बिम्बप्रतिबिम्बवादः
प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः ।
तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ १॥
यः प्रकाशः स विश्वस्य प्रकाशत्वं प्रयच्छति । (सर्वस्य)
न च तद्व्यतिरेक्यस्ति विश्वं सद्वाऽवभासते ॥ २॥
अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः ।
इयतः सृष्टिसंहाराडम्बरस्य प्रवर्तकः ॥ ३॥ (प्रदर्शकः)
निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः ।
अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ ४॥
सदृशं भाति नयनदर्पणाम्बरवारिषु ।
तथा हि निर्मले रूपे रूपमेवावभासते ॥ ५॥
प्रच्छन्नरागिणीकान्तप्रतिबिम्बितसुन्दरम् ।
दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ ६॥
न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः ।
वैमल्यं चातिनिबिडमजातीयैकसङ्गतिः ॥ ७॥
(नैर्मल्यं चातिनिविडसजातीयैकसङ्गतिः)
स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या ।
अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ ८॥
नैर्मल्यं मुख्यमेतस्य संविन्नाथस्य सर्वतः । (मुख्यमेकस्य)
अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ ९॥
भावानां यत्प्रतीघाति वपुर्मायात्मके हि तत् । (वपुर्मायात्मकं)
तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ १०॥
तदेवमुभयाकारमवभासं प्रकाशयन् ।
विभाति वरदो बिम्बप्रतिबिम्बतयाऽखिले ॥ ११॥ (बिम्बप्रतिबिम्बदृशाखिले)
यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् ।
विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ १२॥
देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः ।
तेनैव तेजसा ज्ञत्वे कोर्थः स्याद्दर्पणेन तु ॥ १३॥ (कोऽर्थः)
विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः ।
रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ १४॥
स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् ।
न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ १५॥
रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः ।
न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ १६॥
न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः ।
स चार्थसङ्गमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ १७॥
अत एव गुरुत्वादिर्धर्मो नैतस्य भासते । (लक्ष्यते)
नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ १८॥
तस्मात्तु नैष भेदेन यद्भाति तत उच्यते ।
आधारस्तत्र रूपाया दीपदृक्संविदः क्रमात् ॥ १९॥ (तूपाया)
दीपचक्षुर्विबोधानां काठिन्याभावतः परम् ।
सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ २०॥
एतच्च देवदेवेन दर्शितं बोधवृद्धये ।
मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ २१॥
प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न ।
स्वच्छस्यैवाथ कस्यापि महिमेति कृपालुना ॥ २२॥ (स्वच्छस्यैवैष)
न देशो नो रूपं न च समययोगो न परिमा
न चान्योन्यासङ्गो न च तदपहानिर्न घटना । (घनता)
न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति
ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ २३॥
॥ इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचितः
बिम्बप्रतिबिम्बवादः सम्पूर्णः ॥
श्रीतन्त्रालोके त्रितीयाह्निकान्तर्गता श्लोकानि १-२३
Note:
The text of the composition `Bimbapratibimbavada' essentially
comprises of verses 1-23 of Abhinavagupta's `Tantraloka, Ahnika-3'.
Encoded and proofread by Ruma Dewan