रणवहृदयकल्पं व्याचिकीर्षे शिवोक्तम् ॥ प्रणवजपध्यानार्थविचारादौ यज्ञदानतपोविशोधितचित्तानां तीव्रमुमुक्षापर्यवसितसाधनसम्पन्नानां ब्राह्मणानामेवाधिकार इति प्रदर्शनार्थमाख्यायिका प्रस्तौति-- सत्रान्ते नैमिषारण्ये शौनकस्य महीयसः । आसीनं मुनिशार्दूलं सूतं पौराणिकोत्तमम् ॥ १.१.१॥ *सत्रान्त इत्यादिना* । महीयसः महत्तरस्य कुलपतेरिति यावत् । अब्राह्मणस्य सूतस्य कथं ब्राह्मणेभ्यः प्रणवतत्त्वोपदेशे अधिकार इति आशङ्कावारणाय विशिनष्टि मुनिशार्दूलमिति, पौराणिकोत्तममिति च । यावत्पुराणोपदेशकालव्यासवरप्रसादप्राप्तब्राह्मणोत्तमत्वसार्वज्ञ्यादि- सर्वकल्याणगुणसम्पन्नमिति भावः ॥ १॥ समागत्य परीकृत्य शौनकाद्या महर्षयः । यथेष्टाः सत्कथाः पुण्याः पर्यपृच्छन् मुमुक्षया ॥ १.१.२॥ समागत्य विधिवदुपगम्य, परिवृत्य परिवार्य, ``उपसर्गस्य घञ्यमनुष्ये बहुलम्'' इत्यत्र बहुलग्रहणादन्यत्रापि दीर्घः । यथेष्टाः यथाभिलषिताः । मुमुक्षयेति साधनचतुष्टये उत्कटमुमुक्षाया एव सर्वसाधनसम्पादने श्रवणादिज्ञानफलान्ते व्यापारे प्रसह्य प्रवर्तकत्वप्रदर्शनार्थम् ॥ २॥ मन्त्रान्प्रसञ्जयंस्तत्र शौनकः प्रत्यभाषत । शौनक उवाच-- सूत सूत महाप्राज्ञ व्यासशिष्य महामते ! ॥ १.१.३॥ तत्र तेषु पृच्छत्सु मुनिषु मध्ये सर्वाभिप्रायज्ञः शौनको मन्त्रान्प्रसञ्जयन् अवश्यवर्णनीयतया प्रस्तावयन्, प्रत्यभाषत अपृच्छत् ॥ ३॥ तत्रादौ स्वाभिलषितमन्त्रानुवर्णने तव सामर्थ्यमस्त्येवेत्याशयेनाह श्रुताः पुराणसंसिद्धाः मन्त्रगोप्याश्च तत्कथाः । सत्कथाः कृष्णद्वैपायनाद्विष्णोस्तत्कटाक्षस्त्वयि प्रभो ! ॥ १.१.४॥ *श्रुता इति सार्धेन*, साक्षाद्विष्णोः कृष्णद्वैपायनात् श्रुतास्त्वयेति शेषः । तस्य कृष्णद्वैपायनस्य कृपाकटाक्षश्च ब्राह्मण्यसार्वज्ञ्यादिसम्पादकत्वस्य प्रसृतः । अतः प्रभो समर्थ ! ॥ ४॥ अज्ञातं तव नास्त्येव तस्मात्पौराणिकोत्तम ! । सप्तकोटिमहामन्त्राः साङ्गोपाङ्गा जयन्ति वै ॥ १.१.५॥ जयन्ति जपितुः पापदुःखाद्यभिभवन्ति फलोत्कर्षेण सर्वोत्कर्षं च प्रापयन्ति ये, इत्यर्थः । वैशब्दः प्रसिद्धौ ॥ ५॥ अपवर्गप्रदः को वा तत्र नो वद भूसुराः । यज्जपान्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १.१.६॥ तत्र तेषु मन्त्रेषु, भूसुराः अधिकारिणः विष्णोः, परं पदं मोक्षं यान्ति प्राप्नुवन्ति । पाठान्तरे हे भूसुरेति सूतसम्बोधनं व्यासानुग्रहं लब्ध्वा ब्राह्मण्यसूचनार्थम् ॥ ६॥ इत्युक्तो मुनिभिः सूतः प्रोवाच मुनिसत्तमान् । सूत उवाच--- भो भो हे मुनयः श्रेष्ठाः ! साधु पृष्टं महात्मभिः ॥ १.१.७॥ *मुनिभिरिति* ॥ उक्तप्रकारेण शौनकमुखेन उक्तः पृष्टः सूतः । भो भो इति पूजावचनस्य भवच्छब्दस्य ``विभाषा भवत्भगवदघवतामोच्चावस्येति (वार्त्तिकेन ) कृतौत्वस्य अभीक्ष्ण्यद्योतनात् ``नित्यवीप्सयोरिति कृतद्विवचनस्य सम्बुध्यन्तस्य प्रयोगो, न तु सम्बोधनमात्रद्योतिनो निपातस्य, तेन सम्बोधनद्योतिनो हेशब्दस्य न पौनरुक्त्यम्, वाचकानामेवोक्तार्थानामप्रयोगो न तु द्योतकानां, बहुभिरपि दीपैरेकस्यार्थस्य द्योतनदर्शनादिति वा न पौनरुक्त्या दोषः । अथवा भो भो इति प्राधान्याच्छौनकस्य सम्बोधनम्, हे मुनय इत्यन्येषाम् । महात्मभिर्भवद्भिः साधु पृष्टम् ॥ ७॥ तेषां मुमुक्षापर्यवसितसर्वसाधनसम्पत्त्या श्रवणाधिकारलक्षणं श्रैष्ठ्यमुक्तमुपपादयति - var श्रैष्ठ्यमुपपादयति संसारासारबुद्धीनां मोक्षेच्छा भवति ध्रुवम् । शार्द्दूलपशुजातीनामाश्रमप्रान्तवर्तिनाम् ॥ १.१.८॥ *संसारेत्यादिना* संसारः न विद्यते सारः सत्यनित्यपरमानन्दलक्षणः पुरुषार्थों यस्मिंस्तथाविधः सारसुखविरुद्धदुःखप्रचुरश्चेति बुद्धिर्येषाम् । अनेन नित्यानित्यवस्तुविवेक इहामुत्रफलभोगविरागश्च तेषां दर्शितः । var विरामश्च शमदमादिसम्पत्तिं दर्शयति-*शार्दूलेति* ॥ यदा वः आश्रमप्रान्तवासिनां शार्द्दूलगवादिपशुजातीनां नैसर्गिकमपि परस्परवैरं नास्ति तदा वस्तत्कुतोऽस्ति, अतः वो वाञ्छितं प्रणवरहस्यं वक्ष्यामीति परेणान्वयः ॥ ८॥ अपवर्गप्रदः को वा मन्त्र इति प्रश्नस्योत्तरत्वेन प्रणवमेवावधार्य प्रस्तौति नास्ति वैरं कुतो वोऽस्ति ततो वक्ष्यामि वाञ्छितम् । अपवर्गप्रदो नूनं प्रणवान्न परो मनुः ॥ १.१.९॥ *अपवर्गप्रद इत्यादिना* ॥ ९॥ ततो यूयं तमेवेत्थं मन्त्रं जपत सत्तमाः ! । नृसिंहमन्त्रराजाद्यास्तारतम्यफलप्रदाः ॥ १.१.१०॥ तारतम्यफलप्रदाः सकामानां काम्यफलप्रदा, निष्कामानां क्रममुक्तिप्रदाः ॥ १०॥ तस्माज्जपत तं यूयं साङ्गं मनुमनुत्तमम् । अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥ १.१.११॥ (ब्रह्म वै सत्यं सत्यं पुनः सत्यम् ) तं प्रणवं, साङ्गं वक्ष्यमाणाङ्गसहितं मनुं मन्त्रम् । ``यत् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या न मन्यन्ते, किमु तत् ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमवदिति'' श्रुतौ यथा ब्रह्मेत्यज्ञातस्वतत्त्वं प्राक् ब्रह्मविद्याधिकारि तदेव प्रमाणसाक्षीकृतस्वतत्त्वब्रह्मविद्याफलमिति दर्शितं, तथा अत्रापि प्राक् उपासनादिना अनाविर्भूतस्वतत्त्वा साधकबुद्धिरूपा प्रणवात्मिका उमेव प्रणवविद्याऽधिकारिणी पश्चाच्च प्रणवोपास्त्यादिना आविर्भूतस्वतत्वा सैव सौपास्त्यादिफलमिति प्रदर्शनाय प्रणवाक्षरद्योतिताभिधानां ब्रह्मविधिदेवतां पार्वतीं प्रष्ट्रीत्वेन प्रणवार्थभूतं शङ्करं च वक्तृत्वेन परिकल्प्य साङ्गप्रणवकलावधारणोपासनफलावाप्तिपर्यन्त- व्यापारानुवर्णनेनानादिकालप्रवृत्तामाख्यायिकां प्रस्तुतानुवर्णनसिद्ध्यर्थमवतारयति *अत्रैवेति* ॥ ११॥ पुरा गौर्या महादेवः पृष्टो व्याचष्ट भूसुराः । कदाचिदीश्वरः शम्भुस्तपस्तेपे हिमाचले ॥ १.१.१२॥ व्याचष्ट विविधाङ्गकलापसहितमाचष्टेति सङ्क्षिप्योक्तिः, तां विस्तरेण विवृणोति *कदाचिदित्यादिना* । ईश्वरः सर्वशक्तिसम्पन्नःशम्भुः सर्वसुखकरः, अनेन शिष्यानुग्रहसमर्थः परमदयालुश्च गुरुः स्यादिति सूचितम् । तपश्चरणादिकथनं तु तपस्विन एव गुरवः शुश्रूषापरानेव शिष्यानुपदिशेयुरित्याचारशिक्षणार्थम् ॥ १२॥ पार्वती कन्यका भूत्वा देवं शुश्रूषया सदा । तोषयामास तान्देवस्तुष्टः प्रोवाच सस्मितम् ॥ १.१.१३॥ कन्यका भूत्वेत्युक्तिबल्यात्प्रभृति मोक्षाय यतितव्यमिति सूचनाय । सदा शुश्रूषया देवं तोषयामास । ब्रह्मविद्याधिदेवतायाः ब्रह्मविच्चेष्टया गुरुशुश्रूषादिविडम्बनमाचारशिक्षणपूर्वकं सकलात्मविद्याप्रकटनेन लोकानुग्रहमात्रं प्रयोजनम्-इति देव्याशयपरिज्ञानसूचनाय सस्मितम् ॥ १३॥ अत एवेश्वरो देवीमुखेनैवेममर्थं प्रकटीचिकीर्षुः कौतुकार्थं ब्रह्मविद्यायां देव्या अनधिकाराभिसन्धिरिव तां प्रथमं धनधान्यादिक्षुद्रफलेन प्रलोभयति-- ईश्वर उवाच-- वरं वृणीष्व हे गौरि ! प्रीतोऽस्मि तव सेवया । नासाध्यं विद्यते मेऽत्र धनधान्यगृहादिषु ॥ १.१.१४॥ *वरमिति* ॥ १४॥ इत्युक्ता वचनं प्राह मेघगम्भीरया गिरा । पार्वत्युवाच -- भवं त्यजामि येनाहं मोक्षं ब्रह्माप्तिलक्षणम् ॥ १.१.१५॥ मेघगम्भीरया गिरा इति उक्ता सती प्रसन्ने शिवे संसाररोगमूलोपच्छेदोपलक्षितनित्यनिरतिशयानन्दप्राप्त्युपाय एव प्रार्थनार्हो न क्षुद्रफलमित्याशयेन पार्वत्युवाच *भवमिति* ब्रह्माप्तिराभूतब्रह्मस्वभावेन स्थितिस्तल्लक्षणम् ॥ १५॥ प्राप्नुयां तमिमं देव ! मन्त्रं मह्यमुपादिश । आह पृष्टस्तया देवो मैवं वद शुभेक्षणे ! ॥ १.१.१६॥ सकलापमुपादिश अर्थविवरणेन आदिश । कौतुकाभिसन्धिमाविष्कुर्वन्नीश्वरः प्रणवाधिकारणो निरूपयितुं देव्याः मन्त्रं मह्यमुपादिशेत्युक्तिरयुक्तेति निराचष्टे-*मैवमिति* ॥ शुभं शास्त्रानुसारि ईक्षणं यस्यास्तथा विधे ॥ १६॥ अयुक्ततामेव दर्शयति--- अज्ञाननाशनद्वारा प्रणवो मोक्षदायकः । न तत्र योग्यता तेऽस्ति यतो नारी भवस्यहो ॥ १.१.१७॥ *अज्ञानेत्यादिना*योग्यता अधिकारः ॥ १७॥ यत्र धर्मस्कन्धभूतस्याश्रमत्रयस्यापि नाधिकारस्तद्दूरे स्त्रीशूद्रादीनामधिकारप्रत्याप्सेत्याशयेनाह-- गायत्र्यां द्विजसङ्घानां यतीनां प्रणवे रतिः । नारीणां भर्तशुश्रूषा न जपो न तपो व्रतम ॥ १.१.१८॥ *गायत्र्यामिति* ॥ केषां तर्ह्यधिकारस्तत्राह *यतीनामिति* । मोक्षाय यतनशीलानां चतुर्थाश्रमिणां, रतिः प्रीतिरधिकार इति यावत् ॥ स्त्रीणां तर्हि क्वाधिकारस्तत्राह भर्तृशुश्रूषेति* । यद्यपि चिरण्टीनां तपोव्रतादौ भर्त्त्रा सहाधिकारोऽस्त्येव तथापि स्वातन्त्र्येण तन्निषेधः । कन्याविधवयोः पितृपुत्राद्याज्ञयैवाधिकारः ॥ १८॥ ततो वरय राज्यादिप्राप्तिं यद्यस्ति ते मनः । कर्मणा मनसा वाचा ये त्यजन्ति यतीश्वराः ॥ १.१.१९॥ ततः प्रणवे अनधिकारात् । किञ्च विधिना परिगृहीतानि सन्ध्यावन्दनाग्निहोत्रादिनित्यनैमित्तिकदिवाकर्माणि तत्फलविविदिषावैराग्यादिसम्पत्यनन्तरं विधिनैव त्यक्तवतां प्रणवेऽधिकारः, न च स्त्रीणां तत्परिग्रहः परित्यागो वा वैधोस्तीत्याह-*कर्मणा*इति ॥ १९॥ गायत्रीमथ सावित्रीं तेषां प्रणवयोग्यता । आह पृष्टैवमीशानं मैवं भाषस्व शङ्कर ! ॥ १.१.२०॥ गायत्रीसावित्रीग्रहणं त्रिकालसन्ध्यादिसर्वकर्मोपलक्षणम् । एवं कौतुकादीश्वरेण निरस्ताधिकारा अधिकारे हेत्वन्तरमस्ति चेद्वदेति पृष्टा पार्वती स्वाशयमाविष्कर्त्तुं कौतुकोक्तिरार्जवेन भक्त्या पृच्छत्सु मादृशेष्वयुक्तेत्याशयेनाह *मैवं भाषस्वेति* ॥ अयं भावः । सन्न्यासिनामेव प्रणवाधिकारो न स्त्रीणामिति नियमो मनुष्येष्वेव न देवेषु, सर्वसाधनविशुद्धिरूपा साक्षात्प्रणवात्मिका ब्रह्मविद्याधिदेवता चाहं लोकानुग्रहाय शुश्रूषादिसदाचारव्यवहारेण प्रश्नोत्तरानुव्यापारेण त्वमुखान्मत्स्वरूपामेव प्रणवविद्यां साङ्गां जगति प्रकटीकर्तुं प्रवृत्ता न स्वार्थम् । भवं त्यजामि येनाहं मोक्षं ब्रह्माप्तिलक्षणमिति मदुक्तिरपि स्त्रीपुन्नपुंसकादिसर्वरूपा या मम साधकानां जनानां भवतरणविषयेति सर्वज्ञस्त्वं जानास्येव । अतो न कौतुकोक्तिमात्रेण ममानधिकारस्त्वया आपादनीयः । किञ्चेदमनधिकारापादनं न त्वत्कर्त्तृके प्रणवोपदेशे अविमुक्तोपासकस्याविमुक्ते म्रियमाणस्य च स्त्रीपुन्नपुंसकस्थावरादिजन्तुमात्रस्य त्वया प्रणवरहस्योपदेशनात् ॥ तथा च श्रुतिः ``अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे, येनासावमृतीभूत्वा मोक्षीभवतीति, तस्मान्मैवं भाषस्वेति सुष्ठूक्तमिति ॥ २०॥ यदि तु ``ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति श्रुतिदर्शितदिशा ब्रह्मैव स्वाज्ञानात्स्त्रीपुन्नपुंसकस्थावरादिदेहेषु संसरदविमुक्तमरणकाले प्रारब्धकर्मक्षयकाले वा त्वदनुग्रहदग्धपापमुपदेशाधिकारीति मन्यसे, तर्ह्यहमप्यन्ततो विशुद्धा ब्रह्मैवास्मीति सदैव तवार्द्धाङ्गभागिनी प्रेयसी कुतो नाधिकारिणीत्याशयेनाह-- क्लीबश्च पुरुषो योषा चरं चाचरमेव च । सर्वं ब्रह्म न तद्भिन्नमद्वैतं परमार्थतः ॥ १.१.२१॥ *क्लीबश्चेति* ॥ २१॥ तस्मान्मनुष्यस्त्रीणामुपनयनाध्ययनासंस्कृतत्वान्मनुष्यकर्तृके प्रणवोपदेशेऽस्त्यनधिकारः । देवानां तु न ह वै देवान्पापङ्गच्छेदिति श्रुतेः स्वतःसिद्धविशुद्धत्वात्साधनचतुष्टयसम्पत्त्यैव प्रणवादिविद्याधिकारः सिद्ध इत्याशयेनोपसंहरति--- चतुष्टयं साधनाख्यं यत्र तत्रैव योग्यता । ततो वद मया पृष्टं तारकं भवतारकम् ॥ १.१.२२॥ *चतुष्टयमिति* । विविक्तिवैराग्यमुमुक्षाशमादयश्चेत्येवमाख्यं साधनानां चतुष्टयम् ॥ २२॥ साक्षाद्ब्रह्मतत्त्वोपदेश एव कुतो न प्रार्थ्यते तत्राह-- तारकं रूपमास्थाय ब्रह्म प्राप्नोत्यसंशयम् । तुतोष वचनं श्रुत्वा वाक्यं प्रोवाच शङ्करः ॥ १.१.२३॥ *तारकमिति । यतः साधकस्तारकोपासनात्तारकस्वररूपं स्वयमास्थाय तदाविर्भूतज्ञानाग्निनिर्दग्धकामकर्मवासनादिमलो निःसंशयं ब्रह्म प्राप्नोति नोपायान्तरेणेत्यर्थः । तथाच श्रुतिः- प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेदिति ॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात्पाशं दहति पण्डितः ॥ इति च । देव्युक्तं सप्रमाणं सोपपत्तिकं वाक्यं श्रुत्वा शङ्करस्तुतोष ॥ २३॥ ईश्वर उवाच-- कृतार्थासि कृतार्थासि मुमुक्षा यत्तवाऽस्ति भो । इत्युक्त्वोपदिदेशैनां तारकं भवतारकम् ॥ १.१.२४॥ कृतार्थासीति देवीप्रशंसापि अधिकारिबुद्धिप्रशंसैव ॥ २४॥ अङ्गान्यपि तथा तस्यै भाषते परमेश्वरः । प्रथमं कवचं दिव्यं पञ्जरं तदनन्तरम् ॥ १.१.२५॥ *अङ्गान्यपीति* ॥ यद्यपि सूतोक्तक्रमे अङ्गस्तुतिः प्रथमं दृश्यते, तथापीश्वरोक्तक्रमः कवचादिरेव ॥ २५॥ हृदयं प्रणवार्थाख्यं नाम्नामष्टोत्तरं शतम् । अङ्गस्तुति तथा मन्त्रं पुरश्चरणपद्धतिम् ॥ १.१.२६॥ प्रणवार्थं आख्याति प्रकथयतीति प्रणवार्थाख्यम् ॥ २६॥ प्रसङ्गात्सन्मन्त्रसाधारणान्यङ्गान्याह -- अङ्गन्यासं करन्यासं माहात्म्यं तदपेक्षितम् । नाम्नां सहस्रं दिव्यानां प्रणवस्य शुचिस्मिते ! ॥ १.१.२७॥ *अङ्गन्यासमिति द्वाभ्याम्* तेन मन्त्रमात्रेण प्ररोचनार्थमपेक्षितम्, अत एव प्रणवस्येति मन्त्रमात्रोपलक्षणम् ॥ २७॥ स्तवराजादिसर्वाणि मालामन्त्रमनुस्मृतिः । मन्त्रमात्रस्य सर्वस्याप्येतान्यङ्गानि पार्वति ! ॥ १.१.२८॥ आदिपदेन ऋषिच्छन्दोदेवताध्यानबीज- शक्तिकीलकाक्षरन्यासपूजाविधानादि ॥ २८॥ अङ्गहीनो मनुर्जप्तो भस्माहुतिसमो भवेत् । ओङ्कारजञ्जपूकानां जन्यान्यङ्गानि दण्डिनाम् ॥ १.१.२९॥ जपूकानां पुनःपुनर्जपशीलानां, जपेः ``क्रियासमभिहारे यङ्, जपजभेत्यभ्यासस्य नुक्, यजजपदशां यङ्, इत्युकप्रत्ययः, षष्ठीतत्पुरुषः । अङ्गानि कवचादीनि, दण्डिनामेकदण्डिनामपि ॥ २९॥ इत्येवं सकलैरङ्गैः पार्वत्या उपदिष्टवान् । जजाप च महादेवी मोक्षाय कमलेक्षणा ॥ १.१.३०॥ सकलैरङ्गैः सह प्रणवमुपदिष्टवानीश्वर इति शेषः ॥ ३०॥ आचरन्तु भवन्तोऽपि लभन्तां मोक्षमुत्तमम् । तथोपदिश सूत ! त्वं यथेशो रोमहर्षण ! ॥ १.१.३१॥ आचरन्तु साङ्गप्रणवोपासनमिति शेषः । यथा ईशः पार्वत्यै उपदिष्टवान्, एवं त्वमस्मभ्यं प्रणवरूपिणं मन्त्रं तथा सकलान्यङ्गानि च उपदिशेति परेणान्वयः ॥ ३१॥ तत्रेतराङ्गसहितप्रणवोपास्तेः प्रथमत्वादङ्गविशुद्धिपूर्वकत्वादीशोक्त- पाठक्रमादार्थक्रमवलीयस्त्वमाश्रित्य सूतः प्रथममङ्गस्तुतिं वक्तुं प्रतिजानीते-- अङ्गानि सकलान्येवं मन्त्रमोङ्काररूपिणम् । इति प्रणवकल्पपीठिका । अङ्गानां च विशुद्धयर्थमङ्गस्तुतिमहं ब्रुवे ॥ १.१.३२॥ *अङ्गानामिति ॥ मस्तकादीनां सर्वाङ्गानां स्वस्वोचितचेष्टाभिः प्रणवैकप्रवणताप्रार्थनेन तत्परत्वलक्षणगुणोत्कर्षकताप्रतिपावनमङ्गस्तुतिं ब्रुवे ॥ ३२॥ मस्तक ! त्वं दैवतानि नम प्रणवरूपिणम् । युवां च श‍ृणुतं श्रोत्रे ! प्रणवार्थे च नान्यथा ॥ १.१.३३॥ हे मस्तक ! त्वं पृथक् दृष्टौ त्रयस्त्रिंशत्कोटिदैवतानि एकत्वदृष्टौ प्रणवरूपिणमेकमीश्वरं नम प्रणामैः सदा तत्प्रवणो भव ॥ हे श्रोत्रे ! युवां च प्रणवार्थं वक्ष्यमाणं माण्डूक्यादिश्रुत्युपपादितं चकारात्तदुपपादकन्यायंश्च श‍ृणुतं, श्रवणप्रवणतामन्तरेण मा वृथा तिष्ठतमित्यर्थः ॥ ३३॥ युवां च पश्यतं नेत्रे ! प्रणवार्थविलेखनम् । युवां च वहतं हस्तौ ! प्रणवार्थस्य पुस्तकम् ॥ १.१.३४॥ विलेखनं लिखिताक्षरजातमिति यावत्, वहतं धारयतम्, दर्शनयोग्यतां प्रापयतमिति वा ॥ ३४॥ युवां च गच्छतं पादौ ! बोधको यत्र तस्य वै । मनो ! मनुष्व भद्रन्ते प्रणवार्थे शुभप्रदम् ॥ १.१.३५॥ तस्य प्रणवार्थस्य बोधको गुरुर्यत्रास्ति तत्र गच्छतम् । मनुष्व सदैव मननप्रवणं भव ॥ ३५॥ बुद्धे ! निश्चय तस्माच्च नान्यदस्तीति चित्तक ! । चिन्तयोङ्कारतात्पर्यं भेदबुद्धिनिरासकम् ॥ १.१.३६॥ हे बुद्धे ! तस्मादर्थात् ब्रह्मण अन्यन्नास्तीति निश्चय । छान्दसो विकरणव्यत्ययः । हे चित्तक ! त्वं ``नान्तः प्रज्ञम्'' इत्यादिश्रुतिदर्शितरीत्या अवस्थात्रयनिषेधेन भेदबुद्धिनिरासमोङ्कारतात्पर्यं चिन्तय ॥ ३६॥ अहङ्काराऽहङ्कुरुष्व प्रणवार्थविशोधने । मया तुल्यो न चास्तीति संसारार्णवनाशने ॥ १.१.३७॥ प्राणान् धारय मद्देहे यावदोङ्कारशोधनम् । किमत्र बहुनोक्तेन, सर्वाण्यङ्गानि मे सदा ॥ १.१.३८॥ संसारावशोषणे प्रणवार्थविशोधने चकाराद्विशोधितात्मस्वभावेऽपि मया तुल्यं नास्तीति अहङ्कुरुष्व दृढाभिमानं धत्स्व । अनुक्तान्यप्यङ्गकरणान्यत्रोक्त्या तत्प्रवणीकुर्वन्नुपसंहरति *किमत्रेति* ॥ ३७॥ ३८॥ रमन्तां प्रणवे दिव्ये न तु मन्त्रान्तरे भ्रमात् । इदं व्याप्तं यतस्तेन ब्रह्मरूपेण सर्वशः ॥ १.१.३९॥ मन्त्रान्तरे कुतो न रमन्तान्तत्राह-*इदमिति* इदं शब्दार्थात्मकं सर्वञ्जगत्, यतः शब्दार्थब्रह्मरूपेण तेन प्रणवेन शङ्कुना पर्णमिव रज्वा सर्प इव च व्याप्तम्, अतः सर्वमन्त्रतदर्थतत्फलानां प्रणवतदर्थयोरन्तर्भावादित्यर्थः ॥ ३९॥ इत्यवोचमहं विप्रा ! अङ्गस्तुतिमनुत्तमम् । इति शब्दः अङ्गस्तुतिसमाप्तिद्योतनार्थः ॥ इत्यङ्गस्तुतिः ॥ अङ्गस्तुत्या सम्पादिता अङ्गानां प्रणवैकप्रवणता पूर्वकृतैः पापैर्मा विघाति मेऽङ्गानि सुरक्षितानि तिष्ठन्त्वित्यङ्गस्तुत्यनन्तरं कवचं वक्तुं प्रतिजानीते सूत उवाच-- अथातः सम्प्रवक्ष्यामि कवचं वज्रसम्मितम् ॥ १.१.४०॥ यस्य स्मरणमात्रेण मुच्यते पातकैर्द्विजाः । कवचानां राजराजं शाश्वतम्मोक्षदं शुभम् ॥ १.१.४१॥ *अथेति* वज्रेण सम्मितं तुलितम् अभेद्यमित्यर्थः ॥ ४०॥ ४१॥ प्रणवकवचस्य ब्रह्मऋषिः । अनुष्टुप्छन्दः । परमात्मा देवता । अं बीजम् । उं शक्तिः ॥ मं कीलकम् । अकारादिभिस्त्रिभिः कराङ्गन्यासः ॥ ऋषिः कल्पादौ प्रथमं मन्त्रद्रष्टा । अनुष्टुप् अष्टाक्षरचतुष्पादा छादनाच्छन्दः । परमः सर्वोपाधिविनिर्मुक्तः आत्मा प्रत्यग्ज्योतिर्देवता मन्त्राराध्या । बीजं मन्त्रशरीरोपादानकरणम् बिन्दुः । शक्तिस्तद्धारणक्षेत्रं योनिः । कीलकं तदुभयसन्धायकं लिङ्गम् । एवं निष्पन्नस्य प्रणवस्य गुणत्रयात्मकमायात्मकबन्धमोक्षार्थे जपे विनियोगः । करपदेनाङ्गुष्ठादयो लक्ष्यन्ते, अङ्गपदेन शिरःशिखाकवचादयः । तेषु अं अङ्गुष्ठाभ्यां नमः ॥ उँ तर्जनीभ्यां नमः । मं मध्यमाभ्यां नमः । अं अनामिकाभ्यां नमः । उँ कनिष्ठिकाभ्यां नमः । मं करतलकरपृष्ठाभ्यां नमः । एवं हृदयन्यासं कुर्यादित्यर्थः ॥ ॐकारमाद्यं परमात्मरूपं संसारनाशे च समर्थमन्त्रम् । अचञ्चलं प्राप्यमजिह्मभक्तैर्ध्यायेत्सदा देशिकवाक्यमानात् ॥ १.२.१॥ * ॐकारमिति* ॥ आद्यं सर्वजगतां कारणम्, परमात्मनः शब्दब्रह्ममयं रूपं, परमात्मानं निरूपयति प्रकटयतीति वा परमात्मरूपम्, अत एव संसारस्य नाशे चकारान्निरतिशयानन्दप्राप्तौ च समर्थं मन्त्रम्, मणिमन्त्रौषधीनामचिन्त्यप्रभावः प्रसिद्धः, अजिह्मैः कौटिल्यादिसर्वदोषरहितैरार्जवामानित्वादिसर्वगुणयुक्तैरचञ्चलं परिहृतान्तर्बहिःकरणचापलं यथा स्यात्तथा प्राप्यम्, ॐकारं देशिकवाक्यमानात्साङ्गरहस्यं प्राप्य स ध्यायेदित्यर्थः ॥ १॥ न्यासं कृत्वा ततो ध्यात्वा कवचं प्रजपेत्सुधीः । ॐकारः पातु मूर्द्धानं सहस्रारेण शोभितम् ॥ १.२.२॥ यथोक्तं न्यासं कृत्वा ततो यथोक्तप्रकारेण ध्यात्वा, उच्चार्यमाणः सर्वं शरीरमूर्ध्वमुन्नयति ॐकारः सहस्रारेण पद्मेनब्रह्मरन्ध्रस्थेन शोभितं मूर्द्धानं पातु ॥ २॥ तारकं मे भ्रुवोर्मध्यमाज्ञाचक्रविराजितम् । प्रणवः श्रोत्रयुग्मं च नेत्रयुग्मं प्रपञ्चगः ॥ १.२.३॥ संसारमहाभयात्तारयतीति तारकम्, आज्ञाचक्रेण द्विदलपद्मेन विराजितं, मे भुवोर्मध्यं पातु । ब्रह्म प्रणमयतीति प्रणवः । वैखरीभावे सर्वशब्दप्रपञ्चं व्याप्य तत्प्रतिपाद्य सर्वार्थप्रपञ्चगः ॥ ३॥ नासिकां नासिकाध्यक्षस्तालू पातु परात्परः । चिबुकं सर्वदः पातु दन्तान्दानवनाशकः ॥ १.२.४॥ नासिकासञ्चारात्प्राणात्मना नासिकाध्यक्षः । परात् कार्यब्रह्मणः परः । सर्वं सर्वात्मकं ब्रह्म ददातीति सर्वदः । दानवानामसुराणामासङ्गपाप्मनां नाशकः ॥ ४॥ ओष्ठद्वयं सदा पायात्कण्ठं पातु ममाव्ययः । भुजद्वयं भुवोऽध्यक्षः करो पातु कराकृतिः ॥ १.२.५॥ सदा सर्वकालं ओष्ठद्वयं पायात् । व्ययो उपक्षयस्तद्रहितत्वादव्ययः । भुवो भूमेरध्यक्षोऽधिष्ठाता । प्रसारिताङ्गुलिकवितस्त्याकारकरस्याकृतिरिव आकृतिर्यस्य, नागराक्षरे तथा कैश्चिदोङ्कारलेखनात् । सर्वशिल्परचनाहेतुत्वाद्वा कराकृतिः ॥ ५॥ कुक्षिं मे पातु सततं पृष्ठं पातुः पुमुत्तमः । कुचद्वयं सदा रक्षेद्वेदान्तवनगोचरः ॥ १.२.६॥ सततं शाश्वतं ब्रह्म । पुमुत्तमः पुरुषोत्तमः ॥ ६॥ नाभिं पातु नराकारो जघने परमेश्वरः । गुह्यस्थानं गुह्यरूप ऊरू पातु स्वयम्भवः ॥ १.२.७॥ नराकारः पुरुषाकृतिः । गुह्यरूपः अतिरहस्यत्वाद्गोप्यरूपः । स्वयमेव परमार्थतो भवति नान्यादिति स्वयम्भवः ॥ ७॥ अवाच्यो जानुनोर्मध्ये जङ्घे जङ्घारिसेवितः । पादद्वयं तथा विष्णुः पुनर्भवहरो नखान् ॥ १.२.८॥ महिमेयत्तया तात्त्विकरूपेण च अवाच्यो वक्तुमशक्यः । नखान्पादनखान्सर्वनखान्वा ॥ ८॥ सर्वाण्यङ्गानि सर्वात्मा पातु वाणीमनःप्रियः । प्राचीनदेशतः पातु मामवाचीनदेशतः ॥ १.२.९॥ वाणीप्रियः प्राचीनदेशतः, मनःप्रियः अवाचीनदेशतः, पात्विति परेणान्वयः ॥ ९॥ प्रतीचीनप्रदेशाच्च पायात्प्रत्यक्सरूपकः । उदीचीनप्रदेशाच्च पातु मां मनुजेश्वरः ॥ १.२.१०॥ प्राच्यवाचीप्रतीच्युदीचीशब्देभ्यः पूर्वदक्षिणपश्चिमोत्तरदिग्वाचिभ्यो भवार्थे अञ्चूत्तरपदात्कः ॥ १०॥ ऊर्ध्वाधोदेशतः पातु त्रिमूर्तिस्वस्वरूपकः । पञ्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥ १.२.११॥ कारणोपाधौ त्रिमूर्तिः ऊर्ध्वदेशतः, कार्योपाधौ स्वस्वरूपकः अधोदेशतः, पात्वित्यन्वयः ॥ ११॥ ज्ञानेन्द्रियाणि तद्रूपी कर्त्ता कर्मेन्द्रियाणि च । षण्णामरीणां वर्गं च हिनस्तूर्मींश्च षण्मम ॥ १.२.१२॥ तद्रूपी ज्ञानेन्द्रियरूपी कर्त्ता, चकारात्कर्मेन्द्रियरूपी च कर्मेन्द्रियाणि पातु । स एव कामक्रोधलोभमोहमदमत्सराख्यानां षण्णामरीणां वर्गम्, अशनायापिपासाशोकमोहजरामृत्युसंज्ञाः षडूर्मींश्च हिनस्तु नाशयतु ॥ १२॥ षड्भावविकृतीर्मे च द्वन्द्वदुःखानि सर्वशः । हिनस्तु सप्तधातूंश्च निरोगान् स करोति च ॥ १.२.१३॥ स एव प्रणवो मम ``जायते अस्ति वर्द्धते परिणमते अपक्षीयते नश्यतीति'' यास्कोक्तषड्भावविकृतीः, शीतोष्णहर्षविषादादिद्वन्द्व दुःखानि सर्वदेशेषु सर्वकालेषु सर्वनिमित्तेभ्यश्च प्राप्तानि हिनस्तु, त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राख्यान् सप्तम्यधातून्वैषम्यनिवारणेन निरोगान्करोति ॥ १३॥ व्याघ्रचोरादिभीतेश्च पातु मां तत्तदाकृतिः । सूत उवाच-- मार्गभीत्या शत्रुभीत्या चोरभीत्या च कम्पितः ॥ १.२.१४॥ इदं च कवचं जप्त्वा मुच्यते भीतितस्ततः । व्याघ्रादिप्रबलग्रस्तो जपान्मुक्तिमवाप्नुयात् ॥ १.२.१५॥ तत्तदाकृतिर्व्याघ्रचोराद्याकारस्तन्निवर्त्तकारो वा, मार्गभीत्या प्रान्तरकान्तारादिषु सम्भावितव्याघ्रसर्पदावाग्न्यादिभीत्या, कम्पितः उद्विग्नः, इदं कवचं जप्त्वा ततो भीतितो मुच्यते इति परेणान्वयः ॥ १४॥ १५॥ आमुष्मिकमपि फलं महत्तममित्याह-- जपित्वा कवचं नूनं तरन्ति भवसागरम् । कवचेन युतो राजा शत्रूनिव दुरासदान् ॥ १.२.१६॥ *जपित्वेति* कवचेन युतः पुरुषो राजेव दुरासदान् शत्रूनपि तरतीति विपरिणामेन योज्यम् ॥ १६॥ तस्मात्पठन्तु सततं त्रिषु कालेषु योगिनः । ॐकारकवचं गौर्या इत्येवं शम्भुरब्रवीत् ॥ १.२.१७॥ इति प्रणवकवचं समाप्तम् । *तस्मादिति* ॥ योगिनः यतयः । इत्येवं अनेनाभिप्रायेण, शम्भुः गौर्यै ओङ्कारकवचमब्रवीदित्यन्वयः ॥ १७॥ इति प्रणवकवचव्याख्या समाप्ता ॥ अथातः सम्प्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः ! । हृदयं सर्ववेदानां सारभूतं भवापहम् ॥ १.३.१॥ अथ कवचानन्तरं प्रणवार्थस्यावश्यानुसन्धेयत्वात्, हृदयं परमरहस्यभूततात्पर्यार्थप्रतिपादकं ग्रन्थम् ॥ १॥ इदमेवाह ॐकारार्थो विशेषेण यत्र शक्यो न वीक्षितुम् । अकारश्च उकारश्च मकारश्च सबिन्दुकः ॥ १.३.२॥ *ओङ्कारार्थ इति* ॥ तत्राध्यारोपापवादाभ्यां निष्प्रपञ्चं ब्रह्म प्रणवेन बोध्यते इति प्रदर्शयिष्यंस्तदर्थं तन्मन्त्रान् विभजते *अकारश्चेत्यादिना* ॥ २॥ नादः कलाशक्तिरर्धमात्राशान्तनवांशकः । तेषामर्थं प्रवक्ष्यामि पार्थक्येन शुचिव्रताः ॥ १.३.३॥ नवांशा अवयवा यस्य स तथोक्तः । तेषामकारादीनां नवानामंशानां पार्थक्येन प्रत्येकं क्रमेणार्थं प्रवक्ष्यामीत्यर्थः ॥ ३॥ तत्र वियदादिभूतपञ्चोत्पत्तितत्पञ्चीकृतक्रमेण ब्रह्माण्डादिचतुर्विधशरीरान्तसमष्टिस्थूलप्रपञ्चाध्यारोपेण तदुपहितं जागरितावस्थं ब्रह्म अकारांशार्थ इत्याशयेनाह प्रपञ्चो जायते यस्माच्चराचरविभागतः । वर्णाश्रमादिभेदेन पशुपक्षिमृगादिकम् ॥ १.३.४॥ *प्रपञ्च इत्यादिना, इत्याह प्रथम इत्यन्तेन*यस्मान्निमित्ताभिन्नोपदानात्, चरा जरायुजाऽण्डजस्वेदजाः, अचराः उद्भिज्जाः । तत्र धर्मज्ञानाधिकृतेषु वर्णाश्रमविभेदेन, तदनधिकृतेषु पशुपक्षिमृगादिकम् ॥ ४॥ रज्ज्वादेरिव सर्पादिरविद्याहेतुको मृषा । मरौ मरीचिकानीरं यथैवं जायते जगत् ॥ १.३.५॥ मृषात्वे हेतुः *अविद्याहेतुक इति* । सर्पादिश्चेतनाध्यासे दृष्टान्तः, मरीचिकानीरमित्यचेतनाध्यासे ॥ ६॥ इत्याह प्रथमस्तत्र प्रपञ्चो न च वास्तवः । यावद्बाधं प्रमाणेन सर्पादेर्ज्जीवनं यथा ॥ १.३.६॥ वस्तुतः सूक्ष्माण्येव पञ्चभूतानि पञ्चीकरणोपाधिना अविवेकात् स्थूलताभ्रान्त्या गृहीतानि विवेकदृष्ट्या पर्यालोचने तन्तुद्रष्ट्या पर्यालोचने ततो व्यतिरिक्तः पट इव न स्थूलं नाम किञ्चिदस्ति, तथा च श्रुतिः--'' यदग्ने रोहितं रूपं तेजसस्तद्रूपं, यच्छुक्लं तदपां, यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं, वाचारम्भणम् विकारो नामधेयं, त्रीणि रूपाणीत्येव सत्यमिति । एवञ्च सूक्ष्मभूतानि तत्कार्यं समष्टिव्यष्टिलिङ्गशरीरोपहितं तद्वयवहारस्वभावस्थं ब्रह्म उकारार्थांश इत्याशयेनाह *तत्र प्रपञ्च इत्यादि, तद्द्वितीयोऽपीत्यन्तेन* प्रपञ्चः स्थूलप्रपञ्चः । ननु स्थूलप्रपञ्चस्यावास्तवत्वे प्रत्यक्षादीनां कर्मकाण्डश्रुतीनां च कथं प्रामाण्यं तत्राह *यावद्बाधमिति* यावद्बाधं प्रमाणभूतेन प्रत्यक्षादिना सिद्धमिति शेषः ॥ ६॥ एवं जीवति विश्वं च दृष्ट्वा मोहान्धचक्षुषाम् । इत्याह तद्द्वितीयोऽपि, जीवनं न च वास्तवम् ॥ १.३.७॥ अप्यर्थे चः, यथा अध्यस्तरज्जुसर्पादेर्मोहान्धचक्षुषां दृष्ट्वा कल्पितं जीवनं भयकम्पपलायनाद्यर्थक्रियासमर्थम् एवं विश्वमपीत्यर्थः । एवं च अयस्कान्तसन्निधिमात्रेण अयसि स्पन्दनमिवाधिष्ठानब्रह्मचैतन्यसन्निधानेन मायागुणानां सत्त्वादीनां प्रकाशस्पन्दावरणार्थक्रियापरिणतिव्यापारपरम्परैव परस्यासम्भेदतारतम्यवैचित्र्येण सूक्ष्मस्थूलजगद्विवर्तात्मना प्रथते न परस्परा गुणमयमायाशबलचिद्व्यतिरिक्तं जगन्नाम किञ्चिदस्तीति मकारांशार्थ इत्याह *जीवनमित्यादि, तृतीयोऽपीत्यन्तेन* जीवनं-स्थूलसूक्ष्मपञ्चसत्ता ॥ ७॥ अयसः सन्निधानेन तन्मणेश्चलनं यथा । तथाऽविद्यापि चलति जगद्धेतुत्वकारणम् ॥ १.३.८॥ तन्मणेः अयस्कान्तमणेः सन्निधानेन अयसः यथा चलनम्, तथा चित्सन्निधानेन अविद्यापि चलति, तच्चलनमेव ब्रह्मणो जगद्धेतुत्वारोपे कारणमित्यर्थः ॥ ८॥ निश्चले निर्विकारे च यथा संसार इष्यते । इत्याह तत्तृतीयोऽपि, अविद्या न च वास्तवी ॥ १.३.९॥ एतावांस्तु विशेषः - यदयश्चलनं मणौ नेष्यते, अविद्यायाः स्पन्दपरिणामोभयरूपः संसारस्तु निश्चले निर्विकारेऽपि ब्रह्मणि आरोपदृट्या इष्यते, तथा चाविद्यामात्रमेवालातचक्रतयेव जगद्भावेन भासते न ततोऽन्यत्किञ्चिदिति ज्ञानेनाऽविद्याबाधे संसारबाधसिद्धिरिति मकारांशार्थ इत्याह *इत्याहेति* ॥ इदानीमविद्याशबलात्पृथक्कृतम् अविद्यातत्कार्यबाधेऽप्युपाध्या शोधिततत्त्वपदार्थरूपमधिष्ठानचिन्मात्रं बिन्द्वंशार्थ इति दर्शयति *अविद्या न चेत्यादि, तच्चतुर्थोऽपीत्यन्तेन* ॥ ९॥ ननु तत्त्वज्ञानेन शबलान्तर्गताविद्यांशस्येव निरंशस्यापि बाधः किन्न स्यात्तत्राह-- ब्रह्म बिम्बात्मकं सत्यं जगन्नेतरदीदृशम् । अधिष्ठानमबाध्यं स्यादधिष्ठेयस्य बाध्यता ॥ १.३.१०॥ *ब्रह्मेति* । ज्ञानं हि सत्यार्थावलम्बनबलेन मिथ्याभूतमेव बाधते सत्यस्य बाध्यत्वायोगादित्यर्थः । सत्यत्वे हेतुगर्भविशेषणम् *बिम्बात्मकमिति* यथा बिम्बप्रतिबिम्बभेदाधाराधिष्ठानं मुखं न भेदवन्मिथ्या, तथा जीवेश्वरभेदकल्पनाधिष्ठानं ब्रह्मापि न मिथ्येत्यर्थः । ब्रह्मण इतरज्जगत्तु न ईदृशं न सत्यम् सत्यान्यत्वादेवेत्यर्थः ॥ फलितमाह *अधिष्ठानमिति* ॥ अधिष्ठेयस्य आरोप्यस्य ॥ १०॥ रज्वादिरिव सर्पादेः सर्वाधारः परेश्वरः । इत्याह तच्चतुर्थोऽपि, आधारत्वं न वास्तवम् ॥ १.३.११॥ सर्वाधारः सर्वस्य वियदादेरवस्थात्रयस्य च आधारः अधिष्ठानम्, परेश्वरः परम्ब्रह्म, शोधित-त्वंपदलक्ष्यार्थैक्यमखण्डैकरसच्चिदानन्दरूपवाक्यार्थो नादांशार्थ इत्याह *आधारत्वमित्यादि, पञ्चमस्तत्रेत्यन्तेन* वियदादेरवस्थात्रयस्य च आधारत्वमधिष्ठानत्वमपि अधिष्ठेयमिथ्यात्वे न वास्तवम्, नहि पुत्राभावे वन्ध्या तन्माता न भवति ॥ ११॥ ब्रह्म सत्यं जगन्मिथ्या भेदो न ब्रह्मजीवयोः । ईश्वरः संसरत्येवं जीवरूपेण जन्तुषु ॥ १.३.१२॥ यदा दर्पणस्थानीयं भेदकोपाधिभूतं जगन्मिथ्या उभयत्राप्यधिष्ठानं ब्रह्मैव सत्यं, तदा निरुपाधिमुखस्येव ब्रह्मजीवयोरपि भेदो नास्ति । यदाप्ययं संसारीवाऽभूत्तदापि जन्तुषु चतुर्विधभूतजातिषु ईश्वरो मायोपहित एव जीवरूपेण संसरति मायाकार्योपाधीनां कारणानन्यत्वादुपहितभेदासिद्धेः ॥ १२॥ यदा राजभोगसम्पन्नः सुखशय्याशयानो राजैव परितः परिजनैः पदमहिष्या च चामरव्यजनपदसंवाहनादिभिः सेव्यमानो राजरूपेण भोगी स्वात्माज्ञानपरिकल्पितभिक्षुकश्च स एव भवतीति उपाधिसद्भावदशायामपि न वास्तवैकत्वविरोधः, ततो दूरे उपाधिबाधदशायां तत्सम्भानेत्यखण्डैक्यमव्याहतमित्याशयेनाह-- राजरूपेण भोगी च भिक्षुरूपेण भिक्षुकः । इत्याह पञ्चमस्तत्र, जीवरूपं न वास्तवम् ॥ १.३.१३॥ *राजरूपेणति* ॥ त्वम्पदलक्ष्ये ब्रह्मभावसाक्षात्कारज्ञानेन सप्रपञ्चजीवभावबाधे सर्वानर्थनिवृत्तिरूपः परमपुरुषार्थः सिद्ध इति कलांशार्थ इत्याशयेनाह *तत्र जीवरूपमित्यादि, षष्ठ इत्यन्तेन* ॥ १३॥ यदा चन्द्रतत्कलानां व्यावहारिके अवयवावयविभावे सूर्यतत्किरणानां संस्थानस्थानभेदेऽपि सति अमृततेजःस्वभावो न भिद्यते तदा निरवयवसंस्थाननिष्प्रदेशचिन्मात्रस्वभावे उपाध्यपगमे क्व भेदानर्थसम्भावनेत्याशयेनाह-- चन्द्रात्कला न भिद्यन्ते सूर्यादिव च भानवः । तथा जीवा न भिद्यन्ते ब्रह्मणश्च उपाधितः ॥ १.३.१४॥ *चन्द्रादिति* ॥ १४॥ नन्ववत्साधेनुरानीयतामित्यत्र वत्सनाश इव कार्यकारणोपाधिनाशावेव जीवब्रह्मणोर्भेदकोपाधी स्याताम्, यथाहुः--``संवर्गवद्विप्रयोगोऽपि विशेषगतिहेतुः'' इति, तत्राह उपाधिनाशे नोपाधिस्तत्र यत्नस्ततो महान् । इत्याह षष्ठस्तत्रापि जीवभेदो न वास्तवः ॥ १.३.१५॥ *उपाधिनाश इति* । उपाधिनाश उपाधिर्न भवति घटाकाशभेदकघटोपाधिनाशस्याकाशभेदकत्वदर्शनात् मुखभेदकदर्पणोपाधिनाशस्य मुखभेदकत्वदर्शनाच्चन्द्रभेदकतिमिररोगनाशस्य चन्द्रभेदकत्वादर्शनाच्च, वत्सतन्नाशौ हि न धेनुभेदकोपाधी किन्तु जातिप्रयुक्तभेदस्य परिचायकौ, न चात्रोपाधिव्यतिरिक्तं भेदप्रयोजकं किञ्चित्केनचिद्वक्तुं शक्यम् असङ्गमायाव्यतिरिक्तस्योपाधिकल्पकस्य वादिभिः दुर्निरूपत्वादभावस्य प्रतियोगितदवच्छेदकभेदसिद्ध्यधीनभेदतया निरुपाख्यतया च स्वभेदसिद्धावप्यसमर्थस्य स्वाश्रयभेदोपाधितया दूरनिरस्तत्वाच्चोपाधिनाशस्य भेदकोपाधित्वसाधने प्रवृत्तस्य तव वृथैव महान् यत्नः परिश्रमो भवेदित्यर्थः । तत्रैतच्छक्यं वक्तुम्- न वाक्यार्थसाक्षात्कारेणाविद्यानिवृत्तौ आत्यन्तिकसर्वोपाधिनिवृत्तिः शक्या प्रतिज्ञातुं तत्त्वज्ञजीवनाभावप्रसङ्गेन ब्रह्मविद्यासम्प्रदायप्रवर्तकाभावप्रसङ्गात् जीवन्मुक्तिशास्त्रविरोधप्रसङ्गात्, ``तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ'' इत्यादि श्रुतिकोपात् प्रारब्धकर्मशेषवैयर्थ्यात् ``भोगेन त्वितरे क्षपयित्वा सम्पद्यते (ब्र० सू० ४। १। १९) इति सूत्रविरोधाच्चेति तत्परिहारेण जीवन्मुक्तिदशायां (न) ब्रह्मतत्त्वसमर्थनार्थः शक्त्यंश इत्याह *तत्रापीत्यादि, सप्तमीत्यन्तेन । * तत्र तस्यामविद्यातत्कार्यबाधदशायामपि जीवन्मुक्तिव्यवहारभासार्थमभ्युपगम्यमानो जीवभेदो न पूर्ववद्वास्तवः सत्यकामकर्मवासनारूपजन्मबीजोत्पादनसमर्थ इति यावत् ॥ १५॥ तत्कुतस्तत्राह स्थूलसूक्ष्मादिदेहेषु दग्धेषु ज्ञानवह्निना । दग्धवस्त्रमिवाभासशक्तिरेकाऽवशिष्यते ॥ १.३.१६॥ *स्थूलेति* । आभासो बाधितजगदाकारप्रतिभासस्तच्छक्तिरेकैव प्रारब्धशेषभोगायाऽवशिष्यते न जगद्रूपमणुमात्रमपीत्यर्थः । तत्र बुध्यारोहायानुरूपं दृष्टान्तमाह *दग्धवस्त्रमिवेति* ॥ १६॥ तथाऽऽभासः प्रतीयेत यथापूर्वं च संस्मृतिः । इत्याह सप्तमी तत्र, आभासो न च वास्तवः ॥ १.३.१७॥ ननु यथा दग्धपटे पटाकारं प्रतियन्तोऽपि प्रेक्षावन्तो न प्रावरणपरिधानाद्यर्थं तत्र प्रवर्तन्ते यथा पूर्वं मदीयः पटोऽयं शीतनिवारणादिक्षम इति संस्मृत्यभावात्तथा जीवन्मुक्तावपि पटादि नाऽऽदद्युरित्याशङ्क्याह *यथापूर्वं चेति* । ज्ञानबाधितस्यापि प्रपञ्चस्य प्रारब्धभोगार्थत्वाद्व्यवहारार्थक्रियाप्रतिभाससामर्थ्याबाधाद्यावज्जीवं यथापूर्वं संस्मृतिश्चकाराद्व्यवहारो भोगश्च सिद्ध्यतीत्यर्थः । तस्यां च दशायां जीवन्मुक्तैः ``अस्ति भाति प्रियं रूपं नाम च'' इत्यंशपञ्चकात्मके(सरस्वतीरहस्योपनिषत्-२३) जगत्यर्थ अस्तिभातिप्रियमित्यंशत्रयं ब्रह्मात्मनैव मीयते तत्त्वतो ज्ञायते, नामरूपमित्यर्द्धांशो यथापूर्वं भ्रान्तवदेव प्रतीयते न याथार्थ्येन मीयत इति तद्दृष्ट्युपहितं ब्रह्म अर्द्धमात्रेत्युच्यत इत्यर्द्धमात्रांशार्थ इत्याह *तत्राभास इत्यादि, अष्टमी यत इत्यन्तेन* ॥ १७॥ जीवन्मुक्तिदशां प्राप्य स्वानन्दमुनुभूय च । अर्द्धं च मीयते यस्मात् ब्रह्माभिन्नं च सर्वशः ॥ १.३.१८॥ यतः अंशपञ्चकमध्ये नामरूपात्मके आभासांशो न वास्तवः प्रमाविषयः सच्चिदानन्दस्तु वास्तवः अन्यांशो भ्रान्तिमात्रसिद्धः, यतश्च जीवन्मुक्तिदशां प्राप्य वास्तवं स्वानन्दमनूभूय स्थितेनैतत् ब्रह्माभिन्नमर्द्धमेव मीयते तस्मादर्द्धमात्रेति सा प्रोक्तेति परेणान्वयः ॥ १८॥ अभावस्तस्य विज्ञानमहिम्नाऽनुमितिर्भवेत् । अर्द्धमात्रेति सा प्रोक्ता प्राहैवं चाष्टमी यतः ॥ १.३.१९॥ विज्ञानमहिम्ना तु सर्वशः सर्वनामरूपांशश्च अभावो बाधश्च परमार्थतो ब्रह्माभिन्नमधिष्ठानमात्रमिति दृढनिश्चयो भवेत्, अतः सा मात्रा अर्द्धमात्रेति प्रोक्तेति स्वनामनिर्वचनरूपमष्टमीमात्रा एवं प्राहेत्यर्थः ॥ १९॥ शान्ताख्यो नवमोंऽशस्तु मुक्तानां सन्न्यासिनां निर्विकल्पसमाधौ विदेहकैवल्ये च प्रथमानं शान्तसर्वप्रपञ्चपरमपुरुषार्थभूतं निरतिशयानन्दभूमाख्यं स्वरूपमाहेत्याह -- कर्मणां न्यायतो न्यासे स्थूलसूक्ष्मादिदेहके । नष्टे जन्मान्तराभावे गुरुवेदान्तमानतः ॥ १.३.२०॥ व्यतिरिक्तं जगत्स्वस्माद्यतो नास्ति ततः स्वयम् । शान्तं निर्मलमाकाशं नित्यानन्दं च सर्वगम् ॥ १.३.२१॥ स्वे महिम्नि च संसिद्धं पर्यवस्यति केवलम् । नात्र भेदो न चाकारो न विकल्पो न कल्पना ॥ १.३.२२॥ *कर्मणामित्यादि, नवमस्तेनेत्यन्तेन* । विहितानां कर्मणां न्यायतो विहिते न्यायेनैव सन्न्यासे कृते गुरुवेदान्तमानतो जातेन तत्त्वसाक्षात्कारेण स्थूलसूक्ष्मकारणदेहके नष्टे सति बीजाभावादेव जन्मान्तराभावे सति ऐहिकमामुष्मिकं च जगद्यतः स्वतो व्यतिरिक्तं नास्ति, ततः स्वयं यतिः शान्तं नित्यानन्दं सर्वाङ्गपूर्णं स्वे महिम्नि स्वतःसिद्धं निर्मलमाकाशं सर्वतः स्वप्रकाशं केवलब्रह्मैव पर्यवस्यतीति सार्द्धद्वयार्थः ॥ तत्र शान्तशब्दप्रवृतिनिमित्तानि प्रपञ्चयति *नात्रेति* ॥ २०॥ २१॥ २२॥ न किञ्चिन्नैव किञ्चिच्च सिद्धमद्वैतमुत्तमम् । इत्याह नवमस्तत्र ततः श्रद्धत्स्व शौनक ! ॥ १.३.२३॥ न किञ्चिदिति द्वैतनिषेधे तदभावपरिशेषमाशङ्क्य *न किञ्चिदिति* तस्याप्यधिष्ठानव्यतिरिक्तस्य प्रतिषेधार्थं तत्र तासां नवांशानां मध्ये नवमोंऽश इत्याह वर्णितप्रणवार्थः ॥ श्रद्दधानैरेव सुबोधो नान्यैरित्याशयेन तदङ्गतया श्रद्धां विधत्ते *तत इति* ॥ २३॥ ज्ञात्वेदं गुरूमूलेन नानावेदान्तसङ्ग्रहम् । मुच्यते जन्मपाशेन नरो नात्रास्ति संशयः ॥ १.३.२४॥ नानावेदान्तानां तात्पर्यसङ्ग्रहरूपमिदं प्रणवहृदयं गुरुमूलेन गुरुप्रधानेन श्रवणादिना ज्ञात्वा नरो जन्मपाशेन मुच्यते, अत्र संशयो नास्ति संशयो न कार्य इत्यर्थः ॥ २४॥ शिखां सूत्रं च गायत्रीं गृहं दारान्कुमारकान् । परित्यज्य जपन्त्वेतं प्रणवं साङ्गमुत्तमम् ॥ १.३.२५॥ ॐकारहृदयं गौर्या इत्येवं शम्भुरब्रवीत् ॥ इति प्रणवहृदयम् । प्रणवहृदयज्ञानप्रधाने प्रणवजपे परमहंसपरिव्राजकानामेवाधिकार इति दर्शयति *शिखामिति* ॥ २५॥ ॐ कारहृदयमित्युपसंहारः ॥ इति प्रणवहृदयव्याख्या समाप्ता ॥ सूत उवाच-- साङ्गं प्रणवमाजप्य पुरश्चर्यां ततश्चरेत् । दशलक्षं जपः प्रोक्तस्तदर्द्धं होम उच्यते ॥ १.४.१॥ नित्यं प्रणवजपनिष्ठस्य तत्पुरश्चर्याप्रक्रारं सङ्क्षिप्याह *साङ्गमित्यादिना* प्रजप्य किञ्चित्कालं जप्त्वा, स्पष्टम्(१) ॥ १॥ तर्पणं स्यात्तदर्द्धं च सहस्रं द्विजभोजनम् । एवं कृत्वा सनियमं प्रणवात्मा प्रसीदति ॥ १.४.२॥ किमत्र बहुनोक्तेन प्रणवेन तुला न हि ॥ गायन्ति श्रुतयः सर्वा जपन्ति मुनयस्तथा ॥ १.४.३॥ सनियमं पयःफलसक्तुपावकभिक्षाशन- var भिक्षाटन स्थण्डिलशयनादिसर्वपुरश्चर्याङ्गनियमसहितम्, एवं पुरश्चरणं कृत्वा स्थितस्य पुंस इति शेषः, प्रणवस्वरूप आत्मा प्रसीदति पापदुर्वासनादिकालुष्यं हित्वा प्रकाशत इत्यर्थः । सगुणनिर्गुणब्रह्मप्रसादे अन्तरङ्गसाधनेष्वन्येषां साधनानां प्रणवेन तुला न हीत्यर्थः । श्रुतयः सर्वाः ॐ इति ब्रह्म । ॐमिति सर्वम् । एतद्वै सत्यकाम परञ्चापरं च ब्रह्म यदोङ्कारो, रसानां रसतमः परार्द्ध्यः ॐमित्येतदक्षरमिदं सर्वमित्याद्याः । मुनयः व्यासवसिष्ठसनकाद्याः ॥ २॥ ३॥ । तिष्ठन्त्वन्ये गुणाः साक्षात्परब्रह्मतत्त्वस्य सर्वप्रपञ्चबाधेन करतलामलकवदपरोक्षतया प्रतिपादकत्वमेवास्य सर्वोत्कर्षं ख्यापयतीत्याह-- वाच्यं ब्रह्म परं वस्तु महिमा केन वर्ण्यते । शुकादयोऽपि यं जप्त्वा मोक्षमापुर्निरत्ययम् ॥ १.४.४॥ *वाच्यमिति* । ये ये प्राङ्मुक्तास्ते सर्वे प्रणवप्रभावादेवेत्याह *शुकादय इति* निरत्ययं पुनरावृत्तिरहितम् ॥ ४॥ सर्वोपासनासत्कर्मफलावाप्तिरपि अकाराद्यवयवैः सर्ववाग्व्यापिनः प्रणवस्यैव सामर्थ्यादित्ययमेवैकः सर्वपुरुषार्थसिद्धिहेतुरित्याशयेनाह-- लौकिकी वैदिकी वाक्च व्याप्ता येन पलाशवत् । इत्यवोचमहं सर्वं यत्पृष्टं मुनिसत्तमैः ॥ १.४.५॥ *लौकिकीति* पलाशवत् वृन्तेन पत्रवत् । ``तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तीर्णान्येवमोङ्कारेण सर्वा वाग् सन्तृण्णा ``इति श्रुतेरिति भावः ॥ मुनिसत्तमैः सन्तृण्णा भवद्भिर्यत्पृष्टं तत्सर्वम् इति वर्णितप्रकारेणावोचमित्युपसंहारः ॥ ५॥ एवं सरहस्यं महामहिमप्रणवस्वरूपं श्रुत्वा कृतकृत्याः सन्तुष्टाः मुनयः स्वं सूतं च प्रशंसन्ति -- मुनय उचुः-- अहो भाग्यमहो भाग्यमहो फलमहो फलम् । पिता त्वं मुनिधौरेय सूत ! त्वन्मुखसागरात् ॥ १.४.६॥ *अहोभाग्यमित्यादिना* अनन्तजन्मसञ्चितसुकृतं परिपक्वभाग्यम् । तत्फलं तत्त्वज्ञानम्, अहो इत्याश्चर्ये, कल्पितात्मनः शरीरस्य सम्पादयिता यदि पिता तर्हि पारमार्थिकस्य परमात्मनः उपदेशेन सम्पादयिता त्वं कथं न पितेति भावः । सर्वमुनीनामुपदेशधुरं वहसीति मुनिधौरेयः ``धुरो यढ्ढकाविति'' (पा० अ० ४ पा० ४ सू० ७७ ) ढक् ॥ ६॥ ॐकारकल्पमौक्तेयमणिं बद्ध्वा वयं मुदा । स्वकीयकण्ठदेशेषु धारयामः प्रसादतः ॥ १.४.७॥ ॐकारकल्पलक्षणो मौक्तेयो मुक्तानायको मणिस्तं वयं स्वकीयकण्ठदेशेषु बद्ध्वा त्वत्प्रसादतो धारयामः ॥ ७॥ भासा तस्य तमो नष्टं हृदयस्थं तपोधन ! । इत्युक्त्वा मुनयः सर्वे नेमुः सूताख्यदेशिकम् ॥ १.४.८॥ तस्य मणेर्भासा तात्पर्यार्थप्रकाशलक्षणप्रभया हृदयस्थमज्ञानं तमो नष्टम्, नेमुर्नमश्चक्रुः ॥ ८॥ पठन्तु श‍ृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु । ॐकारकल्पं मुनिवृन्दसेव्यं सूतोक्तमीशोक्तमनिन्दितं च ॥ १.४.९॥ इति श्री स्कन्दपुराणे वैष्णवसंहितायां मन्त्रप्रस्तावे प्रणवकल्पे प्रथमोऽध्यायः ॥ १॥ आदौ ईशोक्तं तथा सूतोक्तम्, न विद्यते निन्दितं जन्ममरणादिदुःखम् । यस्मात्तदनिन्दितम् ॥ ९॥ इति श्रीप्रणवकल्पप्रकाशे प्रथमोऽध्यायः ॥ १॥

अथ द्वितीयोऽध्यायः ।

सर्वात्मकत्वादनन्तनामकस्य प्रणवस्य सारभूतान्यष्टोत्तरशतनामान्याचिख्यासुः सूतस्तदनुरूपमङ्गलाचरणरूपां तद्भूमिकां रचयति-- प्रणवः परमं ब्रह्म प्रणवः परमः शिवः । प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥ २.१.१॥ *प्रणव इति* परमस्य ब्रह्मणः प्रतिपादकत्वात्प्रतीकत्वाच्च परमं ब्रह्म, एवं परमस्य शिवस्य ब्रह्मविद्याशरीरस्य शुद्धचिन्मात्रस्य वाचकत्वात्प्रतीकत्वाच्च परमः शिवः, एवं सर्वजगदुपादानमायाशक्तिशरीरस्य चिन्मात्रस्य वाचकत्वादिना परमो विष्णुः, ततो हिरण्यगर्भादिसर्वदेवतात्मना अभिव्यक्तकार्यब्रह्मणो वाचकत्वादिना सर्वदेवताः ॥ १॥ मुनय ऊचुः-- सूत सूत महाप्राज्ञ व्यासशिष्य महामते ! । यस्य देवस्य नामानि लोकेषु मुनिसत्तम ! ॥ २.१.२॥ सूतसूतेत्यादरार्थं द्विर्वचः, लोकेषु प्रख्यातानीति शेषः ॥ २॥ प्रथमं नामभिर्यस्तु सर्वदेवोऽभिपूज्यते । सर्वदैवतवृन्दानां पूजने यानि नो वद ॥ २.१.३॥ साधारण्येन सर्वज्ञ ! लोकानुग्रहकाङ्क्षया । सूत उवाच-- नामानि यानि लोकेषु प्रणवस्य मुनीश्वरैः ॥ २.१.४॥ सर्वेषां देवः सर्वदेवः, सर्वदेवतात्मकत्वाद्वा सर्वदेवः ईश्वरः अभिपूज्यते, सर्वदैवतवृन्दानां प्रत्येकं पूजनेऽपि यानि नामानि साधारण्येन भवन्ति तानि नामानि लोकानुग्रहकाङ्क्षया नः अस्मभ्यं वदेति परेण सहान्वयः । सूतवाक्ये ``नामानि यानीत्या''दिर्मुनिपृष्टार्थस्यानुवाद उत्तरस्य पृष्टार्थैकनिष्ठताद्योतनार्थः ॥ ३॥ ४॥ कीर्त्यन्ते नामभिस्तैस्तु सर्वदैवतपूजनम् । सर्वदेवात्मको यस्मात्प्रणवः परिकीर्तितः ॥ २.१.५॥ यस्मात्प्रणवः सर्वदेवतात्मकः परिकीर्तितस्तस्मात्तैः प्रणवनामभिः सवदैवतपूजनं युक्तमित्यर्थः ॥ ५॥ अस्य श्रीप्रणवाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, परमात्मा देवता, अनुष्टुप् छन्दः, अम्बीजं, उं शक्तिः, मं कीलकं मोक्षार्थे जपे विनियोगः ॥ ब्रह्मा ऋषिः इति परं ब्रह्मेत्यर्थः । यद्यपि पार्वत्यै शिवेनोपदिष्टत्वात्स एव ऋषिर्युक्तस्तथापि प्रणवस्य परब्रह्मऋषिप्रसिद्धेस्तन्नाम्नामपि स एव ऋषिः, शिवस्यापि परब्रह्मत्वेन ऋषित्वलाभादिति भावः ॥ ध्यानम्-- ॐकारं प्रणवात्मबोधविलसत्प्राप्यं चिदानन्ददं सत्यं ज्ञानमनन्तमूर्तिममलं सिद्धात्मकं सर्वगम् । प्रत्यञ्चं पुरुषोत्तमाब्जभवनं व्योमाभरोमावलिं वाणीलक्ष्मिजगज्जनौ कुशलया गौर्या समेतं भजे ॥ २.२.१॥ *ओङ्कारमिति* । ``ॐकारकृतेनैव परमात्मबोधेनाविद्यावरणनिरासात्परमात्मभावेन विलसद्भिरधिकारिभिः स्वात्मतया प्राप्यम् । तथाविधस्वात्मदानेनैव चिदानन्दप्रदम्, स्वप्रकाशनिरतिशयानन्दप्रदम् । अनन्तमूर्त्तिमपरिच्छिन्नस्वरूपम् । सिद्धात्मकं स्वतःसिद्धं स्वसिद्धावन्यानिरपेक्षमिति यावत् । सर्वगं सर्वाधिष्ठानम्, अत एव प्रत्यञ्चम् क्षराक्षरातीतत्वात् । पुरुषोत्तमं सर्वप्राणिहृदयाब्जभवनम् । अथवा पुरुषोत्तमो विष्णुः अब्जस्य चन्द्रस्य भवनमावासभूतो रुद्रः, अब्जं पद्म भवनं स्थानं यस्य स ब्रह्मा, एतेषां समाहारात्मा यः परमशिवस्तद्रूपम् । व्योमवन्नीलत्वाद्व्याप्तत्वाद्वा व्योमाभरोमावलिम्, अत एव वाणी च ई च लक्ष्मीश्च तासां समाहारो वाणीलक्ष्मि, तस्य जगतश्च जनौ कुशलया गौर्या परमशक्त्या समेतम्, ॐकारं भजे जपध्यानार्थविचारादिभिर्निरन्तरं सेवे इत्यर्थः ॥ १॥ एवं ध्यात्वा ततो भक्त्या नाम्नामष्टोत्तरं शतम् । प्रणवस्य जपेद्विप्राः ! शुचिर्भूत्वा समाहितः ॥ २.२.२॥ समाहितः अव्यग्रचित्तः ॥ २॥ ओङ्कारस्तारकं सूक्ष्मं प्रणवः सर्वगोचरः । दिव्यमेकाक्षरं शुभ्रं शुद्धं निर्मलमव्ययम् ॥ २.२.३॥ उच्चार्यमाणः सर्वं शरीरमूर्ध्वमुन्नामयतीत्योङ्कारः। संसारमहाभयात्तारयतीति तारकम् । सूक्ष्मीभूय परशरीराण्यनुप्रविशतीति सूक्ष्मम् । ब्रह्म ब्राह्मणेभ्यः प्रणामयतीति प्रणवः । सर्वगोचरः सर्वव्यापी । द्योतनस्वभावं दिव्यम् । एकमेव न क्षरत्यश्नोतीति वा अक्षरम् । शुभ्रं शुभम् । अशुद्धदेहत्वनिरासित्वाच्छुद्धम् । अविद्यादिमलरहितत्वान्निर्मलम् । व्ययः अपक्षयस्तदभावादव्ययम् ॥ ३॥ सत्यो निरत्ययो देवो विश्वव्यापी प्रपञ्चगः । विष्णुर्ब्रह्मा शिवो धाता विश्वकर्त्ता जगद्गुरुः ॥ २.२.४॥ अबाध्यत्वात्सत्यः । अत्ययो नाशस्तद्रहितत्वान्निरत्ययः । दीव्यति अवस्थात्रयेण सर्गादिना च क्रीडतीति देवः । विश्वव्यापनशीलत्वात् विश्वव्यापी । स्वाध्यस्तं प्रपञ्चमधिष्ठानसद्रूपेणानुगच्छतीति प्रपञ्चगः । सर्वे देवा विशन्त्यस्मिन्निति विष्णुः । बृंहयति जगदिति ब्रह्मा । निरतिशयानन्दत्वादनन्तकल्याणगुणनिधित्वाच्च शिवः । जगद्धारयति पोषयति चेति धाता । विश्वस्य कर्ता निर्माता । जगतः परमहितोपदेष्टृत्वात् जगद्गुरुः ॥ ४॥ । १३ स्रष्टा पालयिता गोप्ता वेदकर्ताऽऽगमाकृतिः । वेदान्तवेद्यो निलयं दैवतं भवनाशकम् ॥ २.२.५॥ जगतः आदौ स्रष्टा । ततः पालयिता पोषयिता । गोप्ता उपघातकेभ्यो रक्षिता । वेदानां कर्ता कल्पदावाविष्कर्ता । आगमा रहस्यविद्यास्तदाकृतिः । वेदान्तैरुपनिषत्प्रमाणैर्वेद्यः । प्रलये निलीयतेऽस्मिन्जगदिति निलयम् । देवतानां समष्टिर्दैवतम् । भवनं भवः पुनर्जन्म तस्य नाशकं मूलच्छेदकम् ॥ ५॥ अतःपरं मातृकावर्णक्रमेण यथासम्भवं अकारादिनामान्याह-- अकारादिक्षकारान्तमातृकावर्णवाचकः । आलोचनतपःसिद्धजगदुत्पत्तिकारणम् ॥ २.२.६॥ *अकारादीति* । अकारादिसर्वमातृकावर्णात्मना प्रकृतिप्रत्ययपदवाक्यमहावाक्याद्यात्मना सर्वार्थवाचक इत्यर्थः । ``तपसा चीयते ब्रह्म'', ``स तपोऽतप्यत'', स तपस्तप्त्वा इदं ``सर्वमसृजत'' इत्यादिश्रुतिप्रसिद्धं यत् आलोचनात्मकं तपस्तावन्मात्रेण सिद्धस्य जगत उत्पत्तेराविर्भावस्य कारणम् ॥ ६॥ इनपावकवातेन्द्रमृत्युधावनकारणम् । ईश्वरब्रह्मविष्णूनां रजःसत्वतमोभिदा ॥ २.२.७॥ इनस्य सूर्यस्य पावकस्य वह्नेर्वातस्य वायोरिन्द्रस्य देवराजस्य मृत्योर्यमस्य च यद्भीत्या नियतकालं धावनं स्वस्वव्यापारे प्रवर्तनं तत्र प्रशासितत्वेन कारणम्, भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च मृत्युर्द्धावति पञ्चमः ॥ इति श्रुतेरित्यर्थः । ईश्वरो रुद्रः ब्रह्मा विष्णुश्चेत्येतेषां यथोचितक्रमेण रजःसत्वतमोगुणैरुपाधिभिर्भिद्यत इति भिदा विभिन्ना या मूर्तिस्तद्रूप इत्यर्थः ॥ ७॥ उमावाणीविष्णुपत्नीशक्तिरूपेण संस्थितः । ऊरूमस्तककर्णादिनानाङ्गविकलस्तथा ॥ २.२.८॥ तेषामेव क्रमात् उमा पार्वती वाणी सरस्वती विष्णुपत्नी लक्ष्मीरिति प्रसिद्धा याः संहारसृष्टिपालनशक्तयस्तद्रूपेणापि संस्थितः । ऊरूमस्तकं कर्णौ चेत्यादिनानाविधैरङ्गैर्व्यवहरन्नपि वस्तुतोऽशरीरत्वात्तद्विकलः अशरीरः ``अपाणिपादो जवनो गृहीता''इत्यादिश्रुतेः ॥ ८॥ ऋक्षाप्रभृतिरोगाणामालयानालयाभिधः । ऋषिवृन्दसहस्राणां ज्ञानमोक्षप्रदायकः ॥ २.२.९॥ ऋक्षा अर्शो रोगः, तत्प्रभृतीनां रोगाणामालय आश्रयो देहस्तदात्मना भ्रान्त्या प्रतीयमानोऽपि वस्तुतस्तदनालय इत्यभिधा श्रुत्यादिप्रसिद्धिर्यस्य, ``स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्''इत्यादिश्रुतेः । सहस्रशब्द आनन्त्यपरः, स्वजपादिनिष्ठानां ऋषिवृन्दसहस्राणामिह देहे ब्रह्मलोके वा ज्ञानस्य क्रमाक्रममोक्षस्य चोपासनापरिपाकतारतम्येन प्रदायकः ॥ ९॥ रूक्षाविदुरप्रज्ञानसम्पन्नस्यापवर्गदः । लुप्तलुम्पकलौपन्यत्रितयप्रतिपादकः ॥ २.२.१०॥ ॠकारादिनाम्नो लोके अदर्शनात्सादृश्यात् रूकारादि गृह्यते, ये तपोनिर्जितरसनेन्द्रियत्वाद्रूक्षस्य भैक्षस्य रसं न विदुस्तेषु स्वार्थविज्ञानसम्पन्नस्य सद्योऽपवर्गदः । लृकारादिनाम्नोप्यप्रसिद्धेस्तत्सदृशलुकारादिनामनिर्देशः, लुप्तः नष्टः अतीतः, लुम्पको लोपकर्ता वर्तमानः, लौपन्यो लोपनार्हः भविष्यपदार्थः, एतत्त्रितयप्रतिपादकः सर्वार्थप्रकाशक इति यावत् ॥ अथवा लुप्तो बाध्याऽविद्यादिस्तस्य लुम्पकश्चरमवृत्त्या रूढः परमात्मा लौपन्यो लोपनकरणीभूतश्चरमसाक्षात्कारस्तत्त्रितयस्य प्रतिपादकः प्रापक इत्यर्थः ॥ १०॥ एलादिवासनायुक्तपानीयोत्थानलालसः । ऐश्वर्याष्टकभूयिष्ठसिद्धापुरुषसेवितः ॥ २.२.११॥ एला प्रसिद्धा आदिपदादुशीरकर्पूरादि, तद्वासनायुक्तस्य पानीयस्योत्थाने सर्वसुकृतिनामुपभोगायोत्पादने लालसा वाञ्छा यस्य सः । ऐश्वर्याष्टकमणिमादिकं प्रसिद्धं, तद्भूयिष्ठैस्तत्प्रचुरैर्देवैः सिद्धैर्योगमन्त्रादिसिद्धैरापुरुषैः ईशत्पुरुषाकारैः किन्नरादिभिश्च सेवितः ॥ ११॥ ॐआदिनिखिलाम्नायमूर्द्धन्याम्नायबोधितः । औन्नत्यगर्वसन्नद्धदैतेयकुलघातकः ॥ २.२.१२॥ ॐकारादिभिर्निखिलानामाम्नायानां मूर्धनि भवैर्मूर्द्धन्यैर्महामन्त्रैराम्नायैश्च जपोपासनस्वाध्यायजन्यचित्तशुद्धिद्वारा तात्पर्यवत्प्रमाणतया च तत्त्वतो बोधितः । औन्नत्यमैश्वर्यबलादुत्कर्षस्तत्प्रयुक्तेन गर्वेण युद्धाय सन्नद्धस्य दैतेयकुलस्य विष्ण्वादिरूपेण घातकः ॥ १२॥ अज्ञानतिमिराप्लुष्टजगदाभासदीपकः । अः कंजजहरेंन्द्रादिसर्वदैवतकारणम् ॥ २.२.१३॥ अज्ञानलक्षणेन तिमिरेणान्धकारेणाज्ञानेन तिमिरेण च प्लुष्टस्य दग्धप्रायस्य जगतः आभासे प्रकाशने बोधने च दीपकः । साक्षादनुस्वारादेर्नाम्नोऽत्यन्ताप्रसिद्धेरीषच्छ्रुति- साम्येनाज्ञानेत्यादिनामोक्तिः । अः इति विसर्गात्मकमेव नाम । अथ ककारादीनि नामानि । कञ्जाज्जातः कञ्जजो ब्रह्मा हरिर्विष्णुरिन्द्रादयश्चेति सर्वेषां दैवतानां कारणम् ॥ १३॥ कार्यकारणसङ्घातदेहावासमनोरथः । खादिभूतादिभूतात्मा गम्यागम्यविचक्षणः ॥ २.२.१४॥ कार्याणां भौतिकानां कारणानां महाभूतानां च सङ्घातरूपा ये व्यष्टिसमष्टिदेहास्तेषु स्वसृष्टेषु जीवभावेन प्रविश्य आवासे मनोरथो वाञ्छा यस्य सः । ``हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि''इत्यादिश्रुतेः । खं आदिर्येषां तेषां महाभूतानां आदिभूतः कारणत्वेन स्थितः आत्मा । चक्षुरादिप्रमाणगम्ये लौकिकविषये तदगम्ये अलौकिके धर्मब्रह्मविषये च करतलामलकवदसन्दिग्धापरोक्षादिहेतुत्वाद्विचक्षणः ॥ १४॥ घर्मरश्मिप्रभाकर्ता बहिर्मुखपराङ्मुखः । चराचरस्वरूपी च छेतृछेद्यादिदूरगः ॥ २.२.१५॥ घर्मरश्मेः सूर्यस्य प्रभायाः प्रकाशनशक्तेः कर्त्ता, ``येन सूर्यस्तपति तेजसेद्धः'' इत्यादिश्रुतेः । बहिर्मुखेष्वध्यात्मतत्त्वविचारविमुखेषु विषयासक्तजनेषु पराङ्मुखः । चरा जङ्गमाः, अचराः स्थावरास्तदात्मत्वात्तत्स्वरूपी । तथात्वे प्रसक्तं दोषं निवारयति *छेतृ इति*। आदिपदाद्दग्धदाह्यं क्लेदयितृक्लेद्यं भेतृभेद्यमित्यादिप्रपञ्चरूपं, तस्य दूरगः, अध्यस्तधर्माणामधिष्ठानास्पर्शित्वादिति भावः ॥ १५॥ जप्तृसाहस्रजप्यश्च झडितिप्रतिपादितः । सर्वज्ञोऽभिज्ञविज्ञेयष्टङ्कवास्यभिसाधितः ॥ २.२.१६॥ जप्तारः सहस्रमेव साहस्राः असङ्ख्याताः यतयो यस्य, सुलोपश्छान्दसः, मुमुक्षुभिर्जपितुं योग्यो जप्यः वाचिकमानसजपार्हः । जप्यमानेन स्वेनैव झटिति अविलम्बेनाऽऽविर्भूतब्रह्मात्मभावेन प्रतिपादितः अनुभावितः । तथाप्रतिपत्त्या सर्वं स्वात्मतया जानातीति सर्वज्ञः । अभिज्ञैरनुभवनिष्ठैरेव विज्ञातुं शक्यो विज्ञेयः । इमानि नामानि ङकारादिनामालाभात्पूर्ववत् । टङ्कः पाषाणदारणः, वाशी काष्ठतक्षणी ताभ्यां द्वैतबन्धं विच्छिद्य मुक्तरूपेण साधितो न, किन्तु ज्ञानेनाज्ञानबन्धं विच्छिद्य नित्यसिद्धस्वरूपेणैव परिशेषितः इत्यर्थः ॥ १६॥ निष्ठुराकृत्तिसम्पृक्तो दम्भेतरविशेषितः । ढक्कानिदादसम्पृक्तः प्राणित्राणपरायणः ॥ २.२.१७॥ ठकारादिनाम्नोऽप्यप्रसिद्धेस्तन्मध्यं नामाह *निष्ठुरेति* ॥ दृढतरसंसारबन्धच्छेदे निष्ठुराकृत्या निर्दयाकारया चरमसाक्षात्कारवृत्त्या सम्पृक्तः var निर्दयाकृत्या मिश्रितः । यतो दम्भेतरै``र्दम्भो दर्पोऽभिमान''श्चेत्यादिभगवद्दर्शितादिशाऽऽसुरसम्पद्विलक्षणै- ``रभयं सत्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति-'' रित्यादिदैवसम्पद्भिर्विशेषितः समर्पितः । ढक्काऽत्र सकार्याविद्याविजययशःपटहस्तन्निनादसदृशैः ``निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्, अमृतस्य परं सेतुर्दग्धेंधनमिवानलमि''त्यादिश्रुतिभिः स्वतात्पर्योद्घाटनाय सम्पृक्तो मिलितः । स्वोपासकादिप्राणिनां त्राणे परायणस्तत्परः ॥ १७॥ तरुणारुणसन्दीप्तजटामण्डलमण्डितः । स्थाणुः कूटस्थलक्ष्मा च दानादानविचक्षणः ॥ २.२.१८॥ शिवरूपत्वात्तरुणारुणेन प्रतप्तकनकवत्सन्दीप्तेन जटामण्डलेन मण्डितः । सर्वसंसारशाखास्कन्धच्छेदपरिशिष्टपुरुषाकृतित्वात्स्थाणुः । कूटमिव निर्विकारं स्थितस्वरूपमेव लक्ष्म स्वरूपलक्षणं यस्य । सृष्टिस्थितिकालयोः सर्ववस्तुषु तत्तदर्थक्रियाशक्तीनां दाने प्रलयकाले उपसंहारेण पुनरादाने च विचक्षणः ॥ १८॥ धनाधिपसमाराध्यो नक्षत्रोडुपमण्डनः । पूज्यपूजकपूजा च फलरूपी फलात्मनाम् ॥ २.२.१९॥ धनाधिपेन कुबेरेण समाराध्यः । निशाकाररूपेण नक्षत्रोडुपमण्डनः । पूज्यः पूजनार्हः । पूजकः पूजाकर्ता पूजा पूजनक्रिया तत्तद्रूप इत्यर्थः ॥ एवं काम्यकर्मानुष्ठानेन स्वर्गादि फलासक्त्या फलात्मनां फलरूपी ॥ १९॥ बिम्बिनीशतसम्पूज्यो भयाभयसुकोविदः । मर्यादास्थापनाध्यक्षो यायजूकाभिवाञ्छितः ॥ २.२.२०॥ ध्येयाकारप्रतिबिम्बवत्पश्चिमवृत्तवृत्तयो बिम्बिन्यस्तासां शतैर्ध्यानयज्ञैः सम्पूज्यः । बाह्ये द्वैताभिनिवेशस्तन्मूलमज्ञानं भयहेतुत्वाद्भयं ब्रह्मात्मैक्यप्रतिष्ठा ह्यभयहेतुत्वादभयं तयोः पादशो विभागेन स्फुटम्प्रतिपादकत्वाद्भयाभयसुकोविदः । ``भीषास्माद्वातः पवते'', ``तत्त्वेव भयं विदुषोऽमन्वानस्य''इत्यादिश्रुतेः । अत एव जगन्मर्यादास्थापने अध्यक्षः स्वामी । यज्ञादिसाधनत्वात्तत्फलदत्वाच्च यायजूकैरभिवाञ्छितः ॥ २०॥ रम्भावनविहारी च लावण्यकमनीयदः । वन्दारुवन्दनीयश्च शङ्करो लोकवासिनाम् ॥ २.२.२१॥ यज्ञादिफलभोक्तृत्वरूपेण रम्भाद्यप्सरसां सम्बन्धिनि नन्दनादिवने विहारी । स्वर्गिणां लावण्यकमनीयं चन्द्रकलामयं शरीरं ददातीति लावण्यकमनीयदः । अत एव वन्दारुभिर्नतिस्तुतिपरैभक्तैर्वन्दनीयः नम्यः स्तुत्यश्च । स्वर्गादिलोकवासिनां तद्विषयभोगवूत्तितारतम्यानुसारेण मानुषानन्दादिहिरण्यगर्भानन्दान्तं शं सुखं करोतीति शङ्करः, ``एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति '' श्रुतेः ॥ २१॥ षडाननजनौ हेतुः सङ्कल्पितपदार्थदः । सर्वात्मा सर्वसम्पदः सर्वसाक्षी च सर्वदः ॥ २.२.२२॥ शङ्करत्वादेव षडाननस्य स्कन्दस्य जनौ जन्मनि हेतुः । भक्तसङ्कल्पितधर्मार्थकाममोक्षपदार्थदः । ज्ञानिनां सर्वात्मा । सम्पदर्थिनां सर्वसम्पदः । सर्वं साक्षात्पश्यतीति सर्वसाक्षी । सर्वं ददाति द्यतीति वा सर्वदः ॥ २२॥ सर्वकर्त्ता सर्वभोक्ता सर्वेश्वरनियामकः । सर्वभूतहृदावासः सर्ववस्तुस्वरूपकः ॥ २.२.२३॥ सर्वस्य कर्ता । सर्वस्य भोज्यस्य भोक्ता । सुरेश्वरनरेश्वरभुजगेश्वरादीनां सर्वेषामीश्वराणां नियामको नियन्ता । सर्वेषां भूतानां प्राणिनामात्मत्वात्सर्वभूतहृदावासः । सर्वनामरूपकल्पनास्पदत्वात्सर्ववस्तुस्वरूपकः ॥ २३॥ हव्यकव्यादिभोक्ता च कृपालुजनशेखरः । क्षितिनीराग्निपवनखसोमरविपुंङ्कृतिः ॥ २.२.२४॥ दैवे यज्ञे हव्यानां पित्रे कव्यानाम्, आदिपदान्मानुषे हन्तकारान्नानां च भोक्ता । लकारादिनामदौर्लभ्यात्तदुपान्त्यं नामाह *कृपालुजनशेखर इति* । कृपालुनां जनानां शेखरः शिरोभूषणवच्छिरसा मान्यः परमकृपालुरित्यर्थः । क्षित्याद्यष्टमूर्तिरूपत्वात्क्षित्याकृतिरित्याद्यष्टौ नामानि समस्य निर्दिष्टानि । कृतिशब्दः आकृतिपरः प्रत्येकं सम्बध्यते ॥ २४॥ शब्दब्रह्म परब्रह्म कार्यब्रह्म च ब्रह्म च ॥ सूत उवाच-- इतीदं प्रणवस्यास्य नाम्नामष्टोत्तरं शतम् । सर्वदैवतपूजायै निमित्तं वेदसम्मतम् ॥ २.२.२५॥ नामाख्यातोपसर्गनिपातप्रकृतिप्रत्ययादिघटितमूर्ति- वेदव्याहृतिसारत्वाच्छब्दब्रह्म । विराठिरण्यगर्भाद्यात्मकापरब्रह्मोपेक्षया कारणत्वेन परत्वात्परब्रह्म मकारार्थः । तत्सर्वसूक्ष्मस्थूलसृष्ट्युपहितं कार्यब्रह्मेति अकारौकारार्थः । एतावेव तत्त्वम्पदार्थौ तयोः कार्यकारणोपाधिपरित्यागेन शोधने अखण्डैकरसं समस्तप्रणवलक्ष्यमर्द्धमात्रालक्ष्यं वा ब्रह्म, स एव प्रणवार्थो महावाक्यार्थश्च तद्रूप इत्यर्थः ॥ अत्र आदौ एकत्रिंशन्नामानि, अन्ते एकादश नामानि मातृकाक्षरक्रमं विनैव निर्दिष्टानि, मध्ये षड्षष्टिनामानि यथासम्भवं मातृकाक्षरक्रमेण निर्दिष्टानि । इतिशब्दः समाप्तौ । वेदानां सारत्वेन सम्मतम् ॥ २५॥ चिद्विलासविलासाय ॐकाराय नमो नमः । यः पठेत्सततं जन्तुर्मुच्यते सर्वपातकैः । यतिभिः पठनीयं च नियमेन त्रिकालतः ॥ २.२.२६॥ यो जन्तुरधिकारी सततं नित्यं पठेत्सः । तत्र यतीनां नित्यः अन्येषां काम्यः तत्पाठ इति दर्शयति *यतिभिरित्यादिना* ॥ २६॥ सर्ववेदफलं प्रैति ब्रह्मचारी पठेद्यदि । वनस्थस्तापसीं सिद्धिं गृहस्थः कर्मणां फलम् ॥ २.२.२७॥ सर्ववेदफलमेकैकशाखाध्ययनफलम् । एवं वनस्थ एकैकतपसापि सर्वतपःसम्बन्धिनीं सिद्धिम् । एवं गृहस्थोऽपि सर्वत्र निर्विघ्नतया तत्फलसिद्धिमिति वा ॥ २७॥ नित्यं निर्दुःखमानन्दं संन्यासी लभते तदा । यस्मिन्देवे यस्य भक्तिस्तेन नामभिरेतकैः ॥ २.२.२८॥ एतकैः - एतैः, सर्वनामत्वात्प्रशंसायामकच् ॥ २८॥ चतुर्थीनमॐकारपूर्वैर्देवः स पूज्यताम् । नामान्येतानि पार्वत्यै इत्येवं शम्भुरब्रवीत् ॥ २.२.२९॥ *चतुर्थीनमॐकारपूर्वैरिति* चतुर्थ्यंतैर्नम ॐकारपूर्वैरित्यर्थः । चतुर्थीनमोऽन्तैरोङ्कारपूर्वैरिति वा शाकपार्थिवादित्वकल्पनया मध्यमपदलोपी समासः । उपसंहरति *नामान्येतानीति* ॥ २९॥ इति प्रणवाष्टोत्तरशतनाम समाप्तम् ॥ सूत उवाच -- अथर्वरहस्यप्रणवषोडशानामानि वक्तुं प्रतिजानीते -- अथातः सम्प्रवक्ष्यामि रहस्यं देवदुर्लभम् । साङ्गोपाङ्गागमानां च पठने तुल्यदं फलम् ॥ २.३.१॥ *अथात इति । साङ्गोपाङ्गानामागमानां वेदानामङ्गानि शिक्षादीनि षट्, उपाङ्गानि पुराणादीनि चत्वारि, वेदाश्चत्वारोऽङ्गिन इति । चतुर्दशविद्यास्थानानां पठने यत्फलं तत्तुल्यफलदमिति वक्तव्ये तुल्यदं फलमिति छांदसम् ॥ १॥ ॐकारः प्रणवोऽनन्तः सर्वव्यापी च तारकम् । शुक्लं सूक्ष्मं वैद्युतं च परं ब्रह्म तथैव च ॥ २.३.२॥ ॐकार इत्यादीनि पञ्चदशनामान्यथ कस्मादुच्यन्ते ? ॐकारो यस्मादुच्चार्यमाण एव सर्वं शरीरमूर्ध्वमुन्नामयतीत्यादिना अथर्वशिरसि श्रुत्यैव व्याख्यातानि तत एवावगन्तव्यानि ॥ २॥ एकश्च एकरुद्रश्च ईशानो भगवांस्तथा । महेश्वरो महादेवः प्रत्यगात्मा तथैव च ॥ २.३.३॥ प्रत्यगात्मेति नाम तु तापनीयादौ प्रसिद्धं सर्वान्तरसाक्षिचैतन्यं परम् ॥ ३॥ षोडशैतानि नामानि प्रणवब्रह्मणो द्विजाः । मुमुक्षोर्मोक्षदानाय जगादाथर्वणी श्रुतिः ॥ २.३.४॥ आथर्वणी अथर्वशिरस्तापनीयादिरूपा श्रुतिः ॥ ४॥ यः पठेत्त्रिषु कालेषु ज्ञात्वा माहात्म्यमेषु सः । अपवर्गं शुभं प्रैति जन्तुस्तेनाऽभिवीक्षितः ॥ २.३.५॥ माहात्म्यमथर्वशिराद्युक्तं ज्ञात्वा यः पठेत्सः जन्तुः जन्तुप्रायः अल्पज्ञानतपस्कोऽपि तेन प्रणवात्मना महेश्वरेण अभिवीक्षितः सन् अपवर्गफलोपहितं शुभं तत्त्वज्ञानम् प्रैति ॥ ५॥ इति प्रणवषोडशनाम समाप्तम् ॥ ईदृशं नामादिरहस्यगर्भं कल्पमेव पठनादिना परिशीलनीयं परमपुरुषार्थिभिरिति प्ररोचयन्नुपसंहरति - पठन्तु श‍ृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु । ओङ्कारकल्पं यतिवृन्दसेव्यं सूतोक्तमीशोक्तमनिन्दितं च ॥ २.३.६॥ इति श्री स्कन्दपुराणे वैष्णवसंहितायां मन्त्रप्रस्तावे प्रणवकल्पे द्वितीयोऽध्यायः ॥ २॥ *पठन्त्विति* ॥ अन्ते सूतोक्तं आदौ ईशोक्तमिति शुद्धसाम्प्रदायिकत्वं दर्शितम् । अनिन्दितमिति प्रमाणान्तराविरुद्धत्वं दर्शितम् ॥ ६॥ इति श्रीप्रणवकल्पप्रकाशे द्वितीयोऽध्यायः ॥ २॥

अथ तृतीयोऽध्यायः ।

प्रणवः परमं ब्रह्म प्रणवः परमः शिवः । प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥ ३.१.१॥ प्रणवः परमं ब्रह्मेति प्राग्व्याख्यातम् ॥ १॥ इदानीं प्रणवोपासकानां जपादिविघ्नकारिभ्यो रक्षःपिशाचादिभ्यो बाधा मा भूत् इति सर्वविघ्ननिवारकं सर्वतोरक्षाकरं प्रणवपञ्जरं वक्तव्यं सूतः प्रतिजानीते सूत उवाच अथातः सम्प्रवक्ष्यामि पञ्जरं वज्रपञ्जरम् । प्रणवब्रह्मणो विप्राः ! पापघ्नं शम्भुरब्रवीत् ॥ ३.१.२॥ *अथात* इति ॥ वज्रपञ्जरं वज्रमयं पञ्जरमिवाभेद्यम् । यद्यपि प्रथमपञ्जरपदस्य क्रतुनामश्येनादिपदवत्सादृश्यगर्भगौण्यैव प्रवृत्तेः पुनः पञ्जरपदं पुनरुक्तमिव, तथापि ``उदपेषं पिनष्टी''त्यत्र पिषेरिवापौनरुक्त्यं बोध्यम् ॥ २॥ ओङ्कारः पातु तिष्ठन्तं शयानं प्रणवोऽवतु । गायन्तं पात्वनन्तो मां भुञ्जानं परमेश्वरः ॥ ३.१.३॥ अत्र द्वितीयान्तानि मामित्यनेन सम्बध्यन्ते, प्रथमान्तानि प्रणव इत्यनेन । तिष्ठन्तम्-उपविष्टम् । शयानं निद्रोचिताङ्गविन्यासम्, भुञ्जानमभ्यवहरन्तम् ॥ ३॥ सर्वव्यापी सर्वदिक्षु सर्वाण्यङ्गानि सर्वगः । सम्यक्कर्मसु मां देवः सर्वशास्त्रेषु मायिकः ॥ ३.१.४॥ सम्यक्कर्मसु शास्त्रविहितकर्मोपासनेषु देवस्तत्तत्कर्मोपासनाराध्यदेवतास्वरूपः शास्त्रेषु ज्ञानोपायेषु प्रमाणेषु मायिको मायाधिष्ठाता, मायाशब्दान्मत्वर्थीयेण । var येऽण् मायानिवृत्तिलक्षणस्य शास्त्रफलस्य तदधीनत्वादिति भावः ॥ ४॥ निद्राणं पातु मां भद्रः करोतु शुभमव्ययम् । पादादिमस्तकान्तानि रक्षत्वङ्गानि रक्षकः ॥ ३.१.५॥ भद्रो मङ्गलरूपः, स एव प्रमादप्रसक्तदिवासन्ध्यादिकं निद्राप्रसक्तं शुभकर्मणो व्ययं निवार्य तदव्ययं करोत्वित्यर्थः । रक्षकस्तत्तदङ्गाधिष्ठातृदेवतारूपेण तत्तदङ्गरक्षकः ॥ ५॥ विनाशयेदहङ्कारं बुद्धिमात्मनि चोदयेत् । करोतु निर्मलं चित्तं निर्ममत्वादिचिन्तितः ॥ ३.१.६॥ अहङ्काराद्युपहितचिद्रूपेण तत्तदधिष्ठातृदेवतात्मना वा चिन्तितः ॥ ६॥ दौर्ज्जन्यं वर्ज्जयेद्दूरं मयि सर्वबलं बलः । सुखीकरोतु मामात्मा पैशाच्यादिभयं हरेत् ॥ ३.१.७॥ दौर्जन्यं दुष्टबीजयोनिकालदेशादिजन्मयुतं दुर्बुद्धिदोषं वर्जयेदिति, चुरादिण्यन्ताद्धेतुमण्णिचि प्रार्थनाय लिङ् । पैशाच्यादिभयं दुष्कर्मवशाद्भावि पैशाच्यादिप्रयुक्तं साम्प्रतिकपिशाचादिचेष्टाप्रयुक्तं च भयम् ॥ ७॥ सम्पन्नः सम्पदो दद्याद्विपदो विनिवर्तयेत् । मूलाधारादिषट्चक्रं पातु षट्चक्रगोचरः ॥ ३.१.८॥ अणिमाद्यैश्वर्यसम्पन्नः सम्पदः ऐहिकीः पुत्रधनादिसम्पदः, आमुष्मिकीरणिमादिसम्पदश्च विपदोप्यैहिकीरामुष्मिकीश्च । गणपत्यादि देवतारूपेण मूलाधारादिषट्चक्रगोचरः, योगबलोत्थापितकुण्डलिनीरूपेण क्रमान्मूलाधारादिषट्चक्रगोचरः सन् इति वा ॥ ८॥ भवाब्धिपोतान्मान्तत्र पतन्तमभिरक्षतु । यमभीतिकरस्तस्मादव्यान्मामतिघोरतः ॥ ३.१.९॥ यमस्यापि भीतिकरो भीषयिता ``भीषास्मादग्निश्चेन्द्रश्च मृत्युर्द्धावति पञ्चमः'' इति श्रुतेः । अतिघोरतस्तस्माद्यमात् ॥ ९॥ पुनर्जन्म निराकुर्यादानन्दं स प्रयच्छतु । पापकर्मसु मां शुभ्रो विमुखं विदधातु च ॥ ३.१.१०॥ शुभ्रः शुक्लः, मां विमुखं पराङ्मुखम् ॥ १०॥ सन्धिभ्यो मां सन्धिकर्ता पायान्मर्मसु मर्मगः । निर्ममत्वं सदा दद्यात्प्रणवः सर्वगोचरः ॥ ३.१.११॥ सन्धिभ्यः सन्धिप्रभवेभ्यो रोगेभ्यः, सर्व देहावयवसन्धीनां निर्माणकर्ता । सर्वगोचरः सर्वममताविषयावभासचैतन्यरूपः ॥ ११॥ राज्ञो भयात् मन्त्रराजोऽराजभीत्या अराजकः । पादाक्रान्तानरीन्कुर्याच्छत्रुसङ्घभयङ्करः ॥ ३.१.१२॥ अराजभीत्या इति पदच्छेदः । अराजकप्रयुक्ताद्भयादित्यर्थः । न विद्यते नियन्ता यस्य स अराजकः ॥ १२॥ सर्वं वश्यं करोत्वार्यः सर्वदा मयि तिष्ठतु । सूत उवाच-- इतीदं पञ्जरं दिव्यं प्रणवब्रह्मणो द्विजाः ॥ ३.१.१३॥ आर्यः पूज्यः । मयि रक्षकत्वेन सर्वदा सर्वाङ्गेषु पञ्जरीभूतस्तिष्ठतु ॥ १३॥ यः पठेत्सततं जन्तुर्महापातकनाशनम् । काव्यानां नाटकानां च दर्शनानां च सर्वशः ॥ ३.१.१४॥ महापातकनाशनमितीदं पञ्जरं जन्तुरधिकारिजन्मवान्यो भवेत्स महामतिः सन्काव्यादिवेदपर्यन्तानां सर्वस्य च ग्रन्थजालस्य, अर्थं वेदेति व्यवहितेन सम्बन्धः । दर्शनानां न्यायवैशिषकसाङ्ख्ययोगमीमांसाद्वयलक्षणानां षट्दर्शनानाम् ॥ १४॥ अलङ्कारमतानां च पुराणानां च सर्वशः । वेदान्तानां च वेदानां गुरुशिक्षा विना स्वतः ॥ ३.१.१५॥ अलङ्काराणां प्रसिद्धानां मतानां बाह्यषण्मतानाम्, चकारादश्वगजरत्नादिपरीक्षाशास्त्राणाम्, पुराणानां चकारात्स्मृतीनाम्, वेदान्तानामु पनिषदां, चकाराद्व्याससूत्रभाष्यादीनाम्, वेदानां कर्मोपासनाकाण्डानाम् ॥ १५॥ ग्रन्थजालस्य सर्वस्य स वेदार्थं महामतिः । ज्ञात्वा ग्रन्थार्थमेतेषां व्याख्याय छात्रकान्प्रति ॥ ३.१.१६॥ ग्रन्थजालस्य सर्वस्येति शिक्षाद्यङ्गानामायुर्वेदधनुर्वेदगान्धर्वार्थशास्त्राणां निधिमन्त्रशिल्पादिविद्यानां च सङ्ग्रहार्थम् । एतेषां सर्ववाङ्मयानां ग्रन्थार्थं ज्ञात्वा छात्रकान् शिष्यान्प्रति व्याख्याय ॥ १६॥ अन्ते वेदान्तसिद्धान्तब्रह्म प्राप्नोत्यनुत्तमम् । ओङ्कारपञ्जरं गौर्यै इत्येवं शम्भुरब्रवीत् ॥ ३.१.१७॥ इति प्रणवपञ्जरं सम्पूर्णम् ॥ अन्ते प्रारब्धभोगावसाने ॥ १७॥ इति प्रणवपञ्जरव्याख्या सम्पूर्णा ॥ सूत उवाच अथातः सम्प्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः । मालामन्त्रं पुरा शम्भुर्यथा प्रोवाच पार्वतीम् ॥ ३.२.१॥ मालामन्त्रं नाममालान्वितं मन्त्रम् ॥ १॥ ॐ नमो भगवते ॐकाराय निखिलवेदविदिताय वेदस्वरूपिणे अखिलवाग्रूपिणे वागभिन्नप्रपञ्चरूपाय परब्रह्मणे करुणाकरविग्रहाय शब्दब्रह्मणे प्रतीचे पराचे संसारपारावारतारकाय सकलकर्त्त्रे सकलभोक्त्रे सुरासुरस्वरूपाय चराचरकलेवरायाऽत्यन्तपुरुषार्थाय समस्तमुनिप्राप्याय प्रणवाय सर्वभूतहृदयाय अरूपिणे अदेहायाऽद्वैतात्मने । भगवते षड्गुणैश्वर्ययुक्ताय, ॐकारायेति विशेष्यम् । अन्यानि चतुर्थ्यन्तपदानि विशेषणानि । निखिलानां वेदानां सारत्वेन कारणत्वेन वेद्यत्वेन उपास्यत्वेन च विदिताय । अत एव वेदस्वरूपिणे । परात्मकस्य प्रणवस्येव प्राणसङ्गान्नाभ्युरःकण्ठादिदेशेषु पश्यतीमध्यमावैखरीभावेनाखिलवाग्रूपिणे ``सर्वं हीदं नामती''त्यादिश्रुतेः । घटोऽयं पटोऽयमिति नामतादात्म्यानुभवाच्च नामाभिन्नः प्रपञ्चस्तद्रूपाय । ``एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः, यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव''इत्यादिश्रुतेः परब्रह्मणे । गुरुदेवतादिरूपेणानुग्राहकत्वात्करुणाकरविग्रहाय । सर्वशब्दात्मना बृंहणाच्छब्दब्रह्मणे । प्रत्यग्दृशां प्रतीचे । पराग्दृशां पराचे । संसारलक्षणस्य पारावारस्य तारकाय । सकलस्य जगतः कर्त्त्रे निर्मात्रे । तथा सकलस्य भोक्त्रे उपभोक्त्रे । तत्र सदसत्कर्म कर्त्तुं च क्रमात्सुरासुरस्वरूपाय । अत एव सदसन्मिश्रकर्मजनितचराचरकलेवराय । अत्यन्तं पुरुषैरर्थ्यते इत्यत्यन्तपुरुषार्थः परमपुरुषार्थस्तस्मै ज्ञानफलाय । समस्तैर्मननशीला मुनयस्तैः प्राप्याय । स्वोपास्तिजपयज्ञपराणां ब्रह्म प्रणामयति बह्वीकरोतीति प्रणवस्तस्मै । सर्वभूतानामात्मत्वाद्रहस्यत्वाच्च हृदयाय । अरूपिणे इति चक्षुराद्यविषयत्वोक्तिः । अदेहायेति स्थूलसूक्ष्मकारणदेहप्रतिषेधः । अत एवाद्वैतात्मने । एतदन्तानां ॐ नमो भगवते ॐकारायेत्यत्रान्वयः ॥ भो भो नित्यशुद्धमुक्तस्वरूप ! भेदबुद्धिप्रदायिनीं ग्रहणाग्रहणरूपिणीं सकार्यां सविलासिनीं महामायां विनाशय विनाशय, कामक्रोधलोभादिशत्रून्मारय मारय, शमदमादीन् सचिवान्संयोजय संयोजय, सुधर्मिणीं महाजायां मोक्षलक्ष्मीं विवाहय विवाहय, अपवर्गसाम्राज्ये मामभिषेचयाभिषेचय, स्वरूपं प्रकटय प्रकटय, जरामरणादिपिशाचानुच्चाटयोच्चाटय, शब्दादिवृश्चिकभयं निवारय निवारय, मातृयोनियंत्रप्रपीडनं निवर्तय निवर्त्तय ॥ इत ऊर्ध्वं सम्बुध्यन्तानां पदानां विषये तत्तत्क्रियास्वन्वयः । भो भो इति आदरेण सम्बोधनाद्द्विर्वचनम् । नित्यं शुद्धं बुद्धं मुक्तं स्वरूपं यस्येति बहुव्रीहिः । नित्येत्यादि प्रत्येकसम्बोधनानि वा । ``नाहं ब्रह्मेति'' स्वात्मनि भेदबुद्धिप्रदायिनीम् । ग्रहणमन्यथा ग्रहणं देहदावात्मबुद्धिः, अग्रहण ब्रह्मस्वभावास्फूर्तिस्तदुभयरूपिणीम् ॥ सकार्यां वियदादिकार्यसहिताम् ॥ जाग्रदादिविलासैः सविलासिनीम् । सर्वाविद्यासमष्टिरूपत्वान्महतीं मायाम् । स्वार्थतत्त्वसाक्षात्कारजननेन विनाशय, भृशार्थं द्विर्वचनम् । तदर्थं प्रथमं कामादीन् शत्रून्मारय । शमादीन् सचिवान् सहायान्संयोजय । शमदमोपरतितितिक्षाश्रद्धासमाधानानि शमादयः । अनपायित्वात्सुधर्मिणीम् । महान् त्रिविधपरिच्छेदशून्यो जायते अस्यां स्वयमिति महाजाया तथाविधाम् । मोक्षलक्ष्मीं विवाहय । अपवर्गश्चरमप्रमाणफला निरतिशयानन्दावाप्तिस्तद्रूपे साम्राज्ये मामभिषेचय । स्वस्य पारमार्थिकं रूपं प्रकटय । जरामरणान्ताः षडूर्मयो जरामरणादयः पिशाचाः शब्दादयः पञ्च श्रोत्रादीनां विषयास्त एव वृश्चिकास्तेभ्यो भयम् । मातृयोनि यन्त्रपीडनं जरायुजेषु प्रसिद्धं जन्मपीडामात्रोपलक्षणम् ॥ महाभावैकगम्य! निरुपद्रव! निरतिशयैश्वर्य! बहुभयसंरक्षक ! सान्तं सलक्षणं साङ्गोपाङ्गं सोपनिषत्कं सरहस्यं वेदं बोधय बोधय, मूर्तित्रय ! मूर्तिरहित! शक्तित्रय ! शक्तिरहित ! आशापाशं छिन्धि छिन्धि, त्रिलोचनस्यापि व्यामोहैकनिदानं भगवन्तं मकरध्वजं भिन्धि भिन्धि, चतुर्दशभुवनात्मक ! निःसीमदर्शनदरीदृश्यमान ! चतुःषष्टिकलापराङ्मुख ! निखिलमन्त्रयन्त्रप्रवर्तक ! मातृकावर्णस्वरूप! कलिमलप्रध्वंसिन् ! कालभयपरावर्त्त ! विषयविपिने पतन्तं मार्गादर्शिनं मार्गमाणं त्रातारमाक्रोशन्तं क्षुत्तृष्णाव्याघ्रादिभिः पेपीयमानमार्त्तं मुमुक्षुं मामुद्धरोद्धर, आत्मन् ! प्रत्यक्शब्दवाच्य ! निरुपमवैभव ! नित्योत्सव ! अतीतद्वन्द्वदुःख ! मूढजनदुःखप्रद ! भक्तजनकल्पद्रुम ! उपनिषदेकवेद्य ! समस्तवेदबन्दिस्तुत्य ! ब्रह्मादिसमाराध्य ! स्वात्मानं मां प्रापय प्रापय स्वाहा ॥ महान्भावनं भावश्चित्तैकाग्र्ये निर्विकल्पसमाधिपर्यन्तं तदेकगम्य ! निरुपद्रव ! हैरण्यगर्भान्तानामैश्वर्याणां सोपद्रवताप्रसिद्धेः । निरतिशयैश्वर्य! बहुभ्यो भयेभ्यः संरक्षक! सान्तं वेदान्तसहितम् । सलक्षणमूहादिलक्षणग्रन्थसहितम् । अङ्गैः शिक्षादिषडङ्गैरुपाङ्गैः पुराणन्यायमीमांसाधर्मशास्त्रलक्षणैरष्टभिर्विद्यास्थानैः सहितम् । उपनिषदो गुह्यविद्या तत्सहितम् । सरहस्यमित्यादिना मन्त्ररहस्यसहितम् । वेदं मां बोधय बोधय । सर्गादिव्यवहारार्थं हे ब्रह्मविष्णुमहेश्वराख्यमूर्त्तित्रय ! परमार्थतो मूर्तित्रयरहित! ज्ञानेच्छाक्रियाख्यशक्तित्रय! परमार्थतस्तु तद्रहित ! आशापाशं छिन्धि छिन्धि। त्रिलोचनस्य कृशानुरेतसः सर्वज्ञस्य रुद्रस्यापि व्यामोहे किमुतान्येषामेकनिदानम् । भगवन्तं जगज्जयैश्वर्योद्धतं मकरध्वजं कामं भिन्धि भिन्धि । हे चतुर्दशभुवनात्मक ! अत एव निरतिशयसार्वज्ञ्यलक्षणेन निःसीमदर्शनेन अपरिच्छिन्नसर्ववस्तुतत्त्वसाक्षात्कारेण दरीदृश्यमान स्फुटं सर्वतः सर्वं पश्यन् ! दृशेर्यङताच्छानचि अभ्यासस्य रीगृदुपधस्य चेति रीगागमः । नित्यसिद्धे सार्वज्ञ्ये चक्षुर्लिङ्गशब्दादिप्रमाणापेक्षाभावाच्चतुःषप्टिकलाश्चतुःषष्टि- विद्यास्तत्पराङ्मुख, अष्टादश विद्यास्थानानि चतुर्दशोपविद्याः द्वात्रिंशच्छिल्पविद्याश्चेति चतुःषष्टिकलास्तदथप्रथायां[?] तन्निरपेक्षेति यावत् । निखिलमन्त्राणां यन्त्राणां तत्प्रतिपादकतन्त्राणां च प्रवर्तक ! मातृकावर्णानां वैखरीप्रभवत्वात्परापश्यन्तीमध्यमावैखरीति क्रमेण तत्प्रवर्त्तक ! कारणस्यैव कार्यात्मनावस्थानान्मातृकावर्णस्वरूप ! स्वोपासकानां कलिमलप्रध्वंसिन् ! कालाद्भयं कालभयं तत्परावर्त्तयतीति कालभयपरावर्त्त ! कर्मण्यण् । चोरापनीतबद्धाक्षगान्धारपुरुषवद्विषयलक्षणे विपिने गिरिप्रपातारण्ये पुनः पुनरधोऽधः पतितम्, मोक्षमार्गादर्शिनम्, अत एव मार्गप्रदर्शकं त्रातारं मार्गमाणमन्विष्यन्तं, तमेवाक्रोशन्तं, क्षुत्तृषालक्षणैर्व्याघ्रवृश्चिकदंशकीटादिभिः रक्तशोषणात्पेपीयमानम्, आर्त्तमत्यन्तभीतं, ग्रहातिग्रहादिसंसारबन्धान्मुमुक्षुं मां संसारारण्यगर्त्तादुद्धरोद्धर । हे आत्मन् ! भूतात्मा चेन्द्रियात्मा चेत्यादाविवामुख्यात्मतां वारयति *प्रत्यक्शब्दवाच्येति* ॥ ``कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्''इति श्रुत्युक्तप्रत्यक्शब्दवाच्येत्यर्थः । तर्हि किं परिमितविभवो जीवः नेत्याह *निरुपमवैभवेति* ॥ तदुपपत्तये *नित्योत्सव अतीतद्वंद्वदुःखेति* । यद्येवंविध आत्मा कुतस्तहिं जनानां दुःखं तत्राह मूढजनदुःखप्रदेति* । ``तत्त्वेव भयं विदुषोऽमन्वानस्य''इतिश्रुतेः । मन्वानस्य तर्हि किं तत्राह *भक्तजनकल्पद्रुमेति* । आर्तजिज्ञास्वर्थार्थिज्ञानिलक्षणानां चतुर्विधभक्तजनानां कल्पद्रुमवत्तत्तदभिलषितफलपूरकेत्यर्थः । तत्र द्वितीयस्य तज्ज्ञानोपायप्रमाणमाह *उपनिषदेकवेद्येति* । `` सर्वे वेदा यत्पदम्'' आमनन्तीतिश्रुतेः । सर्वश्रुतीनामपि तत्रैव परमतात्पर्य पर्यवसानमित्याशयेनाह *समस्तवेदबन्दिस्तुत्येति* ॥ सर्वदेवाराध्यत्वेन सर्वोत्कर्षोऽपि तस्यैवेत्याह *ब्रह्मादिसमाराध्येति । अतः स्वात्मतया तल्लाभमेव प्रार्थयन् ``यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवत्येवं मुनेर्विजानत आत्मा भवति गौतम '' इति श्रुतिदर्शितदिशा स्वात्मानं तत्र जुहोति -`` ब्रह्मादिसमाराध्य स्वात्मानं मा प्रापय स्वाहा ''इति ॥ उक्तमुपसंहरंस्तत्फलमाह सूत उवाच-- ॐकारमालिकामन्त्रमित्येवं शम्भुरब्रवीत् । स्मरन्नेतन्मन्त्रराजमनिच्छन्नपि मुच्यते ॥ १॥ इति प्रणवमालामन्त्रः ॥ ॐकारमालिकामन्त्रमिति* ॥ १॥ इति प्रणवमालामन्त्रः ॥ अथ प्रणवगायत्रीमाह - ॐकाराय विद्महे भवताराय धीमहि तन्नः प्रणवः प्रचोदयात् ॥ इति प्रणवगायत्री ॥ ३.३.१ *ओङ्कारायेति* ॥ ॐ इत्यवस्थात्रयातीतं तुरीयं परं ब्रह्मोच्यते तत्स्वं बोधेन करोतीत्योङ्कारः स एव, कर्मण्यण् । ॐ कृतिरोङ्कारः प्रतीचस्तरभावापत्तिः । करोतेर्भावे घञ् । भवतारपदेऽप्येवम् । शब्दपदत्वे तु वर्णात्कार इति स्वार्थे कारप्रत्ययानुशासनादोमेवोङ्कारः । शब्दार्थयोरभेदकल्पनादर्थात्मना शब्दो ध्येयः । अर्थतत्त्वात्मना तु ज्ञेयः । तत्रार्थानुसन्धानप्रकर्षजं साक्षात्कारज्ञानं फलम् । तदुद्दिश्यार्थात्मकशब्दानुस्मरणधारात्मकं ध्यानमनुष्ठीयमानं प्रकाश्यते । ध्यानाविच्छित्यै च तदात्मा परमेश्वरः प्रेरयत्विति प्रार्थ्यते ॥ इति प्रणवगायत्रीतात्पर्यार्थः ॥ तत्राक्षराणि योज्यन्ते-ॐकाराय घञन्तपक्षे ``तुमर्थाच्च भाववचनाद्''इति चतुर्थी ॐ कर्तुम् । अणन्तादिपक्षे तु क्रियार्थोपपदस्येति । ॐकारात्मकं प्रत्यगभिन्नं परं ब्रह्म प्राप्तुं विद्महे साक्षात्स्वाभेदेन जानीमः । तदुपायतया सकार्याविद्यालक्षणं भवं तर्तुं भवतारकं तं साधयितुं वा यथाशास्त्रं धीमहि ध्यायेमहि, ध्यायतेर्लिङि छान्दसो विकरणलुक्सम्प्रसारणं च । तत्तादृशेन ध्यानेन अस्मान् प्रणवः प्रणवात्मा परमेश्वरः प्रचोदयात् प्रचोदयेत् । छान्दसत्वादतोयेय इत्यस्याप्रवृत्तिः । प्रार्थनायां लिङ् मन्त्रार्थपर्यालोचनेनैव जपोपासनफलबोधसिद्धेः पृथक् तत्फलं न कीर्तितम् ॥ इति प्रणवगायत्रीव्याख्या ॥ अथ प्रणवयन्त्रम् । तल्लक्षणं तु शिवोक्तमेव मन्त्रदेवताप्रकाशिकायामुक्तम् - षट्कुक्षिं पीठसंस्थं तदुपरिविलसत्सोमसूत्रं सबिन्दुं तन्मध्ये नादसंज्ञं प्रणवमभिवृतं बिन्दुनादौ पुनश्च ॥ एवं संचिन्त्य योनिप्रणवमनुदितं तारकं व्योमसंस्थं सर्वाधारं महेशं सकृदपि मनसा संस्मरेद्यः स मुक्तः ॥ इति ॥ अस्यार्थस्तत्रैवोक्तः । षट्कुक्षिरित्यकारोऽन्वर्थसंज्ञः । पीठमित्युकारः । सोमसूत्रमिति तिर्यग्भूतरेखाद्वयम् । नादमिति तत्र दीर्घरेखा । तारकं प्रणवः । तदुपरि च बिन्दुनादौ । व्योम हकारः । शेषं प्रसिद्धमिति । तल्लेखनप्रकारस्तु सम्प्रदायतोऽवगन्तव्य इत्याहुः ॥ आदावकारमथ ॐ प्रणवेन सन्धिं बिन्दुद्वयं तदनुवेष्टनलेखनं च । हङ्कारतश्च यरवान् लमधः पृथिव्यां यन्त्रं नवस्य मुनिभिः परिकीर्तितम् च॥ ३.४.१॥ अन्ये तु मन्यन्ते । उकारोपर्यकारस्य तदुपरि मकारस्य च विन्यासे संहितायां प्रणवानिष्पत्तेः, ``आदावकारमर्थ ॐप्रणवेन सन्धिं बिन्दुद्वयं तदनु वेष्टनलेखनं च । हङ्कारतश्च यरवान् लमधः पृथिव्यां यन्त्रं नवस्य मुनिभिः परिकीर्तितं च'' ॥ १॥ कल्पोक्तप्रकारविरोधाच्च नायं प्रकारो युक्त इति । ``षट्कुक्षि''मितिश्लोकः कल्पोक्तप्रकारानुरोधेन व्याख्यायते-पीठमधारः, पृथिवीचक्रं चतुरस्रं तत्संस्थं षट्कुक्षिमर्द्धचन्द्राकारं जलचक्रमाद्यः कुक्षिरिति लिङ्गस्याधस्तनं पीठम् । तदुपरि त्रिकोणाकारं वह्निचक्रं द्वितीयः कुक्षिस्तदुपरि षट्कोणं वायुचक्रं तृतीयः कुक्षिरिति लिङ्गस्योर्ध्वपीठम् । तत्पार्श्वयोर्लिङ्गमूलरेखाद्वयेन कोष्ठद्वयनिष्पत्तेर्द्वौ कुक्षी, तदुपरि बिन्द्वात्मवर्तुलमाकाशचक्रं लिङ्गमेकं कुक्षिरिति षट्कुक्षिम् । तदुपरि विलसत्सोमसूत्रमिति । द्वितीयपीठोपरि लिङ्गमूले तिर्यग्रेखाद्वये चोत्तरतः सोमसूत्राकारो लेख्यः, तस्य लिङ्गस्य मध्ये नादसंज्ञं वामत एकोर्ध्वरेखा तत्समीपे व्योमसंस्थं हकारकुक्षिगतं प्रणवं पुच्छेन सर्वं सपीठं लिङ्गमभिवृतं लिखेत् । तच्छिरसि सूक्ष्मबिन्दुं तद्वामतश्च पुनर्नादाख्यां पूर्ववदूर्ध्वरेखां पुनश्च लिखेदित्यर्थः । शेषः स्पष्टः ॥ ॐ ॐ ॥ अत्र कल्पोक्तप्रकारैकवाक्यसिद्धये वायुचक्रे यकारोदरे मकारं अग्निचक्रे रेफोदरे उकारं जलचक्रे चकारोदरे अकारं, तत्त्रितयगर्भसंहितमोङ्कारं च लिखेत् । पृथिवीचक्रे केवलं लकारमेवेति ॥ आदावकारमित्यस्य आद्यकुक्षौ अकारमथ द्वितीयकुक्षौ उकारम्, उमिति मकारनिर्देशस्य विवक्षितत्वात्तृतीयकुक्षौ मकारम्, त्रयाणां प्रणवभावेन संहितायां सन्धिं ओङ्कारं बिन्दुद्वयमिति द्वयोः प्रणवयोर्बिन्दुद्वयम्, अवशिष्टकुक्षिद्वये वा चन्द्रसूर्यात्मकबिन्दुद्वययोः प्रणवयोरन्यतरस्य वा पुच्छेन सपीठलिङ्गं वेष्टनम् । आकाशादिकोष्ठेषु यं रं वं इति लिखित्वा अधः पृथिव्यां पृथिवीचक्रे चतुरस्रे लं लिखेत् । इति नवस्य प्रणवस्य यन्त्रं परिकीर्तितमित्यर्थः ॥ १॥ अथातः सम्प्रवक्ष्यामि स्तवराजं भयापहम् । प्रणवब्रह्मणो विप्राः ! साक्षान्मोक्षैकदायकम् ॥ ३.५.१॥ अथ यन्त्रकथनानन्तरम्, अतः अस्माद्यन्त्रवत् स्तवराजस्याप्युपासकानामावश्यकत्वात्, साक्षान्मोक्षस्यैकं मुख्यं दायकं, कर्तरि ण्वुल्यातो युक् ॥ १॥ उत्पत्तिस्थितिभङ्गानि जायन्ते जगतो यतः । कार्यकारणकर्तारमोङ्कारं प्रणमाम्यहम् ॥ ३.५.२॥ उत्पत्तिश्च स्थितिश्च भङ्गश्चैषां समाहार उत्पत्तिस्थितिभङ्गम् , कल्पानन्त्येन समाहाराणामपि बहुत्वादुत्पत्तिस्थितिभङ्गानि, अनन्तानां जगतां यतो जायन्ते । सर्वक्रियाणां कार्यं फलं कारणमस्वतन्त्रम् अचेतनं कारकान्तरम्, कर्त्ता स्वतन्त्रश्चेतनस्तदात्मकम्, कार्यकारणयोः कर्तारमिति वा, यच्छब्ददर्शनात्तमिति सर्वत्राध्याहार्यम् ॥ २॥ यो गूढः सर्वभूतेषु सर्वभूतानि शास्ति यः । सर्वभूतस्वरूपी च ॐकारं प्रणमाम्यहम् ॥ ३.५.३॥ सर्वभूतोपादानाज्ञानावृतत्वाद्गूढः । अत एव यावदज्ञातस्तावत्प्रभुर्भूत्वा सर्वभूतानि शास्ति । सर्वभूतस्वरूपी च यावन्मोक्षं स्वयमेवास्ते ॥ ३॥ विश्वं चराचरं सृष्ट्वा तदन्तः प्रविवेश यः । तिलेषु तैलवत्सूक्ष्मः प्रणवं प्रणमाम्यहम् ॥ ३.५.४॥ तदन्तरधिष्ठानभावेन जीवभावेन च यः प्रविवेश ॥ ४॥ अग्रे सृष्टेः प्रपञ्चस्य य आस्ते वटबीजवत् । स्रष्टारं च पुनस्तस्य प्रणवं प्रणतोस्म्यहम् ॥ ३.५.५॥ सृष्टेः अग्रे प्राक् पुनःसृष्टिकाले तस्य प्रपञ्चस्य स्रष्टारम् ॥ ५॥ आब्रह्मस्तम्बपर्यन्तं भूतानि व्याप्य जीववत् । यः संसरति भूतात्मा प्रणवं प्रणतोस्म्यहम् ॥ ३.५.६॥ भूतानि तत्प्राणिशरीराणि भूतात्मा तत्तद्देहात्मभावापन्नो यः संसरति देहाद्देहान्तरं सञ्चरति ॥ ६॥ ईश्वरब्रह्मविष्णूनां रजःसत्त्वतमोगुणैः । जनकं यत्परं वस्तु तारकं पातु नः सदा ॥ ३.५.७॥ ईश्वरब्रह्मविष्णूनां पञ्चमुखचतुर्भुजशरीराणां जनकं स्वेच्छया कल्पकम् ॥ ७॥ सर्वभूतहृदाकाशे काशते निर्मलं परम् । आकाशवत्सर्वगं यत्तारकं पातु सर्वदा ॥ ३.५.८॥ काशते-अहमहमित्यात्मभावेन सर्वान्तः बहिःकरणव्यापारसाक्षितया च प्रकाशते, हृदयपरिच्छेदस्य मिथ्यात्वात् । आकाशवत्सर्वगतम् ॥ ८॥ वेदा यस्य शिरः प्रोक्तं शास्त्राण्यङ्गानि यस्य च । अङ्गानि यस्य रोमाणि प्रणवः स विराजते ॥ ३.५.९॥ पुराणं वाचकं यस्य ज्ञापकं धर्मशास्त्रकम् । इतिहासा यस्य हासाः प्रणवः स विराजते ॥ ३.५.१०॥ वाचकं सुहृत्सम्मितत्वान्मनोरञ्जनेन हितवक्तृ । ज्ञापकं प्रभुवदाज्ञापकम् । इतिहासा भारतादिसत्काव्यानि यस्य कान्तासम्मितेहितोपदेशकत्वाद्धासाः स्मितानि । विराजते सम्मिततया सर्वोत्कर्षेण शोभते ॥ १०॥ वेदान्ता यस्य सर्वेऽपि शरीरश्रुतिमस्तकम् । वाग्जालं येन संव्याप्तं प्रणवः स विराजते ॥ ३.५.११॥ यस्य प्रणवस्य सर्वेऽपि वेदान्ताः शरीरवन्मुख्याभिव्यक्तिस्थानं श्रुतयो मस्तकानि यस्य तथाविधम्, सर्वं वाग्जालं येन सम्यग् व्याप्तं ``तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्संतृण्णा''इति श्रुतेः ॥ ११॥ यज्जप्त्वा परमात्मानं विश्वामित्रादयो द्विजाः ॥ ब्राह्मण्यं लेभिरे ब्रह्म तारं दिशतु नः फलम् ॥ ३.५.१२॥ यं मत्वा विभुमीशानं दुःखं नोपैति साधकः । सर्वदुःखौघसंहर्तृ तारं दिशतु नः फलम् ॥ ३.५.१३॥ यत्तारं ब्रह्म जप्त्वा विश्वामित्रादयः, आदिपदाद्विश्वामित्रगोत्रजा अन्ये च गृह्यन्ते, ब्राह्मण्यं अग्र्यां जातिम् ``अमौनं च निर्विद्याथ ब्राह्मण ``इति श्रुतिप्रसिद्धं ब्रह्मनिष्ठत्वं च लेभिरे । तत्तादृशं तारं नस्तादृशं ब्रह्मवेदनफलं दिशत्वित्यर्थः ॥ १२॥ १३॥ आलोड्य सर्वशास्त्राणि निश्चिन्वन्ति मुनीश्वराः । ध्येयं तारकमित्येव तारकं तदुपैम्यहम् ॥ ३.५.१४॥ मुनीश्वराः सर्वशास्त्राण्यालोङय सम्यङ्न्यायैर्विचार्य यत्तारकमेवैकं ध्येयं निश्चिन्वन्ति । ``शिव एको ध्येयः शिवङ्करः सर्वमन्यत्परित्यज्य'' ``ॐमित्येवं ध्यायथ आत्मान''मित्यात्मानं युञ्जीते''त्यादिश्रुतिनिष्कर्षादिति भावः ॥ १४॥ वेदान्ताम्भोजसङ्घानां भास्कराय प्रकाशिने । निर्मलाय स्वरूपाय प्रणवाय नमो नमः ॥ ३.५.१५॥ वेदान्ताम्भोजसङ्घानां प्रकाशिने विकासिने भास्कराय, स्वमात्मा तद्रूपाय ॥ १५॥ जीवा जीवन्ति येनैव प्राणापानादिचेष्टया । यमाश्रितावुभौ तस्मै प्रणवाय नमो नमः ॥ ३.५.१६॥ जीवाः सर्वे येनैवात्मना जीवन्ति चेतयन्ति, उभौ प्राणापानौ यं परमात्मानमाश्रितौ, तथा च श्रुतिः - न प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ इति ॥ (कठ २.५.५) ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ इति च ॥ १६॥ (कठ २.५.३) इतरस्य महामन्त्रजालस्य फलदोऽपि यः । सर्वमन्त्रादिरूपाय प्रणवाय नमो नमः ॥ ३.५.१७॥ इतरस्य स्वातिरिक्तस्य वैदिकस्य तान्त्रिकस्य वा महामन्त्रजालस्य तत्तद्देवतारूपेण प्रसन्नस्तत्तत्साधकाभिलषितफलप्रदोऽपि यः प्रणव एव, अतः सर्वमन्त्रदेवतादिरूपाय प्रणवाय नमो नमः पुनः पुनर्नम इत्यर्थः ॥ १७॥ प्रत्यग्रूपाय दिव्याय रविमण्डलवासिने । पुरुषेष्वधिवासाय तारकाय नमो नमः ॥ ३.५.१८॥ सर्वप्राणिनां हृदि प्रत्यगात्मरूपायेत्यध्यात्मम् । दिव्यायेत्यधिदैवतम् । रविमण्डलवासिने ``स यश्चायं पुरुषे यश्चासावादित्ये स एकः'' इति श्रुतेः । अत एव व्यष्टिसमष्टिपुरुषेष्वधिवसतीत्यधिवासस्तस्मै ॥ १८॥ रज्जुर्यथा सर्परूपा भ्रान्त्या भाति तथाऽव्ययम् । तारकं विश्वरूपेण भाति तस्मै नमो नमः ॥ ३.५.१९॥ यथा रज्जुर्भ्रान्त्या सर्परूपा भाति तथा यदव्ययं तारकं विश्वरूपेण भाति तस्मै तारकाय नमो नमः ॥ १९॥ विश्वस्य यं हि गायत्रीं त्यजन्ति यतिपुङ्गवाः । ओङ्काराय नमस्तस्मै ओङ्काराय नमो नमः ॥ ३.५.२०॥ यतिपुङ्गवाः यं प्रणवं ब्राह्मण्यस्थापकं तारकं च विश्वस्य विश्वासेनावलम्ब्य निःशङ्कं शिखासूत्राद्यङ्गसहितां गायत्रीं त्यज्यन्ति, तस्मै ॐकाराय यतिजनानङ्गीकुर्वाणाय ओङ्काराय नमो नमः ॥ २०॥ पूर्वोक्तो गायत्रीत्यागोऽग्नित्यागवद्वाचि गायत्र्योः समारोपमात्रं तदपि तत्सारप्रणवतत्त्वदर्शनार्थं न तु स्त्रीपुत्रादिवत्प्रहाणिरिति दर्शयन्नुपसंहरति -- आरोपयन्ति वाचाऽग्नौ गायत्रीं यद्दिदृक्षया । ॐकाराय नमस्तस्मै ओङ्काराय नमो नमः ॥ ३.५.२१॥ *आरोपयन्तीति* ॥ वाचा वाक्सामान्यात्मा ॐकारस्तल्लक्षणे सकार्याविद्यादाहकत्वादग्नौ सव्याहृतिकां गायत्रीं सन्न्यासकाले आरोपयन्ति समारोपयन्तीत्यर्थः ॥ शेषं पूर्ववत् ॥ २१॥ सूत उवाच-- स्तवराजं स्तवश्रेष्ठं श‍ृण्वन्ति च पठन्ति च । ये मानवा विपापास्ते यान्ति मुक्तिं सुदुर्लभाम् ॥ ३.५.२२॥ सर्वस्तवानां राजा अधिपतिः, न केवलमाधिपत्यमेव किन्तु गुणप्रभावादिना श्रैष्ठ्यमप्यस्तीति स्तवश्रेष्ठम् ॥ २२॥ मुनीन् सम्बोध्याह -- तस्मात्पठन्तु सर्वेऽपि मोक्षवाञ्छाऽस्ति वो यदि । स्तवराजं महादेव्यै इत्येवं शम्भुरब्रवीत् ॥ ३.५.२३॥ इति प्रणवकल्पे प्रणवस्तवराजः समाप्तः ॥ *तस्मादिति । इत्येवमित्युपसंहारः ॥ २३॥ इति प्रणवस्तवराजव्याख्या समाप्ता । इदानीं प्रागुक्तप्रणवनवांशानां प्रत्येकं गुणमाहात्म्यादिप्रकाशकमक्षरमालिकास्तोत्रमाह सूत उवाच-- ओङ्काराक्षरमालिकामनुमिमं वक्ष्यामि हे भूसुराः ! मोक्षप्राप्तिकरं विशेषसुखदं नित्योत्सवं शाश्वतम् । पार्वत्यै सुरसेविताङ्घ्रिकमलः शम्भुर्यथा भाषते यो मन्त्रो यतिपापनाशकरणोपायाय सन्निर्मितः ॥ ३.६.१॥ ॐकाराक्षरेत्यादिना* हे भूसुरा ब्राह्मणाः ! अहमिदानीं ॐकाराक्षरमालिकास्तवलक्षणं मनुवत्प्रयतजप्यं स्तोत्रं वक्ष्यामि । मुमुक्षूणां मोक्षप्राप्तिकरं, भोगसुखार्थिनां विशेषसुखदम्, उभयेषां नित्यं प्रतिदिनमुत्सवो हृदयानन्दो यस्मात्तथाविधम्, शश्वद्भवं शाश्वतं सदैवाविहतसामर्थ्यम् । न चात्र विप्रतिपत्तव्यमित्याह *पार्वत्यै इति* जगदीश्वरसर्वज्ञवचनत्वादव्याहतशक्तिकमित्यर्थः । किञ्च यो मन्त्रो रहस्यभूतस्तवः यतीनां प्रमादप्रसक्तब्रह्मचर्यापरिग्रहाहिंसादिधर्मविप्लवप्रयुक्तपापानां नाशकरणाय शमदमादिज्ञानोपायसिद्धये च जगदीश्वरेणैव सम्यङ्निर्मितः न मया स्वबुद्ध्योहित इत्यर्थः ॥ १॥ तत्र नवांशविशिष्ट ॐकारो प्रथममेवंप्रभावो ध्येय इत्याशयेनाह ॐकारं परमीशत्तत्त्वमखिलं वेदार्थतत्वप्रदं नित्यं निर्मलमव्ययं निरुपमं निःशेषबीजाभिधम् । कार्यं कारणमात्मनिष्ठमखिलं प्रोत्साहपूर्वं स्मृतं भेदाभेदविवर्जितं श्रुतिशिरोमानं सदा ध्यायति ॥ ३.६.२॥ *ॐकारमिति* । यतोऽयमोङ्कारो यतीनां मोक्षप्राप्तिकरः सर्वपापहरश्च अतः आत्मन्येव निष्ठा विश्रान्तिर्यस्य तथाविधमखिलं कृत्स्नमारुरुक्षुमारूढं च यतिवृद्धम् प्रोत्साहपूर्वं प्रकृष्टोत्साहपूर्वकं त्रिसन्ध्यं नियमेन स्मृतम् ॐकारमेवं सदा ध्यायतीति सम्बन्धः । कीदृशं ॐकारं वेदार्थतत्त्वप्रदं कर्मोपासनाज्ञानकाण्डात्मकवेदानामर्थाः प्रयोजनानि स्वर्गादीनि तेषां यत्तत्वं निरतिशयानन्दरूपं यत्र काण्डत्रयफलमन्तर्भवति तत्प्रदं ``सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता''इति श्रुतेः । कुतोऽस्य तत्प्रदानसामर्थ्यं तत्राह अखिलं परमीशतत्त्वमिति । यतोऽसौ अखिलं निरङ्कुशं परमुत्कृष्टम् ईशस्य सर्वशक्तिसम्पन्नस्य जगदीश्वरस्य तत्त्वं पारमार्थिकं स्वरूपम्, अत एव नित्यं कालापरिच्छेद्यम्, निर्मलमविद्यारागादिमलरहितम्, अव्ययं षड्भावविकारशून्यम्, निरुपमं तादृशतत्त्वान्तराप्रसिद्धेरुपमातुमशक्यम् । तत्कुतः? तत्राह *भेदाभेदविवर्जितमिति* ॥ कैश्चिद्धर्मैर्भेदे कैश्चिदभेदे च मुखं चन्द्रेणोपमीयते न चायं तथेत्यर्थः । कुतो भेदाभेदविवर्जितं ? तत्राह *कार्यं कारणं निःशेषबीजाभिधमिति* ॥ यतः अकारोकारमात्राद्वयोपात्तं स्थूलसूक्ष्मकार्यं मकारार्थभूतं कारणं च । ``नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञम्'' इत्यादिना अवस्थात्रयेण सह निषेधान्निःशेषाभिधेयसर्वद्वैतबीजसहिता अभिधा यस्मिंस्तथाविधम् । अत एव न तत्र मानान्तरप्रसर इत्याह *श्रुतिशिरोमानमिति* ।श्रुतिशिरसां मौनसङ्कल्पवाक्यात्मसहितसर्वद्वैतनिरासकत्वसम्भवादिति भावः ॥ २॥ समग्रप्रणवध्यानानन्तरं तत्प्रथमांशोऽकारः प्रथमं विष्णुरुपेणैव ध्येय इत्याशयेनाह - अङ्कारं करुणैकरूपममलं कारुण्यपूर्णेक्षणं कर्पूरप्रचुरोत्थचूर्णविमलं कर्पूरसम्पादकम् । कामाकामविभीतिभीतिकृपिकासिन्धूरसोद्धूलनं सिन्धूद्भूतरसातलेशमनिशं विष्णुं भजे सुन्दरम् ॥ ३.६.३॥ *अङ्कारमिति* सानुस्वारनिर्देशः सर्वत्र संहारक्रमेण ध्येयताद्योतनार्थः । यद्यपि ``अकारं ब्रह्माणं नाभौ उकारं विष्णुं हृदये'' इत्यादिश्रुतिषु अकारो विराडात्मा ब्रह्मा उकारस्तु हिरण्यगर्भात्मा तत्कारणं विष्णुः प्रसिद्धस्तथाप्यत्र ``यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठित'' इत्यादिश्रुतिषु ``अकारो वासुदेवः स्यात्'', ``अक्षराणामकारोऽस्मी''त्यादिस्मृतिषु च वासुदेवस्याकारात्मत्वप्रसिद्धेः सत्त्वरजस्तमोगुणक्रमानुरोधाच्चात्र अकारो विष्ण्वात्मना ध्येय उक्तः । अङ्कारं विष्णुं भजे इति सम्बन्धः । विष्णोः शुद्धसत्त्वावच्छिन्नचिद्रूपत्वात्तदनुरूपं विशिनष्टि *करुणैकरूपमित्यादिना* विष्णोर्जगत्पालनस्य दयैकसाध्यत्वात्करुणैकमूर्तिम् । रागद्वेषमोहादिमलविरोधित्वादमलम् । सर्वप्राणिसुखार्थित्वात्कारुण्यपूर्णेक्षणम् । ``अजमेकां लोहितशुक्लकृष्णा''मिति श्रुतौ सत्त्वगुणस्य शुक्लत्वोक्तेः कर्पूरप्रचुरोत्थचूर्णविमलम् । अत एव तस्योपासनं हृत्तापोपशमनविवेकनेत्रानन्दन- सद्वासनासौरभ्यजननज्ञानदीपोज्ज्वलनकर्पूरस्य चित्तैकाग्र्यस्य सम्पादकम् । क्षुद्रविषयतत्साधनेष्वेव कामः, परमपुरुषार्थतत्साधनेष्वकामः, जन्ममरणनरकाद्यनर्थसाधनेभ्यः पापेभ्योऽबिभीतिरभीरुता, द्रव्यव्ययायाससाध्येभ्यो दानयज्ञतपःप्रभृतिभ्यः सन्न्यासभैक्षचर्याश्रवणमननध्यानादिभ्यश्च भीतिर्भीरुता, कृपिका लाभकार्पण्यमित्यादिदोषसिन्धोः संसारसमुद्रस्य यो रसः जलं कामकर्मवासनाऽज्ञानलक्षणं तस्य निःशेषशोषणेन उद्धूलनमूर्ध्वं धूल्युद्गमहेतुम् । तथा सिन्धूद्भूतायाः क्षीरसमुद्रकन्यायाः सर्वकर्मफलाधिदेवतायाः रसायाः भूमेः सर्वप्राण्यन्नरूपायाः तलस्य तदुपभोगस्थानचतुर्दशभुवनतलस्य च ईशं स्वामिनम् । सुन्दरं कन्दर्पकोटिकमनीयविग्रहम् । विष्णुं भजे सदा ध्यानेन सेवे । सिन्धुरसेत्यत्र दीर्घश्छान्दसः ॥ ३॥ उङ्कारं पिशिताशनाशकरणं पीयूषपानारतं पीयूषप्रदवित्तनाथभजितं पीयूषकर्त्रुत्सवम् । वेद्यं वेदविभागभूसुरकृपासंयुक्तविद्वज्जनैः कार्याकारविचारदं विधिमहं ब्रह्माणमाद्यं भजे ॥ ३.६.४॥ अहम् उङ्कारं ब्रह्माणं भजे इति सम्बन्धः । तस्य सर्गानुकूलरजःप्रधा- नसत्त्वमूर्त्तित्वात्तदनुरूपवेदभागैस्तदधिकारिभिः कर्मठैश्चोपास्यत्वमाह *वेदविभागभूसुरकृपासंयुक्तविद्वज्जनैर्वेद्यमिति* । वेदानां कर्मोपासनाज्ञानकाण्डात्मकानां कर्मकाण्डात्मको यो विभागः तेन भूसुरेषु ब्राह्मणेषु दानपात्रेषु कृपासंयुक्ताः अन्नगोभूहिरण्यादीनां सदैव यज्ञेषु च दातारो ये कर्मठा विद्वज्जनास्तैर्वेद्यं सदैव विभागशो ज्ञेयं सत्कर्मभिरुपास्यं चेत्यर्थः । कथं ज्ञेयं तत्राह *कार्याकार्यविचारदं विधिमिति* । कर्त्तुं योग्यं कार्यं सत्कर्म ज्योतिष्टोमादि, अकार्यं कर्तुमयोग्यं कलञ्जभक्षणादि, तयोः परिग्रहपरिहारसिद्धये तत्त्वनिर्णयाय प्रवृत्तो यः ``अथातो धर्मजिज्ञासा''इत्यादिना जैमिन्यादिभिः कृतो विचारस्तं ददातीति विचारदस्तम्, विधिं प्रवर्तकनिवर्त्तकश्रौतस्मार्त्तवाक्यसन्दर्भरूपमित्यर्थः । कथं चोपास्यं तत्राह *पिशिताशनाशकरणमित्यादिविशेषण(वाक्य)चतुष्टयेन* । पिशिताशाः असुरराक्षसपिशाचादयो निषिद्धकर्माचरणपरिणतिप्राप्तशरीरास्तामसयोनयस्तेषां नाशकरणं वधबन्धाऽधोगत्यादिदुःखफलप्रदम् । सत्कर्मपरिपाकप्राप्तशरीरदेवत्रैवर्णिकादिभावेन तु पीयूषस्याग्निहोत्राद्याहुतिपरिणतिरूपामृतभावेन सूर्यचन्द्रमण्डलाश्रितस्य सत्कर्मफलस्य विद्ययाऽमृतरूपस्य च पाने उपभोगे आ समन्ताद्देवलोकेषु च रतमासक्तम् । अतएव देवानां पीयूषप्रदाभ्यां चन्द्रसूर्याभ्यां त्रैवर्णिकानां वित्तप्रदैर्वित्तनाथकुबेरेन्द्रादिभिश्चाज्ञाप्रतीक्षैर्भजितं सेवितम् । इड्छान्दसः । पीयूषकर्तुरमृतजनयितुः क्षीरार्णवस्य उत्सवं उदीयमानचन्द्ररूपेण नयनानन्दोत्सेकहेतुमित्यर्थः । अथवा यज्ञादिना आहुतिपरिणामरूपपीयूषकर्तॄणां कर्मठानां स्वर्गादिफलभावोत्सवहेतुमित्यर्थः ॥ ४॥ मङ्कारं मितिमानमेयविधुरं मेयं सदावेदिभि- र्मन्दोत्साहमशेषजन्तुकृपणं मन्दान्धकारापहम् । मन्दामन्दममत्सरं करुणिकाकान्तं शिवं शङ्करं कर्पूरस्फटिकाभकान्तिकलितं कर्णोत्सवेशं भजे ॥ ३.६.५॥ अत्रापि अहम् मङ्कारं शिवं शङ्करं भजे इति सम्बन्धः । तस्य जगत्संहाराधिकारित्वादल्पसंहाराणां नित्यदैनन्दिनप्राकृतप्रलयानां कारणे महातमसि जगदुपसंहाररूपाणां तमोगुणसाध्यत्वेऽपि समूलसर्वजगदुच्छेदलक्षणस्य वैज्ञानिकस्य महाप्रलयस्य विशुद्धतमसत्त्वचरमपरिणतिरूपब्रह्मविद्यामात्रसाध्यत्वाद्विद्याधिपतित्वं तच्छरीरत्वं चेति तदनुरुपं विशिनष्टि *कर्णोत्सवेशं करुणिकाकान्तमिति* साधनचतुष्टयसम्पन्नानां श्रवणादिपराणामधिकारिणां श्रोत्रानन्दजनकत्वात्कर्णोत्सवभूता या औपनिषदी ब्रह्मविद्या उमा तस्याः ईशं स्वामिनम् । करुणा दया सैव करुणिका विद्यैव तया दिव्यमङ्गलविग्रहात्मना परिणतया कान्तं मनोहरम्, तथा चाहुः-- शक्तिः शरीरमधिदैवतमन्तरात्मा ज्ञानं क्रिया करणमासनजालमिच्छा । ऐश्वर्यमावरणमायतनानि च त्वं किं त्वं न यद्भवसि देवि ! शशाङ्क-मौलेः ॥ इति ॥ तन्मूर्तेः शुद्धसत्त्वानुरूपं वर्णमाह *कर्पूरस्फटिकाभकान्तिकलितमिति* ॥ ब्रह्मविद्याश्रयत्वमिव तद्विषयत्वमपि तस्यैवेत्याह *मेयं सदावेदिभिरिति* ॥ सद्ब्रह्म आ समन्तादपरिच्छिन्नानन्दप्रत्यगैकरस्येन विदन्ति साक्षादनुभवन्ति तच्छीलाः सदावेदिनस्तैर्मेयं महावाक्यमानजन्यवृत्तिव्याप्यम् । कथं मेयं तदाह *मितिमानमेयविधुरमिनि* ॥ मितिर्वृत्तिर्मानं तदुपादानमन्तःकरणं मेयाः विषयाः एतत्त्रिपुटीरूपसर्वप्रपञ्चरहितं निष्प्रपञ्चमित्यर्थः । किं तन्मितिफलं तदाह *मन्दान्धकारापहमिति* । मन्दानामज्ञानां जन्ममरणाद्यनर्थहेतुर्यो मूलाऽविद्यारूपोऽन्धकारस्तन्निवारकमित्यर्थः । नन्वविदितमेव तदात्मतत्त्वं स्वप्रकाशापरिच्छिन्नचिद्रूपत्वात्स्वयमेव स्वाज्ञानं निवर्त्तयतु किं तत्त्वज्ञानतत्साधनोद्योगलक्षणेन तदुत्साहेन तत्राह *मन्दोत्साहमशेषजन्तुकृपणमिति* ॥ नाविदितं तत्स्वाज्ञानं निवर्त्तयति यतस्तत् मन्दोत्साहं ज्ञानतत्साधनोत्साहरहितम् । अशेषजन्तुषु सत्तत्त्वप्रख्यापने अज्ञाननाशे च कृपणम्, कृपणवत्परिमितकर्मफलमात्रप्रदं नापरिच्छिन्नानन्दतत्स्वरूपप्रकाशकमित्यर्थः । तर्हि किं तन्मन्देष्वनून्येति(?)[सूयेति?] येन तेषु कृपणम्, नेत्याह *मन्दामन्दममत्सरमिति* । मन्दमज्ञम् अमन्दं तत्त्वज्ञं च स्वयमेव, न हि स्वात्मनि मात्सर्यप्रसक्तिः । साधनोद्योगाभावे फलादानं। तु न मात्सर्यापादकं किन्तु साधने फलनैयत्यप्रदर्शनेनोत्साहजननेन प्रवर्तकमेवेति भावः ॥ ५॥ एवं गुणत्रयाधिष्ठातृब्रह्मविष्णुरुद्रात्मना प्रणवमात्रत्रयमुपवर्ण्य तत्समुदायात्मकमायाधिष्ठातृचैतन्यरूपप्रपञ्चमूलं बिन्दुरीश्वर उच्यते, नामप्रपञ्चमूलं तु नादः सदाशिवः इति विभागमभिप्रेत्य बिन्द्वंशं वर्णयति - बिन्दुं बिन्दुशतैकधारमनिशं बिन्दूद्भवं बिन्दुगं बिन्दुब्रह्मविशेषशोभनमतिव्यावृत्तदेहं शुभम् । नित्यानित्यविवेकवस्तुसहितं कर्मातिदूरस्थितं कार्योद्वर्तनकर्मदेशविवरं सौषुप्तिकं तं भजे ॥ ३.६.६॥ *बिन्दुमिति* ॥ अहं बिन्दुं सौषुप्तिकं सुषुप्तिसमष्ट्यात्मकरूपप्रपञ्चकारणं तं जगदीश्वरं भजे इति सम्बन्धः । तत्र बिन्दुशब्दस्य विदि अवयवेत्येतद्धातुनिष्पन्नस्य निरवयवेऽपि प्रवृत्तिनिमित्तं दर्शयति *बिन्दुशतैकधारमनिशमिति* अनिशं सदैव, सर्वप्रपञ्चवैचित्र्यहेतुविचित्रवासनाः बिन्दुशतशब्देनोच्यन्ते, तासां मायावयवप्रायत्वात्तदुपहितं ब्रह्म बिन्दुशतैकधारम् । तदेव ब्रह्मवासनाबिन्दूनां समष्टिव्यष्टिलिङ्गस्थूलदेहाकारेणोद्भवे तदुपहितहिरण्यगर्भाद्याकारणोद्भवात् बिन्दूद्भवम् । सुप्तिप्रलययोस्तद्वासनामात्रे जीवावस्थिते बिन्दुगम् । अनिशमिति त्रिष्वपि सम्बध्यते । तदेव ब्रह्म नित्यानित्यविवेकोपलक्षितसाधनचतुष्टयवस्तुसहितं सर्वकर्मसन्न्यासेन कर्मातिदूरस्थितं सत्, श्रवणादिना कार्योद्वर्त्तनस्य सर्वकार्यनिवर्त्तकस्य असङ्गाकर्तृकूटस्थात्मविवेकवतो मनसः कर्मदेशस्य सर्वकर्मोत्पत्तिस्थानस्य प्राणस्य च विवरं छिद्रमाकाशवदसङ्गाधारभूतं सत्, स्वतत्त्वबोधेन सवासनमायानिवृत्तौ अतिव्यावृत्तस्थूलसूक्ष्मदेहं, बिन्दुब्रह्मणोर्यो विशेषः व्यावृत्तिः बिन्दोर्निःस्वरूपता ब्रह्मणो निर्वासनता च तेन शोभमानं शुभं निरतिशयतत्प्रकाशानन्दैकरसं भजे इत्यर्थः ॥ ६॥ उक्तं नादांशं वर्णयति -- नादं नादितशास्त्रवृन्दधरणं शास्त्रैकवेद्यं शुभं शास्त्रावादिकृपालुपादरसिकैः साक्षात्कृतं सर्वदा । शास्त्रं शासनरूपदिव्यममलं प्रोत्साहनोद्दण्डनं शब्दब्रह्म निरस्तदोषममलं नित्योत्सवेशं भजे ॥ ३.६.७॥ *नादमिति* ॥ अत्रापि अहं नादं शब्दब्रह्म भजे इति सम्बन्धः । तस्यानुग्राहकसदाशिवरूपत्वात्तदनुरूपं विशिनष्टि *नित्योत्सवेशमिति* । नित्यमुत्सवो निरावरणनिरतिशयानन्दाविर्भावो यस्याः सकाशात्सा नित्योत्सवाविद्या तस्याः ईशं स्वामिनम् । अत एव निरस्ताविद्यावरणविक्षेपदोषम् । अमलं कामकर्मवासनादिमलरहितम् । कथं निरस्तदोषं कथं चामलं ? तत्राह *शास्त्रं शासनरूपदिव्यममलमिति* तदेव परारूपं नादब्रह्म पश्यन्तीमध्यमावैखरीतिक्रमेण वेदादिविद्यास्थानात्मनाऽभिव्यक्तं शास्त्रं सत्, तच्छासनरूपेण कर्मोपासनश्रवणमननादिना साक्षात्कारान्तव्यापारेणाभिव्यक्तस्वतत्त्वं दिव्यं द्योतमानस्वरूपम्, अविद्यादिदोषमलनिरासादमलमित्यर्थः । न केवलं शासनरूपमेव शास्त्रं किन्तु प्रोत्साहनोद्दण्डनम्-विहितेषु ज्योतिष्टोमादिकर्मसु पुरुषप्रवृत्तिसिद्धये विचित्रैः स्वर्गादिफलैर्बहुविधस्तोत्रशस्त्रमन्त्रार्थवादैश्च पुरुषप्रोत्साहनम्, निषिद्धब्रह्म- हत्याकलञ्जभक्षणादिषु प्रवृत्तानां यमतद्भयादिरूपेण रौरवादिनरकैश्च शूकरादिजन्मभिश्चोत्कृष्टदण्डनप्रवर्त्तकमित्यर्थः । कथं तन्नाम ब्रह्मशास्त्रं कथं वा शासनरूपं दिव्यं ? तत्राह *नादितशास्त्रवृन्दधरणं शास्त्रैकवेद्यमिति* ॥ यतः सर्वशास्त्रवृन्दं नादितं नादव्याप्तमुपलभ्यते अतो नाद एव शास्त्रात्मना स्थित इति तद्धरणं गम्यते, यथा स्वर्णविकारकुण्डलकटकादिभावेन स्वर्णमेव तद्धरणं तद्वत् । यतश्च तच्छुभ्रं ब्रह्म शास्त्रैकवेद्यं सदभिव्यज्यते अतः शासनरूपं दिव्यमित्यर्थः । कीदृशैरधिकारिभिस्तच्छास्त्रवेद्यं तत्राह *शास्त्रावादीति* ॥ शास्त्रं आसमन्ताद्वदन्ति व्यक्तं व्याचक्षते तच्छीलाः कृपालवश्च ये कृतसाक्षात्कारा गुरवस्तदीयपादरसिकैः साधनचतुष्टयसम्पन्नैरधिकारिभिः श्रवणादिक्रमेण सर्वदा साक्षात्कृतं स्वात्मरूपेणेत्यर्थः ॥ ७॥ शक्तिं शक्तिनिरासमीशनिलयं विश्वस्य निर्भेदकं विश्वोत्पत्तिविनाशजीवनकरं विश्वाभिधं शाश्वतम् । विश्वत्राणपरायणं विमलसन्मानुष्यचित्तस्थितं सत्यं नित्यमशेषजन्तुविबुधं चोङ्कारमाद्यं भजे ॥ ३.६.८॥ अत्रापि परारूपस्य नादात्मकस्य शब्दब्रह्मणः कारणीभूतां कुण्डलिनीरूपां शक्तिं सार्द्धत्रिमात्राधिष्ठानसार्द्धत्रिवलयाकारचिद्रूपमाद्यम् ॐकारं भजे इति सम्बन्धः ॥ स च शक्त्यात्मक ॐकारः भोगासक्तानां कर्मकाण्डात्मना प्रवृतिशक्तिरूपो विश्वगः सन् विश्वोत्पत्तिविनाशजीवनकरो विश्वाभिधः प्रपञ्चनामक एव, मुमुक्षूणां तु ईशनिलयः विश्वेश्वरचिदात्मनिष्ठः सन् जगद्बीजमायाशक्तिनिरासात्कार्यस्य विश्वस्य निर्भेदको विनाशक इति बोधनाय तथा तथा विशनष्टि--विश्वगं विश्वोत्पत्तिविनाशजीवनकरमीशनिलयं शक्तिनिरासं विश्वस्य निर्भेदकमिति च । अत एव सर्वप्राणिकर्मज्ञानफलदानाय अशेषजन्तून्विबुध्यत इति अशेषजन्तुविबुधम् । विश्वस्य त्राणे तत्तदनुरूपलक्षणे तत्तदनुरूपलक्षणैः परायणाः सन्तो मनुष्या एव मानुष्यास्तेषामुपास्यतया ज्ञेयतया च चित्तस्थितं परमार्थतः सत्यमाद्यं तं भजे इत्यर्थः ॥ ८॥ अर्द्धमात्राममात्रां च देवतां विजनोज्वलाम् । ॐकाररूपिणीं देवीं नित्यं वन्दे सुनिर्मलाम् ॥ ३.६.९॥ तादृशविद्याशक्तिफलजीवन्मुक्तौ दग्धपटवज्जगदाभासस्याप्यवास्तवत्वानुसन्धाने साभास्यार्द्धमिवावशिष्टा ब्रह्मचिद्देवता मीयत इत्यर्द्धमात्रा सा, अत एव (सा) विजनेन द्वैताजननेन तद्धेत्वविद्यानिरसनेन योज्वला तथाविधां तां सुनिर्मलां ॐकाररूपिणीं देवीं नित्यं वन्दे इत्यर्थः ॥ ९॥ स एवार्द्धमात्रात्मा प्रणवो येन रूपेण जीवन्मुक्तैरनुभूयते तेनोल्लिख्य दर्शयंस्तथा तदुपासनं कार्यमित्याशयेनाह कलावन्तं कलारूपं कालाकालमकालकम् । कल्पाकल्पविशेषज्ञं प्रणवं निर्मलम्भजे ॥ ३.६.१०॥ *कलावन्तमिति* ॥ ब्रह्मविद्ब्रह्मविद्वरः ब्रह्मविद्वरीयान् ब्रह्मविद्वरिष्ठ इति तत्त्वज्ञानदार्ढ्ये तारतम्येन चतुर्द्धाप्रसिद्धजीवन्मुक्तात्मनां कल्पाकल्पविशेषज्ञं तं निर्मलं प्रणवं भजे इति सम्बन्धः । कल्पनं कल्पः व्युत्थानदशायां द्वैतावभासः, अकल्पः समाधौ द्वैतानवभासः, तदुभयविशेषज्ञमित्यर्थः । तत्राद्यजीवन्मुक्तानुभवेन अमात्राद्यष्टविधकलावन्तम् । द्वितीयानुभवेनार्धमात्रात्मकैककलारूपम् । तृतीयानुभवानुरोधेन व्युत्थानसमाधिकालवैचित्र्यमात्राभासात्तत्साक्षिणि तदभावाच्च कालाकालम् । चतुर्थस्य व्युत्थानसमाधिभेदस्यापि विलये कलनीयाभावात्कालस्याप्यककल्पने अकालकम् । इत्थं निर्मलञ्चिदेकरसघनं प्रणवं भजे इत्यर्थः ॥ १०॥ नवमी मात्रा तु शान्ताख्या विदेहमुक्तस्वरूपानन्दैकरसभूमात्मिका न वाङ्मनसगोचरः, किन्तु तादृशस्वरूपानुभवैकसिद्धेत्युपास्या ज्ञेया चेत्याशयेनाह--- शान्तं निर्मलमाकाशवामङ्मनसगोचरम् । स्वानुभूत्यैव वेद्यं च ब्रह्मैवाहमिति स्मरेत् ॥ ३.६.११॥ *शान्तमिति ॥ ११॥ ॐकारमात्रामालिकास्तवपठनफलमाह-- सूत उवाच-- ॐकाराक्षरमालिकामन्त्रं यः पठते मतिः । ऐन्द्रं सारस्वतं प्राप्य शाश्वतं पदमश्नुते ॥ ३.६.१२॥ इति प्रणवाक्षरमालामन्त्रः ॥ * ॐकाराक्षरेति* अक्षरशब्दो मात्रापरः । मन्त्रशब्दश्च रहस्यस्तोत्रपरः । पठते इति पदव्यत्ययच्छान्दसः । इन्द्रः परमेश्वरस्तत्सम्बन्धि ऐन्द्रं, सरस्वत्याः सम्बन्धि पाण्डित्यं सारस्वतं सार्वज्ञमिति यावत् । शाश्वतं पदं मोक्षं तत्त्वज्ञानद्वारा अश्नुते प्राप्नोतीत्यर्थः ॥ १२॥ इति प्रणवाक्षरमालिकाव्याख्या समाप्ता ॥ सूत उवाच-- अथातः सम्प्रवक्ष्यामि प्रणवब्रह्मणो द्विजाः । अनुस्मृतिं मोक्षदात्रीं स्मृत्वा यान्त्यपुनर्जनिम् ॥ ३.७.१॥ अनुस्मृतिं वर्ण्यमानतत्तद्गुणविशिष्टतया स्मरणहेतुं ग्रन्थम् । अपुनर्जनिं पुनर्जन्माभावं मोक्षमिति यावत् ॥ १॥ अग्रे सृष्टेः प्रपञ्चस्य य आस्ते वटबीजवत् । सर्वभूतमयो दिव्यः प्रणवं संस्मरेद्यतिः ॥ ३.७.२॥ प्रपञ्चस्य सृष्टेरग्रे प्राक् वटबीजवत्सूक्ष्मावस्थापन्नसर्वभूतमयो यः आस्ते तं प्रणवं संस्मरेदिति सम्बन्धः । तस्याचेतनप्रधानात्मकत्वव्युदासाय विशिनष्टि दिव्य इति । स्वप्रकाशचिदेकरसतया द्योतमान इत्यर्थः ॥ २॥ तर्हि स किं वटबीजवत्परिणामी नेत्याह - यथा रज्जुरहेर्विप्रा ! विश्वस्यापि तथा नवः । आधारोऽतो विभिन्नस्तं प्रणवं संस्मरेद्यतिः ॥ ३.७.३॥ *यथेति* ॥ यथा रज्जुः स्वविवर्त्तस्याहेः तथा सर्वस्याधारः अधिष्ठानम्, अत एव विभिन्नः अत्यन्तं जगतो विलक्षणः सत्यः, नवः अजरः ॥ ३ ``यतो वा इमानि भूतानि जायन्ते'' इत्यादिश्रुतय एतदर्थपरा इति दर्शयंस्तदज्ञानकृतानर्थस्य तद्ध्यानेन निवृत्युपपत्तेः प्रमाणसाफल्यमप्येवं सति सिध्यतीत्याशयेनाह -- यद्विवर्त्तः प्रपञ्चोऽयं येन जीवति सर्वतः । यद्ध्यानान्नाशमायाति प्रणवं संस्मरेद्यतिः ॥ ३.७.४॥ *यद्विवर्त्त इति* । यद्ध्यानात् यत्साक्षात्कारान्नाशं बाधम् ॥ ४॥ एवं च तस्य जगदुपादानत्ववादोऽप्यज्ञदृष्ट्यैव तत्त्वदृशा तु `` निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जन''मित्यादिश्रुतिवादा इत्याशयेनाह उपादानं महादिव्यं यमाहुर्मुग्धमानसाः । निष्कलं विभुमात्मानं प्रणवं संस्मरेद्यतिः ॥ ३.७.५॥ *उपादानमिति* महानपरिच्छिन्नो यो दिवि द्योतनात्मके चित्स्वभावे दिव्यस्तं, निष्कलं निरवयवम् ॥ ५॥ ``स य इमांस्त्रीन्लोकान्पूर्णानतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयाद् `` इत्यादिश्रुतिबोधितमहाप्रभावां गायत्रीमपि सम्यक् परित्यज्य यतीश्वराः यं प्रणवं जपन्ति, यतः प्रणवः साक्षान्मोक्षस्वरूपः, गायत्री तु साक्षात्कर्मोपासनफलात्मकसगुणब्रह्मप्राप्तिहेतुरित्याशयेनाह -- गायत्रीं सम्परित्यज्य यं जपन्ति यतीश्वराः । साक्षान्मोक्षस्वरूपं तं प्रणवं संस्मरेद्यतिः ॥ ३.७.६॥ *गायत्रीमिति* ॥ ६॥ गायत्र्यादिक्षुद्रमन्त्राः कलां नार्हन्ति षोडशीम् ॥ यत्प्रभावमहाम्भोधेः प्रणवं संस्मरेद्यतिः ॥ ३.७.७॥ अत एव प्रणवप्रभावमहार्णवस्यापारत्वात् गायत्र्यादयः मायिक क्षुद्रसगुणब्रह्मभावफलत्वाद्यपेक्षया क्षुद्रमन्त्राः षोडशीमपि कलां नार्हन्तीत्युक्तिरपि अल्पोक्तिः ॥ ७॥ यस्मादृते न चेदं स्यादृते रज्जुं यथा फणी । यत्सत्तातो जगत्सत्ता प्रणवं संस्मरेद्यतिः ॥ ३.७.८॥ अज्ञाताद्यस्मादृते अज्ञातं यं विनेत्यर्थः । व्यतिरेकोक्तमन्वयेनाह *यत्सत्तात इति ॥ ८॥ ज्ञाते विशेषणाभावप्रयुक्तविशिष्टाभावरूपव्यतिरेकसिद्धिरित्याशयेनाह-- साक्षात्कृत्य यमात्मानं न पश्यन्ति यतीश्वराः । जीवभेदं विश्वभेदं प्रणवं संस्मरेद्यतिः ॥ ३.७.९॥ साक्षात्कृत्येति ॥ ९॥ अनादिप्राप्तकर्माणि शिखासूत्रादिकान्यपि । यस्मै त्यजन्ति सावित्रीं प्रणवं संस्मरेद्यतिः ॥ ३.७.१०॥ यस्मै मोक्षरूपं यमुद्दिश्य त्यजन्ति ॥ १०॥ ``सर्वे वेदा यत्पदमामनन्ति'', ``तत्तु समन्वयाद्''इत्यादिश्रुतिसूत्रदर्शितः सर्ववेदवेदान्तानां परमपुरुषार्थावसानलक्षणस्तात्पर्येण समन्वयोऽपि यत्रैव नान्यत्रेति स्मरेदित्याशयेनाह-- यत्र प्रतिष्ठितो विप्राः ! सर्ववेदसमन्वयः । तात्पर्येण न चान्यत्र प्रणवं संस्मरेद्यतिः ॥ ३.७.११॥ *यत्रेति* ॥ अन्यत्र नानातार्किकवादिप्रविकल्पितप्रधानपरमाणुविज्ञानशून्यकालस्वभावमिति यदृच्छाभूतपुरुषादौ ॥ ११॥ नानावादिभिः प्रधानपरमाण्वादिभेदभावेन विकल्पमानं जगत्कारणं तत्त्वतो विमृश्यमानं प्रणवब्रह्मैव पर्यवस्यतीत्याशयेनाह-- स्वस्वाभिमतमार्गेण यं वदन्ति विवादिनः । जगदादिमनादिं तं प्रणवं संस्मरेद्यतिः ॥ ३.७.१२॥ *स्वस्वाभिमतमार्गेणेति* । मार्गेण तत्तत्प्रक्रियया यं प्रणवमेव जगदादिं जगत्कारणं वदन्ति । वस्तुतस्तु ``तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्य-'' मित्यादिश्रुतेरनादिम् ॥ १२॥ तस्य तटस्थतां विहाय सर्वमहावाक्यार्थभूतः परमपुरुषार्थोपयोगिप्रत्यगभेदः स्मर्तव्य इत्याह-- वेदा वदन्ति येनैक्यं यस्य जीवस्य नो भिदा । जीवो यो यत्परं ब्रह्म प्रणवं संस्मरेद्यतिः ॥ ३.७.१३॥ *वेदा इति * ॥ वेदाश्चतुर्वेदगतसर्वमहावाक्यानि येन प्रणवब्रह्मणा सह जीवस्यैक्यं वदन्ति, यतो यस्य जीवस्य च विरुद्धोपाधिद्वयशोधने चिदेकरस्य परिशेषान्नो भिदा । अज्ञानबाधपर्यन्तमेव भ्रान्त्या जीवः, ज्ञानदृशाऽवेक्षणे तु यत्सदैव परं ब्रह्मेति प्रणवं यतिः संस्मरेदित्यर्थः ॥ १३॥ श्रुतिस्मृतिभ्यां विहितो यदैक्यज्ञानसिद्धये । गायत्र्यादिपरित्यागः प्रणवं संस्मरेद्यतिः ॥ ३.७.१४॥ मुमुक्षूणां मोक्षसाधनस्य यदैक्यज्ञानस्य सिद्धये पारमहंस्यविधायकश्रुतिस्मृतिभ्यां गायत्र्यादिसर्ववेदकर्मवित्तपुत्रादिपरित्यागो विहितस्तं प्रणवम् ॥ १४॥ ब्रह्मविष्ण्वादिभेदेन यो भाति जगतां पतिः । ब्रह्मादयो यं जपन्ति प्रणवं संस्मरेद्यतिः ॥ ३.७.१५॥ किं बहुना ब्रह्मविष्णुरुद्रादिसर्वदेवभेदेन यः प्रणवो भाति, य एव सर्वजगतां पतिः स्वामी, ब्रह्मादयः सर्वे देवा ऋषयो यतयश्च यं जपन्ति, एवं महाप्रभावोऽयं प्रणव इति संस्मरेदित्यर्थः ॥ १५॥ सूत उवाच-- य इमामनुसन्धत्ते यतिर्नित्यमनुस्मृतिम् । ऐन्द्रं सारस्वतं प्राप्य शाश्वतं फलमश्नुते ॥ ३.७.१६॥ यतिर्यथोक्तं तदनुरूपं फलमश्नुते प्राप्नोति, इन्द्रः परमेश्वरस्तत्सम्बन्धि ऐन्द्रं, सरस्वत्याः विषयं सारस्वतं सर्वशास्त्रतदर्थज्ञानं प्राप्य शाश्वतं नित्यं निरतिशयानन्दं मोक्षफलमश्नुते प्राप्नोति ॥ १६॥ अनुस्मृतिं महादेव्यै इत्येवं शम्भुरब्रवीत् ॥ ३.७.१७॥ इति प्रणवानुस्मृतिः ॥ इत्येवंरूपामनुस्मृतिं शम्भुर्महादेव्यै अब्रवीदिति साम्प्रदायिकमप्यनुस्मर्त्तव्यमित्याशयः ॥ १७॥ । इति अनुस्मृतिव्याख्या समाप्ता ॥ ॐकारजञ्जपूकानां जप्यान्यङ्गानि सर्वशः । सूतेन सम्यगुक्तानि ईश्वरेणैव पार्वतीम् ॥ ३.८.१॥ पूर्वोक्तान्यङ्गस्तुत्याद्यनुस्मृत्यन्तानि प्रणवोपास्त्यङ्गानि यस्मात्साक्षादीश्वरेणैव पार्वतीं प्रति सम्यगुक्तानि, सूतेन च शौनकादिमुनिभ्यः सम्यगुक्तानि, अतः ॐकारजञ्जपूकानां तान्यवश्यं जप्यानीत्यन्वयः ॥ १॥ पार्वत्यङ्गानि सर्वाणि जप्त्वा दिव्यानि सर्वशः । आनन्दं परमं प्रापुर्यथैते मुनिसत्तमाः ॥ ३.८.२॥ हे पार्वति! पूर्वोक्तानि दिव्यानि इमानि सर्वाण्यङ्गानि शौनकादयो मुनयो जप्त्वा प्रणवोपास्त्या सर्वशः सर्वप्रकारेण तच्चिन्तनतत्स्मरणतत्प्रबोधनसमाधिसाक्षात्कारान्तैः सर्वप्रकारैरिति यावत्, परमं निरतिशयानन्दं यथा प्रापुस्तथा ते वर्णयिष्यामीत्यर्थः । ननु उपक्रमे मुनिभिः पृष्टेन सूतेन अत्रैवोदाहरन्तीममितिहासं पुरातनम् ॥ पुरा गौर्या महादेवः पृष्टो व्याचष्ट भूसुराः ॥ इति सूक्तोत्यपेक्षया गौर्यै ईश्वरकृतः उपदेशः पूर्वकालः प्रतिपादितः, इह तु तद्वैपरीत्यमिति पूर्वापरविरोधः । सत्यम् । प्रतिद्वापरं व्यासावतारसूतमुन्युपदेशादिव्यवहारस्य समाननामरूपस्याऽनादेः सम्भवाददोषः ॥ २॥ श्रुत्वेदं मुनिशार्दूलाः सन्तोषमतुलं ययुः । केचित्सूतं प्रशंसन्ति चक्रुरालिङ्गनं परे ॥ ३.८.३॥ सन्तोषं निरतिशयानन्दम् ॥ ३॥ मेनिरे केचिदेतेन तुल्यो नास्तीति सर्वशः । केचिद्व्यासस्य माहात्म्यमिदमित्याहुरादरात् ॥ ३.८.४॥ इदं सूतस्य प्रणवतत्वज्ञानम् ॥ ४॥ अन्येऽप्योङ्काररूपेण निश्चिन्वन्ति स्म सूतकम् ॥ ३.८.५॥ अज्ञातः सूतः सूतकस्तम् ॐकाररूप एवायमिति प्रागज्ञातं सूतमित्यर्थः । अज्ञाते स्वार्थे कन् ॥ ५॥ पठन्तु श‍ृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु । ॐकारकल्पं यतिवृन्दसेव्यं सूतोक्तमीशोक्तमनिन्दितं च ॥ ३.८.६॥ पठन्तु श‍ृण्वन्विति प्राग्व्याख्यातम् ॥ ६॥ इति श्रीस्कन्दपुराणे वैष्णवसंहितायां मन्त्रप्रस्तावे प्रणवकल्पे तृतीयोऽध्यायः ॥ ३॥ इति श्रीप्रणवकल्पप्रकाशे तृतीयोऽध्यायः ॥ ३॥

अथ चतुर्थोऽध्यायः । प्रणवः परमं ब्रह्म प्रणवः परमः शिवः । प्रणवो परमो विष्णुः प्रणवः सर्वदेवताः ॥ ४.१॥ प्रणवः परमं ब्रह्मेति प्राग्व्याख्यातम् ॥ १॥ मुनय ऊचुः पुरश्चर्यां चरित्वा तु पार्वती जप्तृनायिका । अलभिष्ट महानन्दमित्यवोचद्भवान्किल ॥ ४.२॥ कथं प्राप महानन्दं पार्वती तां विधां वद । आनन्दं कीदृशं प्राप कथं प्राप्नोति वा वद ॥ ४.३॥ इत्युक्तो मुनिभिः सूतस्तं प्रकारमभाषत । सूत उवाच-- अथातः सम्प्रवक्ष्यामि यतीनां मुक्तिदायिनी ॥ ४.४॥ जप्तॄणामुपासकानां जपफलब्रह्मविद्याधिदेवतात्वान्नायिका ब्रह्मविद्याफलप्राप्तिका स्वामिनी अलभिष्ट लब्धवती, लभेरनिट्कत्वादिट् दीर्घौ छान्दसौ । तां विधां तं प्रकारं वद । यादृशमानन्दं पार्वती प्राप तादृशं अस्मदादिरप्युपासकः कथं प्राप्नोति तद्वदेत्यर्थः । तं प्रकारं वक्ष्यमाणप्रणवगीतामुखेन अभाषत व्यक्तमुक्तवान् । प्रणवगीतामेव तां वक्तुं प्रतिजानीते अथात इत्यादिना ॥ २॥ ३॥ ४॥ ॐकारगीता या गीता गीता मुक्तिं प्रयच्छति । जेगीयतां गीयमाना गायतस्त्रायते सदा ॥ ४.५॥ या ॐकारगीता पठिता सती मुक्तिं प्रयच्छति सा जेगीयतां पुनः पुनरतिशयेन गीयताम् । गीतेः क्रियासमभिहारे यङ्, कर्मणि लोटि ईत्वे द्वित्वे अभ्यासस्य गुणः । यतो गीयमाना गायतः पुरुषांस्त्रायते सदा ॥ ५॥ प्रतिज्ञातार्थं वक्तुमाख्यायिकामुखेनोपक्रमते-- कदाचिदीश्वरी गौरी विजने शुचिबुद्धिदे । गुहायां हैमवत्यां च ध्यायन्ती ब्रह्म तारकम् ॥ ४.६॥ *कदाचिदित्यादिना* ॥ शुचिबुद्धिदे बुद्धिप्रसन्नताहेतुत्वाद्ध्यानानुकूले इति यावत्, चकरात्स्वहृद्गुहायां च, तारकं ब्रह्म प्रणवम् ॥ ६॥ निर्गुणं स्वात्मरूपेण तिष्ठति स्म सदा शुचिः । ध्यायं ध्यायं संस्थितायाः प्रणवं ध्यानचेतसः ॥ ४.७॥ प्रणवं ध्यायं ध्यायं पुनः पुनरतिशयेन ध्यात्वा, आभीक्ष्ण्ये णमुल् । नित्यवीप्सयोरिति द्विर्वचनम् । ध्यान एव आसक्तं चेतो यस्यास्तथाविधायाः महन्महः आविरासेति परेणान्वयः ॥ ७॥ विश्वं ब्रह्ममयं सर्वमभिन्नं निर्विभेदकम् । पश्यन्त्यास्तत्र पार्वत्या आविरास महन्महः ॥ ४.८॥ तत्र तस्मिन्ध्याने सर्वं विश्वं जगत्स्वात्माभिन्नं var तस्मिन्काले ब्रह्ममयं ब्रह्मस्वभावेन परिणतम्, अत एव निर्विभेदकं परस्परव्यावर्त्तकसर्वधर्मशून्यं पश्यन्त्याः महत् अपरिच्छिन्नं महः प्रणवब्रह्म ज्योतिः साक्षादाविरास ॥ ८॥ तदेव वर्णयति सर्वत्रगं सर्वरूपं निर्मलं निरुपद्रवम् । सत्यं ज्ञानमनन्तं च मनोवाचामगोचरम् ॥ ४.९॥ *सर्वत्रगमिति*। देशकालकृतपरिच्छेदाभावात्सर्वरूपम्, आवरणक्षयान्निर्मलम्, विक्षेपाभावान्निरुपद्रवम्, अबाध्यत्वात्सत्यम्, जाड्याभावात् ज्ञानम्, अतः सजातीयविजातीयस्वगतभेदरहितत्वादनन्तम्, अत एव मनोवाचामगोचरम् ॥ ९॥ अद्वैतं मोक्षरूपञ्च प्रत्यग्रूपममेयकम् । चिद्रूपमंशहीनं च जीवेशादिभिधापहम् ॥ ४.१०॥ यतः द्वैतात्मकसर्वबन्धशून्यवादद्वैतं, तत एवं मोक्षररूपम् । तत्र सर्वद्वैतैः सह प्रतीचोऽपि निवृत्तौ अपुरुषार्थत्वशङ्कां वारयति *प्रत्यग्रूपमिति* । मेयांशस्य जडस्यैव निवृत्तिर्न चिदंशस्येति दर्शयितुमाह *अमेयकमिति* । तर्हि किं मातृ रूपं? नेत्याह*चिद्रूपमिति* तर्हि तत्किं शोधितम् । जीवतत्वमात्रं साङ्ख्याभिमतं ? नेत्याह *जीवेशादीति* । परिच्छेदपारोक्ष्यादिविरुद्धधर्मपरित्यागेनापरिच्छिन्न- स्वप्रकाशनिरतिशयानन्दात्मकाखण्डमहावाक्यार्थस्वरूपमित्यर्थः ॥ १०॥ प्रपञ्चे दृश्यमाना ये पदार्था मानुषादयः । सुरासुरप्रभृतयो भेददर्शनगोचराः ॥ ४.११॥ अतत्त्वज्ञातृदशायां भेददर्शनगोचरा ये मानुषादयः सुराऽसुरप्रभृतयश्च ते तस्यां तत्त्वदर्शनदशायां रुद्राण्या दृष्टिपथं नागता इति परेणान्वयः ॥ ११॥ तस्यां दशायां रुद्राण्या न दृष्टिपथमागताः । यथा पश्यन्ति नानार्थानविद्याग्रस्तचेतसः ॥ ४.१२॥ उक्तमेवार्थ स्पष्टं पुनराह *यथेति* । अविद्यायां ग्रस्तं चेतो मानसविवेको येषां ते जना यथा नानार्थान्पश्यन्ति तथा नेत्यनुषङ्गः ॥ १२॥ कथं ते पश्यन्ति ? तदाह जीवोऽन्य ईश्वरोऽप्यन्य इत्येवं ध्वस्तदृष्टयः । विदेहमुक्तिवेलायां जीवन्मुक्तौ च तापसाः ! ॥ ४.१३॥ *जीवोऽन्य इति* ॥ जीवः प्राणानां धारक इति संसारी अन्यस्तन्नियन्ता ईश्वरोऽपि अन्य इत्येवं पश्यन्ति, ततस्ते अविवेकध्वस्तद्रष्टय इत्यर्थः । विवेकिनां तत्त्वविदां तर्हि कीदृशी स्थितिस्तामाह *विदेहमुक्तिवेलायामिति ।* हे तापसाः ! विदुषां तु विदेहमुक्तिवेलायां जीवन्मुक्तौ ध्यानकाले समाधिदशायां यादृक्स्थितिस्तादृगेव सदा स्थितिरिति परेणान्वयः ॥ १३॥ ध्यानकाले स्थितिर्यादृक् तादृगेव स्थितिः सदा । भर्तृभार्यादिसम्भेदो गुरुशिष्यादिभिन्नता ॥ १४॥ विदेहमुक्त्यादौ हि कीदृशी स्थितिस्तामाह *भर्तृ*इति ॥ १४॥ वेदशास्त्रादिभेदो वा तदा नो भाति किञ्चन । एतन्निदानमज्ञानं यतो नष्टं विवेकतः ॥ ४.१५॥ तदा तस्यां दशायाम् । कुतो नो भाति ? तत्राह *एतदिति* । विवेकतः - तत्त्वंपदार्थविवेकसाध्यतत्त्वसाक्षात्कारतः ॥ १५॥ उपादाननाशेन तत्कार्यविनाशे दृष्टान्तद्वयमाह मृद्विनाशे घटो यद्वद्रज्जुनाशे यथा फणी । एतस्मिन्नेव काले तु प्रादुरास शुचिश्रवाः ॥ ४.१६॥ लोकोपकारकाराय दिव्या वागशरीरिणी । *मृदिति* ॥ एतस्मिन्नेव देव्यास्तत्त्वसाक्षात्कारविश्रान्तिकाले, शुचिश्रवाः विशदश्रवणयोग्या, अशरीरिणी दिव्या वाक्, लोकानां श्रवणादितत्परजनानामुपकारं तत्त्वप्रतिष्ठानलक्षणं करोतीति लोकोपकारकारो दृढविश्वासस्तस्मै प्रयोजनाय प्रादुरास ॥ १६॥ वागुवाच-- भो भो देवि ! कृतार्थाऽसि गुरुकारुण्यलेशतः ॥ ४.१७॥ अधिकारिबुद्धिकृतार्थतादिरेवात्र देव्याः कृतार्थत्वेनोत्प्रेक्ष्योच्यते ॥ १७॥ नष्टाज्ञाना नष्टकार्या नष्टजीवादिभेदिमा । नष्टकामादिदौर्गुण्या असि त्वं परमेश्वरि ! ॥ ४.१८॥ मज्जपप्रभवादेवं प्रादुरास महन्महः । एवं प्रभावो मज्जप्ता तस्मान्मामेव सञ्जपेत् ॥ ४.१९॥ मज्जपप्रभवात्तत्त्वसाक्षात्कारादिति शेषः । मज्जपो यस्मादेवंप्रभावस्तस्मान्मामेव मुमुक्षुः सञ्जपेत् ॥ १८॥ १९॥ यतीश्वराश्च गायत्रीं त्यक्त्वा भेदावलम्बनम् । मामेव सर्वदा शुद्धा जपन्त्यालोचयन्ति च ॥ ४.२०॥ यो देवो भर्गवः नः धियः प्रचोदयात्प्रेरयति तस्य देवस्य सवितुर्वरेण्यं वरणीयं तत्परब्रह्मात्मकं ज्योतिर्धीमहीति ध्यातृध्यानध्येयत्रिपुटीरूपभेदावलम्बनां गायत्रीं त्यक्त्वा जपनिष्ठा यतीश्वराः मामेव जपन्ति, तत्त्वविचारनिष्ठास्तु आलोचयन्ति, विचारयन्ति पश्यन्ति च ॥ २०॥ मदर्थं चापि मामेव सर्वभेदविनाकृतम् । गायत्रीमपि सावित्रीं शिखां सूत्रं च कर्म च ॥ ४.२१॥ यद्यपि ते मदर्थं पर्यालोचयन्ति, तथापि सर्वभेदविवर्जितं मदर्थं भूतं मामेवान्वेषयन्ति नान्यमित्यर्थः । यस्मात्पूर्वयतीश्वराः मां जप्तवन्तः पर्यालोचितवन्तश्च, तस्मादिदानीन्तनैरपि अधिकारिभिर्मोक्षवाञ्छा भवेद्यदि, तर्हि गायत्र्यादीनि त्यक्त्वा सन्न्यस्य अहं जप्य इति परेणान्वयः ॥ २१॥ त्यक्त्वा सन्न्यस्य जप्योऽहं मोक्षवाञ्छा भवेद्यदि । इदं कल्पं तु सर्वेषां गृहिणां ब्रह्मचारिणाम् ॥ ४.२२॥ वनस्थानां यतीनां च पारायणफलं समम् । सकमण्डलुदण्डानां यतीनामेव मज्जपः ॥ ४.२३॥ तत्र प्रणवजपे सन्न्यासिनामेवाधिकारः तत्कल्पश्रवणाध्ययनादौ तु चतुर्णामप्याश्रमाणामित्याह *इदमिति* । पारायणमात्रादङ्गस्तुत्यादौ प्रागुक्तं फलं यस्य तथाविधमिदं कल्पं सर्वेषां समं साधारणम् ॥ २२ २३ कल्पं साधारण प्रोक्तं पुराणत्वेन हेतुना । सर्वं च मन्मयं देवि ! विश्वस्माच्च विलक्षणः ॥ ४.२४॥ पुराणत्वेन हेतुना पौराणिकरहस्यज्ञाने त्रैवर्णिकानामधिकारादित्यर्थः । शूद्रस्य तु न रहस्यश्रवणेऽधिकारः, ``न शूद्राय मतिं दद्यादि''-त्यादिनिषिद्धत्वात् । इदानीं प्रणवः स्वस्य सर्वात्मतां ब्रह्मतद्विद्यात्मतां चाह *सर्वञ्चेत्यादिना* ॥ २४॥ निर्गुणो निर्विकारोऽहं तद्रूपः सर्वरूपवान् । मत्तोत्पन्नं च यत्किञ्चित्सर्वं च मयि कल्पितम् ॥ ४.२५॥ तद्रूपो ब्रह्मविद्यारूपः ॥ २५॥ अहमेव विलासेन बद्धो मुक्तश्च सर्वगः । मायावीव स्वयं सर्वं सृष्ट्वा तत्र प्रविश्य च ॥ ४.२६॥ संसरामि भ्रमामीव गच्छामीव नमामि च । मूढानां च तथा भामि न गुर्वायत्तचेतसाम् ॥ ४.२७॥ विलासेन मायाविलासक्रीडाकौतुकेन यावदज्ञानं बद्ध इव स्वतत्त्वं ज्ञात्वा मुक्त इव च, मायावी ऐन्द्रजालिक इव, तत्र स्वसृष्टचतुर्विधशरीरे प्रविश्य च, संवादिविषयेषु संसरामीव, विसंवादिविषयेषु भ्रमामीव, मार्गभेदेषु गच्छामीव, अल्पतरेषु सूचिच्छिद्रादिमार्गेषु नमामि समाविशामि । किं सर्वत्र एवमेव ? नेत्याह *मूढानामिति* । गुरुष्वेवायत्तमधीनं चेतो येषां, गुर्वनुग्रहफलसाक्षात्कारफलशालिचित्तानामिति यावत् ॥ २६॥ २७॥ यन्मूढानां जगद्भ्रान्तिदर्शनं यच्च तत्त्वविदां तत्त्वदर्शनं तत्सर्वं दर्शनं चिदात्मैक्यनिर्वाह्यमिति दृष्टतत्त्वनिष्कर्षे चिदात्मैव सर्वं पश्यतीति पर्यवस्यतीत्याशयेनाह - इदं भ्रान्तं जगद्यस्तु पश्यत्येष स पश्यति । लोकभेदं समुद्दिश्य वक्तृता प्रतिवक्तृता ॥ ४.२८॥ *इदमिति* । यस्तु जीव इदं भ्रान्तं जगत्पश्यतीति प्रसिद्धं तदेव प्रागुक्तोऽहमेव स जीवो भूत्वा पश्यति नान्यः-`` नान्योऽतोऽस्ति द्रष्टे''त्यादिश्रुतेः । एवं गुरुशिष्यादिलौकिकभेदकल्पनया वक्तृता प्रतिवक्तृतापि तस्यैवेत्याह *लोकभेदमिति* । अथवा यदि द्रष्ट्रादितत्त्वमात्मैव तर्हि तस्यैव वक्तृता प्रतिवक्तृता च कथम् ? न हि स एव तमेव प्रतिपृच्छति समाधत्ते चेत्यादिव्यवहार उपपद्यते, तत्राह *लोकभेदमिति* । व्यावहारिकप्रसिद्धशरीराद्यौपाधिकभेदं सम्यग् उद्दिश्य सिद्धवत्कृत्य गुरुशिष्यादिसंवादरूपा वक्तृता प्रतिवक्तृता च प्रवर्त्तत इत्यर्थः ॥ २८॥ सर्वात्मभूतस्य मम इन्द्रादिदेवशरीरेषु पृथक्पृथगभिमानकल्पनेन स्वतत्त्वाज्ञानगर्वादिकं यक्षरूपेणाविर्भूय तृणदहनचालनच्छेदनेष्वप्यग्न्यादीनामसामर्थ्यप्रकटनेन गर्वभङ्गोत्तरं तिरोधाने शान्तदर्पेभ्य इन्द्रादिभ्यो जिज्ञासुभ्य उमामुखेन स्वतत्त्वोपदेशनं च तलवकारशास्त्रिणामुपनिषदि प्रसिद्धमित्याह - देवि ! केनोपनिषदि एवं संवादिकोमया । इन्द्रादिना पुरा जातो गर्वनिर्वापणाय वै ॥ ४.२९॥ *देवीति* ॥ हे देवि ! अहं पुरा पूर्वकालं मच्छक्त्याऽसुरविजयानन्तरमिन्द्रादीनामस्माकमेवायं विजयोऽस्माकमेवायं महिमेत्यद्भुतगर्वनिर्वापणाय एवं यक्षरूपेणाविर्भूय तेषामसामर्थ्यं प्रकटीकृत्य पुनस्तिरोभूय च पुनस्तत्राविर्भूतया इन्द्रेण सह संवादिकया उमया हैमवत्या तेषां गर्वहेत्वज्ञाननाशने निर्मूलं गर्वनिर्वापणायाहं जात इति केनोपनिषदि वै प्रसिद्धमित्यर्थः ॥ २९॥ पारमार्थिकदृष्टौ तु नैवं पर्युपपद्यते । एतादृशं स्वरूपं त्वं लक्ष्यसे देहपाततः ॥ ४.३०॥ पारमार्थिकदृष्टिदशायां तु नैवं वक्तृता प्रतिवक्तृता च पर्युपपद्यते, ``यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदि``त्यादिश्रुतेरित्यर्थः ॥ देहपाततः - देहस्य मिथ्यात्वबुद्ध्यवाधतः ॥ ३०॥ एवमेव हि यो वेद लभते सोऽपि मां शिवम् । तस्मात्सर्वप्रयत्नेन मदर्थं प्रविचारयेत् ॥ ४.३१॥ मां प्रणवतत्त्वात्मकं, शिवं निरतिशयानन्दम् ॥ ३१॥ श्रुण्वीत चापि मन्वीत निदिध्यासनमाचरेत् । मदर्थो यत्र विस्तारो वर्णितो बुधसत्तमैः ॥ ४.३२॥ मदर्थं प्रथमं गुरुमुखाच्छृण्वीत, ततः श्रुतार्थदार्ढ्याय मन्वीतापि, ततो निदिध्यासनं विपरीतभावनाच्छेदार्थमाचरेत् इत्यर्थः । यत्र येषु श्रुतिस्मृतिपुराणसूत्रभाष्यादिषु, विस्तीर्यत इति विस्तारः, कर्मणि घञ्, उपपत्तिभिर्विस्तारितो मदर्थो वर्णितस्तान् ग्रन्थान् श‍ृण्वीत मन्वीत चेत्यनुषज्यते ॥ ३२॥ तत्रावस्थात्रयान्वयव्यतिरेकावधारितसदेकस्वभावत्वात्पुरुषस्यैव पारमार्थिकसत्त्वं नावस्थात्रयस्य पुरुषसंसर्गाध्यासेनैव तात्कालिकसत्ताप्रत्ययोपपत्तेरत एव विद्वद्भिर्ध्यानकाले जीवन्मुक्तिरनुभूयते, देहपाते विशेषतः प्रतिभासस्याविच्छेदाद्भूमानन्दैकरसा जीवन्मुक्तिः परिशिष्यते इत्याह -- सद्भावो यस्य पुंसोऽस्ति तस्यावस्थात्रयं भवेत् । जीवन्मुक्तिर्ध्यानकाले देहपाते विशेषतः ॥ ४.३३॥ *सद्भाव इति* ॥ यस्य पुंसः स्वसत्तयैव सद्भावोऽस्ति तस्यैव सत्तया यावज्जीवं पर्यायेणावस्थात्रयं भवेत् । ध्यानकाले आविर्भूतेनापरोक्षसाक्षात्कारेण जीवन्मुक्तिश्च भवेत्, देहपाते विशेषतो विदेहमुक्तिश्च भवेन्नात्यन्तासतः परतः सतो वेत्यर्थः ॥ ३३॥ न तस्य जन्म दुःखं वा भेदो वा सम्भवत्युमे । मुह्यन्ति मूढाः सर्वत्र गुरुशास्त्रपराङ्मुखाः ॥ ४.३४॥ अत एव सदसतोः सम्बन्धयोगादसङ्गस्य तस्य पुंसो जन्म दुःखं ब्रह्मभेदो वा न सम्भवत्येव । एवं स्वाध्यवसाये परात्मतत्त्वे गुरुशास्त्र पराङ्मुखाः मूढा मुह्यन्ति ॥ ३४॥ कथं मुह्यन्ति ? तदाह -- अन्यो जीवस्तथा ब्रह्म प्रपञ्चोऽन्य इतीश्वरि ! । नैव पश्यन्ति सच्चित्ता यतो ब्रह्माद्वयं स्मृतम् ॥ ४.३५॥ *अन्य इति * गुरुशास्त्रानुगतसन्त्रितास्तु नैवं मुह्यन्ति, यतो गुरुशास्त्रोपदेशाद्विस्मृतकण्ठचामीकरमिव स्मृतं स्वतत्त्वमेव ब्रह्माद्वयमित्यर्थः ॥ ३५॥ सर्वोपनिषदो देवि ! गुरुवाक्यं सतां वचः । स्वानुभूतिर्विचारश्च प्रमाणं यदि पार्वति ! ॥ ४.३६॥ अत एव गतिसामान्यपरिज्ञानाय विचारिताः सर्वा उपनिषदः, तत्तात्पर्यप्रदर्श्यकं गुरुवाक्यं, तदुपबृंहकस्मृतिपुराणसूत्रभाष्यादिरूपं सतां पूर्वाचार्याणां वचः, तदनुगुणा स्वानुभूतिः, तद्दार्ढ्याय पुनः पुनर्विचारश्चेत्येतत्पञ्चकं यदा स्थूणानिखननन्यायेन तत्र दृढतरप्रतिष्ठाकारणमस्ति तदा स्वात्मैव ब्रह्माद्वयं सिद्धमित्युपसंहारः ॥ ३६॥ उक्तमर्थं प्रशिशंसिषुः सूत आख्यायिकाशेषमुपवर्णयति--- इत्युक्त्वा विररामासौ दिव्या वागशरीरिणी ॥ सूत उवाच- गौरीदं वाक्यमाकर्ण्य आश्चर्यं परमं ययौ । वृत्तान्तमिममीशानी ज्ञापयामास शङ्करम् ॥ ४.३७॥ *गौरीत्यादिना* ईशानस्य स्त्री ईशानी, पुंयोगादाख्यायां ङीप् ॥ ३७॥ श्रुत्वा वाक्यं तथा शम्भुः सन्तोषं परमं ययौ । निश्चयामासतुर्विप्राः ! तथेति गिरिजाशिवौ ॥ ४.३८॥ निश्चयामासतुनिश्चिक्यतुः । निश्चयशब्दात्तत्करोतीति णिचि लिटि ``कास्प्रत्ययादि''त्यामि ``अयामन्ताल्वाय्येन्विष्णुष्वि''त्ययादेशविषये णिलुक्छान्दसः । अशरीरिण्या वाचा यद्युक्तं तत्तथैवेति निश्चिक्यतुरित्यर्थः ॥ ३८॥ कुर्वाते प्रत्यहं ध्यानं प्रणवब्रह्मणः शिवौ ॥ तस्माज्जपन्तु चोङ्कारं साङ्गं तु मुनिसत्तमाः ॥ ४.३९॥ ध्यानग्रहणं जपस्याप्युलक्षणम्, जपग्रहणमप्येवम्, यस्माद्गिरिजाशिवौ प्रत्यहं प्रणवब्रह्मणो जपं ध्यानं च कुर्वाते तस्माद्भवन्तोऽपि साङ्गमोङ्कारं जपन्तु ध्यायन्तु चेत्यर्थः ॥ ३९॥ तर्हि किं कुटीचकादिभिरिव परमहंसेनापि गायत्रीं जप्त्वा प्रणवो जप्यः ? नेत्याह-- त्रिकरण्या च गायत्रीं पित्रा मूढेन देशिताम् । त्यक्त्वा सर्वज्ञगुरुणा दिष्टं तारञ्जपन्तु च ॥ ४.४०॥ *त्रिकरण्येति* । त्रीणि करणानि वाङ्मनःकायास्तेषां समाहारः त्रिकरणी, द्विगोरिति ङीप्, तया, मूढेन अनात्मज्ञेन पुत्रवित्तादिस्नेहमूढेन च पित्रा देहजनकेन देशितां साक्षादाचार्यद्वारा वा उपदेशितां गायत्रीं व्याहृत्यादिप्रदर्शनक्रमेण विधिना त्यक्त्वा सर्वज्ञेन सर्वात्मकब्रह्मविदा गुरुणा परमहंसपरिव्राजकाचार्येण दिष्टं तारं जपन्तु चकाराद्ध्यायन्तु च ॥ ४०॥ उक्तमुक्तं दृढयितुं यतेर्गायत्रीजपे इतरेषां तारजपे प्रणवजपे स्त्रीणां च दोषमाह-- यतिर्गायत्रीजपिता बट्वाद्यास्तारजापकाः । मन्त्रजाप्यश्च नार्यश्च सर्वे निरयगामिनः ॥ ४.४१॥ *यतिरिति* । बटुः ब्रह्मचारी तदाद्यास्त्रयः आश्रमिणः तारजापकाः केवलप्रणवजपपराः । प्रणवघटितमन्त्रान्तरजपे तु तेषां न दोषः । मन्त्रं जपन्तीति मन्त्रजाप्यः, कर्मण्यण् । ``टिढ्ढाणमि''त्यादिना ङीप् । सर्वे इति ``पुमान् स्त्रियेति'' पुंशेषः । आद्यश्चकारो निरयगामिषु स्त्रीणां समुच्चयार्थः । द्वितीयस्तु मन्त्रजपे अनुक्तशूद्रपतिताद्यनधिकार्यन्तरसमुच्चयार्थः ॥ ४१॥ इत्यवोचमहं गीतां दिव्यां प्रणवनामिनीम् । यो गायति सदा शुद्धः सोऽन्ते मुक्तिं च विन्दति ॥ ४.४२॥ प्रणवेतिनामिनी नामवतीं प्रणवगीताख्यामिति यावत् । इतीति व्यवहितोपसंहारस्तत्पठनफलकीर्तनार्थः ॥ शुद्धः-स्नानाचमनादिप्रयतः । अन्ते मुक्तिं, चकारादिह वाच्छितार्थांश्च विन्दति ॥ ४२॥ पठन्तु श‍ृण्वन्तु च वाचयन्तु लिखन्तु गायन्तु च बोधयन्तु । ॐकारकल्पं यतिवृन्दसेव्यं सूतोक्तमीशोक्तमनिन्दितं च ॥ ४.४३॥ इति श्रीप्रणवकल्पे चतुर्थोऽध्यायः ॥ ४॥ *पठन्त्विति* । प्राग्व्याख्यातम् ॥ ४३॥ इति श्रीप्रणवकल्पप्रकाशे चतुर्थोऽध्यायः ॥ ४॥

अथ पञ्चमोऽध्यायः ।

प्रणवः परमं ब्रह्म प्रणवः परमः शिवः । प्रणवः परमो विष्णुः प्रणवः सर्वदेवताः ॥ ५.१॥ प्रणवः परमं ब्रह्मेति प्राग्व्याख्यातम् ॥ १॥ मुनय ऊचुः- सूत सूत महाप्राज्ञ द्वैपायनकृपालय ! । सत्यवत्याः सुतात्सर्वं ज्ञातं वैदिकलौकिकम् ॥ ५.२॥ यमुनाद्वीपरूपं यदयनं स्थानं तत्र जातो द्वैपायनः, द्वैपायनस्य व्यासस्य कृपायाः आलय आवासभूतेति सर्वरहस्योपदेशशालित्वद्योतनार्थम् । तदेव स्पष्टमाह--*सत्यवत्या इति* । वैदिकं वेदरहस्यं लौकिकं लोकरहस्यं वेदातिरिक्तविद्यास्थानरहस्यं चेत्यर्थः ॥ २॥ अस्माकं कृपया पूर्वमोङ्कारकवचं शुभम् । ॐकारहृदयं पुण्यमोङ्काराङ्गस्तुतिस्तथा ॥ ५.३॥ कवचादीनां पञ्जराद्यन्तानां समुच्चितानां त्वया उक्तानीत्युत्तरत्रान्वयः ॥ ३॥ ॐकारनाम्नां दिव्यानां शतमष्टोत्तरं मुने ! । ॐकारपञ्जरादीनि सर्वाण्युक्तानि भो ! त्वया ॥ ५.४॥ आदिपदाद्गीतान्तसङ्ग्रहः ॥ ४॥ श्रुत्वैतानि मुनिश्रेष्ठैर्लब्धं कार्त्तार्थ्यमुत्तमम् । वाच्यं श्राव्यं पुनः किञ्चिदस्ति नो वद तत्प्रभो ! ॥ ५.५॥ कृतः अर्थः पुरुषार्थो जन्मसाफल्यं च यैस्ते कृतार्थास्तेषां भावः कार्त्तार्थ्यं ``गुणवचनब्राह्मणादिभ्यः'' इति ष्यञ्,। त्वया वक्तुं योग्यं वाच्यम्, अस्माभिः अवश्यं श्रोतुं योग्यं श्राव्यम्, ``ओरावश्यके'' इति ण्यत्, किञ्चित्सहस्रनाम अस्ति तत् नः अस्मभ्यं वद ॥ ५॥ यच्छ्रुत्वा मुनिधौरेय ! श्राव्यं लोके न विद्यते । ॐकारनाम्नां साहस्रं भुक्तिमुक्तिफलप्रदम् ॥ ५.६॥ यत् ॐकारनाम्नां साहस्रं श्रुत्वा प्रणवोपास्तिविषये अन्यत् श्रोतव्यं न विद्यते नावशिष्यते ॥ ६॥ नानारोगहरं नॄणां नानाकर्मार्थदायकम् । नानाश्रमफलाकारं नानास्तोत्रफलप्रदम् ॥ ५.७॥ नानाकर्मणामष्टाचत्वारिंशत्संस्काररूपाणां सर्वकर्मणामर्थः परमप्रयोजनमात्मतत्त्वज्ञानं तद्दायकम्, नानाश्रमसाध्यान्यन्यान्यपि यानि काम्यफलानि तान्यप्याकिरति वर्षतीत्याकारम् ॥ ७॥ अस्मभ्यं वद लोकानां हितं कर्तुं महामते ! । सकृच्छ्रुत्वा पठित्वा वा पुनर्जन्म न विद्यते ॥ ५.८॥ अस्मन्मुखेन प्रख्यानात्सर्वेषामधिकारिलोकानां हितं कर्त्तुं, यत्सकृच्छ्रुत्वा पठित्वा वा ॥ ८॥ सूत उवाच-- भो भो हे मुनयः श्रेष्ठाः ! साधु पृष्टं महात्मभिः । यथा शम्भुः पुरा गौर्या मेघगम्भीरया गिरा ॥ ५.९॥ पुरा गौर्या शम्भुर्यथा पृष्टस्तथा भवद्भिरपि मेघगम्भीरया गिरा सम्यक्पृष्टमित्यन्वयः ॥ ९॥ प्रश्नेनानेन तुलया न पृष्टं केनचित्पुरा । अतो वक्ष्यामि युष्मभ्यं यतो मुक्तिर्भवेद्ध्रुवम् ॥ ५.१०॥ यतो यस्मान्नामसहस्रान्मुक्तिर्ध्रुवं भवेत् तद्वक्ष्यामि ॥ १०॥ इत्युक्त्वा वक्तुमारेभे सूतः पौराणिकः प्रभुः ॥ ॐ अस्य श्रीप्रणवदिव्यसहस्रनामस्तोत्रमन्त्रस्य परब्रह्मऋषिः, अनुष्टुप् छन्दः, परमात्मा देवता, अकारो बीजम्, उकारः शक्तिः, मकारः कीलकं, मोक्षार्थे जपे विनियोगः ॥ अकारोकारमकारैर्न्यासं कुर्यात्करादिषु । अष्टोत्तरनामवद्द्रष्टव्यम् ॥ ऋषिः कल्पादौ द्रष्टा स एव चास्य सहस्रनाम्नोऽपि, एवं प्रणवदैवतैव देवता तद्विनियोगे विनियोगश्च, छन्दस्त्वष्टाक्षरपादैः श्लोकैर्नाम्नां क्रमनिबन्धादनुष्टुप् ॥ अथ ध्यानम्-- ॐकारं निगमैकवेद्यमनिशं वेदान्ततत्त्वास्पदं चोत्पत्तिस्थितिनाशहेतुममलं विश्वस्य विश्वात्मकम् । विश्वत्राणपरायणं श्रुतिशतैः सम्प्रोच्यमानप्रभं सत्यं ज्ञानमनन्तमूर्तिममलं शुद्धात्मकं तं भजे ॥ ५.११॥ निगमानां सर्ववेदानामेकं वेद्यं ``सर्वे वेदा यत्पदमामनन्ती''ति श्रुतेः । निशा अज्ञानान्धकारस्तद्विरोधित्वादनिशम्, वेदान्ततत्त्वस्य परब्रह्मणः वाचकत्वात्प्रतीकत्वाच्च आस्पदम् । विश्वस्योत्पत्त्यादेः अकाराद्यर्थमुखेन हेतुः अभिन्ननिमित्तोपादानकारणम्, अत एव विश्वात्मकम्, विश्वस्य सर्वस्य अधिकारिजनस्य ज्ञानादिसम्पादनेन त्राणे रक्षणे परायणम्, श्रुतिशतैः सम्यक्प्रोच्यमाना ख्यायमाना प्रभा तात्पर्यविषयः ब्रह्मज्योतिर्यस्य, अनन्ता अपरिच्छिन्ना मूर्तिस्तात्त्विकस्वरूपा यस्य । अमलमिति प्रथमं कामकर्मवासनामलवारणाय, द्वितीयं त्वविद्यामलनिरासाय विशेषणम्, कारणमलनिरासाच्छुद्धात्मकं तं प्रणवं भजे इत्यर्थः ॥ ११॥ एवं न्यस्य ततो ध्यात्वा नामानि प्रजपेत्सुधीः । ॐकारस्तारकं सूक्ष्मः प्रणवः सर्वगोचरः ॥ ५.१२॥ क्षरमेकाक्षरं क्षारं क्षितिरुत्पत्तिहेतुकः । नित्यो निरत्ययो शुद्धो निर्मलात्मा निराकृतिः ॥ ५.१३॥ ॐकार इत्यादीनि यानि अष्टोत्तरशतनामसु व्याख्यातानि तानि तत एव ज्ञातव्यानि, स्पष्टानि नामानि तु प्रसिद्धार्थान्येव । शिष्टानि व्याख्यायन्ते-कार्यप्रपञ्चात्मना क्षरम्, क्षारयति नाशयति मलमिति क्षारम् क्षितिर्नाशो जगतः प्रतिष्ठा वा ``क्षि निवासगत्योरि''ति प्रसिद्धेः । उत्पत्तेर्हेतुरेवोत्पत्तिहेतुकः । अत्ययो नाशस्तद्रहितत्वान्निरत्ययः ॥ १२-१३॥ निराधारः सदानन्दः शाश्वतः परतः परः । अकारात्मा मकारात्मा बिन्दुरूपी कलाधरः ॥ ५.१४॥ कलाः प्रागुक्तनवांशाः चन्द्रादिकला वा तासां धरतीति धरः ॥ १४॥ उकारात्मा महावेद्यो महापातकनाशनः । ईड्यः परतरोऽवेद्यो वेदवेद्यो जगद्धरः ॥ ५.१५॥ ईड्यः स्तुत्यः । चक्षुराद्यगम्यत्वादवेद्यः ॥ १५॥ वेदकृद्वेदवेत्ता च वेदान्तार्थस्वरूपगः । वेदान्तवेद्यो नतुलः कञ्जजन्मा कमाकृतिः ॥ ५.१६॥ न विद्यते तुला साम्यं यस्य स नतुलः । ``अमानोना प्रतिषेधे'' इति नशब्दस्य समासोऽयं नतु नञः । कमाकृतिः सुखाकारः ॥ १६॥ खरूपी खगवाही च खगः खगतरः खगः । खाद्यः खभूतः खगतः खगमः खगनायकः ॥ ५.१७॥ खगौ हंसगरुडौ ताभ्यां वाही वाहनवान् । खगः पक्षिरूपः । खगतरः खगश्रेष्ठः सूर्यादिः । खड्गच्छन्तीति खगो वायुः, रूढियोगाभ्यां नामभेदः । खस्याकाशस्य आद्यः कारणम् । ततः सर्गादौ स्वयमेव खभूतः । ततो वायुरूपेण खगतः । खे गच्छतीति खगमः । खे गच्छतां सूर्यचन्द्रनक्षत्रादीनां नायकः प्रवर्तकः ॥ १७॥ खरमः खजलः खालः खगवाहः खगेश्वरः । गन्ता गमयिता गम्यो गच्छन्गतिकरो गतिः ॥ ५.१८॥ देवादिरूपेण खे रमत इति खरमः । खे मन्दाकिनीमेघादिरूपेण जलं यस्य स खजलः । ``सप्तमीविशेषणे बहुव्रीहा''विति पूर्वनिपातविधिसामर्थ्याद्व्यधिकरणपदो बहुव्रीहिः । खं चन्द्रनक्षत्रादिरूपेण अलति भूषयतीति खालः । कर्मण्यण् । खगान्मेघान्वहतीति खगवाहः । खगेश्वरो गरुडरूपः । गंत्र्यादिरूपेण गन्ता । सारथ्यादिरूपेण गमयिता । ग्रामनगरादिरूपेण गम्यः । पदात्यादिरूपेण गच्छन् । अश्वादिरूपेण गतेः करो गतिकरः । गतिर्गमनक्रियारूपः ॥ १८॥ मनसो गतिहन्ता च गम्यानामुत्तमोत्तमः । घण्टानिनादो घण्टेयो घण्टेयपरनन्दनः ॥ ५.१९॥ विभूतिमत्त्वान्मनसोऽपि गतिं हन्ति तिरस्करोतीति मनसो गतिहन्ता, `` अनेजदेकं मनसो जवीयः'' इति श्रुतेः । गम्यानां प्राप्याणां कर्मोपास्तिज्ञानफलानामुत्तमोत्तमो निरतिशयोत्कर्षकाष्ठां प्राप्त इत्यर्थः, ``आत्मलाभान्न परं विद्यत'' इत्यापस्तम्बवचनात् । अपि भूपरमाणुभूरिसङ्ख्येष्वपयातेषु चतुर्मुखेष्वलब्धात् ॥ अपदुःखनिरन्तसौख्यसिन्धोर्न च लाभोऽस्ति परो निजात्मलाभात् ॥ इत्यभियुक्तोक्तेश्च । घण्टादिनादः प्रसिद्धः । घण्टेयो घण्टानादसदृशोऽनाहत इत्यर्थः । नादलाक्षणिकाद्धण्टाशब्दादुपमेये ढश्छान्दसः ॥ घण्टेयपरान् अनाहतनादसमाधिनिष्ठान्नन्दयत्यानन्दयतीति घण्टेयपरनन्दनः ॥ १९॥ घण्टानादकरो घण्टानादवान्नादवान् घुणः । घस्रो घनितचिद्रूपो घनानां जलदायकः ॥ ५.२०॥ पूजकादिरूपेण घण्टानादकरः, घण्टारूपेण प्रणवो घण्टानादवान्, घण्टादिरूपेण सर्वनादवान्, कालरूपेण सर्वं घुण इव जरयतीति घुणः । दिनरूपत्वात्सदा प्रकाशत्वाद्वा घस्रः । घनिता सैन्धवशिलोदरघना चिदेव रूपं यस्य ``तद्यथा सैन्धवघन'' इत्यादिश्रुतेः ॥ २०॥ चम्पापूज्यश्चिदानन्दश्चिराच्चिरतरश्चितिः । चितिदश्चितिगन्ता च चर्मवान् चलनाकृतिः ॥ ५.२१॥ चम्पाशब्दः पुष्पपरः, नित्यत्वादनादित्वाच्चिराच्चिरतरः, चीयतेऽस्मिञ्जगदितिः चितिः, चितिरूपचमसं ददातीति चितिदः । चितिरूपतयाऽस्य गन्ता प्राप्ता । शिवरूपत्वाद्व्याघ्रेभचर्मवान् ॥ २१॥ चञ्चलश्चालकश्चाल्यश्छायावान् छादनात्मकः॥ छाया छाया प्रतिच्छाया जञ्जपूको महामतिः ॥ ५.२२॥ छाया कान्तिः, छायाप्रसिद्धा, प्रतिछाया प्रतिबिम्बः । अर्थभेदान्नामभेदः ॥ २२॥ जलगाह्यो जलाकारो जाली जालविनायकः । झटितिप्रतिधौरेयो झञ्झामारुतसेवितः ॥ ५.२३॥ जालस्य त्रिगुणमायाजालस्य विनायको नियन्ता, झटिति शीघ्रेण प्रतिहताः सर्वे धौरेयाः भारवाहाः येन, देवाद्यगम्यगतिप्रापकत्वादिति भावः । झञ्झामारुतेन प्रलयमारुतेन सेवितः ॥ २३॥ टङ्कश्च टङ्ककर्ता च टङ्ककार्यवशानुगः । ठिठ्ठलो निष्ठुरः कृष्टकमठः पृष्ठगोचरः ॥ ५.२४॥ टङ्कः पाषाणदारणः, टङ्ककार्याणि शिलादिप्रतिमास्तत्र सन्निधानात्तद्वशानुगः, ठिठ्ठलः शिलादिकठिणस्थूलरूपः, सर्वभूम्याधारत्वात्कमठः, अत एव स्वपृष्ठस्थभूम्यात्मना पृष्ठगोचरः ॥ २४॥ काठिन्यात्मा कठोरात्मा कौटः कौटीरगोचरः । डमरुध्वानसानन्दो डाम्भिकानां पराङ्मुखः ॥ ५.२५॥ शिलादिकाठिन्यात्मा, वज्रादिरूपेण कठोरात्मा, कुट्यां भवः कौटः । अल्पा कुटी कुटीरस्तत्र भवाः कौटीराः यतयस्तेषामुपास्यत्वेन गोचरः । डमरुध्वानेन नृत्यपरत्वात्सानन्दः । डाम्भिकानां धर्मध्वजिनां फलाभावात्पराङ्मुखः ॥ २५॥ डम्भेतरसमाराध्यो डाम्भिकानां विडम्बनः । ढक्काकलकलध्वानोऽणिमाणुत्तमसुन्दरः ॥ ५.२६॥ डम्भेतरैरदाम्भिकै सम्यगाराध्यः; डाम्भिकानां तु लोकवञ्चनफलमात्रेण विडम्बनः वञ्चक इति यावत् । ढक्का यशःपटहः तेन सर्वदिक्षु प्रसिद्धः कलकलध्वानः कोलाहलध्वनिर्यस्य । अणिमासिद्धिरूपः अणिमा परमसौक्ष्म्येण अणु, तेभ्यः सूक्ष्मतमेभ्योऽप्याकाशपरमाण्वादिभ्यः सुन्दरः परमसूक्ष्म इति यावत् ॥ २६॥ तारतम्यफलं तल्पं तल्पशायी वितारकम् । तर्त्तव्यं तरणं तारं तारकानाथभूषणः ॥ ५.२७॥ फलस्य कर्मोपासनतारतम्यानुसारित्वात्तारतम्यफलम् । प्रलयादिकालरूपेण सर्वप्राणिसुखनिद्राविश्रान्तिहेतुत्वात्तल्पम् , शेषतल्पशयनशीलत्वात्तल्पशायी संसारार्णवतारणहेतुत्वाद्विशिष्टं तारकं वितारकम् । सर्वकर्मोपास्तिफलवितरणाद्वा वितारकम्, तर्त्तव्यं संसारोत्तरणात्प्राप्यम् । तारणं तत्साधनम् । तारयतीति तारम् । तारकानाथश्चन्द्रस्तद्भूषणः शिवः ॥ २७॥ हिरण्यबाहुः सेनानीर्देशानां च दिशां पतिः । पीतवर्णो महावृक्षो हरिकेशोपवीतवान् ॥ ५.२८॥ अत्र हिरण्यबाहुरित्यादिग्रहणं श्रीरुद्राध्यायस्थार्षनामोपलक्षणम्, तेन सहस्रनामसङ्ख्यासम्पूर्त्तिरनुक्तैरपि तैः कर्त्तव्या, तदर्थश्च तद्भाष्यादेवावगन्तव्यः । तेषु केषाञ्चिदनुवाद उदाहरणार्थः । ``दिशां च पतये नमः'' इति श्रुतौ चकारो देशानां पतये, इति नामान्तरसमुच्चयार्थं इति दर्शयति *देशानामिति* । स्वर्गादिरूपेण पीतवर्णः ॥ २८॥ स्तायूनामग्रणीः श्रीमान्निचेरुः परिचारकः । बिल्मी च कवची वर्मी मत्तेभगवरूथवान् ॥ ५.२९॥ स्तायूनां चोराणां, बिल्मं बिलवल्लोहमुद्रिकारचितशिरस्त्राणं तद्वान् । मत्तैरिभैर्गच्छन्तीति मत्तेभगा गजारोहास्तत्प्रधानो वरूथो रथगुप्तिः सेनेति यावत् तद्वान् ॥ २९॥ वञ्चकः परिवञ्ची च कर्मारः कुम्भकारकः । पक्षिपुञ्जोपजीवी च मृगयुः शुनको नयः ॥ ५.३०॥ नयति नियच्छतीति जगदिति नयः । भक्तानां पापैरनुपघाताय महावज्रकवच इति वा ॥ ३०॥ भक्तपापमहाद्राविर्दरिद्रो नीललोहितः । मीढ्वान्मीढुष्टमः शत्रुव्याधी च बभ्लुशः ॥ ५.३१॥ भक्तानां पापानां महाद्राविनिःशेषेण विद्रावणः, मीढ्वान् मेघादिरूपेण जगत्सेचकः, स एव प्रकृष्टो मीढुष्टमः । शत्रुं विध्यति तच्छीलः शत्रुव्याधी, बभ्लुर्वृषस्तस्मिञ्छेते बभ्लुशः ॥ ३१॥ तोकादिरक्षकः कर्त्ता खल्य ऊर्वर्य एव च । अलाद्यनाथः सूद्यश्च हेतिसाहस्रसंयुतः ॥ ५.३२॥ तोकान्यपत्यानि तदानीनां रक्षकः, खले पलालधान्यविशोधनस्थाने भवः खल्यः, उर्वरा सर्वसस्याढ्या भूमिस्तस्यां भव ऊर्वर्यः, अलं पर्याप्तं कर्मफलमत्तीत्यलादो जीवस्तत्रान्तर्यामितया भवतीत्यलाद्यः, स चासौ नाथश्च, सूद्यः शोभनोदकदेशभवः, हेतय आयुधानि तत्साहस्रसंयुतः ॥ ३२॥ सृकाहस्तो महापद्मः शरव्यायुतमण्डनः । शर्वोऽपहर्तुकामश्च जरित्रस्थः प्रतारकः ॥ ५.३३॥ सृकाहस्तः शस्त्रहस्तः, शरव्याणां इषुधीनामयुतं शतसहस्रं मण्डनमलङ्कारो यस्य, भक्तानां पापदुःखाद्यपहर्त्तुकामः, `` तुङ्काममनसोरपी''ति मलोपः, जरित्रं जरणशीलं शरीरं तत्रस्थः, जीवरूप इत्यर्थः, प्रकर्षेण संस्मरतां तारकः प्रतारकः ॥ ३३॥ अन्नबाणो वातबाणो वर्षबाणकराम्बुजः । दशप्राच्यादिवन्द्यश्च सस्पिञ्जरकलेवरः ॥ ५.३४॥ अन्नवातवर्षैः प्राणिसंहारकत्वात्तद्बाणः, दशाङ्गुलिकरसम्पुटेन प्राच्यादिदिक्षु वन्द्यः, सस्पिर्बालतृणं तद्वत्पिञ्जरकलेवरः कोमलहरितशरीरः, पृषोदरादित्वकल्पनात्पूर्वपदे पिशब्दलोपः, अथवा सस्पयो दुर्वृत्तास्तान् जरयति क्षिणोतीति सस्पिञ्जरं तथाविधं कलेवरं यस्य ॥ ३४॥ जपैकशीलः सञ्जप्यः समजग्धिः सपीतकः । एमादिकुशलो गौरो दिवारात्रैकवृष्टिदः ॥ ५.३५॥ समं युगपदेव सकलाऽविद्याग्रासित्वात्सर्वजगत्संहर्तृत्वाद्वा समजग्धिः, घसेर्यङ्लुकि क्तिनि ``घसिभसोर्हलि चे''त्युपधालोपे ``झषस्तथोरि''ति धत्वे धिचेति सलोपे जग्धिरिति रूपम्, अतिथिप्रभृतिभिः समं सह जग्धिर्भोजनं यस्य गृहस्थस्य तद्रूप इति वा, एवं समानं पीतं क्षारसोमादिपानं यस्य ससपीतकः, ``समानस्य छन्दस्य मूर्धप्रभृत्युदकेष्वि''ति सादेशः, एतुर्भावः कर्म वा एमा सर्वत्र गमनशक्तिस्तदादिसर्वक्रियाकुशलः, एतृशब्दादिमनिचि ``तुरिष्टेमेयस्वि''ति स्मरेः शः, तृलोपः, नीहारादिरूपेण गौरो, महामेघरूपेण कालविशेषे दिवारात्रैकवृष्टिदः ॥ ३५॥ पञ्चाविश्च त्र्यविश्चापि दित्यवाट् तुर्यवाट् तथा । पृष्टवाट् हेहतूनाथो द्युम्नवाजादिदायकः ॥ ५.३६॥ पञ्चाविः पञ्चवत्सरो गौः,ञ्यविस्त्रिवत्सरो गौः, दित्यवाट् द्विवत्सरो वृषभः, सार्धत्रिवत्सरो वृषभस्तुर्यवाट्, चतुःसंवत्सरः पुङ्गवः पृष्ठवाट्, हेहतू गर्भपातिनी गौस्तस्या नाथः, द्युम्नं सुवर्णं वाजमन्नं तदादीनां दायकः ॥ ३६॥ आमीवत्को विचिन्वत्को देवानां हृदयाब्जगः । आनिर्हतश्च विक्षीणो लोप्यश्चोलप्य एव च ॥ ५.३७॥ आसमन्तान्मीवति स्थूलो भवति जृम्भते व्याप्नोति वा आमीवत्को, मीव स्थौल्ये । अनुग्रहीतुं भक्तान्निग्रहीतुमभक्तांश्च विचिनोतीति विचिन्वत्कः, आसमन्ताद्दुष्टान्निहन्तीत्यानिर्हतः, विशेषेण क्षिणोति पापानीति विक्षीणः, लिप्यते तृणादिकं यस्मिंस्तल्लोपं कठिनोषरादिस्थलं तत्र भवो लोप्यः, उलपा बल्वजा नवतृणानि वा तेषु भव उलप्यः ॥ ३७॥ गुरुमाणः पर्णशद्यो सूर्म्य ऊर्व्यो मयस्तमः । शिवः शिवतमः शास्ता घोराघोरतनुद्वयः ॥ ५.३८॥ गुरुमाणः अभक्तेषु क्रोधादुद्यतायुधः, पर्णशदाः शुष्कपर्णचयास्तेषु भवः पर्णशद्यः, सूर्मयः प्रतिमा शोभना ऊर्मयो यासु ता नद्यो वा तत्र भवः सूर्म्यः, उर्व्यां भव ऊर्व्यः, मयस्तमः सुखतमो निरतिशयानन्दरूप इति यावत्, समेधयति यं नित्यं सर्वार्थान्सर्वजन्तुषु । शिवमिच्छन्मनुष्याणां तस्माद्देवः शिवः स्मृतः ॥ अथवानन्तकल्याणगुणैकनिधिरीश्वरः । शिव इत्युच्यते सद्भिः शिवः शब्दार्थपारगैः ॥ नित्यकल्याणनिरतिशयानन्दरूपत्वाच्छिवतमः, शास्ता सर्वप्रशासिता ``एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः'', ``भीषास्माद्वातः पवत'' इत्यादिश्रुतेः, प्राणिनां पापफलप्रदा घोरा तनुः पुण्यफलप्रदा त्वघोरा शिवा तनुस्तदुभयवान् ॥ ३८॥ गिरिपर्वतनाथश्च शिपिविष्टः पतिः पशोः ॥ ५.३९॥ शिपयो रश्मयस्तैर्विष्टो वेष्टितः सूर्यात्मा शिपिविष्टः, पश्यतीति पशुर्व्यष्टिसमष्टिर्जीवस्तस्य पतिः ॥ ३९॥ अप्रगल्भः प्रगल्भश्च मल्लानां नायकोत्तमः । प्रहितः प्रमृशो दूतः क्षत्ता स्यन्दनमध्यगः ॥ ५.४०॥ प्रकर्षेण सर्वप्राणिनां हितः कार्यार्थं प्रेषितः पुरुषो वा, प्रमृशः भक्त परामर्शकुशलः, दूतो वार्ताहरो देवानामग्निः ``अग्निं दूतं वृणीमह'' इति मन्त्रवर्णात्, क्षत्ता सारथिः ॥ ४०॥ स्थपतिः ककुभश्चैव वन्यः कक्ष्यः पतञ्जलिः । सूतो हंसो निहन्ता च कपर्द्दी च पिनाकवान् ॥ ५.४१॥ स्थपतिः खेटग्रामाद्यधिपतिः, ककुभः श्रेष्ठः दिशो वा, वनेषु भवो वन्यः, कक्षेषु तृणस्तम्बेषु भवः कक्ष्यः, पतन्ति अञ्जलयो यस्मिन्सर्वजनानां नमस्कार्यत्वादिति पतञ्जलिः, सूतः सारथिः, पारदो वा, हंसः परमात्मा ``हिरण्मयः पुरुष एकहँस'' इति श्रुतेः ॥ ४१॥ आयुधः स्वायुधश्चैव कृत्तिवासा जितेन्द्रियः । यातुधानी निहन्ता च कैलासे दक्षिणे स्थितः ॥ ५.४२॥ यातुधाना राक्षसा अस्य जगत्संहाराय सन्तीति यातुधानी, दक्षिणे कैलासे कालहस्त्यादिस्थाने ॥ ४२॥ सुवर्णमुखीतीरस्थो वृद्धाचलनितम्बगः । मणिमुक्तामयोद्भासी काट्योऽकाट्यो महाद्रिधृक् ॥ ५.४३॥ सुवर्णमुखी सुवर्णमुखरीसंज्ञा नदी तस्यास्तीरे कालहस्तीश्वररूपेण स्थितः, मणिमुक्तामयै हारादिभिश्चोद्भासी, मणिमुक्ताख्यनदीतीरवासिवाद्वा तन्मयः सन् उद्भासी, काटेषु शिवलिङ्गेषु भवः काट्यः, अलिङ्गत्वादकाट्यः, मेरुकोदण्डधारित्वान्महाद्रिधृक् ॥ ४३॥ हृदय्यश्च निवेष्यश्च हरित्यः शुष्क्य एव च । सिकत्यश्च प्रवाह्यश्च भवरुद्रादिनामवान् ॥ ५.४४॥ ह्रदेषु भवो हृदय्यः, निवेष्यं हि मोदकं तत्र भवो निवेष्यः, हरितेषु नवतृणशैवालादिषु भवो हरित्यः, शुष्केषु समित्करीषादिषु भवः शुष्क्यः, सिकतासु भवः सिकत्यः, प्रवाहेषु प्रवहज्जलेषु भवः प्रवाह्यः, रुद्राध्यायस्थभवरुद्रादिसर्वनामवान्, अतएवोक्तमस्माभिः सहस्रनामसु न्यूना सङ्ख्या रुद्राध्यायस्छितनामभिः पूरणीयेति ॥ ४४॥ भीमोऽभीमोऽपरिक्रान्तो विक्रान्तः सपराक्रमः । शूरशूरो निहन्ता च मन्युमान्मन्युनाशकः ॥ ५.४५॥ अभक्तानां भयानकत्वाद्भीमः, भक्तानां तु सौम्यतमत्वादभीमः, विभुत्वात्परिच्छेदाप्रसिद्धेः केनापि न परितः क्रान्तोऽपरिक्रान्तः अप्राप्तपार इति यावत्, स्वयं तु सर्वत्र विक्रान्तः सर्ववस्तुपारग इत्यर्थः, सर्वेभ्यो बलवत्तमत्वात्सर्वसंहर्तृत्वाच्च सपराक्रमः ॥ ४५॥ भामितो भामवान्भाम उक्षा चोक्षितरक्षकः । हविष्मान्मघवांश्चैव मखानां फलदायकः ॥ ५.४६॥ अशास्त्रमार्गप्रवृत्तेषु सदा भामितः क्रुद्धः, यतो भामवान् प्रशासनार्थं क्रोधवान्, भामः क्रोधस्वरूपः, उक्षा धर्मवृषस्वरूपः, उक्षितानां मातृकुक्षिनिषक्तगर्भाणां मेघसिक्तसस्यादीनां च रक्षकः, यजमानमूर्त्या देवेभ्यो हविः प्रदातृत्वात् हविष्मान्, हविरिज्येन्द्रादिरूपत्वान्मघवान् पूजावान्, मखानां यज्ञानां फलदायकः ॥ ४६॥ अघघ्नो दोषजालघ्नो व्याध्यामयविनाशनः । सुम्नरूपोऽसुम्नरूपो जगन्नाथोऽधिवाचकः(२) ॥ ५.४७॥ भक्तानामघानि पापानि हन्तीत्यघघ्नः, दुर्व्यसनकुलक्षणादिदोषजालं हन्तीति दोषजालघ्नः, विध्यन्तीति व्याधयः सद्यः प्राप्तरोगाः, आमया दीर्घरोगास्तेषां निवारकः, सुम्नं धनं तद्रूपोऽभक्तानां तु असुम्नं दारिद्र्यं तद्रूपः, अभक्तानां स्वभक्तानां च विवादे स्वभक्तानधिकान्वक्ति भक्तपक्षपातित्वादित्यधिवाचकः ॥ ४७॥ व्रातश्च व्रातनाथश्च व्रात्यो व्रात्यादिदूरगः । ब्रह्मदत्तश्चेकितानो देवदत्तोऽतिसम्मतः ॥ ५.४८॥ नानाजातीयजनानां समूहो व्रातस्तद्रूपः, तस्य नाथः स्वामी च, असङ्गनिर्विकारचिद्रूपत्वेन अनाधेयसंस्कारत्वाद्व्रात्यः, गर्भाधानादिसंस्कारहीना व्रात्याः, आदिपदेन श्रौतस्मार्तविपरीततत्प्रमुद्रादिसंस्कृताश्च var तप्तसमुद्रादि जना गृह्यन्ते तेषां दूरगः, ब्रह्मणा हिरण्यगर्भेण मुनिभ्यो दत्तो ब्रह्मदत्तः, उपासनया प्राणात्मभूतत्वेन श्रुतिप्रसिद्धो मुनिर्वा चेकितानः, सर्वाधिष्ठानत्वाज्जगन्निवासभूतः, भवरोगचिकित्सको वा, ``चेकिज निवासे रोगापनये चे''ति धातोर्यङ्लुगन्तादधिकरणे कर्तरि वा ``अन्येभ्योऽपि दृश्यत'' इति चानश्, सर्वशिष्टानामतिशयेनोपास्यतया सम्मतः ॥ ४८॥ श्रमणोऽश्रमणः पुण्य आश्रमाणां फलप्रदः । कालः कालयिता कालः कालकालो कलाधरः ॥ ५.४९॥ श्रमणस्तपोध्यानजपादिश्रमपरपरिव्राजकः, अश्रमणस्तद्व्यतिरिक्तगृहस्थाद्याश्रमत्रयस्वरूपः, कालः कृष्णवर्णः, कालयिता षड्भावविकारैः सर्वजगतः परिणामयिता, कालः संवत्सरादिरूपः, कालकालो मृत्युसंहर्ता, कलाधरश्चन्द्रः ॥ ४९॥ धनुष्मानिषुमांश्चैव धन्वा विश्वाततावनः । सत्यादिनिरयाधारः काकुरः काकुवाग्बलः ॥ ५.५०॥ धन्वा मरुदेशः धनुर्वा, विश्वस्य अततैर्विस्तीर्णैरायुधैः अवनो रक्षकः, सत्यादीनां निरयान्तानां लोकानां सत्यादिधर्माश्रयपुरुषाणां च आधार आश्रयः, काकुः शोकभीत्यादिप्रयुक्तध्वनिर्विकारः सोऽस्यास्तीति काकुरः, काकुवाचां कलभाषिणां बालमुग्धादीनामपि पालकत्वाद्बलभूतः ॥ ५०॥ राका कालविधाता च विश्वरक्षकदक्षिणः । अग्रेवधो दूरवध्यः शन्तमश्च मयस्करः ॥ ५.५१॥ राका पूर्णिमा, सूर्यचन्द्रादिरूपेण तिथ्यादिरूपस्य कालस्य विधाता, अग्रे स्थित्वा स्वभक्तजिघांसून हन्तीत्यग्रेवधः, दूरेऽपि स्थिता भक्तजिघांसवो वध्या यस्य स दूरवध्यः, शन्तमः सुखतमो निरतिशयानन्दरूपः, अत एव भक्तानां मयस्करः विचित्रसुखकरः ॥ ५१॥ कालभारः कालकर्ता ऋचां भावैकवेदनः । यजुषां सर्वमध्यस्थः साम्नां सारैकगोचरः ॥ ५.५२॥ कालं बिभर्ति धारयति पोषयतीति वा कालभारः, ऋचां ऋगुपलक्षितसर्ववेदानां भावं तात्पर्यार्थमेक एव वेदयतीति भावैकवेदनः, एवं यजुर्वेदादिरूपाणां सर्वेषां वेदानां मध्यस्थो मध्ये विराजमानः, ``यश्छन्दसां वृषभो विश्वरूपः'' इत्यादिश्रुतेः, साम्नां सार उद्गीथस्तदेकगोचरस्तत्र प्रधान इत्यर्थः, ``साम्नां उद्गीथो रसः'' इति श्रुतेः ॥ ५२॥ अङ्गिराश्च तथा पूर्वावेद्यो ब्राह्मणमध्यगः । मुक्तानां च गतिः पुण्यः पुण्यापुण्यहरो हरः ॥ ५.५३॥ अङ्गिराः अङ्गानां रसभूतः प्राणः, पूर्वैराचार्यैरावेद्यः शिष्येभ्य उपदेश्यः, ब्राह्मणानां वर्णोत्तमानां वेदभागानां च मध्यगः हृत्संस्थः, पुण्यो धर्मरूपः ॥ ५३॥ उक्थमुक्थकरश्चोक्थी ब्रह्मक्षत्रविडन्तिमः । धर्मोऽधर्महरो धर्म्यो धर्मी धर्मपरायणः ॥ ५.५४॥ उक्थं शस्त्रविशेषः, प्राणरूपेण उक्थं करोत्युच्चारयतीत्युक्थकरः, उक्थरूपशस्त्रवानुक्थी, ब्रह्म ब्राह्मणजातिः, एवं क्षत्रविट्, अन्तिमः शूद्रः, अधर्मस्य हरो निवारणः, धर्मी नियतधर्मः ॥ १४॥ नित्योऽनित्योऽक्षरः क्षान्तो वेगवानमिताशनः । पुण्यवान् पुण्यकृत्पूतः पुरुहूतः पुरुष्टुतः ॥ ५.५५॥ अक्षरः अपक्षयरहितः, क्षान्तः क्षान्तवान्, वाय्वादिरूपेण वेगवान्, सर्वसंहर्तृत्वादमिताशनः, पुरुभिर्बहुभिर्जनैः स्तोत्रशस्त्रमन्त्रैश्च स्तुतः पुरुष्टुतः, ``स्तुतस्तोमयोश्छन्दसी''ति षत्वम् ॥ ५५॥ अर्चिष्मानर्चितः कुम्भः कीर्तिमान्कीर्तिदोऽकलः । स्वाहाकारो वषट्कारो हन्तकारः स्वधाभिदः ॥ ५.५६॥ न विद्यन्ते कलाः अवयवा यस्य स अकलः, स्वाहा वषट्कारो देवयज्ञेषु, हन्तकारो मनुष्ययज्ञेषु, स्वधाभिधः पितृयज्ञेषु ॥ ५६॥ भूतकृद्भूतभृद्भर्ता द्विबर्हा द्वन्द्वनाशनः । मुनिः पिता विराड् वीरो ब्रह्मा देवो दिनेश्वरः ॥ ५.५७॥ द्वे ऐहिकामुष्मिकसुखे बृंहयति वर्द्धयतीति द्विबर्हा, शीतोष्णादिद्वन्द्वस्य नाशनः, मननशीलो मुनिः, पातीति पिता, सर्वस्थूलप्रपञ्चसमष्टिरूपेण च विराजत इति विराट् ॥ ५७॥ तारका तारकं तूर्णं तिग्मरश्मिस्त्रिनेत्रवान् । तुल्यं तुल्यहरोऽतुल्यं त्रिलोकीनायकस्त्रुटिः ॥ ५.५८॥ तारका नक्षत्ररूपः, तारणात्तारकं प्रणवः, तूर्णमविलम्बितम्, तिग्मास्तीक्ष्णा रश्मयो यस्य स तिग्मरश्मिः, तुलया सम्मितं तुल्यम्, नौवयोधर्मेति यत्, असदृशत्वात्स्वतुल्यं हरति निराकरोतीति तुल्यहरः, न विद्यते तुल्यं यस्य, त्रुटिः सूक्ष्मकालः ॥ ५८॥ तर्त्ता तार्यं त्रिभुवनी तीर्णं तीरं च तीरणीः । सतीरस्तीरगस्तीव्रं तीक्ष्णरूपी च तीव्रिमा ॥ ५.५९॥ तर्त्ता तरणोद्युक्तजनः, इडभावच्छान्दसः, त्रयाणां भुवनानां समाहारः त्रिभुवनी, मात्रादेर्नेति गणकार्यस्यानित्यत्वाद्विगोरिति ङीप्, तीरं नयतीति तीरणीः, तीव्रं त्वरितम्, तीव्रिमा त्वरावत्ता ॥ ५९॥ अर्थोऽनर्थः समर्थश्च तीर्थरूपी च तीर्थकः । दायादो देयदाता च दायदः परिपूजितः ॥ ५.६०॥ अर्थः पुरुषप्रवृत्तिप्रयोजनम्, दायः पित्रादिधनमत्तीति दायादः पुत्रादिः, दायं ददातीति दायदः ॥ ६०॥ दायभुक् दायहन्ता च दामोदरगुणाम्बुधिः । धनं धनदविश्रान्तो धनदो धननायकः । ५.६१॥ सतां दायं भुनक्ति पालयतीति दायभुक्, असतां तु दायहन्ता, दामरज्जुस्तया मात्रा उलूखले बद्धमुदरं यस्य स दामोदरः, विभक्तिलोपश्छान्दसः, गुणानामम्बुधिः समुद्रः, धनं प्रसिद्धम्, यतीनां निष्किञ्चनानां पुरुषार्थहेतुत्वाद्रौप्यत्वाद्धानं वा, धनदे कुबेरे पद्मशङ्खादिनिधिरूपेण विश्रान्तः ॥ ६१॥ निष्ठुरो नारशायी च नेता नायक उत्तमः । नैको नैकचरो नाव्यो नारायणसमः प्रभुः ॥ ५.६२॥ नराणां समूहो नारं तेषु तत्राविद्यावृतात्मरूपेण शेत इति नारशायी, नेता स्वामी मार्गदर्शको वा, नायकः स्वामी, नैको नामरूपभेदेन बहुविधः, बहुभिर्भृत्यैः सह चरतीति नैकचरः, ना एकचर इति नामद्वयं वा, नावा तार्यो नाव्यः, नारायण इव जगदुद्धारकत्वात्प्रणवो नारायणसमः ॥ ६२॥ नूपुरं नूपुरी नेयं नरनारायणोत्तमौ । पातालं पायिता पेयं पिबन्सागरपूर्णिमा ॥ ५.६३॥ नूपुरं मञ्जीराभरणरूपः, तद्भूषितो नूपुरी, नेयं प्रापणीयं परमपदं, नारायणनरौ बदर्याश्रमे प्रसिद्धौ तावेवोत्तमौ तद्रूपाविति यावत्, सुरादीनमृतपायिता, तृच इडभावश्छान्दसः, पेयममृतादि, देवादिरूपेणामृतादि पिबन्, सागराणां पूर्णेन्दुरूपेण वर्द्धनत्वात्पूर्णिमा पूर्णता वा ॥ ६३॥ पूर्यं पूर्णं पूर्णिमा च पुण्यमानसलालितः । पेपीयमानः पापद्यः पञ्चयज्ञमयः पुरुः ॥ ५.६४॥ जगदादित्वात्पूर्यम्, अपरिच्छेदत्वात्पूर्णं, पूर्णिमा राका, पुण्यैर्यतिभिर्मानसे लालितः पूजितः, कृष्णपक्षे देवैः पेपीयमानश्चन्द्ररूपः, पुरुर्बहुः ॥ ६४॥ परमात्मा परेशानः पावनात्मा परात्परः । पञ्चबुद्धिमयः पञ्चप्रयाजादिमयः परः ॥ ५.६५॥ पञ्चज्ञानेन्द्रियजन्या बुद्धयस्तन्मयः, इडादिस्वाहाकारान्ताः पञ्च प्रयाजाः, आदिपदात्तत्प्रधाना यज्ञास्तन्मयः ॥ ६५॥ प्राणभृत्प्राणहा प्राणः प्राणहृत्प्राणचेष्टितः । पञ्चभूतमयः पञ्चकरणाश्वोपबृंहितः ॥ ५.६६॥ प्राणान्बिभर्तीति प्राणभृत्, प्राणान्हन्तीति प्राणहा, प्राणान्हरतीति प्राणहृत्, प्राणो मुख्यप्राणः समष्टिसूत्रात्मा तच्चेष्टितमिव चेष्टितं यस्य, उष्ट्रमुखादिवत्समासः, पञ्चभिश्चक्षुरादिकरणाश्वैरुपबृंहितः बहिर्विषये प्रवर्त्तितः ॥ ६६॥ प्रेयान्प्रेमतमः प्रेयः प्रेयसी प्रेयसीरतः । पुरुषार्थः पुण्यशीलः पुरुषः पुरुषोत्तमः ॥ ५.६७॥ प्रेयान्प्रेयतरः, ``तदेतत्प्रेयः पुत्राद्''इतिश्रुतेः, प्रेमतमो निरतिशयप्रेमा, प्रेयः प्रेयतरं भोग्यजातम्, प्रेयसी भार्यादिः, प्रेयसीषु रत आसक्तः, धर्मादिचतुर्विधपुरुषार्थः ॥ ६७॥ फलं फलस्य दाता च फलानामुत्तमोत्तमः । बिम्बं बिम्बात्मकं बिम्बी बिम्बिनी मानसोल्लासः ॥ ५.६८॥ सर्वकर्मणां फलं तद्रूपः, फलानां मानुषानन्दादीनामुत्तमं हैरण्यगर्भसुखं तस्मादप्युत्तमो निरतिशयानन्दरूपः, बिम्बं सूर्यचन्द्रादेः, तद्बिम्बात्मकं ज्योतिः, बिम्बी तद्बिम्बाधिष्ठाता पुरुषः, तद्बिम्बिनी तद्भासिका चित्, तदैव सर्वमानसेषु साक्षिप्रतिबिम्बादिभावेनोल्लसतीति मानसोल्लासः ॥ ६८॥ । बधिरोऽबधिरो बालो बाल्यावस्थो बलप्रियः । एकोऽद्वयी दशबलः पञ्चकी चाष्टकी पुमान् ॥ ५.६९॥ श्रोत्रादीन्द्रियाभावाद्बधिरस्तथापि सर्वशब्दग्राहित्वादबधिरः, `` पश्यत्यचक्षुः स श‍ृणोत्यकर्ण'' इति श्रुतेः, ``सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितमि''ति स्मृतेश्च, एवं देहधर्मबाल्यारोपाद्बालः, देहधर्मबाल्याद्यवस्थारोपाधिष्ठानत्वात् बाल्यावस्थायुक्तः, बलो हलायुधः प्रियो यस्य स बलप्रियः, सर्वशरीरेष्वेक आत्मा, अत एव द्वितीयस्य मिथ्यात्वादद्वयी, समष्टिव्यष्टिभेदेन द्विपञ्चसङ्ख्यः प्राणो बलं यस्य स दशबलः, पञ्चभूतैः पञ्चकी, अष्टमूर्तिभिः पुर्यष्टकेन चाष्टकी ॥ ६९॥ भगश्च भगवान्भल्गुर्भाग्यं भल्लश्च मण्डितः । भवांश्च भावदायादो भवो भूरादिदैवतम् ॥ ५.७०॥ भग ऐश्वर्यादिः ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणात् ॥ सोऽस्यास्तीति भगवान्, भल्गुः संवरीता संवरिता च, ``भल भल्लसंवरणे च''इति धात्वर्थयोगात, भाग्यं सम्पत् सुकृतं वा, भल्लः शरविशेषः, मण्डितः सुखितः, भातीति भवान्, भातेर्डवतुः, भावो रसस्तस्य दायादो भ्राता, ब्रह्मणो वक्त्रात्प्रणवोत्पत्तेः, भावो तस्य सगोत्रो ब्रह्मपुच्छक इति शौनकोक्तेश्च, भवः शिवो जगच्च, भूलोकान्तायाः भूमेः पृथिव्या दैवतं उपास्यः ॥ ७०॥ भवानी भवविद्वेषो भूतनित्यप्रचारितः । भाषा भाषयिता भाष्यं भावकृद्भाष्यवित्तमः ॥ ५.७१॥ भवस्य पत्नी भवानी, पुंयोगादाख्यायां ङीषीन्द्रवरुणेत्यादिना आनुक्, भवं संसारं विशेषण द्वेष्टीति भवविद्वेषः, भूतैर्महाभूतैः प्राणिभिः प्रमथैर्वा नित्यप्रचारितो व्यवहारितः, भाषा भारती संस्कृतवाक्, अन्तर्वाक्प्रेरणेन सर्ववाग्मिनां भाषयिता ``केनेषितां वाचमिमां वदन्ती''ति श्रुतेः, भाष्यं श्रुतिसूत्रविवृतिः, भावो मानसविकारस्तं करोतीति भावकृत्, ``केनेषितं पतति प्रेषितं मनः'' इति श्रुतेः, भाष्यमुक्तलक्षणं विदन्तीति भाष्यविदः, सर्वज्ञत्वात्तच्छ्रेष्ठः ॥ ७१॥ मन्दो मलिनविच्छ्रेष्ठो माली माला मरुद्गरुत् । मूर्त्तिमानपुनर्वेद्यो मुनिवृन्दो मुनीश्वरः ॥ ५.७२॥ मन्दः शनैश्चरः, मलिनं दुष्टं चित्तेन्द्रियादि तद्विदां श्रेष्ठः सर्वसाक्षित्वात्, सर्वखेचराणां गरुत्पक्ष इवाकाशगमनहेतुः, सकृद्विदितो विदित एव प्रथयेदनेनैव मूलाज्ञाननाशात्पुनर्वेदनकृत्याभावादपुनर्वेद्यः ॥ ७२॥ मरुर्मरुजलं मेरुर्मरुद्गणनिषेवितः । मर्यादास्थापनाध्यक्षो मर्यादाप्रविभञ्जनः ॥ ५.७३॥ जगन्मृगतृष्णिकारोपस्थानत्वान्मरुः, जगद्रूपेण तु मरुजलं, मरावगाधकूपजलमिवातिप्रयत्नलभ्यत्वाद्वा सर्वौन्नत्यात्सर्वदेवाश्रयत्वाद्वा मेरुः, जगन्मर्यादास्थापने अध्यक्षः नियन्ता, ``एष सेतुर्विधरण'' इत्यादिश्रुतेः, कलिकालादौ वेदमर्यादाप्रविभञ्जनः असन्मर्यादाविनाशको वा ॥ ७३॥ मान्यो मानयिताऽमान्यो मानदो मानगोचरः । यास्को युवा यौवनाढ्यो युवतीभिः पुरस्कृतः ॥ ५.७४॥ न विद्यते मान्यो यस्मादित्यमान्यः, अपरिच्छिन्नत्वात्त्रैलोक्येऽपि न मातीत्यमान्यः इति वा, श्रुत्यादिमानगोचरः, यस्कस्य गोत्रापत्यं यास्को निरुक्तकृत्, यौवनेन आढ्यः सम्पन्नः, अत एव युवतीभिः पुरस्कृतः ॥ ७४॥ वामनीर्भामनीश्चैव भारूपो भास्करद्युतिः । संयद्वामो महावामः सिद्धिः संसिद्धिकल्पनः ॥ ५.७५॥ वामानि प्राणिभ्यः सर्वकर्मफलानि नयति प्रापयतीति वामनीः, भानि सूर्यचन्द्रादितेजांसि नयत्युदयास्तमयमिति भामनीः, ``एष उ वा भामनी''रिति श्रुतेः, सम्यग्यन्ति वा मान्युक्तलक्षणानि यं स संयद्वामः, महान्ति अश्वमेधादिफलानि यस्मात्स महावामः, सिद्धिरणिमाद्यष्टसिद्धिः, सर्ववस्तूनां संसिद्धिः स्वभावः सिद्धिसर्वैन्नत्यात् रणिमाद्यष्टसिद्धिः यथाऽग्नेरौष्ण्यं जलस्य द्रवशीततेत्यादिः तां कल्पयतीति संसिद्धिकल्पनः ॥ ७५॥ सिद्धसङ्कल्प एणाढ्यस्त्वनूचानो महामनाः । वामदेवो वसिष्ठश्च ज्येष्ठश्रेष्ठो महेश्वरः ॥ ५.७६॥ एणाढ्यो मृगाङ्कश्चन्द्रः मृगपाणिः शिवश्च, अनूचानः गुरुकुलवासनियमादिना साङ्गवेदाध्यायी, महामनाः मानोर्जितचित्तः ॥ ७६॥ मन्त्री च वाणिजो दिव्यो भुवन्तिर्वरिवस्कृतः । कार्यकारणसङ्घातो निदानं मूलकारणम् ॥ ५.७७॥ गुप्तसम्भाषणीयत्वान्मन्त्रः पञ्चाक्षरादिः सोऽस्यास्तीति मन्त्री, वाणिजो वणिग्धनवर्द्धनस्तद्रूपः, भुवं महीन्तनोति विस्तारयतीति भुवन्तिः, वरिवो धनं तत् करोतीति वरिवस्कृतः स एव वारिवस्कृतः, वरिवो सेवा तत्कृत्सुवत्सलो वा, कार्यकारणसंघातो देहादिः ॥ ७७॥ अधिष्ठानं विश्रमाढयोऽविवर्त्तो ब्रह्म केवलम् । अणिमा महिमा वेत्ता प्रथिमा पृथुलं पृथुः ॥ ५.७८॥ जगत्कल्पनाधिष्ठानं, जन्मादिपरम्पराभ्रान्तिविश्रमेण निरतिशयानन्देन आढयः, अविवर्त्तः सर्व विवर्त्तबाधावधिः, अणिमाद्याः सिद्धयः, इमनिचि टिलोपः सर्वत्र, पृथोर्भावः प्रथिमा, ``ऋतोहलादेर्लघोरि''ति रादेशः ॥ ७८॥ जीवो जैवः प्राणधर्त्ता करुणो मैत्रिको बुधः । ऋचां जलमृचां कर्त्ता ऋल्मुखो रविमण्डलः ॥ ५.७९॥ ऋचां जलं समूहः वेदरूप इति यावत् ॥ ७९॥ रूढोऽरूढी रूढिनिष्ठो रुरुक्षू रूपवर्जितः । स्वरो हलश्च हल्यश्च स्पर्शश्चोष्मा तथाऽन्तरः ॥ ५.८०॥ रूढः प्रसिद्धः, रूढिः प्रसिद्धिः प्रादुर्भूतिश्च, रोढुं प्रादुर्भवितुमर्हत्पदमारोढुं वा इच्छुः रुरुक्षुः, स्वरः अकारादिरुदात्तादिर्वा, हलः प्रसिद्धः, हलं वहतीति हल्यः, अथवा हलो व्यञ्जनानि तेषु भवो हल्यः, स्पर्शः कादिपञ्चवर्गरूपः, शषसह ऊष्माणः, तेजसि प्रसिद्धौ स्पर्शोष्माणौ वा, अन्तरोऽन्तस्था यरलवाः, सर्वभूतान्तरो वा ॥ ८०॥ विशोकश्च विमोहश्च यः स एव जगन्मयः । एकोऽनेकः परः पीड्यः शतार्द्धं च शतं बृहत् ॥ ५.८१॥ विशोको विगतशोकः, ``शोकं मोहं जरां मृत्युमत्येती''ति श्रुतेः । यतो विमोहो विगतमोहः, य उद्देश्यः स प्रतिनिर्द्देश्यः, एकः परमार्थतः, अनेको व्यवहारतः, परः श्रेष्ठः, पीड्यः कर्माधीनदुःखार्हो जीवः, शतार्द्धं पञ्चाशत् ॥ ८१॥ सहस्रार्द्धं सहस्रं च इन्द्रगोपश्च पङ्कजम् । पद्मनाभः सुराध्यक्षः पद्मगर्भः प्रतापवान् ॥ ५.८२॥ रागादिरञ्जितत्वादिन्द्रगोपसदृशः, ``यथेन्द्रगोपो यथा पाण्ड्वविकमि''ति श्रुतेः, पङ्कजं भूपद्मम् ॥ ८२॥ वासुदेवो जगन्मूर्तिः सन्धाता धातुरुत्तमः । रहस्यं परमं गोप्यं गुह्यमद्भुतविस्मितम् ॥ ५.८३॥ सन्धाता कालेनासुरादिभिश्चोच्छिन्नाया जगन्मर्यादायाः पुनः सन्धानकर्ता, धातुः सारः, धातुर्हिरण्यगर्भादप्युत्तम इत्यैकपद्यं वा, अद्भुतादपि विस्मितं विस्मितविषयः अत्यद्भुतमिति यावत् ॥ ८३॥ आश्चर्यमतिगम्भीरं जगद्बुबुदसागरः । संसारविषपीयूषं भववृश्चिकमान्त्रिकः ॥ ५.८४॥ जगन्ति ब्रह्माण्डानि तल्लक्षणानां बुद्बुदानां सागरः, संसारलक्षणस्य विषस्य निवर्तकं पीयूषममृतम् ॥ ८४॥ भवगर्तसम्मुद्धर्ता भवव्याघ्रवशङ्करः । भवग्रहमहामन्त्रो भवभूतविनाशनः ॥ ५.८५॥ भवो जन्मादिस्तल्लक्षणाद्गर्त्ताच्छ्वभ्रात्समुद्धर्त्ता भक्तानाम्, एवं भवव्याघ्रं वशं करोतीति वशङ्करः, बाहुलकात्कृञः खश्, भवलक्षणो ग्रहः पिशाचभेदस्तदुच्चाटने महामन्त्रः ॥ ८५॥ पद्ममित्रं पद्मबन्धुर्जगन्मित्रं जगद्गुरुः । कविर्मनीषी परिभूर्याथातथ्यविधायकः ॥ ५.८६॥ कविः क्रान्तदर्शी, मनसा ईषिरिच्छातो नियन्ता विद्वांश्च, परिभवतीति परिभूः सर्वगतः, यथातथाभावो याथातथ्यं सर्वपदार्थानां स्वभावो नियतिस्तस्य विधायकः ॥ ८६॥ दूरस्थोऽप्यन्तिकस्थश्च शुभ्रोऽकायं तथाऽव्रणम् । कौषीतकीतल्वकारो नानाशाखाप्रवर्तकः ॥ ५.८७॥ शुभ्रः शुद्धः, अकायं स्थूलादिदेहरहितं दूक्तत्वम्, अत एवाऽव्रणम्, कुषीतकस्यापत्यं कौषीतकिस्तेन दृष्टा वेदशाखा कौषीतकी, एवं तल्वकारस्तेन दृष्टा शाखा ॥ ८७॥ उद्गीथं परमौद्गात्रं शस्त्रं स्तोमं मखेश्वरः । अश्वमेधः क्रतुच्छ्रायः क्रतुः क्रतुमयोऽक्रतुः ॥ ५.८८॥ उद्गीथं सामभक्तिविशेषः प्रणवघटितः,᳚ ॐमित्येतदक्षरमुद्गीथमुपासीते''ति श्रुतेः, औद्गात्रमुद्गातुः कर्म, अप्रगीतमन्त्रैर्देवतास्तुतिः शस्त्रं प्रस्तोतुः कर्म, स्तुतिपरमन्त्रसङ्घः स्तोमः, मखाः यज्ञास्तेषामीश्वरः क्रतुच्छ्रायः क्रतुश्रेष्ठः, क्रत्वनुष्ठानकृतो यजमानस्योत्कर्षो वा, अक्रतुरसङ्कल्पः ``तमक्रतुः पश्यति वीतशोक'' इति श्रुतेः ॥ ८८॥ पृषदाज्यं वसन्ताज्यं ग्रीष्म इध्मः शरद्धविः । ब्रह्मतातो विराड्तातो मनुतातो जगत्ततः ॥ ५.८९॥ पृषदाज्यं दधिबिन्दुमिश्रितमाज्यम्, पुरुषस्य यज्ञत्वकल्पने श्रुतौ ``वसन्तोऽस्यासीदाज्यमि''ति वसन्तर्त्तोराज्यत्वकल्पनात्, एवं ग्रीष्म इध्मः शरद्धविः, ब्रह्माऽऽदिहिरण्यगर्भस्तस्य तातः पिता, एवं विराजो ब्रह्माण्डशरीरस्यापि तातः, मनोस्तातो मनुतातः, जगदात्मना ततो विस्तीर्णो जगत्ततः ॥ ८९॥ सर्वतातः सर्वधर्त्ता जगद्बुध्नो जगन्निधिः । जगद्वीचितरङ्गाणामाधारः परमं पदम् ॥ ५.९०॥ जगत्कल्लोलपाथोधिर्जगदङ्कुरकन्दरः । जगद्वल्लीमहाबीजं जगत्कन्दर उद्धरः ॥ ५.९१॥ जगतो बुध्नो मूलम्, जगन्ति व्यष्टिसमष्टिस्थूलसूक्ष्मप्रपञ्चास्तल्लक्षणानां वीचीनामल्पतरङ्गाणां बृहत्तरङ्गाणां च आधारः, जगतो निलयन स्थानभूतं कन्दरो गिरिगुहा, उद्धृता धरा येन स उद्धरः ॥ ९०॥ ९१॥ सर्वोपनिषदां कन्दं मूलकन्दं मुकुन्दकः । एकाम्रनायको धीमाञ्जम्बुकेशो महातटः ॥ ५.९२॥ सर्वासामुपनिषदां रहस्यविद्यानां कन्दं मूलम्, जगन्मूलस्य अव्ययस्याप्यधिष्ठानत्वान्मूलकन्दम्, मुकुन्द एव मुकुन्दकः, एकाम्रं काञ्चीपुर्यामुत्कलेषु वा प्रसिद्धस्थानं तस्य नायकः स्वामी एकाम्रेशः भुवनेशय इति वा प्रसिद्धः, महातटः समुद्रः स्थानविशेषो वा ॥ ९२॥ न्यग्रोधोदुम्बरोऽश्वत्थः कूटस्थः स्थाणुरद्भुतः । अतिगम्भीरमहिमा चित्रशक्तिर्विचित्रवान् ॥ ५.९३॥ कूटस्थो निर्विकारः, स्थाणुर्निष्क्रियः, अतिगम्भीरो दुरवगाहो महिमा यस्य, चित्राः शक्तयो यस्य स चित्रशक्तिः, अत एव विचित्रतत्कार्यवान् ॥ ९३॥ विस्मितं चित्रवैचित्र्यो मायावी माययाऽऽवृतः । कपिञ्जलः पिञ्जरश्च चित्रकूटो महारथः ॥ ५.९४॥ स्वेनैव स्वयं विस्मितमद्भुतरसं प्राप्तम्, चित्राणि वैचित्र्याणि यस्मात्स चित्रवैचित्र्यः, यतो मायावी मायानियन्ता। मायया आवृतोऽपि कपिञ्जलः पक्षिभेदः, पिञ्जरः शबलवर्णः, चित्रकूटो गिरिविशेषः, चित्राणि कूटानि मायाकापट्यानि यस्येति वा, महारथः प्रसिद्धः - महारथोऽसौ यस्त्वेकः सहस्रैः प्रतियुध्यति इति ॥ ९४॥ इत ऊर्ध्वं भक्त्यतिशयाच्चतुर्थ्यन्तानि क्वचित्सम्बुध्यन्तानि च नामानि नमस्कारसहितान्याह -- जगन्मयाय दिव्याय देवाय परमात्मने । जगन्मायाय जगते प्रतीचे ते नमो नमः ॥ ५.९५॥ *जगन्मयायेति* । जगत्प्रचुरायेत्यर्थः । दिवि द्योतनात्मके स्वरूपे स्वर्गे च भवो दिव्यः, दीव्यति सर्गादिभिः क्रीडतीति देवः, परमाय उत्कृष्टाय आत्मने, देहप्राणमनैन्द्रियबुद्ध्याद्युपहिताः आत्मानः प्रसिद्धास्तेभ्यो निष्कृष्टः परम आत्मा, जगदेव माया यस्य स जगन्माया तस्मै, जगते जगद्रूपाय, प्रतिवस्त्वधिष्ठानभावेनाञ्चतीति प्रत्यक् तस्मै प्रतीचे, प्रति उपपदे अञ्चेः क्विनि नलोपे ङयि भसंज्ञायामच इत्यल्लोपे चावितिप्रतेर्दीर्घः, ते तुभ्यम् ॥ ९५॥ जीवाय जीवरूपाय जीवकर्मैकसाक्षिणे । जीवाजीवप्रभिन्नाय प्रतीचे ते नमो नमः ॥ ५.९६॥ जीवाय, प्राणधारणात् जीवान् रूपयति स्वप्रतिबिम्बनेन प्रकटयतीति जीवरूपः, जीवाः सप्राणाप्राणास्तत्प्रभेदेन भिन्नाय, देहेन्द्रियप्राणमनोबुद्ध्यादिभ्यः प्रातिलोम्येनाञ्चति प्रथत इति प्रत्यक् तस्मै प्रतीचे । अर्थभेदादपौनरुक्त्यम् ॥ ९६॥ कालाय कालकण्ठाय कालकण्ठाय तेजसे । ओजसे भ्राजसे तस्मै यस्मै कस्मै नमो नमः ॥ ५.९७॥ कलयति जगत्परिणामयतीति कालः, कालं कण्ठयति दिनरात्रिपक्षमासर्त्वयनसंवत्सरात्मना अतिवाहयतीति कालकण्ठः, कालवर्णः कण्ठो यस्य स कालकण्ठः ``नीलग्रीवो विलोहित'' इति श्रुतेः । नामभेदः प्राग्वत् । तेजः स्वाभाविकी कान्तिः, देहपुष्ट्यध्ययनतपःप्रभृतिसाध्या देहकान्तिरोजः, स्रक्चन्दनवस्त्रालङ्कारादिप्रयुक्ता शोभा भ्राजः, तस्मै परोक्षाय, यस्मै प्रसिद्धाय, कस्मै जिज्ञासिताय । नमस्काराभ्यासो भक्त्यतिशयात् ॥ ९७॥ किरीटिने सुगदिने शङ्खिने चक्रिणे नमः । शूलिने चन्द्रमूर्ध्ने च वृषाय वृषवाहिने ॥ ५.९८॥ किरीटिने इत्यादि चत्वारि विष्णुनामानि । शूलिने इत्यादीनि शिवनामानि । वृषो धर्मो वृषभश्च, वृषं वाहयति तच्छीलो वृषवाही तस्मै ॥ ९८॥ हंसिने वेदिने तस्मै चतुर्वक्त्राय ब्रह्मणे । नमो ऋचाय ब्राह्माय ब्रह्मणे परमेष्ठिने ॥ ५.९९॥ ॐ हंसिने इत्यादीनि हिरण्यगर्भनामानि । हंसोऽस्यास्तीति हंसी, वेदा अस्य सन्तीति वेदी, नमस्कारप्रतिपादका ऋचो यस्य स नमोऋचस्तस्मै, ऋक्पूरब्धूः पथामिति समासान्तोऽप्रत्ययः, अयत्वो वा,(? ) सन्धयश्छन्दसाः, ब्राह्मो ब्रह्मप्रतिपादको वेदभागः ॥ ९९॥ लक्ष्मीपते ! धीपते ! त्वं पाहि नः पुरुषोत्तम ! । दिव्याय दिव्यपुरुष ! पावनायातिपावन ! ॥ ५.१००॥ विष्णुत्वाल्लक्ष्मीपते ! शिवत्वाद्धीपते ! पुरुषश्चासौ उत्तमश्च पुरुषोत्तमः, पुरि शयनात्पूर्णत्वाद्वा पुरुषः, स एव क्षराक्षरपुरुषव्यतिरिक्तत्वादुत्तमः, दिवि द्युलोके भवः सूर्यो दिव्यस्तस्मै, तदन्तर्गतपुरुषो दिव्यपुरुषः, हे दिव्यपुरुष, पवनो वायुस्तदाधारः पावनः, अतिशयेन पावयसि पवित्रीकरोषीत्यतिपावनः ॥ १००॥ रामाय रामदेहाय पावनाय पवित्रिणे । यस्य कस्य स्वरूपाय जगद्रूपाय ते नमः ॥ ५.१०१॥ रामः रमणीयो देहो यस्य स रामदेहस्तस्मै, पावनः पवित्रीकरणः, पवित्राण्यस्य सन्तीति पवित्री, यस्य कस्यापि येन केनचिद्रूपेण प्रसिद्धस्य ज्ञाताज्ञातसर्ववस्तुनः पारमार्थिकस्वरूपाय, गच्छति षड्भावविकारान्प्राप्नोतीति जगत् तस्य स्वरूपभूताय ॥ १०१॥ महादेवाय देवाय नमौक्तिं विधेम ते । सर्वेश्वराय सर्वाय अचिन्त्यविभवाय च ॥ ५.१०२॥ महत्यात्मज्ञानयोगैश्वर्ये महीयते इति महादेवः, देवाय स्वप्रकाशाय, ते तुभ्यं, नमौक्तिं वाङ्मयनमस्कारं विधेम कुर्मः । चिन्तयितुमशक्योऽचिन्त्यो विभवो विविधभवनं यस्य ॥ १०२॥ अविचिन्त्यमहिम्ने ते जगद्धात्रे नमो नमः । सहस्रकृत्वो भूयश्च वन्दनं परमात्मने ॥ ५.१०३॥ महिमा स्वरूपविस्तारः, ऐश्वर्यं च सोऽविचिन्त्यो यस्य सोऽविचिन्त्यमहिमा, जगतो धाता उत्पादको नियामकश्च, तस्मै सहस्रकृत्वो वन्दनङ्करिष्यामीति परेणान्वयः । भूयश्चेत्यनन्तनामत्वात्सर्वनामभिर्वन्दनाशक्त्या भूयो भूयस्तत्प्रत्याम्नायेन सर्वदिक्षु वन्दनं करिष्यामि ॥ १०३॥ मङ्गलं जगतां नाथ ! नयनं विश्वपालक ! । आराधनं करिष्यामि तव नान्यस्य कस्यचित् ॥ ५.१०४॥ मङ्गलं नाम मानसैर्बाह्यैर्महोत्सवादि करिष्यामि, नमनं शिरसः प्रह्वीकरणम्, आराधनं मानसं बाह्यं च सर्वोपचारः सम्यक्पूजनं तव करिष्यामि सदैवेत्यर्थः । अन्यस्य तद्व्यतिरिक्तस्य परिच्छिन्नस्य न करिष्यामि सर्वदेवान्त्वदात्मनैव पूजयामीत्यभिप्रायः ॥ १०४॥ सहस्रनामानि समाप्य सूतस्तत्फलमाह सूत उवाच-- प्राप्तये सर्वविद्यानां लब्धये सर्वसम्पदाम् । इतीदं प्रणवस्यास्य नाम्नां साहस्रमीरितम् ॥ ५.१०५॥ *प्राप्तये इति* । क्रममुक्तिफलानां साक्षान्मुक्तिफलानां च सगुणनिर्गुणगोचरसर्व विद्यानां वेदपुराणाद्यष्टादशविद्यानां च यथाकामं प्राप्तये, तथा ऐहिकामुष्मिकभोगतत्साधनलक्षणानां सर्वसम्पदां लब्धये इति वर्णितप्रकारमिदं भवता पृष्टं नाम्नां सहस्रमेव साहस्रमीरितं कथितं मयेत्यर्थः ॥ १०५॥ कृतये सर्वयज्ञानां सन्ततः पर्यवाप्तये । लब्धये सर्वकामानां निग्रहानुग्रहौ कृते ॥ ५.१०६॥ एवं प्रष्टुकामानां निर्विघ्नतया सर्वयज्ञानां कृतये अनुष्ठानसिद्धयेऽथापि क्रत्वनुष्ठानतत्फलप्राप्तये वा, सन्ततेर्वंशस्याऽविच्छिन्नस्य परितोऽवाप्तये, लौकिकानां पशुपुत्रादिक्षुद्रसर्वकामानां लब्धये, निग्रहानुग्रहौ शत्रुमित्रोदासीनेषु कृते कर्तुं यदीच्छति तदर्थं चेत्यर्थः । बाहुलकात्तुमर्थे क्विप् ॥ १०६॥ इतीदं प्रणवस्यास्य नाम्नां साहस्रमीरितम् । लब्धये सर्वतपसां वेदानां पर्यवाप्तये ॥ ५.१०७॥ ॐ नमो ब्रह्मरूपाय शान्ताय समत्वेन सदोदिताय पूर्णाय चिद्विलासाय ॐकाराय नमः ॥ इति श्रीप्रणवकल्पप्रकाशे पञ्चमोऽध्यायः समाप्तः ॥ ५॥ एवं सर्वतपसां देहमनःशुद्ध्यर्थानां च फलतो लब्धये वेदानामृगादीनां परितः साङ्गतयाऽक्षरशः प्रयोजनवदर्थावबोधतश्चावाप्तये इति प्रागुक्तफलस्यैव वयुत्याऽनुवादः ॥ तस्मात्सर्वपुरुषार्थदः शिवोक्तपरमरहस्यभूतोऽयं सपरिकरः प्रणवकल्पो भोगमोक्षार्थिभिः सदैव शब्दतोऽर्थतश्च परिशीलनीय इति सिद्धम् ॥ १०७॥ वासुदेवेन्द्रयतिनां प्रीत्यर्थं शिवतुष्टये । मया प्रणवकल्पोऽयं यथामति विकासितः ॥ १॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीसर्वज्ञसरस्वतीपूज्यपादप्रशिष्येण श्रीरामचन्द्रसरस्वतीपूज्यपादशिष्येण श्रीगङ्गाधरेन्द्रसरस्वत्याख्यभिक्षुणा विरचितः प्रणवकल्पप्रकाशः सम्पूर्णः ॥ श्रीशिवयोः पादाब्जयोरर्पितः । अज्ञानाद्वा प्रमादाद्वा स्खलितं यन्मया कृतम् । प्रार्थिताः प्रणता धीराः क्षन्तुमर्हन्ति साधवः ॥ १॥ श्रीः । आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमदमोहितम् ॥ २॥ स्तबकः-४१८ Although attributed source is skandapurANa, the praNavakalpa text is not found in the Revakhanda, avantikhanda standard copy of Skandapurana. Proofread by Vipin Kumar vedatudy at yahoo.com, Sunder Hattangadi
% Text title            : praNavakalpaH
% File name             : praNavakalpaH.itx
% itxtitle              : praNavakalpaH sabhAShya (skandapurANAntargatam gaNgadharendrasarasvatI vyAkhyA)
% engtitle              : praNavakalpaH
% Category              : major_works, vedanta, bhAShya, deities_misc
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vipin Kumar vedatudy at gmail.com
% Proofread by          : Vipin Kumar, Sunder Hattangadi sunerh at hotmail.com
% Description/comments  : Sanskrit Commentatry by Gangadharendra Sarasvati.  Text is mentioned to be from Skandapurana, however, the specifics are not found.
% Indexextra            : (praNavakalpa 1, 2)
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org