पण्डितराजजगन्नाथकविविरचितः भामिनीविलासः

पण्डितराजजगन्नाथकविविरचितः भामिनीविलासः

॥ भामिनीविलासे प्रथमः प्रास्ताविकविलासः ॥

माधुर्यपरमसीमा सारस्वतजलधिमथनसम्भूता । पिबतामनल्पसुखदावसुधायाम्ममसुधाकविता ॥ १॥ दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । इदानीं लोकेऽस्मिन्ननुपमशिखानां पुनरयं नखानां पाण्डित्यं प्रकटयतु कस्मिन् मृगपतिः ॥ २॥ पुरा सरसि मानसे विकचसारसालिस्खल- त्परागसुरभीकृते पयसि यस्य यातं वयः । स पल्वलजलेऽधुना मिलदनेकमेकाकुले मरालकुलनायकः कथय रे कथं वर्तताम् ॥ ३॥ तृष्णालोलविलोचने कलयति प्राचीं चकारागणे । मौनं मुञ्चति किञ्च कैरवकुले कामे धनुर्धन्वति । माने मानवतीजनस्य सपदि प्रस्थानकामेऽधुना । धातः किन्नु विधौ विधातुमुचितो धाराधराडम्बरः ॥ ४॥ अयि दलदरविन्द स्यन्दमानं मरन्दम् । तव किमपि लिहन्तो मञ्जु गुञ्जन्तु भृगाः । दिशिदिशि निरपेक्षस्तावकिन्नं विवृण्वन् । परिमलमयमन्यो बान्धवो गन्धवाहः ॥ ५॥ समुपागतवति दैवादवहेलाङ्कुटजमधुकरे माऽगाः । मकरन्दतुन्दिलानामरविन्दानामयम्महामान्यः ॥ ६॥ तावत्कोकिल विरसान् यापय दिवसान् वनान्तरे निवसन् । यावन्मिलदलिमालः कोऽपि रसालः समुल्लसति ॥ ७॥ कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलिताऽनभिज्ञैः । परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ॥ ८॥ नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापिकृथाः । अत्यन्तसरसहृदयो यतः परेषां गुणगृहीतासि ॥ ९॥ येनामन्दमरन्दे दलदुरविन्दे दिनान्यनायिषत । कुटजे खलु तेनेहा तेने हा मधुकरेण कथम् ॥ १०॥ आयि मलयज महिमाऽयं कस्य गिरामस्तु विषयस्ते । उद्विरतो यद्गरलं फणिनःपुष्णासिपरिमलोद्दारैः ॥ ११॥ पाटीर तवपटीयानकः परिपाटीमिमामरीकर्तुम् । यत्पिषतामपि नृणां पिष्टोऽपि तणोषि परिमललैः पुष्टिम् ॥ १२॥ नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः ॥ १३॥ उपरि करवालधाराकाराः क्रूरा भुजङ्गमपुङ्गवाः । अन्तः साक्षाद्राक्षादीक्षागुरवो जयन्ति केऽपि जनाः ॥ १४॥ स्वच्छन्दं दलदरविन्द ते मरन्दं विन्दन्तो विदधतु गुञ्जितं मिलिन्दाः । आमोदानथ हरिदन्तराणि नेतुं नैवान्यो जगति समीरणात्प्रवीणः ॥ १५॥ याते मय्यचिरान्निदाघमिहिरज्वालाशनैः शुष्कतां गन्ता के प्रति पान्थसन्ततिरसौ सन्तापमालाकुला । एवं यस्य निरन्तराधिपटलैर्नित्यं वपुः क्षीयते । धन्यं जीवनमस्य मार्गसरसो धिग्वारिधीनां जनुः ॥ १६॥ आपेदिरेऽम्बरपथं परितः पतङ्गा भुङ्गा रसालमुकुलानि समाश्रयन्ते । सङ्कोचमञ्चितसरसस्त्वयि दीनदीने मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ १७॥ मधुप इव मारुतेऽस्मिन् मा सौरभलोभमम्बुजनि मंस्थाः । लोकानामेव मुदे महितोऽप्यात्माऽमुनार्थितां नीतः ॥ १८॥ गुञ्जति मञ्जु मिलिन्दे मा मालति मानमौनमुपयासीः । शिरसा वदान्यगुरवः सादरमेनं वहन्तिसुरतरवः ॥ १९॥ यैस्त्वं गुणगणवानपि सतां द्विजिह्वैरसेव्यतां नीतः । तानपि वहाव पटीरज किं कथयामस्त्वदीयमौन्नत्यम् ॥ २०॥ गाहितमखिलं गहनं परितोदृष्टाश्च विपिनः सर्वे । सहकार न प्रपेदे मधुपेन भवत्समं जगति ॥ २१॥ अवनीतपरिमलान्तरकथे पदं न्यस्य देवतरुकुसुमे । पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद् भ्रमरधन्योऽसि ॥ २२॥ तटिनि चिरायविचारय विन्ध्यभुवस्तवपवित्रायाः । शुष्यन्त्या आपि युक्तं किं खलु रथ्योदकादानम् ॥ २३॥ पत्रफलपुष्पलक्षम्या कदाप्यदृष्टं वृतं च खलु शूकैः । उपसर्पेम भवन्तं बर्बर वद कस्य लोभेन ॥ २४॥ एकस्त्वं गहनेऽस्मिन् कोकिल न कलं कदाचिदपि कुर्याः । साजात्यशङ्कयाऽमी न त्वां विघ्नन्तु निर्दया काकाः ॥ २५॥ तरुकुलसुखमापहरां जनयन्ती जगतिजीवजातार्तिम् । केनगुणेनभवानीतातहिमानीनिमां वहसि ॥ २६॥ कलभ तवान्तिकमागतमलिमेनं माकदाप्यवज्ञासीः । अपि दानसुन्दराणान्द्विपधुर्याणामयंशिरोधार्यः ॥ २७॥ अमरतरुकुसुमसौरभसेवनसम्पूर्णसकलकामस्य । पुष्पान्तरसेवेयं अमरस्य विडम्बना महती ॥ २८॥ पृष्ठाः खलु परपुष्टाः परितोदृष्टाश्चविटपिनः सर्वे । माकन्दन प्रपेदे मधुपेन तवोपमा जगति ॥ २९॥ तोयैरल्परपि करुणया भीममानौ निदाघे । मालाकार व्यरचि भवता या तरोरस्य पुष्टिः । वर्षाकाले जनयितुमिह प्रावृषेण्येन वाराम् । धारासारानपि विकिरता विश्वतो वारिदेन ॥ ३०॥ आरामाधिपतिविवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीलता दश दिशश्चण्डातपो दुःसहः । एवं धन्वति चम्पकस्य सकले संहारहेतावपि त्वंसिचन्नमृतेनतोयद कुतोऽप्याविष्कृतोवेधसा ॥ ३१॥ न यत्र स्थेमानं दधुरतिभयभ्रान्तनयनाः गलद्दनोद्रेकभ्रमदलिकदम्बा करटिनः । लुठन्मुक्ताभारे भवति परलोकं गतवतो हरेरदयद्वारे शिवशिवशिवानां कलकलः ॥ ३२॥ दधानः प्रेमाणं तरुषु समभावेन विपुलम् । न मालाकारोऽसावकृत करुणां बालबकुले । अयं तु द्रागुद्यत् कुसुमनिकराणां परिमलैः । दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३॥ मूलं स्थूलमतीवबन्धनदृढं शाखाः शतम्मांसलाः वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव । एकः किन्तु मनागयं जनयति स्वान्ते ममाधिज्वर- ज्वालालीवलयीभवन्नकरुणोदावानलो घस्मरः ॥ ३४॥ ग्रीष्मेभीष्मतःकरैर्दिनकृतादग्धोऽपि यश्चातक - स्त्वान्ध्यायन्धनवासरान्कथमपिद्राधीयसोनीतवान् देवाल्लोचनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करकानिपातनकृपा तत् कं प्रतिब्रूमहे ॥ ३५॥ दवदहनजटालज्वालजालाहतानां परिगलितलतानां म्लायतां भूरुहाणाम् । अपिजलधर शैलश्रेणिश‍ृङ्गेषु तोयं वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६॥ श‍ृण्वन् पुरः परुषगर्जितमस्य हन्त रे पान्थ विस्मितमना न मनागपि स्याः । विश्वार्तिवारणसमर्पितजीविनतोऽयं नाकर्णितः किमु सखे भवताऽम्बुवाहः ॥ ३७॥ सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम् । कीर्तिः किञ्च दिगङ्गनागणगता किन्त्वेतदेकंश‍ृणु । सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान् । उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८॥ नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः । तथापि हरते तापं लोकानामुन्नतो धनः ॥ ३९॥ समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसति र्विलासः पद्मायाः सुरहृदयहारी परिमलः । गुणैरतैरन्यैरपि च ललितस्याम्बुज तव द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४०॥ साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा । नीरे नीरचरैः समं स भगवान् निद्राति नारायणः । एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः किं निन्दान्यथवा स्तवानि कथय क्षीरार्णवत्वामहम् ॥ ४१॥ किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते । सलिलमपि यत्र तावकमर्णव वदनं प्रयाति तृषितानाम् ॥ ४२॥ इयत्यां सम्पत्तावपि च सलिलानां त्वमधुना न तृष्णामार्त्तानां हरसि यदि कासार सहसा । निदाधे चण्डांशौ किरति परितों गारनिकरं कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३॥ अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः । जलदेन तवार्थिना विमुक्तान्यापि तोयानि महान् न हा जहासि ॥ ४४॥ न वारयामो भवती विशन्तीं वर्षान दिस्रोतसि जह्नुजायाः । न युक्तमेतत्तु पुरो यदस्या स्तरङ्गभङ्गान्प्रकटीकरोषि ॥ ४५॥ पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः । तस्मिन्नदय मधुव्रते विधिवशान्माध्वकिमाकाङ्क्षति त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रतिब्रूमहे ॥ ४६॥ प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी पुञ्जे मञ्जुलगुञ्जितानि रचयंस्तानातनोरुत्सवान् । तस्मिन्नदय रसालशाखिनि दृशां देवात् कृशामञ्चति त्वञ्चेन्मुञ्चसि चञ्चरीकविनयन्नीचस्त्वदन्योऽस्तिकः ॥ ४७॥ मुक्ता मृणालपटली भवता निपीता- न्यम्बूनि यत्र नलिनानि निषेवितानि । रे राजहंस वद् तस्य सरोवरस्य कृत्येन केन भावतासि कृतोपकारः ॥ ४८॥ एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् । सीमामिमां कलयभिन्नकरीन्द्रकुम्भ मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९॥ जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः । करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५०॥ येन भिन्नकरिकुम्भविस्खलन् मौक्तिकावलिभिरञ्चिता मही । अद्य तेन हरिणान्तिके कथं कथ्यतां नु हरिणा पराक्रमः ॥ ५१॥ स्थितिं नोरे दध्याः क्षणमपि मदान्धेक्षण सखे गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि । असो कुम्भिभ्रान्त्या खरनखरविद्रावितमहा गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२॥ गिरि गव्हरेषु गुरुगर्वगुम्फितो गजाराजपोत न कदापि सञ्चरेः । यदि बुध्यते हरिशिशुः स्तनन्धयोः भविता करेणुपरिशोषिता मही ॥ ५३॥ निसर्गादारामे तरुकुलसमारोप सुकृती कृती मालाकारो बकुलमपि कुत्रापि निधने । इदं को जानीते यदयमिह कोणान्तरगतो जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४॥ यस्मिन् वेल्लति सर्वतः परिचलकल्लोलकोलाहलै- र्मन्थाद्रिश्रमणश्रमं हृदि हरिन्दृतावलाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः कोडे क्रीडतु कस्य केलि कलहत्यक्तार्णवो राघवः ॥ ५५॥ लूनं मत्तमतङ्गजैः कियदपि च्छिनं तुषारार्दितैः शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणै स्मीकृतं काननम् । एषा कोणगता मुहुः परिमलैरामोदयन्तीदिशो हा कष्टं ललिता लवङ्गलतिकादावाग्निना दह्यते ॥ ५६॥ स्वर्लोकस्य शिखामाणिः सुरतरुग्रामस्य धामाद्भुतं पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि । सत्यं नन्दन किन्विदंसहृदयौर्नित्यं विधिः प्रार्थ्यते त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७॥ स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने चञ्चूकोटिविपारिताररपुटो यास्याम्यहं पञ्जरात् । एवं करिवरे मनोरथमयं पीयूषमास्वादयत्यन्तः संप्रविवेशवारणकराकारः फणिग्रामणीः ॥ ५८॥ रे चाञ्चल्यजुषोमृगाः श्रितनगाः कल्लोलमालाकुला मेतामम्बुधिगामिनीं व्यवासिताः सङ्गाहितुं वा कथम् । अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९॥ पिब स्तन्यं पोत त्वमिह मददन्तावलधिया दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् । त्रयाणां लोकानामपि हृदयतापं परिहरन् अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६०॥ धीरध्वनिभिरलं ते नीरद में मासिको गर्भः । उन्मदवारणबुद्धया मध्येजठरं समुच्छलति ॥ ६१॥ वेतण्डगडकण्डूतिपाण्डित्यपरिपन्थिना । हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२॥ नीरन्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी वासो यस्य हरेः करेः परिमलो गीर्वाणचेतोहरः । सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह । त्वञ्चेत्प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३॥ लीलामुकुलितनयनं किंसुखशयनं समातनुषे । परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४॥ विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः । याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५॥ औदार्यं भुवनत्रयेऽपि विदितं सम्भूतिरम्भोनिधे- र्वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः । एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः । स्थादर्थिप्रवरार्थितार्पणविधावेको विवेकोयदि ॥ ६६॥ एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिना- मित्येवम्परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः । भूपानां भवनेषु किञ्च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खला ॥ ६७॥ विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतमाः । तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८॥ अन्या जगद्धितमयी मनसः प्रवृत्तिः । अन्येव कापि रचना वचनावलीनाम् । लोकोत्तराच कृतिराकृतिरार्तहृया । विद्यावतां सकलमेव गिरां दवीयः ॥ ६९॥ आपद्गतः किल महाशयचक्रवर्ती विस्तारस्यत्यकृतपूर्वमुदारभावम् । कालागुरुर्दहनमध्यगतः समन्ता ल्लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७०॥ विश्वाभिरामगुणगौरवगुम्फितानां रोषोऽपि निर्मलधियां रमणीय एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१॥ लीलालुण्ठितशारदापुरमहासम्पन्नराणां पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गान्ति चेत्पामराः । अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः सिंहानाञ्च सुखेन मूर्द्धसुपदं धास्यति शालावृकाः ॥ ७२॥ गीर्भिर्गुरूणां परुषाक्षराभिस्तिरस्कृता यान्ति नरा महत्त्वम् । अलब्धशाणोत्कपणा नृपाणां न जातु मौला मणयो वसन्ति ॥ ७३॥ वहति विषधरान पटीरजन्मा शिरप्ति मषीपटलं दधाति दीपः । विधुरपि भजतेतरां कलङ्क पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४॥ सत्पूरुषः खलु हिताचरणैरमन्द- मानन्दयत्यखिललोकमनुक्त एव । आराधितः कथय केनकरैरुदारै- रिन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५॥ कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् । प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६॥ खल कापट्यदोषेण दूरेणैव विसृज्यते । अपायशङ्किभिर्लोकैर्विषेणाशीविषो यथा ॥ ७७॥ पाण्डित्यं परिहत्य यस्य हि कृते बन्दित्वमालम्बितं दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः । रूढस्तत्रस चेन्निगीर्य सकलां पूर्वोपकारावलीं दुष्टः प्रत्यवतिष्टते तदधुना कस्मे किमाचक्ष्महे ॥ ७८॥ परार्थव्यासङ्गादुपजहदपि स्वार्थपरता- मभेदैकत्वं यो वहति गुणभूतेषु सततम् । स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९॥ वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि तूम्बीफलविकलो वीणादण्डः प्रयात्ति महिमानम् ॥ ८०॥ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनमहितो गन्धेनोग्रेणलशुन इव ॥ ८१॥ उपकारमेव तनुते विपद्धतः सद्गुणो नितराम् । मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२॥ वनाते खेलन्ती शशकाशशुमालोक्य चकिता भुजप्रान्तं भर्तुर्भजति भयहर्तुः सपदि या । अहो सेयं सीता दशवदननीता हलरदैः परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३॥ पुरो गीर्वाणानां निजभुजबलाहोपुरुषिका- महोका रङ्कारं पुरभिदि शरं सम्मुखतया । स्मरस्य स्वर्बालानयन शुभमालार्च्चनपदं वपुः सद्यो भालानलभसितजालास्पदमभूत् ॥ ८४॥ युक्तं सभायां खलु मर्कटानां शाखास्तरूणाम्मृदुला सनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखाग्रैश्च विपाटनानि ॥ ८५॥ किं तीर्थं हरिपादपद्मभजनं किं रत्नमच्छा मतिः किं शास्त्रं श्रवणेन यस्य गलति द्वैतोधकारोदयः । किं मित्रं सततोपकाररसिकं तत्त्वावबोधःसखे कः शत्रुर्वद खेददानकुशलो दुर्वासनासञ्चयः ॥ ८६॥ निष्णातोऽपि च वेदान्ते साधुत्वं नैति दुर्जनः । चिरं जलनिधौ मग्नौ मैनाक इव मार्दवम् ॥ ८७॥ नैर्गुण्यमेव साधीयो धिगस्तु गुणगौरवम् । शाखिनोऽन्ये विराजन्ते खण्ड्यन्ते चन्दनद्रुमाः ॥ ८८॥ परोपसर्पणानन्तचिन्तानलाशखाशतैः । अचुम्बितान्तःकरणाः साधु जीवन्ति पादपाः ॥ ८९॥ शून्येऽपि च गुणवत्तामातन्वानः स्वकीयगुणजालैः । विवराणि मुद्यन् द्रागूर्णायुरिव सुजनो जयति ॥ ९०॥ खलः सज्जनकार्पासरक्षणैकहुताशनः । परदुःखाग्निशमने मारुतः केन वर्ण्यताम् ॥ ९१॥ परगुह्यगुप्तिनिपुणं गुणमयमखिलेः समीहितं नितराम् । ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति खलाः ॥ ९२॥ कारुण्यकुसुमाकाशः शान्तिशैत्यहुताशनः । यशःसौरभ्यलशुनः खल सज्जनदुःखदः ॥ ९३॥ धत्ते भरं कुसुमपत्रफलावलीनां मर्मव्यथां स्पृशति शीतभवां रुजं च । यो देहमर्पयति चान्यसुखस्य हेतो- स्तस्मै वदान्यगुरवे तरवे नमोऽस्तु ॥ ९४॥ हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिषति प्रकामम् । व्यालाधिपच्च यतते परिब्धुमध्दा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥ ९५॥ दीनानामिह परिहाय शुष्कसस्यान्यौदार्य प्रकटयतो महीधरेषु । औन्नत्यं परममवाप्य दुर्मदस्य ज्ञाताऽयं जलधर तावकोऽविवेकः ॥ ९६॥ गिरयो गुरवस्तभ्योऽप्युर्वी गुर्वी ततोऽपि जगदण्डम् । तस्मादप्यतिगुरवः प्रलयेप्यचला महात्मानः ॥ ९७॥ व्योम्नि स वासं कुरुते चित्र निर्माति सुन्दरं पवने । रचयति रेखाः सलिले चरति खले यस्तु सत्कारम् ॥ ९८॥ हारं वक्षसि केनापि दत्तमज्ञेन मर्कटः । लेढि जिघ्रति संक्षिप्य करोत्युन्नतमाननम् ॥ ९९॥ मलिनेऽपि रागपूर्णां विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥ १००॥ स्वार्थं धनानि धनिकात्प्रति गृण्हतो यद् अस्यं भजेन्मलिनतां किमिदं विचित्रम् । गृण्हन्परार्थमपि वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमानम् ॥ १०१॥ जनकः सानुविशेषो जातिः काष्ठं भुजङ्गमैः सङ्गः । स्वगुणैरेव पटीरज यातोऽसि तथापि महिमानम् ॥ १०२॥ कस्मै हन्त फलाय सज्जन गुणग्रामाज्जने सज्जसि स्वात्मोपरस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः सम्भृता- स्तैरेवास्य कलेः कलेवरपुषो दैनन्दिनं वर्द्धनम् ॥ १०३॥ धूमायिता दश दिशो दलितारविन्दा देहं दहन्ति दहना इव गन्धवाहाः । त्वामन्तरेण मृदुताम्रदलाम्रमज्जु गुञ्जन्मधुव्रत मधो किल कोकिलस्य ॥ १०४॥ भिन्ना महागिरिशिलाः करजाग्रजाग्र दुद्दामशौर्यनिकरैः करटिश्रमेण । देवे पराचि करिणामरिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेशः ॥ १०५॥ गर्जितमाकर्ण्य मनागङ्गे मातुर्निशार्द्धजातोऽपि । हाराशशुरुत्पतितुं द्रागङ्गान्याकुच्य लीयते निभृतम् ॥ १०६॥ किमहं वदामि खल दिव्यतमं गुणपक्षपातमभितो भवतः । गुणशालिनो निखिलसाधुजनान् यदहर्निशं न खलु विस्मरसि ॥ १०७॥ रे खल तव खलु चरितं विदुषां मध्ये विविच्य वक्ष्यामि । अथवालं पापात्मन् कृतया कथयापि ते हतया ॥ १०८॥ आनन्दमृगदावाग्निः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खलसमागमः ॥ १०९॥ खलास्तु कुशलाः साधुहितप्रत्यूहकर्मणि । निपुणाः फणिनःप्राणानपहर्तुन्निरागसाम् ॥ ११०॥ वदने विनिवेशिताभुजङ्गी पिशुनानांरसनामिषेण घात्रा । अनया कथमन्यथावलीढा नहि जीवन्ति च नाम नागमन्त्राः ॥ १११॥ कृतं महोन्नतं कृत्यमर्जितं चामलं यशः । यावज्जीवं सखे तुभ्यं दास्यामो विपुलाशिषः ॥ ११२॥ अविरतं परकार्यकृतां सतां मधुरिमातिशयेन वचोऽमृतम् । आपि च मानसमम्बुनिधिर्यशोविमलशारदपार्वणचन्द्रिका ॥ ११३॥ एत्य कुसुमाकरो मे सञ्जीवयिता गिरं चिरं मग्राम् । इति चिन्तयतो हृदये पिकस्य समधायि शोभिकेन शरः ॥ ११४॥ निर्गुणः शोभते नैव विपुला डम्बरोऽपि ना । आपातरम्यपुष्प श्रीशोभिता शाल्मलिर्यथा ॥ ११५॥ पङ्कैर्विनासरो भाति सदः खलजनैर्विना । कटुवर्णैविना काव्यं मानसं विषयैर्विना ॥ ११६॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ ११७॥ सरजस्काम्पाण्डुवर्णां कण्टकप्रकरान्विताम् । केतकीं सेवसे हन्त कथं रोलम्ब निस्त्रप ॥ ११८॥ यथा तानं विना गगो यथा मानं विना नृपः । यथा दानं विना हस्ती तथा ज्ञानं विना यतिः ॥ ११९॥ सन्तः स्वतः प्रकाशन्ते गुणा न परतो नृणाम् । आमोदो नहि कस्तूर्याः शपथेन विभाव्यते ॥ १२०॥ अपि बत गुरु गर्वं मास्म कस्तूरि यासी- रखिलपरिमलानां मौलिना सौरभेण । गिरिगहनगुहायां लीनमत्यन्तदीनं स्वजनकममुनैव प्राणहीनं करोषि ॥ १२१॥ दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरन्तनमघं चुलुकीकरोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां किमु न मङ्गलमातनोति ॥ १२२॥ अनवरतपरोपकारव्यग्रीभवदमलचेतसां महताम् । आपातकाटवानि स्फुरन्तिं वचनानि भेषजानीव ॥ १२३॥ व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीतान्याकर्ण्य श्रुतिमदजाल्लयातिरेकात । आभूमीतलनतकन्धराणि मन्येऽरण्येऽस्मिन्नवनिरुहां कुटुम्बकानि ॥ १२४॥ मृतस्य लिप्सा कृपणस्य दित्सा विमार्ग गायाश्च रुचिः स्वकान्ते । सर्पस्य शान्तिः कुटिलस्य मैत्री विधातृसृष्टौ न हि दृष्टपूर्वा ॥ १२५॥ उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते । राजप्रियाः केरविण्यो रमन्ते मधुपैः सह ॥ १२६॥ अयाचितः सुखं दत्ते याचितश्च न यच्छति । सर्वस्वं चापि हरते विधिरुच्छङ्खलो नृणाम् ॥ १२७॥ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुग- ध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावली ताण्डव भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ १२८॥ खण्डितानेत्रकाञ्जालिमञ्जुरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः ॥ १२९॥ इति श्रीमत्पण्डितराजजगन्नाथकविविरचिते भामिनीविलासे प्रास्ताविको नाम प्रथमो विलासः ॥ १॥

॥ भामिनीविलासे द्वितीयः श‍ृङ्गारविलासः ॥

न मनागपि राहुरोधशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥ १॥ नितरां परुषा सरोजमाला न मृणालानि विचारपेशलानि । यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥ २॥ स्वेदाम्बुसान्द्रकणशालिकपोलपाली दोलायितश्रवणकुण्डलवन्दनीया । आनन्दमङ्कुरयति स्मरणेन कापि रम्या दशा मनसि मे मदिरेक्षणायाः ॥ ३॥ कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् । प्रोढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासयन्तु परितो हरितो मुखानि ॥ ४॥ तन्मञ्जुमन्दहसितं श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायन्तनाम्बुजसहोदरलोचनायाः ॥ ५॥ प्रातस्तरां प्रणमने विहिते गुरूणा माकर्ण्य वाचममलां भव पुत्रणीति । नेदीयसि प्रियतमे परमप्रमोद पूर्णादरं दयितया दधिरे दृगन्ताः ॥ ६॥ गुरुजनभयमद्विलोकनान्तः समुदयदाकुलभावमुद्वहन्त्यः । दरदलदरविन्दसुन्दरे हा हरिणदृशो नयने न विस्मरामि ॥ ७॥ बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतो क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्म्याः ॥ ८॥ जम्बीरश्रियमतिलङ्घ्यं लीलयैव व्यानम्रीकृतकमनयिहेम कुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ ९॥ कपोलपाली तव तन्वि मन्ये लावण्यधन्ये दिश मुत्तराख्याम् । आभाति यस्यां ललितालकायां मनोहरा वैश्रवणस्य लक्ष्मीः ॥ १०॥ नीवीं नियम्य शिथिलामुषसि प्रकाश- मालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे नाभेः प्रभा सरसिजोदरसोदरायाः ॥ ११॥ आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती । आरादुपाकर्ण्य गिरं मादियां सौदामिनीयां सुषमामयासीत् ॥ १२॥ मुधैव नक्तं परिकल्प्य गन्तुं मृषैव रोषादुपजल्पतो मे । उदश्रुचञ्चन्नयना नताङ्गी गिरं न कां कामुररीचकार ॥ १३॥ तवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यदवाधि न पदं दधाति चित्ते हरिणकिशोदृशो दृशोर्विलासः ॥ १४॥ आगतः पतिरितीरितं जनैः श‍ृण्वती चकितमेत्य देहलीम् । कौमुदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणाम् ॥ १५॥ अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ १६॥ वक्षोजाग्रं पाणिनामृष्य दूरं यातस्य द्रागाननाब्जं प्रियस्य । शोणाग्राभ्यां भामिनीलोचनाभ्यां जोषं जोषं जोषमेवावतस्थे ॥ १७॥ गुरुभिः परिवेष्टितापि गण्डस्थलकण्डूयनचारुककैतवेन । दरदर्शितहेमबाहुनाला मयि बाला नयनाञ्चलं चकार ॥ १८॥ गुरुमध्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम् । दरकुण्डलताण्डवं नतभ्रूलतिकं मामवलोक्य घूर्णितासीत् ॥ १९॥ विनये नयनारुणप्रसाराः प्रणतो हन्त निरन्तराश्रुधाराः । अपि जीवितसंशयः प्रयाणे न हि जाने हरिणाक्षि केन तुष्ये ॥ २०॥ अकरुणमृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीम् । अविरलगलद्वापां तन्वीं निरस्तविभूषण क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ २१॥ तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्धिकासम् । आलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमालाम् ॥ २२॥ वीक्ष्य वक्षावि विपक्षकामिनीहारलक्ष्म दायतस्य भामिनी । अंसदेशविनिवेशितां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥ २३॥ दरानमत्कन्धरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् । अनल्पनिश्वासभरालसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥ २४॥ रोषावेशान्निर्गतं यामयुग्मादेत्य द्वारं काञ्चिदाख्यां गृणन्तम् । मामाज्ञायैवाययौ कातराक्षी मन्द मन्दं मन्दिरादिन्दिरेवम् ॥ २५॥ हृदये कृतशैवलानुषङ्गा मुहुरङ्गानि यतस्ततः क्षिपन्ती । प्रियनामपरे मुखे सखीनामतिदीनामियमादधाति दृष्टिम् ॥ २६॥ इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकन्धरं नतभ्रु स्मयमानं वदनाम्बुजं स्मरामि ॥ २७॥ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलो चुलुकयति मदीयां चेतनां चञ्चरीकः ॥ २८॥ निरुध्य यान्तीं तरसा कपोतीं कूजत्कपोतस्य पुरो दधाने । मयि स्मितार्द्रं वदनारविन्दं सा मन्दमन्दं नमयाम्बभूव ॥ २९॥ तिमिरं हरति हरितां पुरः स्थिता तिरयन्ति तापमथ तापशालिनाम् । वदनविपस्तव चकोरलोचने परिमुद्रयन्ति सरसीरुहश्रियः ॥ ३०॥ कुचकलशयुगान्तर्मामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्यबाला गवाक्षे- चकिततनु नताङ्गी सद्म सद्यो विवेश ॥ ३१॥ विधाय मा मदनानुकूलं कपोलमूलं हृदये शयाना । तन्वी तदानामतुलां बलारेः साम्राज्यलक्ष्मीमधरीचकार ॥ ३२॥ मुहुरर्थितयाद्य निद्रया मे बत यामे चरने निवेदितायाः । चिबुकं सुदृशः स्पृशामि यावन्मयि तावन्मिहिरोऽपि निर्दयोऽभूत् ॥ ३३॥ श्रुतिशत्तमपि भूयः शीलितं भारतं वा विरचयति तथा नो हन्त सन्तापशान्तिम् । अपि सपदि यथायं केलिविश्रान्तकान्ता वदनकमलवलगत्कान्तिसान्द्रो नकारः ॥ ३४॥ लवली तव लीलया कपोले कवलीकुर्वति कोमलविषा । परिपाण्डुरपुण्डरीकखण्डे परिपेतुः परितो महाधयः ॥ ३५॥ यौवनोद्मनितान्तशङ्किताः शीलशौर्यबलकान्तिलोभिताः । सङ्कुचन्ति विकसन्ति राघवे जानकीनयननीरजश्रियः ॥ ३६॥ अधिरोप्यहरस्य हत चापं परितापम्प्रशमय्य बान्धवानाम् । परिणेष्यति वा न वा युवायं निरपायं मिथिलाधिनाथपुत्रीम् ॥ ३७॥ भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् ॥ ३८॥ उपनिषदः परिपीता गीतापि च हन्त मतिपथं नीता । तदपि न हा विधुवदना मानससदनाद् बहिर्याति ॥ ३९॥ अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायाली जनस्य विकला सा ॥ ४०॥ लोभाद्भराटिकानां विक्रतुं तक्रमविरतमटन्त्या । लब्धो गोपकिशोर्या मध्यस्थ्यं महेन्द्रनीलमणिः ॥ ४१॥ रूपारुचिं निरसितुं रसयन्त्या हरिमुखस्य लावण्यम् । सुदृशः शिवशिव सकले जाता सकलेवरे जगत्यरुचिः ॥ ४२॥ प्राणापहरणेनासि तुल्योहालाहलेन मे । शशाङ्क केन मुग्धेन सुधांशुरिति भाषितः ॥ ४३॥ किं जल्पसि मुग्धतया हन्त ममाङ्गं सुवर्णवर्णमिति । तप्याति पतति हुताशे तदा हताशे तुलां तवारोहेत् ॥ ४४॥ औत्सुक्यात्परिमिलतां त्रपया सङ्कोचमञ्चतां च मुहुः । नवसङ्गम योर्यूनोर्नयनानामुत्सवो जयति ॥ ४५॥ गरिमाणमर्पयित्वा लघिमानं कुचतटात्कुरङ्गदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ ४६॥ न्यञ्चति वयसि प्रथमे समुदञ्चति तरुणिमनि तदा सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ४७॥ निस्सीमशोभासौभाग्यं नताङ्ग्या नयनद्वयम् । अन्यो यालोकनानन्द विरहादिव चञ्चलम् ॥ ४८॥ गुरुमध्ये हरिणाक्षी मार्तिकशकलैर्निहन्तुकामं माम् । रदयन्त्रितरसनाग्रं तरलितनयनं निवारयाञ्चक्रे ॥ ४९॥ नयनाञ्चलावमर्शं या न कदाचित्पुरा सेहे । आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥ ५०॥ मानपराग्वदनापि प्रिया शयानेव दयितकरकमले । उद्वेल्लद्भुजमल सग्रीवाबन्धं कपोलमाधत्ते ॥ ५१॥ लोचनफुल्लाम्भोज द्वयलोभान्दोलितैकमनाः शुभ्रे । कस्तूरीतिलकमिषादयमलिकेऽलिस्तवोल्लसति ॥ ५२॥ अधिरजनि प्रियसविधे कथमपि संवेशिता बलाद्गुरुभिः । किं भवितेति सशङ्कं पङ्कजनयना परानृशति ॥ ५३॥ चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तांसमस्ताकथा । एतत्त्वां विनिवेदयामि मम चेदुक्तिं हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्याति ॥ ५४॥ अलङ्कर्तुं कर्णौ भृशमनुभवन्त्या नवरुजं ससीस्कारं तिर्यग्वलितवदनाया मृगदृशः । कराब्जव्यापारानतिसुकृतसारान् रसयतो जनुः सर्वं श्लाघ्यं जयति ललितोत्तंस भवतः ॥ ५५॥ आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलङ्कुर्वते । मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ॥ ५६॥ वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा । निःश्वासग्लपिताधरं परिपतद्बाष्पार्द्रवक्षोरुहा बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥ ५७॥ यदवाधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ ५८॥ निखिलां रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं न हि परयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥ ५९॥ निपतद्बाष्पसंरोध मुक्तचाञ्चल्यतारकम् । कदा नयननीलाब्जमालोकेय मृगीदृशः ॥ ६०॥ यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥ ६१॥ भवनं करुणावती विशन्ती गमनाज्ञालवलाभलालसेषु । तरुणेषु विलोचनान्ज मालामथ बाला पथि पातयाम्बभूव ॥ ६२॥ पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखं सुकृतिनां किं ते वदिष्यति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥ ६३॥ उषसि प्रतिपक्षकामिनी सदनादन्तिकमञ्चति प्रिये । सुदृशी नयनाब्जकोणयोरुदियाय त्वरयाऽरुणदयुतिः ॥ ६४॥ क्षमापणैकपादयोः पदयोः पतति प्रिये । शेमुः सरोजनयना नयनारुणकान्तयः ॥ ६५॥ निर्वासयन्ती धृतिमङ्गनानां शोभा हरेरेणदृशोधयन्त्याः । चिरापराधस्मृतिमांसलोऽपि रोषः क्षणप्राघुणिको बभूव ॥ ६६॥ राज्ञो मत्प्रतिकूलान्मे महद्भयमुपस्थितम् । बाले वारय पान्थस्य वासदानविधानतः ॥ ६७॥ मलयानिलमनलीयति मणिभवने काननीयति क्षणतः । विरहेण विकलहृदया निर्जलमीनायते महिला ॥ ६८॥ कालागुरुद्रवं सा हालाहलवद्विजानती नितराम् । अपि नीलोत्पलमालां बाला व्यालावलिं किलामनुत ॥ ६९॥ विधिवञ्चितया मया न यातं सखि सङ्केतनिकेतनं प्रियस्य । अधुना बत किं विधातुकाप्रो मयि कामो नृपतिः पुनर्न जाने ॥ ७०॥ विरहेण विकलहृदया विलपन्ती दयित दयितेति । आगतमपि तं सविधे परिचयहीनेव वीक्षते बाला ॥ ७१॥ दारिद्र्यं भजते कलानिधिरयं राकाऽधुना म्ल्लायति स्वैरकैरवकाननेषु परितो मालिन्यमुन्मीलति । द्योतन्ते हरिदन्तराणि सुहृदां वृन्दं समानन्दति त्वं चेदञ्चसि काञ्चनाङ्गि वदनाम्भोजे विकासश्रियम् ॥ ७२॥ पाटीरद्रुभुजङ्गपुङ्गवमुखा याता इवातापिनो वाता वान्ति दहन्ति लोचनममी ताम्रा रसालद्रुमाः । एते हन्त किरन्ति कूजितमयं हालाहलं कोकिला बाला बालमृणालकोमलतनुः प्राणान् कथं रक्षतु ॥ ७३॥ आयातैव निशा मनो मृगशा मुनिन्द्र मातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ॥ ७४॥ प्रभातसमयप्रभां प्रणयिनिह्नुवानां रसाद- मुष्य निजपाणिना दृशममीलयं लीलया । अयं तु खलु पद्मिनीपरिमलालिपाटच्चरै- रवेरुदयमध्यगादधिकचारू तैर्मारुतैः ॥ ७५॥ विदूरादाश्चर्यस्तिमितमथ किञ्चित् परिचया- दुदञ्चच्चाञ्चल्यं तदनु परितस्फारितरुचि । गुरूणां सङ्घाते सपदि मयि याते समजनि त्रपाघूर्णत्तारं नयनामिह सारङ्गजदृशः ॥ ७६॥ कपोलावुन्मीलनन्वपुलकपाली मयि मना- ङ्मृशन्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः । कथङ्कारं शक्याः परिगदितुमिन्दीवरहशो दलद्राक्षानिर्यद्रसभरसपक्षा भाणितयः ॥ ७७॥ राजानं जनयाम्बभूव सहसा जैवाततृक त्वां तु यः सोऽयं कुण्ठितसर्वशक्तिनिकरो जातो जरार्तो विधिः । संप्रत्युन्मदखञ्जरीटनयनावक्राय नित्यश्रिये दाता राज्यमखण्डमस्य जगतो धाता नवो मन्मथः ॥ ७८॥ अविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः कान्तिः काचिन्निखिलनयनाकर्षणे कार्मराज्ञा । श्वासो दीर्घस्तवधि मुखे पाण्डिमा गण्डमूले शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥ ७९॥ प्रसङ्गे गोपानां गुरुषु महिमानं यदुपते- रुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झटिति वमतः पन्नगपतेः फणायां साश्चर्यं कथयतितरां ताण्डवविधिम् ॥ ८०॥ कैशोरे वयसि क्रमेण तनुतामायति तन्व्यास्तना- वागामिन्यखिलेश्वरे रतिपतौ तत्कालमस्याज्ञया । आस्ये पूर्णशशाङ्कता नयनयोस्तादात्म्यमम्भोरुहां किञ्चासीदमृतस्य भेदविगमः साचिस्मिते तात्विकः ॥ ८१॥ शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव । प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥ ८२॥ अधरद्युतिरस्तपल्लवा मुखशोभाशशिकान्तिलङ्घिनी । तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥ ८३॥ व्यत्यस्तं लपति क्षणं क्षणमहो मौनं समालम्बते सर्वस्मिन्विदधाति किं च विषये दृष्टिं निरालम्बनाम् । श्वासं दीर्घमुरीकरोति न मना गङ्गेषु धत्ते धृतिं वैदेहीविरहव्यथाविकलितो हा हन्त लङ्केश्वरः ॥ ८४॥ उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलललना चूडामणिशासनेन मदनेन ॥ ८५॥ प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नभः । रक्तं च पथिकहृदयं कपोलपाली मृगीदृशः पाण्डु ॥ ८६॥ इदमप्रतिमं पश्य सरः सरसिजैर्वृतम् । सखे मा जल्प नारीणां नयनानि दहन्ति माम् ॥ ८७॥ मुञ्चसि नाद्यापि रुषं भामिनि मुदिरालिरुदियाय । इति सुदृशः प्रियवचनैरपायि नयनाब्जकोणशोणरुचिः ॥ ८८॥ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चासिताक्षि मृगलाञ्छनसम्भ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ८९॥ स्मितं नैतत्किन्तु प्रकृतिरमणीयं विकसितं मुखं ब्रूते को वा कुसुममिदमुद्यत्परिमलम् । स्तनद्वन्द्वं मिथ्या कनकनिभमेतत्फलयुगं लता सेयं रम्या भ्रमरकुलनम्या न रमणी ॥ ९०॥ सङ्ग्रामाङ्गणसम्मुखाहतकियद्विश्वम्भराधीश्वर व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अङ्गारप्रखरैः करैः कवलयन्नेतन्महीमण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाङ्कीकृतः ॥ ९१॥ श्यामं सितं च सुदृशो न दृशोः स्वरूपं किं तु स्फुटं गरलमेतदथामृतं च । नो चेत्कथं निपतनादनयोस्तदेव मोहं मुदं च नितरां दधते युवानः ॥ ९२॥ अलिर्मृगो वा नेत्रं वा यत्र किञ्चिद्विभासते । अरविन्दं मृगाङ्को वा मुखं वेद मृगीदृशः ॥ ९३॥ सुविरलमौक्तिकतारे धवलांशुकचन्द्रिका चमत्कारे । वनपरिपूर्णचन्द्रे सुन्दरि राकाऽसि नात्रसन्देहः ॥ ९४॥ रूपजला चलनयना नाभ्यावर्ता कचावलिभुजङ्गा । मज्जन्ति यत्र सन्तः सेयं तरुणी तरङ्गिणीविषमा ॥ ९५॥ शोणाधरांशु सम्भिन्नास्तन्वि ते वदनाबुजे । केसरा इव काशन्ते कान्तदन्तालिकान्तयः ॥ ९६॥ दयिते रदनत्विषां मिषादयि तेऽमी विलसन्ति केसराः । अपि चालकवेषधारिणो मकरन्दस्पृहया लवोऽलयः ॥ ९७॥ तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममाऽयं मानुषो लोको नाकलोक इवाभवत् ॥ ९८॥ अङ्कायमानमलिके मृगनाभिपङ्कं पङ्केरुहाक्षि वदनं तव वीक्ष्य बिभ्रत् । उल्लासपल्लवितकोमलपक्षमूला- श्चञ्चूपुटं चटुलयन्ति चिरं चकोराः ॥ ९९॥ शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् । न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ १००॥ चलद्भरुङ्गमिवाम्भोज मधीरनयनं मुखम् । तदीयं यदि दृश्येत कामः क्रुद्धोऽस्तु किं ततः ॥ १०१॥ शतकोटिकठिनचित्तः सोऽहं तस्याः सुधैकमयमूर्तेः । येनाकारिषि मित्रं सुविकलहृदयो विधिर्वाच्यः ॥ १०२॥ श्यामलेनाङ्कितं बाले भाले केनापि लक्ष्मणा । मुखं तवान्तरासुप्त भृङ्गफुल्लाबुजायते ॥ १०३॥ अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥ १०४॥ नीलाञ्चलेन संवृतमाननमाभाति हरिणनयनायाः । प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १०५॥ स्तनाभोगे पतन् भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ १०६॥ यथा लतायाः स्तबकानतायाः स्तनावनम्रे नितरां समाऽसि । तथा लता पल्लविनी सगर्वे शोणाधरायाः सदृशी तवाऽपि ॥ १०७॥ इदं लताभिः स्तबकानताभि- र्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेदयुवत्यो हृदयं हरेयुः ॥ १०८॥ सामदागमनबृंहिततोषा जागरेण गमिताखिलदोषा । बोधिताऽपि बुबुधे मधुपैर्न प्रातराननजसौरभलुब्धैः ॥ १०९॥ अविचिन्त्यशक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपोःप्रभावतः । विधुभावमञ्चिततमां तवाननं नयने सरोजदलनिर्विशेषताम् ॥ ११०॥ मीनवती नयनाभ्यां करचरणाभ्यां प्रफुल्लकमलवती । शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ १११॥ पान्थ मन्दमते किं वा सन्तापमनुविन्दसि । पयोधरं समाशास्व येन शान्तिमवाप्नुयाः ॥ ११२॥ सम्पश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम् । सौदामिनी वा सितयामिनी वे- त्येवं जनानां हृदि संशयोऽभूत् ॥ ११३॥ सपल्लपा किं नु विभाति वल्लरी सफुल्लपद्मा किमयं नु पद्मिनी । समुल्लसत्पाणिपदां स्मितानना- मितीक्षमाणैः समलम्भि संशयः ॥ ११४॥ नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम् । सरोजं चन्द्रबिम्बं वेत्यखिलाः समशेरत ॥ ११५॥ कनकद्वकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया । चपलायुतवारिभ्रमान्ननृते चातकपोतकैर्वने ॥ ११६॥ वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्योत मतं मम ॥ ११७॥ स्मयमानाननां तत्र तां विलोक्य विलासिनीम् । चकोराश्चञ्चरीकाश्च मुदं परतरं ययुः ॥ ११८॥ वदनकमलेन बाले स्मितसुषमालेशमादधासि यदा । जगदिह तदैव जाने दशार्धबाणेन विजितमिति ॥ ११९॥ कलिन्दजानीरभरेऽधर्मग्ना बकाः प्रकामं कृतभूरिशब्दाः । ध्यान्तेन वैराद्विनिगार्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः ॥ १२०॥ परस्परासङ्गसुखानतभ्रुवः पयोधरौ पनितरौ बभूवतुः । तयोरमृष्यन्नयमुन्नतिं परामवैमि मध्यस्तनिमानमेति ॥ १२१॥ जनमोहकरं तवालि मन्ये चिकुराकारमिदं वनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ॥ १२२॥ दिवानिशं वारिणि कण्ठदघ्ने दिवाकराराधनमाचरन्ती । वक्षोजतायै किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुजपङ्क्तिरेषा ॥ १२३॥ वियोगवह्निकुण्डेऽस्मिन् हृदये ते वियोगिनि । प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १२४॥ निधिं लावण्यानां तव खलु मुखं निर्मितवतो महामोहं मन्ये सरसिरुहसूनोरुपचितम् । उपेक्ष्य त्वां यस्माद्विधुमयमकस्मादिह कृती कलाहीनं दानं विकल इव राजानमकरोत् ॥ १२५॥ स्तनान्तर्गतमाणिक्यवपुर्बहिरुपागतम् । मनोऽनुरागि ते तन्वि मन्ये वल्लभमीक्षितुम् ॥ १२६॥ जगदन्तरममृतमयैरंशुभिरापूरयन्नितराम् । उदयति वदनव्याजात् किमु राजा हरिणशावनयनायाः ॥ १२७॥ तिमिरशारदचन्दिरचन्द्रिकाः कमलविद्रुमचम्पककोरकाः । यदि मिलन्ति कदापि तदाननं खलु तदा कलया तुलयामहे ॥ १२८॥ प्रिये विषादं जहिहीति वाचं प्रिये सरागं वदति प्रियायाः । वारामुदारा विजगाल धारा विलोचनाभ्यां मनसश्च मानः ॥ १२९॥ राज्याभिषेकमाज्ञाय शम्बरासुरवेरिणः । सुधाभिर्जगतीमध्यं लिम्पतीव सुधाकरः ॥ १३०॥ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भ्रमरसम्भारं स्मरामि सरसीरुहम् ॥ १३१॥ यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत् तन्निष्पत्राक रोज्जगत् ॥ १३२॥ नयनानि वहन्तु खञ्जनानामिह नानाविधमङ्गभङ्गभाग्यम् । सदृशं कथमाननं सुशोभं सुदृशो भङ्गुरसम्पदांऽबुजेन ॥ १३३॥ मृणालमन्दानिलचन्दनाना- मुशीरशैवालकुशेशयानाम् । वियोगदूरीकृतचेतनानां विनैव शैत्यं भवति प्रतीतिः ॥ १३४॥ विबोधयन् करस्पर्शैः पद्मिनीं मुदिताननाम् । परिपूर्णोऽनुरागेण प्रातर्जयति भास्करः ॥ १३५॥ आनम्य वल्गुवचनैर्विनिवारितेऽपि रोषात् प्रयातुमुदिते मयि दूरदेशम् । बाला कराङ्गुलिनिदेशवशंवदेन क्रीडाबिडालाशशुनाऽऽशु रुरोध मार्गम् ॥ १३६॥ अभूदप्रत्यूहः कुसुमशरकोदण्डमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः । तवाऽस्मिन् पीयूषं किरति परितस्तन्वि वदने कुतो हेतोः श्वेतो विधुरयमुदेति प्रतिदिनम् ॥ १३७॥ विनैव शस्त्रं हृदयानि यूनां विवेकाजामपि दारयन्त्यः । अनल्पमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्याः ॥ १३८॥ यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ १३९॥ न मिश्रयति लोचने सहसितं न सम्भाषते कथासु तव किं च सा विरचयत्यरालां भ्रुवम् । विपक्षसुदृशः कथामिति निवेदयन्त्या पुरः प्रियस्य शिथिलीकृतः स्वविषयेऽनुरागग्रहः ॥ १४०॥ वडवानलकालकूटवन्मकरव्यालगणैः सहैधितः । रजनीरमणो भवेन्नृणां न कथं प्राणवियोगकारणम् ॥ १४१॥ लभ्येत पुण्यैर्गृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः । स्फीतं यशस्तैः समुदेति नित्यं तेनास्य नित्यः खलु नाकलोकः ॥ १४२॥ प्रभुरापि याचितुकामो भजते वामोरु लाघवं सहसा । यदहं त्वयाऽधरार्थी सपदि विमुख्या निराशतां नीतः ॥ १४३॥ जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवाने को मनोभवो वेद ॥ १४४॥ त्वमिव पथिकः प्रियो मे विटपिस्तोमेषु गमयति क्लेशान् । किमितोऽन्यत् कुशल मे संप्रति यत्पान्थ जीवामि ॥ १४५॥ किमिति कृशासि कृशोदरि किं तव परकीयवृत्तान्तैः । कथय तथापि मुदे मम कथयिष्यति पान्थ तव जाया ॥ १४६॥ तुलामनालोक्य निजामखर्वं गौराङ्गि गर्वं न कदापि कुर्याः । लसन्ति नानाफलभारवत्यो लताः कियत्यो गहनान्तरेषु ॥ १४७॥ इयमुल्लसिता मुखस्य शोभा परिफुल्लं नयनाम्बुजद्वयं ते । जलदादिभयं जगद्वितन्वन् कलितः क्वापि किमालि नीलमेघः ॥ १४८॥ आसायं सलिलान्तः सवितारमुपास्य सादरं तपसा । अधुनाब्जेन मनाक् तव मानिनि तुलना मुखस्याऽपि ॥ १४९॥ अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनेव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥ १५०॥ मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्छनैः किमपि । कोकनदयन्त्रिलोकी मालम्बनशून्यमीक्षते क्षीबः ॥ १५१॥ मधुरसान्मधुरं हि तवाधरं तरुणि मद्वदने विनिवेशय । मम गृहाण करेण कराम्बुजं प प पतामि ह हा भ भ भूतले ॥ १५२॥ शतेनोपायानां कथमपि गतः सौधशिखरं सुधाफेनस्वच्छे रहसि शयितां पुष्पशयने । विबोध्य क्षामाङ्गी चकितनयनां स्मेरवदनां सनिःश्वासं श्लिष्यत्यहह सुकृती राजरमणीम् ॥ १५३॥ गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति सम्मुखम् । आवर्तन्ते निवर्तन्ते सरसीषु मधुव्रताः ॥ १५४॥ यथा यथा तामरसेक्षणा मया पुनः सरागं नितरां निषेविता । तथा तथा तत्त्वकथेव सर्वतो विकृत्य मामेकरसं चकार सा ॥ १५५॥ हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते । सेवितं सर्वसम्पद्भिरपि तद्भवनं वनम् ॥ १५६॥ लोलालकावलिचलन्नयनारविन्द लीलावशंवदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं ब्रजत्या- श्चेतो न कस्य हरते गतिरङ्गनायाः ॥ १५७॥ दन्तांशुकान्तमरविन्दरमापहारि सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्ब दूरीकरोति न कथं विदुषां वरेण्यः ॥ १५८॥ सानुकम्पाः सानुरागाश्चतुराः शीलशीतलाः । हरन्ति हृदयं हन्त कान्तायाः स्वान्तवृत्तयः ॥ १५९॥ अलकाः फणिशावतुल्यशीला नयनान्ता परिपुङ्खितेषुलीलाः । चपलोपमितां खलु स्वयं या बत लोके सुखसाधनं कथं सा ॥ १६०॥ वदने तव यत्र माधुरी सा हदि पूर्णा करुणा च कोमलेऽभूत् । अधुना हरिणाक्षि हा कथं वा गतिरन्यैव विलोक्यते गुणानाम् ॥ १६१॥ अनिशं नयनाभिरामया रमया सम्मदिनो मुखस्य ते । निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजम् ॥ १६२॥ अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं हरति । विकलयति कुसुमबाणो बाणालीभिर्ममप्राणान् ॥ १६३॥ खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण । खिद्यामि हन्त परितस्तद्रूप विलोकनेन विकलोऽहम् ॥ १६४॥ मथुरागमनोन्मुखे मुरारावसुभारार्तिभृतां वाङ्गनानाम् । प्रलयज्वलनायते स्म राका भवनाकाशमजायताम्बुराशिः ॥ १६५॥ केलीमन्दिरमागतस्य शमकैरालीरपास्येङ्गितैः सुप्तायाः सरुषःसरोरुहदृशः संवीजनं कुर्वतः । जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि श्रान्तासीत्यभिधाय वक्षसि तया पाणिर्ममासञ्जितः ॥ १६६॥ मान्थर्यमापगमनं सह शैशवेन रक्तं सहैव मनसाऽधरबिम्बमासीत् । किञ्चाभवन्मृगकिशोरदृशो नितम्बः सर्वाधिको गुरुरयं सह मन्मथेन ॥ १६७॥ श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । न स्यात् सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥ १६८॥ पाणौ कृतः पाणिरिलासुतायाः सस्वेदकम्पो रघुनन्दनेन । हिमाम्बुसङ्गानिलविह्वलस्य प्रभातपद्मस्य बभार शोभाम् ॥ १६९॥ अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले । अधरीकरोति नितरां तवाधरौ मधुरिमातिशयात् ॥ १७०॥ सुदृशो जितरत्नजालया सुरतान्तश्रमबिन्दुमालया । अलिकेन च हेमकान्तिना विदधे काऽपि रुचिः परस्परम् ॥ १७१॥ परपूरुषदृष्टिपात वज्राहतिभीता हृदयं प्रियस्य सीता । अविशत् परकामिनी भुजङ्गीभयतः सत्वरमेव सोऽपि तस्याः ॥ १७२॥ अङ्गानि दत्त्वा हेमाङ्गि प्राणान् ऋणिआसि चेन्नृणाम् । युक्तमतन्न तु पुनः कोणं नयनपद्मयोः ॥ १७३॥ जितरत्नरुचां सदा रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥ १७४॥ विलसत्याननं तस्या नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव मण्डलम् ॥ १७५॥ निभाल्य भूयो निजगौरिमाणं मा नाम मानं सहसैव यासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति ॥ १७६॥ करिकुम्भतलामरोजयोः क्रियमाणां कविभिर्विश्रङ्खलैः । कथमालि श‍ृणोषि सादरं विपरीतार्थविदो हि योषितः ॥ १७७॥ परिष्वजन् रोषवशात् तिरस्कृतः प्रियो मृगाक्ष्या शयितः पराङ्मुखः । किं दुःखितोऽसाविति कान्दिशीकया कदाचिदाचुम्ब्य चिराय सस्वजे ॥ १७८॥ चेलाञ्चलेनाननशीतरश्मि संवृण्वतीनां हरिदृश्वरीणाम् । वज्रागनानां स्मरजातकम्पादकाण्डसम्पातमियाय नीवी ॥ १७९॥ अधरेण समागमाद्रदाना मरुणिम्ना पिहितोऽपि शुक्लभावः । हसितन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥ १८०॥ सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥ १८१॥ शयिता सविधेऽप्यनीश्वरा सफलीकर्तुमहो मनोरथान् । दीयता दयिताननाम्बुजं दरमीलन्नयना निरीक्षते ॥ १८२॥ वदनारविन्दसौरभ लोभादिन्दिरेषु निपतत्सु । मय्यधरार्थिनि सुदृशो दृशो जयन्त्यतिरुषा परुषाः ॥ १८३॥ इति श्रीमत्पण्डितराजजगन्नाथाविरचिते भामिनीविलासे श‍ृङ्गारो नाम द्वितीयो विलासः ॥ २॥

॥ भामिनीविलासे तृतीयः करुणाविलासः ॥

दैवे पराग्वदनशालिनि हन्त जाते याते च संप्रति दिवं प्रति बन्धुरत्वे । कस्मै मनः कथयितासि निजामवस्थां कः शीतलैः शमयिता वचनैस्तवाधिम् ॥ १॥ प्रत्युद्गता सविनयं सहसा पुरेव स्मेरैः स्मरस्य सचिवैः सरसावलोकैः । मामद्य मञ्जुरचनैर्वचनैश्च बाले हा लेशतोऽपि न कथं शिशिरीकरोषि ॥ २॥ सर्वेऽपि विस्मृतिपथं विषयाः प्रयाता विद्याऽपि खेदकलिता विमुखीबभूव । सा केवलं हरिणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ॥ ३॥ निर्वाणमङ्गलपदं त्वरया विशन्त्या मुक्ता दयावति दयाऽपि किल त्वयाऽसौ । यन्मां न भामिनि निभालयासि प्रभात नीलारविन्दमदभङ्गिमदैः कटाक्षैः ॥ ४॥ धृत्वा पदस्खलनभीतिवशात् करं मे या रूढवत्यसि शिलाशकलं विवाहे । सा मां विहाय कथमद्य विलासिनि दयु- मारोहसीति हृदयं शतधा प्रयाति ॥ ५॥ निर्दूषणा गुणवती रसभावपूर्णा सालङ्कृतिः श्रवणमङ्गलवर्णराजिः । सा मामकीनकवितेव मनोऽभिरामा रामा कदापि हृदयान्मम नापयाति ॥ ६॥ चिन्ता शशाम सकलाऽपि सरोरुहाणा- मिदोश्च बिम्बमसमां सुषमामयासीत् । अभ्युद्गतः कलकलः किल कोकिलानां प्राणप्रिये यदवधि त्वमितो गताऽसि ॥ ७॥ सौदामिनीविलसितप्रतिमानकाण्डे दत्त्वा कियन्त्यपि दिनानि महेन्द्रभोगान् । मन्त्रोज्झितस्य नृपतेरिव राज्यलक्ष्मी र्भाग्यच्युतस्य करतो मम निर्गताऽसि ॥ ८॥ केनापि मे विलसितेन समुद्गतस्य कोपस्य किन्नु करभोरु वशंवदाऽभूः । यन्मां विहाय सहसैव पतिव्रताऽपि याताऽसि मुक्तिरमणीसदनं विदूरम् ॥ ९॥ काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास्तव ये विलासाः । तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥ १०॥ या तावकीनमधुरस्मितकान्तिकान्ते भूमण्डले विफलतां कविषु व्यतानीत् । सा कातराक्षि विलयं त्वयि यातवत्यां राकाऽधुना वहति वैभवमिन्दिरायाः ॥ ११॥ मन्दस्मितेन सुधया परिषिच्य या मां नेत्रोत्पलैर्विकसितैरनिशं समीजे । सा नित्यमङ्गलमयी गृह देवता मे कामेश्वरी हृदयतो दुयिता न याति ॥ १२॥ भूमौ स्थिता रमण नाथ मनोहरेति सम्बोधनैर्यमधिरोपितवत्यसि द्याम् । सर्वं गता कथमिव क्षिपसि त्वयेणशावा- क्षितं धरणिधूलिषु मामिदानीम् ॥ १३॥ लावण्यमुज्ज्वलमपास्ततुलं च शीलं लोकोत्तरं विनयमर्थमयं नयं च । एतान् गुणानशरणानथ मां च हित्वा हा हन्त सुन्दरि कथं त्रिदिवं गताऽसि ॥ १४॥ कात्या सुवर्णवरया परया च शुद्धया नित्यं स्विकाः खलु शिखाः परितः क्षिपन्तीम् । चेतोहरामपि कुशेशयलोचने त्वां जानामि कोपकलुषो दहनो ददाह ॥ १५॥ कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः । चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ॥ १६॥ स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं या दृष्टवत्यासि न कञ्चन साभिलाषम् । सा संप्रति प्रचलिताऽपि गुणैर्विहीनं प्राप्तं कथं कथय हन्त परं पुमांसम् ॥ १७॥ दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकिताऽसीत् । अधुना किल हन्त सा कृशाङ्गी गिरमङ्गीकुरुतेन भाषिताऽपि ॥ १८॥ रीतिं गिराममृतवृष्टिकरी तदीयां तां चाकृतिं कविवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसार्द्रां स्तोतुं न कस्य समुदेति मनःप्रसादः ॥ १९॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे करुणा नाम तृतीयो विलासः ॥ ३॥

॥ भामिनीविलासे चतुर्थः शान्तो विलासः ॥

विशालविषयावीवलयलग्नदावानल प्रसृत्वरशिखावालीविकलितं मदीयं मनः । अमन्दमिलदिन्दिरे निखिलमाधुरीमन्दिरे मुकुन्दमुखचन्दिरे चिरमिदं चकोरायताम् ॥ १॥ अये जलधिनन्दिनीनयननीरजालम्बन ज्वलज्ज्वलन जित्वरज्वरभरत्वराभङ्गुरम् । प्रभातजलजोन्नमद्गरिमगर्वसर्वङ्कषै र्जगत्त्रितयरोचनैः शिशिरयाशु मां लोचनैः ॥ २॥ स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम- भङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम् । कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी ॥ ३॥ कलिन्दगिरिनन्दिनीतटवनान्तरं भासयन् सदा पथि गतागतश्रमभरं हरन् प्राणिनाम् । लतावलिशता वृतो मधुरया रुचा सम्भृतो ममाशु हरतु श्रमानतितरां तमालद्रुमः ॥ ४॥ जगज्जालं ज्योत्स्नामयनवसुधाभिर्जटिल- ज्जनानां सन्तापं त्रिविधमपि सद्यः प्रशमयन् । श्रितो वृन्दारण्यं नतनिखिलवदारकवृतो मम स्वान्तर्ध्वान्तं निरयतु नवीनो जलधरः ॥ ५॥ ग्रीष्मचण्डकरमण्डल भीष्मज्यालसन्तरणतापितमूर्तेः । प्रावृषेण्य इव वारिधरो मे वेदना हरतु वृष्णिवरेण्यः ॥ ६॥ अपारे संसारे विषमविषयारण्यसरणौ मम भ्रामं भ्रामं विगलितविरामं जडमतेः । परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्सन्तापं हरिनवतमालस्तिरयतु ॥ ७॥ आलिङ्गितो जलधिकन्यकया सलीलं लग्नः प्रियङ्गुलतयेव तरुस्तमालः । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः ॥ ८॥ नयनानन्दसन्दोह तुन्दिलीकरणक्षमा । तिरयत्याशु सन्तापं कापि कादम्बिनी मम ॥ ९॥ वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदा- स्तां स्वप्नेपि न संस्मराम्यहमहम्भावावृतो निस्त्रपः । इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रत- स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः ॥ १०॥ पातालं व्रज याहि वा सुरपुरीमारोह मेरोः शिरः पारावारपरम्परा तर तथाप्याशा न शान्तास्तव । आधिव्याधिपराहतो यदि सदा क्षेमं निजं वाञ्छसि श्रीकृष्णेति रसायनं रसय रे शून्यैः किमन्यः श्रमैः ॥ ११॥ गणिकाजामिलमुख्यानवता भवता बताहमपि । सीदन्भवमरुगर्ते करुणामूर्ते न सर्वथोपेक्ष्यः ॥ १२॥ विदित्वेदं दृश्यं विषमरिपुदुष्टं नयनयो र्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तध्वान्तो मधुर मधुरायां चिति कदा निमग्नः स्यां कस्यां चन नवनभस्याम्बुदरुचौ ॥ १३॥ मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः स्वर्यातेन सुधाप्यधायि कतिधा रम्भाधरःखण्डितः । सत्यं ब्रूहि मदीय जीव भवता भूयो भवे भ्राम्यता कृष्णेत्यक्षरयोरयं मधुरिमोद्गारः क्वचिल्लक्षितः ॥ १४॥ वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं मिथ्याज्ञाननिशाविशालतमसस्तिग्मांशुबिम्बोदयः । करक्लेशमहीरुदामुरुतरज्वालाजटालः शिखी द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् ॥ १५॥ रे चेतः कथयामि ते हितमिदं वृन्दावने चारयन् वृन्दं कोऽपि गवां नवाम्बुदनिभो बन्धुर्न कार्यस्त्वया । सौन्दर्यामृतमुद्गिरद्भिरभितः सम्मोह्य मन्दस्मितै रेष त्वां तव वल्लभांश्च विषयानाशु क्षयं नेष्यति ॥ १६॥ अव्याख्येयां वितरति परां प्रीतिमन्तर्निमग्ना कण्ठे लग्ना हरति नितरां यान्तरध्वान्तजालम् । तां द्राक्षाद्यैरपि बहुमतां माधुरीमुद्गिरन्तीं कृष्णेत्याख्यां कथय रसने यद्यसि त्वं रसंज्ञा ॥ १७॥ सन्त्येवास्मिज्जगति बहवः पक्षिणो रम्यरूपा- स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि- श्चित्तारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥ १८॥ विष्वद्रीच्या भुवनमखिलं भासते यस्य भासा सर्वासामप्यहमिति विदां गूढमालम्बनं यः । तं पृच्छन्ति स्वहृदयमना वेदिनो विष्णुमन्या- नन्यायोऽयं शिव शिव नृणां केन वा वर्णनीयः ॥ १९॥ सेवायां यदि साभिलाषमसि रे लक्ष्मीपतिः सेव्यता चिन्तायामसि सस्पृहुं यदि तदा चक्रायुधश्चिन्त्यताम् । आलापं यदि काङ्क्षसि स्मररिपोर्गाथा तदालप्यतां स्वापं वाञ्छसि चेन्निरर्गलसुखे चेतः सखे सुप्यताम् ॥ २०॥ भवग्रीष्मप्रौढातपनिवहसन्तप्तवपुषो बलादुन्मूल्यं द्राङ्निगडमविवेकव्यतिकरम् । विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे विनाहन्ते दूरीकृतकलुषजालाः सुकृतिनः ॥ २१॥ बन्धोन्मुक्त्यै खलु मखमुखान् कुर्वते कर्मपाशान् अन्तः शान्त्यै मुनिशतमतानल्पचिन्तां भजन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोढुकामाः सर्वं प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥ २२॥ प्रथमं चुम्बितचरणा जङ्घाजानूरुनाभिहृदयानि । आश्लिष्य भावना मे खेलतु विष्णोर्मुखाब्जशोभायाम् ॥ २३॥ मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम भूयात्परमात्मनि स्थितिः ॥ २४॥ निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् । अथ तस्य कृते कियानयं क्रियते हन्त जनैः परिश्रमः ॥ २५॥ प्रतिपलमखिलाँल्लोकान्मृत्युमुखं प्रविशतो निरीक्ष्यापि । हा हन्त किमिति चित्तं विरमति नादयापि विषयेभ्यः ॥ २६॥ सपदि विलयमेतु राज्यलक्ष्मीरुपरि पतन्त्वथवा कृपाणधाराः । अपहरतुतरां शिरः कृतान्तो मम तु मतिर्न मनागपैतु धर्मात् ॥ २७॥ अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु । पातयतु वासिधारामहमणुमात्रं नकिञ्चिदपभाषे ॥ २८॥ तरणोपायमपश्यन्नपि मामक जीव ताम्यसि कुतस्त्वम् । चेतःसरणावस्यां किं नागन्ता कदापि नन्दसुतः ॥ २९॥ श्रियो मे मा सन्तु क्षणमपि च माद्यद्गजघटा मदभ्राम्यद्भृङ्गावलिमधुरझङ्कारसुभगाः । निमग्नानां यासु द्रविणमदिराघुर्णितदृशां सपर्यासौकर्य्यं हरिचरणयोरस्तमयते ॥ ३०॥ किं निःशङ्कं शेषे शेषे वयसः समागतो मृत्युः । अथवा सुखं शयीथा निकटे जागर्ति जाह्नवी जननी ॥ ३१॥ सन्तापयामि किमहं धावन्धावं धरातले हृदयम् । अस्ति मम शिरसि सततं नन्दकुमारः प्रभुःपरमः ॥ ३२॥ रेरे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता लव गमिष्याति पुत्रशोकः ॥ ३३॥ मरकतमणिमदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥ ३४॥ तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणि ज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छाया विलोकनतत्परैः रुदितकुतुकैः कै करादौ न सन्दिदिहे जनैः ॥ ३५॥ चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वासितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥ ३६॥ भूतिर्नीचगृहेषु विप्रसदने दारिद्र्यकोलाहलो नाशो हन्त सतामसत्पथजुषामायुः शतानां शतम् । दुर्नीतिं तव वीक्ष्य कोपदहनज्वालाजटालोऽपि स- न्किं कुर्वे जगदीश यत्पुनरहं दीनो भवानीश्वरः ॥ ३७॥ आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे- र्यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाज्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ३८॥ गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम् । वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपते- रधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ ३९॥ मधुद्राक्षाः साक्षादमृतमथ वमाधरसुधा कदाचिन् केषाञ्चित् न खलु विदधीर न्नपि मुदम् । ध्रुवं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथ भणितिः ॥ ४०॥ निर्माणे यदि मार्मिकोऽसिनितरामत्यन्तपाकद्रव- न्मृद्दीकामधुमाधुरीमदपरीहारोधुराणां गिराम् । काव्यं तहि सखे सुखेन कथय त्वं सम्मुखे मादृशां नो चेदुष्कृतमात्मना कतमिव स्वान्ताद्बहिर्माकृथाः ॥ ४१॥ मद्वाणि मा कुरु विषादमनादरेण मात्सर्यमग्रमनसां सहसा खलानाम् । काव्यारविन्दमकरन्दमधुव्रताना- मास्येषु धास्यति तमां कियतो विलासान् ॥ ४२॥ विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः । आस्ये धास्यति कस्य लास्यमधुनाधन्यस्य कामालस- स्वर्वामाधरमाधुरीमधरयन् वाचां विपाको मम ॥ ४३॥ धुयैरपि माधुर्यैर्द्राक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्द्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ ४४॥ शास्त्राण्याकलितानि नित्यविधयः सर्वेऽपि सम्भाविता दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः । संप्रत्युज्झितवासनं मधुपुरीमध्ये हरिः सेव्यते सर्वं पण्डितराजराजितिलकेनाकारि लोकाधिकम् ॥ ४५॥ दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कया । मदीयपद्यरत्नानां मञ्जूषैषा मया कृता ॥ ४६॥ इति श्रीमत्पण्डितराजजगन्नाथविरचिते भामिनीविलासे पर शान्तो नाम चतुर्थो विलासः ॥ ४॥ समाप्तोऽयं ग्रन्थः । Encoded and proofread by Mandar Mali
% Text title            : Bhamini Vilasa by Pandit Jagannatha
% File name             : bhAminIvilAsaH.itx
% itxtitle              : bhAminIvilAsaH (paNDitarAjajagannAthavirachitaH prAstAvika, shRiNgAra, karuNA, shAnta vilAsAH)
% engtitle              : bhAminIvilAsaH
% Category              : major_works, jagannAthapaNDita
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Jagannathapandita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali
% Indexextra            : (Scans with Hindi 1, 2, Sanskrit 1, 2, 3, English 1, 2 commentaries)
% Latest update         : May 9, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org