भारतशतकम्

भारतशतकम्

भारतशतकम् काव्यपरिचयः

अमरुशतक-नीतिशतक-सूर्यशतकीयपरम्परायामिदं भारतशतकमपि बाभाति स्वमहिम्ना । रसोक्तिवक्रोक्तिस्वभावोक्तिमय्याः कवितात्रिपथगाया विलसदनेकतरङ्गभङ्गयोऽत्र रससीकरासारैः सचेतसां रोमकञ्चुकमङ्कुरयन्त्योऽमन्दमानन्दं तनिष्यन्ति । अत्र प्रायेणालङ्कारशास्त्रीयाः सर्वेऽपि सिद्धान्ता अनाहूता अपि दृढमुपविष्टा लक्ष्यन्ते । देशप्रेमप्रवाहावगाहननिरतस्वान्तस्य कविकुलतिलकस्यास्य समस्ता अपि सूक्तयो देशस्य बाह्यमाभ्यन्तरञ्च सौष्ठवमुदीरयितुं पीयूषस्यन्दिनीमिव निस्यन्दयन्त्योऽद्यतनीं पुरातनीं च वृत्तप्रवृत्तिं प्रवर्तयन्ति । अत्र क्रान्तेभैरवो हुङ्कार! दमनस्य दुर्दमो मदः, शान्तेर्ललितं विलसितं, परिवर्तनस्य प्रत्यग्रं विजृम्भितं, सनातनस्य निष्कम्पमवस्थानं, वर्तमानस्यानावृतं स्वरूपं, स्पृहणीयाभ्युदयस्यारुणोदयश्च तथा रञ्जनमयं चित्रितं यथा ज्ञानदशा द्रष्टुर्हर्षप्रकर्षः सम्बोभवीति । श्रीमहादेव पाण्डेयः, साहित्यविभागाध्यक्षः, संस्कृतमहाविद्यालयः, हि. वि. विद्यालयः, काशी । गणतन्त्रदिवसः, २०३० वैक्रमाब्दम् । प्रथमं संस्करणम् ।

भारतशतकम्

आलोलां कुन्तलालिं गलमनुगलितां व्यूह्य धम्मिल्ललीलां व्याधुन्वानं सटाग्रं मृगपतिमनिशं तीव्रयन्ती महोग्रा । मुञ्चन्ती चन्द्रहासं खलवलनिकरे सैरिभं मृद्नती द्राक् श्रीशक्तिर्भारतेऽस्मिन्नरि नरि विजया वस्तुतः साविरस्तु ॥ १॥ प्रत्यक्षं निर्जराणां सकलसुरगणाध्यक्षमात्मप्रतीक्ष्यं सन्तक्ष्याक्षुद्रवेगः क्षतवरुणमदः क्षीणयक्षेशदाक्ष्यः । विंशत्यक्षः क्षणेनाभजत समुचितां शिक्ष्यतां यस्य स द्राग् रक्षेदक्षेमहारी हरिरमरवरैरीडितः पीडितं माम् ॥ २॥ यस्मादेते प्रसूता विविधतनुभृतो येन जीवन्ति भूता यस्मिन् गच्छन्ति चैक्यं समधिकगुरुता यत्र मातुः पितुश्च । विश्वं सर्वें विभतिं प्रकृतिरयमथो पूरुषश्च स्वतन्त्रो देशं तं वा परेशं सुरवरझरिणीसुन्दरं कीर्तयामः ॥ ३॥ आ लोलोल्लोलमालाकलकलकलिताम्भोधिकूलाल्ललामाद् यावन्नीहारभूमीधरधवलशिलालग्नभूसंविभागान् । सीमान्तादा च वङ्गोपसरिदधिपतिं यावदस्त्येष सस्यैः पत्रश्यामैर्द्रुमाग्रैर्वलयितवसुधो भारतं नाम देशः ॥ ४॥ इष्टो दिग्भ्यस्त्रयीभ्यः सरिदधिपतिभिः पादयोर्वीचिभङ्गैः श‍ृङ्गैर्लोकोपरिष्टादुदयमधिगतैः सन्नतः शैलराजैः । पर्यायेणोद्भवद्भी रसऋतुविभवैर्मेदुरश्रीर्मनोज्ञो रत्नै रम्यः सुवर्णाकरनिकरयुतो भारतोऽन्वर्थसंज्ञः ॥ ५॥ बङ्गैः सङ्गीतकीर्तिः कलितकलकलश्चोत्कलैरान्ध्रबन्धु- र्मद्रैरुन्निद्रमुद्रो जवजनितजयोद्गुर्जरः सिन्धुबिन्दुः । पञ्चापैरञ्चितश्रीर्मधुमधुरधुरो मध्ययुक्तैर्बिहारै- रार्यावर्त्ताभिधानो जयति जनपदो मानिनां जन्मभूमिः ॥ ६॥ आद्योन्मेषाद्विधातुः प्रथमविकसितादाद्यपद्माग्रपत्रा दारब्धा पुण्यपुञ्जैः कलुषलवलवेनाप्यसम्भिन्नगात्रैः । देवैरप्यात्मलाभं श्रयितुमतितरां वाञ्छिता विश्वमूर्ते- र्निर्माणोत्कर्षसीमा परमसुषमया कापि नीराज्यते भूः ॥ ७॥ त्रैकोणी क्षेत्रभक्तिर्ज्ञपयति मधुरा विश्वचित्रे यमर्हं यं संस्कुर्वन्ति रेखाः क्वचिदतिसरलाः क्वापि वामा मनोज्ञाः । देशानामुर्वराणां विपिननदनदीवाष्पयानादिकानां स्थानं मानं च बोद्धुं भुवनहितविधौ बद्धकक्ष्यः स देशः ॥ ८॥ कृत्स्नाकूपारनीरव्रजजनितमहावृष्टिसम्भारशोभः केदाराभोगलेखाशतशतभरितासस्यसम्पाददक्षः । वल्लीमालाललामद्रुमवलयलसन्मांसलश्यामलश्री- र्लोकानां दर्शनीयः कृषकजनहितो भारताम्भोधरोऽयम् ॥ ९॥ गीर्वाणैः पुण्यपुञ्जो मधुमथनकलाकेलिनारिष्टसद्म क्रीडारङ्गः प्रकृत्या मणिगणनिकरैः शेवधिर्वेदवाग्भिः । पूर्वाभावाविशिष्टाध्ययनगुरुकुलं शिक्षयारम्भभूमिः संस्कृत्या सुप्रसूतिः सहजसुकृतिनामेष देशो गृहीतः ॥ १०॥ चञ्चच्चार्वाकचर्चो दृशिविषयतया स्वीकृतान्तस्थबाह्यो विज्ञैर्वैभाषिकाह्वैरनुमितचरमः प्राज्ञसौत्रान्तिकैश्च । योगाचाराभ्युपेताकृतिधृतिविलसद्वित्तिमात्रप्रपञ्चः शून्याधिष्ठानतत्त्वोद्भवनिखिलतया मध्यसिद्धान्तसिद्धः ॥ ११॥ साङ्ख्यैः सङ्ख्यातसख्यो यमनियममयो योगयोग्याङ्गसङ्गै- र्गीतश्रीर्गौतमीयैः क्वणितकणकणः कोणकाणादवर्णैः । गीर्भिः कौमारिलीभिः कलितकुलकलो गौरवीमिश्रिताभिः शान्तो वेदान्तदान्तः प्रगुणितगरिमा गीयते कोऽपि देशः ॥ १२॥ स्याद्वादो यावनैक्ये श्रुतिपथगमनैर्मुक्तकच्छैर्निरुक्त स्तन्त्रस्थैर्वाममार्गः सिततनुदयया दीयमाने स्वराज्ये । कौटिल्यं राजकीयैः कलितमनुकलं देशरक्षाविधाने यस्मिन्नृत्यन्ति भूयो विगतखलबलः स स्वतन्त्रः समस्तु ॥ १३॥ शुक्तीनां मुक्तिकेव त्रिदशसरिदिव स्रोतसां निर्मलानां क्षौद्री धारेव हृद्या सरससुमनसां वज्रकाष्ठेव भूमेः । रश्मीनामैन्दवानाममृतविपुलतेवास्ति सम्भासमाना प्राचीना दिव्यधामा दृढतममहिमा संस्कृतिर्भारतीया ॥ १४॥ आम्नायाम्नानयोगो द्युसदसुदृढतापत्तिसौधोपयोगो ज्यानिक्षेपप्रयोगो निजजनधरणोद्योगदैत्याभियोगः । दुर्योगः क्षत्रजाते रजनिचरनृपश्रीवियोगः सुयोगो गीताया जीवहिंसानिरसनकलुषक्रीडयोर्विप्रयोगः ॥ १५॥ सप्ताब्दानां शतानि प्रविकटमभितः पश्चिमातो विशद्भिः पातिव्रत्ये सतीनां प्रहरणनिपुणैर्नैचिकीक्रव्यभक्षैः । विध्वंसे मन्दिराणां कटुकृतिकुशलैर्म्लेच्छलुण्टाकधूर्तैः केनाभाग्येन ढूना धरणिरियमभूत् पादघातावधूता ॥ १६॥ द्वित्रा यद्राजयोगा नियतमिह नृणां भूपभूयं विदध्यु स्तद्दिग्भूपालयोगाः प्रबलनिपतिता यत्तेनौ दिव्यदिव्याः । एकैके लोकलक्ष्मीनिगडनपटवोऽखण्डहेवाकशोभाः पूर्णस्वातन्त्र्यसिद्धौ स खलु निजकृतः सङ्घचेष्टाविलम्बः ॥ १७॥ वाचालं काव्यलीलाकृतिकुशलपिकैर्गुञ्जितं शास्त्रभृङ्गै रङ्गैः सङ्गं विहङ्गैर्निखिलकलकलाकामिनीकेलिलोलम् । श्रौतीभिः संविधाभिर्व्रततिभिरखिलं मञ्जुलं शालवृन्दै- र्वागुद्यानं सुराणामिह खलु सुलभं लोभनीयार्थसार्थैः ॥ १८॥ और्जी ज्योत्स्नेव शुभ्रा सहृदयहरणी माधवश्रीः स्फुटेव प्रातःसन्ध्येव रम्या प्रतपनशमनी ब्रह्मविद्येव हृद्या । गङ्गेवादर्शदृश्या श्रुतिरिव मधुरा मङ्गलानां पवित्रा नाम्नां धारेव विष्णोर्जगति विजयते भारती कीर्तिरेखा ॥ १९॥ देवैराप्यायितश्रीरपि सुरझरिणीनिर्झराम्भःपुनीतो नीतः शिक्षां बृहत्याः पतिभिरनुदिनं कीर्तितो लेखवृक्षैः । मन्दारैः पारिजातादिभिरथ सहरिः पुण्यभोग्यः सुधाच्छो गन्धर्वैर्गीयमानो विलसति सकलो भारतस्वर्गलोकः ॥ २०॥ यन्नीरं जीवनार्थं कथयति निखिले भूतले लभ्यते त न्नैदाघोन्माथरक्षाविधिरथ शुचितापादनं तत्समस्ते । कीटैर्नो जातु दूष्यं क्वचिदपि निहितं बुद्धिवर्धिष्णु हृद्यं पुण्यं तद्गाङ्गमम्भः प्रवहति धरणीं प्लावयद्भारतीयाम् ॥ २१॥ पारं पङ्कोद्गमानां सुहृदयमखिलाम्नायमूलागमानां वासः पौराणवाचां निधिरयमतुलः श्रेयसां सन्मणीनाम् । चारित्र्यस्योच्चदीक्षा सुजनजनधनव्रातसाङ्गत्यशिक्षा धर्मद्रोरालवालं भरतवसुमतीभूषणां तीर्थसार्थः ॥ २२॥ तथ्यं कथ्यं तथाहि स्वयमनिशमलं कष्टजम्वालजालं संवित्सिद्धिं विधित्सन् पितृवनवसतेर्भृत्यतामादधानः । गृह्णन् सूनोः पटार्धे प्ररुदितरमणीमन्त्यसंस्कारमूल्यं धर्मादर्शव्यवस्थां व्यरचयदतुलां भूपतिर्गीतकीर्त्तिः ॥ २३॥ वासो गीर्वाणवाण्या निखिलजनिजुषां मोक्षभूमिर्मृताना मार्यायाः सभ्यतायाः प्रथमनिषदनं मन्दिरं विश्वमूर्तेः । दुर्भेद्यो रागवन्धः किल सुरसरितो जन्मभूः शान्तिदेव्याः सान्द्रानन्दाटवीयं जगति विजयते सर्वलोकैलक्ष्म्याः ॥ २४॥ यद्वीर्योपज्ञमासीद्रजनिचरपतेस्त्यागसीमावदानं यस्यारण्यान्यबोधि प्रथमकविगुरोर्येन चीर्णं चरित्रम् । अद्याप्यार्याभिगुप्त्यै प्रभवति सकलद्वापरोत्तीर्णकर्मा राज्यादर्शप्रतिष्ठाप्रभवपरिवृढः कुत्र रामावतारः ॥ २५॥ श्रीरामे कृत्यशक्तिर्विपुलविलसिता लोक्यते लोकलोकै- र्बुद्धो निध्यायतेऽद्धा धृतधिषणधृतिर्धीः समृद्धा विवृद्धैः । ताभ्यां द्वाभ्यां श्रितात्मा नृपनयनिपुणो भारतोद्धारकर्ता श्रीकृश्णः सर्वशक्तिः सकलनरवरः सोऽत्र पूर्णावतारः ॥ २६॥ ग्रीकाध्यक्षं विजिग्येऽद्भुतरणनिपुणैश्चाणकामात्ययोगात् सञ्जह्रे युद्धयज्ञे कुसुमपुरनृपं प्राज्यसाम्राज्यकर्ता । व्यूहे जित्वा स सेल्यूकसमयतनयां हेलनां रम्यरम्यां श्रीमान् वीराग्रगण्यः प्रथितगुणगणः स्मर्यतां चन्द्रगुप्तः ॥ २७॥ यत्साम्राज्यं वरिष्ठं शशिकरशिशिरं भारते सुप्रतिष्ठं मूकाः स्तम्भाः सुधर्मप्रवचनपतवोऽद्यापि तिष्ठन्ति यस्य । त्यागी यद्भिक्षुसङ्घोऽकृषत बहुतरान्दूरदेशान् स्वशिष्यान् सोऽशोकः क्लिष्टशोकक्वथितमृदुमनाः सौगतैरादृतोऽभूत् ॥ २८॥ चित्रं चित्तौरदुर्गे खलयवनबलैर्वीवधारोधदूने युध्यद्भिः क्षत्रवीरैः पुनरगमदृढैः क्षीयमाणे क्रमेण । भीमेऽप्यन्ते प्रशान्ते पतिचरणरता पद्मिनी म्लेच्छशङ्का दीप्तेऽग्नौ सञ्जुहाव स्वतनुमलमसौ सार्द्धमालीसहस्रैः ॥ २९॥ धन्यास्ते राजपुत्रा निजविषयगुरुत्वावने लब्धदीक्षा अल्पीयांसोऽपि धीरा यवनपरभटैः सम्प्रहारेऽवसज्जाः । नित्यं योयुध्यमाना रिपुदलदलने सत्प्रतापप्रतापा विश्वस्मिन् स्वेतिहासं कनकलिपिमयं नित्यमस्थापयंस्ते ॥ ३०॥ योऽगौप्सीद् गाःशरण्यः खलबललुलितान्ब्राह्मणान्सम्यगावीत् स्वारक्षीन्मन्दिराणि प्रयुतशतशिखाः पाट्यमाना अपासीत् । आर्यक्षोणीं समाधाद् यवननृपमदं प्रव्यधावीत् समर्थो दिल्लीमार्द्रां विडालीं व्यधित शिवविभुः सोऽस्तु भूयोऽवतीर्णः ॥ ३१॥ राहुग्रस्तां सुधांशोस्तनुमिव विमलां वारणेन्द्रावधूतां रम्यामम्भोजराजीमिव वनपटलीं लङ्घितां वह्निनेव । म्लेच्छैराक्रान्तपूर्वां प्रविततसुषमां तां महाराष्ट्रभूमिं जित्वाऽकार्षीत्स्वतन्त्रां तरुणगणनुतौ सिंहदुर्गेश्वरस्तात् ॥ ३२॥ पङ्कातङ्काङ्कितात्मा निरयरयगतत्राससञ्जातकम्प श्चैतन्यानन्यभावानभिमुखहृदयः सङ्गमे देवनद्योः । निर्वाति स्नानमात्राच्छ्रुतिरियममला यं विशिष्टं शिनष्टि त्रिस्रोतः क्षीणयक्ष्मा प्रविततमहिमा सोऽस्तु भूत्यै प्रयागः ॥ ३३॥ चत्वारः स्तम्भभूपा शुभनिकरकरा दिक्षु विभ्राजमानाः केदारद्वारवत्यावथ समजगतां नाथरामेश्वराह्वौ । यन्निष्ठं धर्मसौधं सुदृढमधिगता वैजयन्ती जयन्ती पुण्याया आर्यजाते रिपुवशमनिता गीयतेऽनन्तकालात् ॥ ३४॥ पूर्णप्राचीप्रतीचीप्रचुरसुरुचिराशेषविद्यानिधानं स्वातन्त्र्यत्यागदीक्षाविहितपरिकरो हिन्दुताप्राणभूतः । आर्यावर्त्तप्रकाशो हिमकरधवला मालवीयस्य कीर्त्ति- र्धर्मस्यैको निवासः स्मरहरनगरीविश्वविद्यालयोऽयम् ॥ ३५॥ ग्रामान् विध्वंसय द्राग् धुनु वरनगराण्यग्निसाद्भावयस्वा शेषान् साङ्ग्रामिकार्थान् रिपुकरपतितान् सेतुबन्धाँल्लुनीहि । स्कन्धावारार्थमेतान् विघटय विततान् क्रोशतां क्षेत्रवर्गान् निश्शस्त्रान् भारतीयान् कुरु वत विदधे शासकः क्षोभमित्थम् ॥ ३६॥ प्रध्वंसो दासतायाः कथमपि निवसन्प्रागभावो विनश्यन् सामर्थ्यस्याखिलाप्तेः समसमयभवाभावसत्ता समग्रा । धौरेयस्वामितायाः प्रसभनिपतितान्मित्रराज्याद्विभेदो देशेऽस्मिन् सुस्वतन्त्रेऽनुभवपथगताः खण्डनीयाः कुतस्ते ॥ ३७॥ जाग्रज्जाज्वल्यमानानलपटलललज्ज्वालमालावलीढ व्यालोलस्फोटनिर्यज्ज्वलनकणगणादग्धपूःक्षेत्रवृक्षाः । छिन्नार्था रिक्तशस्त्राः परित इह वृता घोरशस्त्रास्त्रसज्जैः प्राणांस्त्यक्त्वापि भूमिं प्रवलपरवलैर्मा मुचन् भारतीयाः ॥ ३८॥ भीष्यन्तां व्योमयानैर्ज्वलदनलवलद्गोलघोरावमर्दै- र्दाह्यन्तां वह्न्यगारैरभित इह चलदृङ्कमुख्यायुधेद्धैः । रुद्ध्यन्तां योधलक्षैः क्षपितपरवलैः पूर्वतः पश्चिमाद्वा स्वातन्त्र्यं संलभेरन् निजतनुहवने पण्डिता भारतीयाः ॥ ३९॥ कस्मै हन्तास्ति कथ्या निजविषयभवा पारतन्त्र्यप्रसूता सङ्कष्टेयं दशा भो गृहनगरभवद्दाहलुण्ठाभियोगैः । वेत्राघातैः कशाभिर्विशसनजनितत्रासविक्षोभणाभि- र्व्यग्रस्त्रीबालवृद्धातुरनिखिलजना कस्य पुंसो विनाश्या ॥ ४०॥ दान्तो दाहैर्गृहाणां हरणविशसनैस्त्रासितः सर्वनाशै- र्नीतो विक्षोभदैन्यं गगनडयनकैर्यानसार्थैः पतद्भिः । गोलाङ्गारैर्निदग्धो विकलविलुलितो घातकैस्तैरुपायैः स्वाधीनत्वाय मार्गं प्रतिदिनमयतेऽथापि कोऽप्यार्यदेशः ॥ ४१॥ ऐशान्यामुग्ररूपो ग्रसति वसुमतीं भारतीयां रणाग्नि- र्व्यादायास्यं करालं कवलयति भृशं पूर्वतोऽकालकालः । सर्वे कष्टं सहन्ते प्रतिदिनमनिशं वर्द्धितैर्वस्तुमूल्यै- रेकस्मिन्मासि गावः प्रयुतसमधिका हन्यमाना भवन्ति ॥ ४२॥ दूरं नीता विदेशे समरहुतवहे हूयमाना मुधैवं सम्प्रत्यार्याः प्रवीरा निजनिजजननी रोदयन्तोऽतिलक्षाः । छिन्नः सौवर्णराशिर्यवननृपधरास्वाम्यपस्पर्शजातीः सम्भेद्यास्तेऽद्य नीतिर्निगडितमतयो राष्ट्रभक्ता निबद्धाः ॥ ४३॥ दारिद्र्योद्दामदावादहनदरदलद्दानवैर्दूयमाना दुर्वारद्वेषदुःखोदयदमनदृढद्योतनैर्दान्तदीनाः । दुर्दैवोद्योगदीर्णा दितदितिजदयोदन्तदूरप्रपद्या माद्यन्मान्द्यैर्दुरीशैः प्रतिदिवसमहो हिन्दवो नाद्रियन्ते ॥ ४४॥ लोलूय्यन्ते ललामाः प्रतिकलमतुलान्दोलनैः शालमाला लीलावल्लीमतल्लीवलयवलयिताः सत्फलास्ते रसालाः । लोक्यन्ते हार्यलोकैः कलितविकलितैस्तत्स्थले लङ्घितानि बार्वूराणि क्रमेलाकुलहृदयतलान्यालवालानि तानि ॥ ४५॥ ऊर्जाभिस्तर्जनाभिर्जयजनितजयोद्गर्जितस्फूर्जिताभि- र्भर्जाभिर्जर्जराभिर्ज्वरजनितजराजीर्णनिर्ज्वालनाभिः । जङ्घालैर्ज्वालजालैरगजगदखिलं भूर्जभर्जं सृजद्भिः खर्जूरा नैव सर्जा जितजनिमनुजा निर्जरास्तैर्विवर्ज्याः ॥ ४६॥ स्वातन्त्र्यं क्वापि लीनं विजयसहभवा शूरतास्तं प्रपन्ना सोत्सेधोत्साहभूमा विलयमुपगता श्रीः समज्ञान्तमाप्ता । नो पुंस्त्वस्याद्य चर्चा सुचरितनिकषो मान उच्चैर्विभग्नो भूयांसस्तानभङ्गा भरतभुवमिमां यद्विभेत्तुं प्रवृत्ताः ॥ ४७॥ हंसायन्तेऽद्य काका मलिनसहयुजः केसरीयन्ति कोला बाष्पायन्ते श्वसन्तः पुरुषतनुभृतः सर्वतो रुद्धचेष्टाः । साम्राज्यं वीणयन्ति प्रततबलमदोन्माथदम्भा महीशाः क्षीरस्यन्ति प्ररुग्णा अधरचिकुरिताश्चाधुनोत्पुच्छयन्ते ॥ ४८॥ कोटीनां विंशती द्वे मनुजतनुभृतां पादपद्मावनम्रे विंश्यामस्यां शताब्द्यां समुचितविविधास्त्रावसज्जे कदा नु । स्वातन्त्र्योत्साहपूर्णे द्विगुणबलभृते स्वर्णसिंहासनस्थां वन्देतां देशलक्ष्मीं मृदितविलुलितद्वेषिवाहीकसैन्ये ॥ ४९॥ चत्वारिंशत्सदर्पाः सहजबलभृतः कोटयो भारतीया गङ्गौघाः प्रावृषेण्या इव लुलिततटा व्यश्नुवानाः समन्तात् । स्वातन्त्र्यप्राप्तिकामा निगडितचरणां मातरं मोचयन्ते जातैक्या उत्पतेयुः किमिव परबलं वारयेत् त्यक्तदेहान् ॥ ५०॥ दृप्यद्ध्वान्तावमग्ना प्रखररविकरोत्तप्तकेदारषण्डे श्राम्यन्त्युत्थापिताभ्रिर्धरणिनिखनने तत्परा क्षामवर्ष्मा । वक्रैडूके वसन्ती विनमितपटले धूलिपूर्णे निकाय्ये ग्रामाणां सप्तलक्षी हृतसमविभवा साम्प्रतं भारतेऽस्मिन् ॥ ५१॥ ग्रामाणां सप्तलक्षी वसति बत निजेऽप्यास्पदे प्रोषिताऽस्मिन् यस्मै कस्मैचिदिच्छावशत इयमभूद्दीयमाना धनाय । स्कन्धावारार्थमेषा हृतगृहविभवोत्सार्यते नाथहीना देशस्य प्राणभूता मृगयुवशगता गौरिव क्लिश्यतीह ॥ ५२॥ स्यात्कश्चित्तन्निमेषश्चतसृषु परितो दिक्ष्वपूर्वां वितन्वन् जागर्तिं संहरन्तीं सरभसमखिलांस्त्रासलोभादिदोषान् । प्राणान्तत्यागधैर्यं निजविषयवलद्भक्तिमागूरयन्तीं स्वातन्त्र्यप्रापणश्रीः सकलजनमतौ भावपूर्तिं दधानः ॥ ५३॥ ये वा के वा भवेयुः पुनरधिपतयस्त्रासयित्वात्यसह्याः कांश्चिन्मासान् समा वा पुनरधिकमिमे नात्र देशेऽधिकुर्युः । सद्यो भावी स्वतन्त्रः सरिसरदखिलोद्योगसम्भारपूर्णो विज्ञानोद्गीतकीर्त्तिस्तडिदतिधवलः शौर्यवीर्योर्जितात्मा ॥ ५४॥ कारावासप्रसोढोत्कटविकटमहायातनोग्रा भुशुण्डी- र्गर्ज्जन्तीस्ताः शतघ्नीर्ज्वलनकणमुचो निर्भयं सम्प्रविश्य । वामं चाधाय पादं रिपुशिरसि बलाद् बद्धहेवाकभावा संसत्काचिद् विजेत्री भजतु निजभुजैः प्राज्यसौराज्यलक्ष्मीम् ॥ ५५॥ सत्यासक्तः सितात्मा कविकृतिनिपुणो वृत्तगोवर्धनश्रीः कृत्वा चक्रं कराग्रे गतिविगतिजुषां नेत्रदानैकशक्तः । एको यः कर्मयोगी निखिलहितविधौ बद्धकक्ष्यः श्रितेशः सोऽव्यादव्याजभव्यः सकलनरवरो मोहनो देशमेनम् ॥ ५६॥ पर्जन्यो यस्य जन्यं घृतमनलहुतं लिप्सतेऽभीष्टवृष्ट्यै शुद्धं सम्मुग्धदुग्धं रचयति रुचिरां सत्त्वसम्पत्तिवृत्तिम् । आयुर्भुक्तं समानां शतमिह तनुते प्राज्यमाज्यं प्रजानां सानन्दं वल्गदास्तां प्रतिदिशमतुलं धैनुकं भारते तत् ॥ ५७॥ देवेन्द्रः पूर्वदेवैरसकृदधिजितो न प्रियोऽभूत् स्वभक्तः कैलासो रावणेनोल्लसित इति पदे स्वेऽप्यतृष्णोऽखिलेशः । नेपालाधीश्वरेणानिशमुदयजुषा निःसपत्नेन तुष्ट श्चाञ्चल्यातङ्कमुक्तः पशुपतिरवतात् काठमाण्डूनिविष्टः ॥ ५८॥ सूर्याचन्द्रप्रकाशस्थगयदतिघनध्वान्तसच्छादितान्धे द्यावाभूमी समग्रे विदधत उरवो मेघषण्डा अखन्डाः । धारासम्पातवर्षास्रवदमललसद्विन्दुभिः प्लावयन्तः सृष्टिं नूत्नां विधातुः पुनरतुलवलाः कर्तुमेते सुसज्जाः ॥ ५९॥ आपः सम्पादयन्ती वरविमलतरा सुन्दराम्भोरुहाण्यु त्फुल्लानि द्योतयन्ती त्वरितगतिवहा आपगा मन्दयन्ती । तारातारैः प्रदीप्रं वलयितसुषमं साधयन्ती विहायो वीरानुत्साहयन्ती लसति दिशि दिशि क्रीडनीया शरच्छ्रीः ॥ ६०॥ गोधूमादभ्रभागाः सहजसहयुजां क्षेत्रमालाढकीनां केदाराः सर्पपाणां यवचणकजुषाः सन्मसूराभिभाजः । भक्तिः सातीनकानां विलसदतसिकाश्यामिकाश्यामलश्रीः साश्चर्यैश्वर्यसीमा प्रमुदितमहिमा हैमनी भाति भूमिः ॥ ६१॥ श्रीपञ्चम्यां तपःश्रीस्तुहिनजडतया नाम्रपुष्पाणि सूते न स्पन्दन्ते समीराः सुरभिततनवो नालयो यान्ति मोदम् । नोद्दीप्तः सूनधन्वा भुवनजयमहः कर्तुमिच्छां बिभर्त्ति नाक्री सङ्क्रान्तिरेषा परभृतविरुतैरर्च्यतां कस्य हेतोः ॥ ६२॥ अत्यन्तोत्तप्तपांसुक्षितितलमखिलं व्याकुलं कल्पयद्भि- र्निःशेषां निःशलाकां तृषितमृगकुलोल्लासनीमादधानैः । श्रोत्रोत्तोदं स्तनद्भिः सकलमिह जनं क्षोभयित्वोष्णवातै- र्मध्याह्नोच्चण्डसूर्यस्तपसि विजयते स्वातपैः सप्रतापैः ॥ ६३॥ चञ्चच्चन्द्राभ्रदीर्घोज्ज्वलविमललसद्विर्त्तिदीव्यद्वितान स्वाध्यायाचार्यसौधाकरकिरणगणाश्लिष्टसर्वाङ्गगौरम् । मल्लीमालाललामं विकसितपटलापाटलामोदमुग्ध मौद्यानं चक्रवालं हरति निशि हृदां प्राणिनां भारतीयम् ॥ ६४॥ उन्माद्यच्चन्दनश्रीसुरभितसुरभिप्रत्युषःशान्तिकान्त्या किर्मीरैर्लोलकीरैर्ललितखगकुलानीरयद्भिः समीरै । औल्लाघ्यं वेलयद्भिः पृथुकयुववयोऽतीतलोकाः प्रबुद्धाः खेलन्त्युद्वीरयन्ते निजविषयनिजायत्ततां भावयन्ति ॥ ६५॥ चन्द्राङ्कात्सङ्गृहीतं नवजलदकुलादाहृतं पुष्कराद्वा सन्नीतं कृष्णिमानं धृतवति परितो व्यश्नुवाने तमिस्रे । ह्रादिन्या दर्शयन्त्या कनककषलसत्स्निग्धया वर्त्मभेदान् वर्षाक्षेत्राभिगुप्त्यै निशि कृषकगणाः साभ्रयः सञ्चरन्ति ॥ ६६॥ एतादृक्षेऽन्धकारे न ददति किमपि द्रष्टुमन्धे नितान्तं दौर्बल्ये जाग्रति द्राक् प्रसरति परितः स्वान् स्वकीयान् समस्तान् । आस्थायैकं त्रिलोकीभरणपरिवृढं स्वप्रकाशं परेशं योद्धव्यं सर्वशक्त्या सकलसमुदितैर्हिंसयाऽहिंसया वा ॥ ६७॥ धर्मस्यात्यन्तनिष्ठा सहजसुचरितस्यैकमात्रप्रतिष्ठा सत्यस्योत्कर्षकाष्ठ नयविनयमहारम्भनीतिर्वरिष्ठा । धैर्यप्रष्ठार्यरीती रिपुविजयमहाश्चर्यचर्या पटिष्ठा श्रेष्ठा स्फेष्ठा गरिष्ठा पवनसुतगुरोः कापि दृष्टिः शुचिष्ठा ॥ ६८॥ भोगावासोऽपि मोक्षाद्भुतसदनमलं देवभाषाप्रियोऽपि नानापभ्रंशनिष्ठो यवनगणवृतोऽप्यार्यजातिप्रतिष्ठः । स्वातन्त्र्यप्राप्तिकामोऽप्यतुलविघटितानेकलोकाभिभूतो देशोऽयं सार्वभौमीं कथमिह लभतामादिमां कीर्तिरेखाम् ॥ ६९॥ निर्वार्य्याः शक्लशुक्ला निकृतनिरसितानन्दनाः शिश्विदाना नीत्यन्तर्वाणिकार्मा विसृमरयशसो वाग्मिनो जागरूकाः । साम्राज्योन्नाथहाराः कृशतनुसहजस्फीतवित्तप्रभावा श्चार्वाघाटाः कुशास्तेर्भरतवसुमतीमातृपूजानदीष्णाः ॥ ७०॥ स्वातन्त्र्योज्ज्वालमालानलसुहुतनिजप्राणसर्वस्वशौण्डाः कारायां जग्मिवांसस्तदनु च विपदां साहयः स्वायतीनाम् । भूयांसः क्षीणकायक्षयगदमृदिताः पेस्वराः कष्टमार्गे श्रद्धेया भारतीयाः सुखविभवभृतो भस्त्रिकाश्चापरे स्युः ॥ ७१॥ गुञ्जद्भृङ्गालिगीतैः श्रुतिसुखमधुरैः कूजदालोहिताक्षै श्चूतास्वादातिरिक्तस्वरमुखरपिकैर्माद्यदामोदवाहैः । पुष्पाणां पावमानैः प्रकृतिवरवधूनूतनाक्रीडमुग्धं दिग्धं शोभाभिरामं कुशलकृतिकलोल्लासितं भारतं नः ॥ ७२॥ भायाद्भूयः प्रभूयाद्भवविभवभरैः सम्भ्रियाद्भूतिभावै- र्भूष्याद्भव्यैः स्वभावैर्भुवनमुभयतो भावनां भूरिभासम् । भज्याद्भज्यात्प्रभावोद्भवभरितभुवो भूपतीन् भूतभाषान् भुज्याद्भोगान् प्रभूतान् भविकभरतभूर्भाग्यभूमा प्रभूता ॥ ७३॥ यत्तप्तं नम्रतायै प्रभवति सततं लोहमेतत् प्रसिद्धं भूमिस्तप्तैव सद्यो जनयितुमखिलानङ्कुराञ् शाशकीति । तस्मादन्तर्दधाना ज्वलनखरशिखा एव सद्भारतीयाः स्वातन्त्र्यं साधयेयुः स्वसुखनवसुधामोदमोहान्निवृत्ताः ॥ ७४॥ आर्यावर्त्ताभिधाने वसुमति मधुरे मातरुन्निद्रलीले त्वां सम्यक् सर्वभूतिं निखिलकलकलाज्ञानविज्ञानपूर्णाम् । शस्त्रैरस्त्रैर्विमानैर्निजजनजनितैर्जातरूपां भवानीं कुल्याभिः सिच्यमानां दिशि विदिशि शुभां श्यामलां भावयामः ॥ ७५॥ न स्यात् कश्चिद् दरिद्रो वसनविरहितो नैव मूर्खो न लुब्धो जात्या कश्चित् समाजे न भवतु पुरुषः स्त्री तथा मानहीनः । सर्वे स्युः सुस्वतन्त्राः सकलसुखभृतः पूर्णविद्याः प्रसन्नाः सोत्साहाः स्वस्थदेहा भवविभवभरैः सम्भृताः संस्फुरन्तः ॥ ७६॥ शान्ते दान्ते नितान्तं शशधरधवले धैर्यधुर्ये धरित्रि! पूते पूतप्रतापे मणिजटिलमहासिंहपीठप्रतिष्ठाम् । स्वायत्तां स्वस्थचित्तां सुचरितनिकषोच्चैश्चरित्रां विचित्रां मातस्त्वां चिन्तयामो नवनवलसितोद्योगसम्भारपूर्णाम् ॥ ७७॥ कुल्याभिः कूपषण्डैर्वहदमलजलैर्नालिकाभिः सुसिक्तां केदाराभोगभव्यां दलकुसुमफलोल्लासिवल्लीद्रुमाग्राम् । कुण्डोध्नीचर्व्यमाणैः शिशुतृणनिचयेर्वत्सभद्राभिरामै रोरुच्याचान्तसीमां परविषयनुतां द्रष्टुमीहामहे त्वाम् ॥ ७८॥ यन्त्रव्यूहैर्नदद्भिश्चलदलविसरैर्विश्वतो व्याप्तशोभै- र्वस्त्रव्राताँस्तथास्त्रव्रजगगनचरस्यन्दनान् बाष्पयानम् । सङ्ख्यातीतं विचित्रं निखिलजनमनोऽपेक्ष्यवस्तूनि नाना तन्वानैर्मातृभूमे! भगवति! भवतीमीश्महे जात्ववाप्तुम् ॥ ७९॥ आकाशं व्योमयानैः स्थगितवति महादीर्घकायैः सहस्रै- र्बाष्पैः सौदामनीभिर्विरचितगतिभिर्भूविभागाननोभिः । पोतैरब्धीन् स्रवन्तीर्विधुतवति रिपुस्तोममात्माधिपत्ये ध्यायामस्त्वां जनानां जगति निवसतां पञ्चमांशेन पूर्णे ॥ ८०॥ अर्थाधिक्याभिसाध्यायुधवररचनाघोरसामर्थ्यसम्प द्योगावाप्यान्यदेशोन्नतपदमहिमोत्कर्षसम्भावितत्वात् । उन्मूल्योद्दण्डशत्रुप्रतिभटजनतायोग्यसङ्ख्याश्रयत्वाद् यस्याखण्डत्वमिष्टं विमलमतिमतां श्रद्धया तं स्तुवीमः ॥ ८१॥ श्रद्दध्मस्तत्र पूजां चिरमभिलषितां तस्य कुर्मः परस्माद् वाञ्छामो नैव तस्मादमृतमपि शुभान्यर्थयामोऽथ तस्मै । तेनोत्कर्षं श्रयामस्तमिह जनपदं साधुवादं वदामः स स्यात्सर्वा विभक्तीर्दधदमलतरा मे सुवाचां समासाम् ॥ ८२॥ पारोक्ष्यं केचिदीयुर्निजनुतिविषयं केवलं मुक्तिसिद्ध्यै प्रात्यक्ष्यं चैकमन्ये कवनसमुचितं भुक्तिलाभार्थमापुः । विद्वांसो वस्तुतस्तु प्रवचनरचनाचारुचातुर्ययोग्यं स्वं देशं जन्मभूमिं मतिसकलबलैः सर्वथा संश्रयन्ते ॥ ८३॥ कीरा हेम्नोऽपि बद्धाः शुचिरुचिरुचिरे पञ्जरे नात्र तुष्टा मुक्ताः सद्यो विहायःपरिचरणममी प्रारभन्ते स्वतन्त्राः । यत्सत्यं भारतीयाः कति कति च शतीः पारतन्त्र्येण नीत्वा स्वं राज्यं साधयन्ते वसुपशुधरणीजीवनं वास्तु मूल्यम् ॥ ८४॥ सम्पूर्णो वेदराशिर्ध्रुवमयमधुना मन्त्रविप्रद्वयात्मा त्यागास्तोषास्तपस्याश्चिरतरनिचिता नूनमेषोऽवभाति । धर्म्या राजन्यनीतिर्विपुलितमहिमा कर्मशक्तिः समग्रा पुण्यं वै कल्पकोटिप्रततमतिलसद्भारते धर्मसङ्घः ॥ ८५॥ गावः सर्वोपकाराः प्रकृतिसुमधुराः पुण्यनद्यः समस्ताः पूताः शैलाः समग्राः शुचिरुचिरुचिरा नैकभेदा अटव्यः । पारावाराः पवित्रा अखिलमतिमहन्मण्डलं तीथसीम्नां देवागाराण्यनन्तान्यमितनिधिरयं भारतस्याविरस्तु ॥ ८६॥ सृष्टिस्थित्यन्तकर्ता चिदमलमहिमा ज्योतिषां ज्योतिरेकं सर्वाधिष्ठानमूर्तिर्विघटितघटनाशक्तयानन्तशक्त्या । कोटीर्ब्रह्माण्डखण्डान् क्षणत इह समाभासयन्नैकरूपां क्रीडां तन्वन् विभाति प्रभवतु स विभुर्भूतये भारतस्य ॥ ८७॥ स्वातन्त्र्यैकान्तनिष्ठा प्रचुरशुचिरुचिर्दूरदृष्टिर्गभीरा धीराऽऽभेद्या महाब्धीन् नुतसततकृतिः पारयित्वा फलन्ती । एका विस्रम्भभूमिर्निखिलविषयिणां जागरां संसृजन्ती राष्ट्रेषु प्राक्तनेषु प्रबलसमुदिता भारती राजनीतिः ॥ ८८॥ पारेवाग्वर्त्तिरूपं विपुलविलसितं ज्ञानविज्ञानगर्भं पारावाराभिरामं त्रिदशगणमहाभारतीसन्निबद्धम् । प्रागैतिह्यैकगम्यं समसमयहितं विश्वभाषाप्रभावं राजद्विद्यालयश्रीः किमपि विजयते वाङ्मयं भारतीयम् ॥ ८९॥ दूरे दुर्भिक्षवार्त्ता जनगणविषमा क्वेति भीतिर्निरस्ता न श्रूयन्ते कदापि क्वचिदपि सहसा दास्यवाः सन्निपाताः । नाऽन्यायस्य प्रवृत्तिं द्विषदपि सहते नैव मिथ्याभियोगः स्वातन्त्र्ये जातमात्रे प्रगुणितगरिमा द्योतते भारतश्रीः ॥ ९०॥ लोकेष्वाकालमृत्युर्न चरति न भवन्त्याधयो व्याधयो वा नैवाऽऽलस्यादिदोषास्तरुणिमनि नृणां वृद्धिसिद्ध्यन्तरायाः । न द्यूतं नापि मद्यं मलिनगुणगणा नापि दोषप्रवृत्ति- र्दिव्येऽस्मिन्नार्यदेशे प्रथितमहिमनि भ्राजते धर्मलक्ष्मीः ॥ ९१॥ सौराज्येऽस्मिन्प्रतिष्ठां गतवति चरमां स्वर्णसिंहासनस्था नीराज्येताऽऽर्यलक्ष्मीस्तरुणपरिवृढैः साधितार्थोल्लसद्भिः । अस्त्रैः शस्त्रैर्विमानैरुडुपशतशतैरन्तराहित्यसैन्यै- र्नच्छेद्यैर्नापि भेद्यैः सुचरितनिकषै रक्षिता दुष्प्रधर्षा ॥ ९२॥ प्राज्यैराज्यैः पयोभिः प्रतिगृहमनिशं जायमानैरमेयैः खाद्यान्नैः क्षेत्रवर्गेष्वतिविपुलमहाराशिभिः सम्भवद्भिः । धन्या स्वातन्त्र्यलक्ष्मीः सुवसननिचयैर्यन्त्रसङ्घातसिद्धै रत्नैर्नानाखनिभ्यः प्रतिदिशमतुलैर्निःसृतैरद्य दृश्या ॥ ९३॥ विद्याविद्योतमानैर्नयविनयतपस्त्यागवाग्मित्वभाग्भि- र्निर्भीकैर्न्यायनिष्ठैः सुचरितविभवैः सत्यसन्धैः प्रशस्तैः । शूरैर्वीरैर्बहुज्ञैरतिविमलयशोराशिभिर्धर्मशीलैः सभ्यैः पूर्णाविरास्तां सततविजयिनी भारती लोकसंसत् ॥ ९४॥ स्वाराज्यं स्यात्स्वराज्यं भरतवसुमती स्यादखण्डा प्रपूर्णा दिव्यप्रज्ञासमज्ञाः प्रबलविजयिनो भान्तु सर्वे युवानः । विद्यावासाः समस्ताः सुचरितविभवैश्छात्रवर्गैः समृद्धा ग्रामे ग्रामेऽभिरामा हरिततृणभृतो गोचराः सन्तु गोभिः ॥ ९५॥ शान्तिः कान्तिर्नितान्तं प्रमुदितजनतासत्प्रवृत्तिर्विनीतिः साध्वी रीतिः समीची कृतिरतिविमला प्रीतिरास्तिक्यवृत्तिः । न तः शस्या शुभंयुः प्रकृतिरथ सिता सौम्यकीर्तिर्विभूति- र्लोकश्लाघ्या चिरस्य स्थितिमिह तनुतामार्यदेशे स्वतन्त्रे ॥ ९६॥ येयं वीथी चलन्ती हरति जनिमतो लोक्यते या समस्तै- र्यस्यां यान्तो हसन्तः पुरत उपनतं नैव पश्यन्ति कूपम् । तां जानन्तोऽप्यसक्ताः प्रखरपरिचयास्तत्परस्यां विभूतौ शश्वद्भास्वत्प्रभायां भरतभुवमिमे शोभयन्त्वध्वनीनाः ॥ ९७॥ चारित्र्याणां विधानं मनुजतनुभृतां संविधानं शुचीनां मर्यादानां निधानं विमलमतिमतां योगिनां सन्निधानम् । आधानं दिव्यभासां प्रकृतिविलसितागारमेकं प्रधानं राष्ट्रं न्यायावधानं प्रतिपदमयते भारतोच्चाभिधानम् ॥ ९८॥ विश्वेशः सर्वशक्तिर्गिरिवरतनयासाहचर्यार्चितश्रीः सान्द्रानन्दामृताम्भोनिधिरमरसरिद्वीचिवाचालमौलिः । स्वातन्त्र्योल्लासलीलां विलसितविभवां सर्वशोभाभिरामां भव्यां भव्यैकभावां भरतभुवमिमां सर्व्दा सम्बिभर्तु ॥ ९९॥ आसेतोराहिमानीविशदतटभरादद्रिभूपालमौले रासिन्धोराचवङ्गोदधिसलिलरुचेर्भारतोर्वीविभूतेः । यावच्चन्द्रार्कदीव्यद्द्युतिनुतिभरिता दिव्यगङ्गाङ्गशोभा पद्योन्मालेयमास्तामुरसि सुमनसां तावदुल्लासितश्रीः ॥ १००॥ ऐलायग्रामजन्मा व्रजितरसयुगक्रोशनीरेशमार्गः सौमित्रिः काशिवासी शतकसुमनसामम्बिकादत्तसूनुः । स्रीविश्वेशप्रसादोपनतकविकृतिप्रातिभाश्चर्यशक्तिः प्रालम्बं मञ्जुलीलं सुनयति तदुरः श्रीमहादेवशर्मा ॥ १०१॥ इति काशीहिन्दूविश्वविद्यालये साहित्यविभागाध्यक्षेण कवितार्किकचक्रवर्तिना पण्डितश्रीमहादेवशस्त्रिपाण्डेयेन प्रणीतं भारतशतकं समाप्तम् ॥ कविपरिचयः कविकुलगुरुवाणीनर्ममर्मोत्तरश्री रसभरपरिपाको यस्य जागर्त्ति काव्ये । तुलयति नहि लोके यञ्च कश्चिद् विपश्चित् स जयति बुधवर्यः श्रीमहादेवशास्त्री ॥ अखिलभरतखण्डे कृत्स्नशास्त्रेषु शिक्षां प्रददति किल शिष्या यस्य पारेसहस्रम् । मतिरतिविकला नो नोन्मिषत्यद्य दिव्यां कथमथ कलयामो बोधशक्ति तदीयाम् ॥ अध्यक्षः महामहोपाध्याय श्रीचिन्नस्वामिशास्त्री वैशाखकृष्णप्रतिपत् १९९९ सार्वभौमसंस्कृतप्रचारपरिषत् काशीद्वारा समर्पिताभिनन्दनदलांशः प्रकाशकः सुरेशदत्तपाण्डेयः साहित्याचार्यः साहित्यरत्नं १९ असी, काशी । Encoded and proofread by Paresh Panditrao
% Text title            : Bharata Shatakam
% File name             : bhAratashatakam.itx
% itxtitle              : bhAratashatakam (mahAdevashastripANDeyena praNItaM)
% engtitle              : bhAratashatakam
% Category              : major_works, shataka
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Mahadev Pandey
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Paresh Panditrao
% Proofread by          : Paresh Panditrao
% Indexextra            : (Scan)
% Latest update         : October 7, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org