स्वात्मबोधामृतम्

स्वात्मबोधामृतम्

अहं भासकं बोधरूपं स्वनिष्ठं स्वतो भास यद्गाति चिद्रूपमेकम् । निजानन्दमक्षुब्धरूपं प्रशान्तं न भिन्नं न तस्मात्परं नावरञ्च ॥ १॥ न दृश्यं तथोदृश्यमस्माद्विभिन्नं यदा भात्यहं मानरूपेण नित्यम् । स्वदिप्त्या स्वयं शान्तमद्वैतमात्रं विभिन्नं कथं तत्प्रपश्ये स्वयं यत् ॥ २॥ यदा नेति नेतीति सर्वं निरस्तं किमाभाति तस्याद्विभिन्न च तस्मिन् । अहं सम्म्फुरेत्तस्यं तस्मिंस्तदात्म्यं चिदानन्दरूपस्ततोऽहं ततोऽहम् ॥ ३॥ यदा भान्ति दृश्यं स्वतो नैव यस्मात् स्वतःसिध्द मद्वैतदृङ्मात्रमेकम् । अहं वेदनं तस्य कस्माद्विभाति ततोऽहं परं ब्रह्म सच्चितसुखं यत् ॥ ४॥ निरस्ताखिलं ज्ञेयमस्मापितःस्यात यदा किं तदा ज्ञानमात्राद्विभिन्नम् । अहं संस्फुरेत्कस्य तस्मिमन्स्तदानीं परब्रह्म चिन्मात्ररूपं ततोऽहम् ॥ ५॥ अवश्यं यदा दृश्यमेवं च वेत्तुं अहं यत्तदाद्यन्त सिध्दं न दृश्यम् । यदाद्यन्त सिध्दं हि मध्येऽपि तावत् त्रिकालाद्वयं दृश्यभिन्नं ततोऽहम् ॥ ६॥ अहं यस्फुटं तन्नशून्यं कथं चित् त्रिकालस्थितेः क्वाप्यभावो न तस्य । त्रिकालस्थितं किं भजेद्गिन्नरूपं अहं यत्सदैकस्वरूपं चिदेव ॥ ७॥ जडं यन्न तत्कारणं कस्यचित्स्यात् ततः सर्वकार्यस्य हेतुश्चिदेव । यदाद्यन्तमध्येऽस्ति तस्मिन्स्वनिष्ठं ह्ययं यस्फुरेत्तत्कथं स्याज्जडं यत् ॥ ८॥ यदा कारणं ज्ञानरूपं स्वसिध्दं जडं नो भवेत्तत्तदा किं जडं स्यात् । जडं तत्स्वतो नैव यद्गाति यस्मात् अहंयच्चिदेव स्वदिप्त्या जडं किम् ॥ ९॥ विकल्पाज्जडं कार्यमाभाति चेत्तत् भवेन्नैव सत्यं न भातं स्वतश्च । स्वभातं हि यत्स्याद्विकल्पो न तज्जः अहं तिद्गभानं विकल्पो न कार्यम् ॥ १०॥ यदा गाभ्यपायि स्वयं कार्यमत्र स्वतःसिध्दिमत्कारणं नो तथास्यात् । यदुत्पत्तिनाशाद्विमुक्तञ्च तस्मिन् यदुप्तत्तिनाशात्मकं तत्कथं स्यात् ॥ ११॥ त्रिपुट्यात्मकं भाति भानं च यास्मिन सुखप्राप्तये कार्यमेतद्वदन्ति । सुखेनैव भिन्नं यतःस्यात्स्वसिध्दे त्रिपुट्यात्मकं कार्यमस्ति निरर्थम् ॥ १२॥ यदेकं सुखं स्वप्रभं स्वात्ममात्रं न भोक्ता न भोग्यं च तन्नैव भोगः । भ्रमाच्चेदिदं तन्नसत्यं यदा स्यात् सत्यीस्यसत्यं भ्रमो वौद्वयं सत् ॥ १३॥ द्वयं यान्निरस्य स्वयं यद्विशिष्येत् द्वयं नैव तस्मिंस्तदेवाद्वयं हि । तदेवाद्वयं यत्स्फुरेत्स्वेन भासा ह्यहङ्कारतस्तन्न भिन्नात्मकं स्यात ॥ १४॥ कथं सत्यमिथ्यात्मकं कार्यमेकं यदा सर्वकार्यं जडं तन्मृषैवम् । स्वतः सिध्दिमत्कारणे सर्वकार्यं निरर्थं यतःकृत्स्न भेदो वृथा स्यात ॥ १५॥ न कायर्ं तथा स्थूलसूक्ष्मात्मकं यत् परस्मिंश्च तत्कारणे क्वापि भिन्नम् । यतो नित्यमेकं परब्रह्मशान्तं न भिन्नं ततःक्वाप्यभिन्नं न कार्यम् ॥ १६॥ भवेत्तत्कृतं कारणान्तं च विश्वं अहं यत्तयोर्भाति मध्ये च कस्मात् । अहं चिद्यदा संस्फुरेत्तन्न कार्यात् ततश्चित्स्वतोऽहं बहुत्वं न भिन्नम् ॥ १७॥ यदा भाति किञ्चिध्द्यहं भानतम्तत् अहं दृक्च दृश्यं न मन्ये कथं चित् । विरुध्दं न चैकास्पदं स्या तस्तत् अहं यत्स्बतो भानतस्तद्वयं न ॥ १८॥ अनन्तं स्वतो भातमद्वैतमात्रं कथं चिन्न तद्यद्वणोतीह यस्मात् । जगज्जीवविश्वेशभानं वृथा हि यदा भाव्यते मायिङ्क कथ्यते तत् ॥ १९॥ न यस्योपलब्धिः प्रमाणप्रसिध्दा न यद्गाति शक्यं न यस्मात्सुतृप्तिः । विभानं च तत्स्यान्मृषा मायिकंवा न सत्यात्मके साधने तन्नियोज्यम् ॥ २०॥ सुखं यन्न तत्स्याज्जडं कार्यतोऽपि जडं कार्यमस्मान्न तद्वा कदाचित । स्वतः पूर्णवत्कारणस्य स्वदृष्टया कथं चिन्न भिन्नं किमाप्तव्यमन्यत् ॥ २१॥ चिदानन्दमात्रैकरूपे स्वसिध्दे कथं तस्य तद्गिन्नरूपप्रसक्तिः । न माया न मायाकृतं भिन्नकार्यं विवेकादविद्या च चाविद्यकं वा ॥ २२॥ विशिष्येतभिन्न सुखं चानवाप्तं न तृप्तिं भजेत्साति लोके मनुष्यः । सुखं सर्वङ्गं स्वात्मसर्वातिभूतं प्रपश्यन्भजेत्कोऽपि तृप्तिं च मुक्तिम् ॥ २३॥ न शोको न मोहो न दुःखं सुखस्य ह्यहं तत्सुखं निश्चयान्नित्यतृप्तीः । न शोको न मोहो न दुःखन्न जन्म विकारो न मृत्युर्भवेत्क्वापि तस्य ॥ २४॥ यदा भिन्नतस्तत्सुखं भोग्यरूपं सुखाद्गिन्नतोयं भवेद्दुःखरूपम् । वितृष्णः सुखी पूर्णकामोन तृप्तः भवेस्मिन्नसौ चक्रवद्गामितः स्यात् ॥ २५॥ स्वभिन्नं सुखं तज्जडं दृश्यरूपं भवेद्देहलाभश्च भोगाय तस्य । स्वदुःखोपशान्त्यै भवेद्गोगतृष्णा ततः कर्म तज्जं फलं जन्म तस्मात् ॥ २६॥ जडश्चाशुची रुग्णदेहःक्षयिष्णुः न भोगेषु तृप्तिः सुदुष्टेन्द्रियाणि । धनेच्छासु रागादिकात्स्याद्विकर्म ह्यहो पापकं जन्मदुःखप्रदं हि ॥ २७॥ सुखं देहजं प्राप्तये जन्मयोग्यं यदागामि नश्यत्सुखं जन्मना तत् । स्वभासाक्षरं दिव्यसौख्यस्वरूपं स्वयं तद्यतस्तत्कृते जन्म न स्यात् ॥ २८॥ सदा मृत्युभीतिर्ह्यहो जीवनाशा ज्वलत्कामपीडा सुदुर्वृत्तचित्तम् । सदैवातिचिन्ता भवेज्जीविकायाः अहो कष्टमेतद्गवेज्जन्मना यत् ॥ २९॥ इहद्वारभूतं त्रयं विश्रुतं च प्रवेष्टुं बलान्मृत्युसंसारभीतेंः । धनेच्छा च जिव्हा च कान्ताच तद्यों रुणाद्गिस्वयं भौर्न तस्यास्ति काचित् ॥ ३०॥ विहीनश्च कामादिकेभ्यः पुमान्यः स युक्तः सुखीत्यब्रवीद्वासुदेव । त्यजेत्कामलोभौ च कोपस्तृतीयः त्रिधाद्वारमेतत्स्फुटं दुर्गतेस्तत् ॥ ३१॥ प्रवृत्या निवृत्या यथा शुक्यमेतत् त्यजेदेव यब्दाधिकं ब्रह्ममार्गे । सदा वासनात्याग एव प्रशस्तः न सत्यस्थितावस्ति सौख्यं विभिन्नम् ॥ ३२॥ सदा वासनात्याग एव प्रशस्तः न सत्यस्थितावस्ति सौख्यं विभिन्नम् । त्यजेद्ग्राम्यसौख्यं विवेकाच्च दोषात् यदेकं परं तत्सुखं चिन्तितव्यम् ॥ ३३॥ विमुक्तं यदा भोग्यभावात्सुवृत्तं चिदेवं स्वयं चित्तमेतत्तदानीम् । क्षणध्वंसि यत्तद्विवेकान्निवार्यं यदा चित्तनेतच्चिदेव स्वयं स्यात् । स्वतःपूर्णचित्सौख्यर्सिधौ नभिन्नं किमस्तीह कर्तव्यतास्य स्वबोधात् ॥ ३४॥ यदा भाविन्त तीव्रवेगेन किञ्चित् सतन्निश्चयात्तद्गवेच्छिघ्रमेव । अहं ब्रह्मवृत्याहि भूमाहमेव ह्यहं देहहवृत्या हि देहोहमेव ॥ ३५॥ श्रुतिस्तत्त्वमस्यादिवाक्यैश्च नित्यं निराकृत्य जीवेश्वरौ नेति वक्ति । परं शुध्द मद्वैतसच्चित्सुखं यत् त्वमेवासि तद्ब्रह्मबोधं ददाति ॥ ३६॥ स्वतोऽहं ततं सर्ववेदेषु यत्स्यात् विशोध्यं तदौपाधिकाब्दन्धमोक्षात् । अहम्ब्रह्ममात्रं हि वेदा वदन्ति ह्यविद्या न विद्या न जीवेश्वरौ तत् ॥ ३७॥ जडं यन्न तस्यास्ति भानं हि यस्मात् स्वभानं ततो ब्रह्मणःस्यादहं यत् । न सर्वादिहेतुर्भवेद्ब्रह्मकार्यं तोऽहं जडं तन्न चिद्रूपमेव ॥ ३८॥ अहंवृत्तितः सर्वमेवं विभाति स्वभासा स्ववृत्तेरहं पूर्वमस्याः । अहंवृत्यभावे न विश्वं स्वनिष्ठं क्वचिन्नाप्यभावेहमस्तस्य वृत्तिः ॥ ३९॥ जडा वृत्तिरस्याश्च यत्तज्जडं स्या- तहं यत्स्वतो भासकं यश्चिदेव । अवस्थात्रयातीतमेकं विशुद्वं स्वतःशाश्वतं ब्रह्म नश्येश्च कस्मात् ॥ ४०॥ तरङ्गेषु नीरं यथा व्यापकं स्यात् तथा सर्वकार्येष्वहं नित्यमेकम् । तरङ्गस्य रूपादिबाधे जलं तत् अहं विश्वरूपादिबाधे चिदेव ॥ ४१॥ यदा कार्यसिद्विर्हि कस्मादपि स्यात् जडं तत्स्वयङ्कारणात्काशितं हि । स्वभासा स्वयं चित्स्वतः केवलं यत् अहं भानतस्तस्य भावाद्विभाति ॥ ४२॥ चिदं च त्यतोऽहं स्वरूपेण सर्वं भवेदात्मरूपं हि कार्यस्य तस्मात् । अहं यो विभासेऽस्ति सर्वस्य देहे- यमात्मा परब्रह्म वेदस्य वाणी ॥ ४३॥ यदेकं च वेदादिभिः स्तूयमानं चिदानन्दसद्रूपमेवाहमत्र । किमाभाति मायाकृतङ्कार्यमस्मिन् न भोग्यं ततो नैव भेक्ता न भोगः ॥ ४४॥ अमारूपविश्वस्य भानं चिदेतत् अभारूपभोग्यस्य भानं चिदेतत् । अमारूपदेहस्य भानं चिदेतत् चिदेवस्यं भोग्य भोक्ता न भोगः ॥ ४५॥ यदाभाति यस्मान्न भिन्नं ततस्तत् चिदेवस्वयं कार्यतो यद्विभाति । अहं नैव भिन्नं भवेत्तस्य तस्मात् अहं भानतो भानमेतच्चिदेव ॥ ४६॥ चिदेवं च जीवश्चिदेवेश्वरो हि चिदेव तथा देहतो विच्वतोऽपि । चिदेवस्वयं सर्वभावे विभाति स्वतः पूर्णतस्तत्स्वयं स्वेन भासा ॥ ४७॥ यथा नैव भिन्नो घटो मृत्तिकायाः तथैवात्र मन्तव्यमेतश्चिदेव । न मृत्साभवन्नामरूपं घटस्य चिदेवं तथाहं न कार्यात्मकं स्यात् ॥ ४८॥ यथा रज्जुरेका विदोशस्य भिन्ना फणी रज्जुतो भीरभीतेश्च हेतुः । तथा ज्ञस्य विज्ञस्य विश्वं द्विधा हि भयं चाभयं भोग्यभूमास्वरूपम् ॥ ४९॥ निजाज्ञानतोज्ञस्य विश्वं सुदुःखं जडो भोग्यबुध्या हि दुःखं प्रयाति । निजज्ञानतो ज्ञस्य भूमा स्वरूपं सुविज्ञः सुखी भोगबुध्द्याविहीनः ॥ ५०॥ जगत्सत्यकार्यात्मदृष्टयेक्षतेज्ञः असत्यं जगत्कार्यमेवेक्षते ज्ञः । कृतीज्ञः मुखं कारणाद्वीक्ष्य धन्यः ह्यतृप्तः सुखं कार्यतोवीक्ष्य चाज्ञः ॥ ५१॥ वितृष्णो ह्यपूर्णः स्वदेहात्मवेदी वितृष्णश्च पूर्णः स्वभूमात्मवेदी । न देशान्न कालात्तथा वस्तुतोऽपि परिच्छेद एवं न तज्ज्ञानतोस्य ॥ ५२॥ अविद्यां न मायां न जीवेश्वरो वा न भोग्यं न भोगं नरं नैव नारीम् । न बन्धं न मोक्षं जनुर्नैव मृत्युं न विश्वं न पिण्डं समीक्षेत विद्वान ॥ ५३॥ स्वभानात्मकं वीक्ष्य संर्व यदेतत् स्वचिद्रूपमेकं विमृग्य स्वनिष्ठः । अहं ब्रह्म जीवो न तस्यास्ति किञ्चित् सदा निर्विकल्पः स्वमात्रोऽस्ति विद्वान् ॥ ५४॥ स्वरूपं सदा सर्वतः पूर्णमेकं समीक्ष्य स्वभिन्नं न पश्येन्निजेऽस्मिन् । न माया न मायाकृतं कार्यमस्मिन् स तत्सश्चिदानन्दमद्वैतमात्रः ॥ ५५॥ प्रकाशेत सर्वं च यत्पूर्णरूपं चितोऽहं स्वसंवेदनं स्याद्यदातु । किमाभाति तस्माद्विभिन्नं च तस्मिन् चिदेवाद्वयं स्वेन भासा चकास्ति ॥ ५६॥ पुमान्स्वात्मबोधामृतं प्राप्य तृप्तो न मुह्येत्कदा माययाविद्यया वा । वितन्वन्स्वसौख्यं प्रकाशोत्र लोके स्वमात्रः सदा गाजते विश्वपूज्यः ॥ ५७॥ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य सद्गुरु भगवता ॥ श्री श्रीधरस्वामिना विरचितं स्वात्मबोधामृतं सम्पूर्णम् ॥
% Text title            : Svatma Bodha Amritam
% File name             : svAtmabodhAmRRitam.itx
% itxtitle              : svAtmabodhAmRitam (shrIdharasvAmIvirachitam)
% engtitle              : svAtmabodhAmRRitam
% Category              : major_works, upadesha, shrIdharasvAmI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Shridharaswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Marathi, Collection 1, 2)
% Acknowledge-Permission: Upendra Shripad Dasare, https://shridharamrut.com
% Latest update         : November 8, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org