उपदेशसारभाष्यम् २ अथवा तत्त्वबोधिनी

उपदेशसारभाष्यम् २ अथवा तत्त्वबोधिनी

महर्षीरमणस्य उपदेशसारस्य श्रीजगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या सार्वज्ञ्यं सकलाधिपत्यममितं वेदेषु यस्य श्रुतं यज्जिज्ञास्यतमं मुमुक्षुनिवहैः सर्वज्ञता यत्ज्ञता । यज्जीवादि नियामकं जगदिदं यद्वीक्षणात् उद्गतं यस्य ज्ञानबलक्रियाश्च सहजास्तन्नौमि(णु-स्तुतौ) पूर्णं महः ॥ अन्तर्दृष्टीनपगतमहामोहगाढान्धकारान् आत्मारामानमलहृदयानात्मविद्योपदेष्टॄन् । आबालत्वादरुण-करुणाजाललीलावकृष्टान् अंहोहत्यै रमणभगवत्पादसंज्ञान् नमामः ॥ रमणभगवद्वक्त्राम्भोजाद्बहिस्स्वयमुद्गतः श्रुतिगत-महातात्पर्यार्थ-प्रबोध-सुधाकरः । अधिगत-महा-मोहव्याधेः जपेन विनाशकः जयति सकल-श्रेयोदाता निबन्धमहानिधिः ॥ इह खलु जगति सर्वेपि जन्तवो दुखान्ताय यतन्ते । परन्तु न जानन्ति तदन्तैकान्तकारणं भ्रमन्तस्तत्तत्साधनेषु रमन्त विविधविषयकान्तारेषु । लोकावगतसाधनैश्च नात्यन्तं दुःखान्तो भविष्यति । न खलु व्याधिभीतःऔषधं सेवमानः व्याधिना पुनः न पीड्यते । समूलोन्मूलनं हि पुनरप्ररोहाय भवति । अतश्च दुःखस्य किं मूलं इति प्रमाणतोऽवगत्यतन्निरासप्रयतनमेव साधीयो भवति । न खलु तदुभयं विना शास्त्रप्रमाणं पुरुषबुद्ध्या शक्यं अधिगन्तुम् । तथा च तदर्थं ``शास्त्रं किमाहेति'' शास्त्रमेव सद्गुरुमुखाच्छ्रोतव्यम् । शास्त्रं च ज्ञानमन्तरा दुःखमूलसमुन्मूलनं अशक्य सम्पादनं इति समुद्घोषयति । तथा च श्रुतिः ``यदा चर्मवदाकाशं वेष्टयिष्यन्तिमानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ '' इत्यादि । एवं च दुःखस्य मूलं अज्ञानं एव इति निर्णीतं भवति अज्ञानं हि अदुःखमात्मानं दुःखा करोति । विषयसंसर्गजनितं सुखमपि दुःखकरमेव विवेकिनःदुःखसम्भिन्नत्वात् । अत एव ईश्वरगीतासु स्मर्यते । ``ये हि संस्पर्जा भोगाः दुःखयोनयः एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ '' (५.२) इति तथान्यत्रापि ``यावतः कुरुते जन्तुस्सम्बन्धान् मनसः प्रियान् । तावन्तोस्य निखन्यन्ते हृदये शोकशङ्कवः इति । अज्ञानं हि सर्वसुखदुःखाद्यनर्थजालनिदानमिति श्रुतिस्मृतीहासन्यायप्रसिद्धं अज्ञानं च न स्वरूपतोऽनर्थकरमिव भाति । सुषुप्तौ स्वरूपतः सत्त्वे अपि अनर्थकरत्वादर्शनात् तथापि अध्यास द्वारा तस्य अनर्थकरत्वं नापलपितुं शक्यते प्रत्यगात्मनि अनात्माऽध्यासो हि सर्वानर्थहेतुः । एवं अनात्मनि देहादौ आत्मसंसर्गाध्यासोऽपि । अन्यस्यान्यात्मता अवभासः एव अध्यासः इति प्राञ्च आचार्याः आचक्षते । स(अध्यासः) च परीक्षक-पामरसाधारण्येन सर्वलोकप्रसिद्ध एव । ``पश्वादिभिश्चाविशेषात्'' अत एव ``आत्मख्यातिरसत्ख्यातिः अख्यातिः ख्यातिरन्यथा । तथाऽनिर्वचनीयख्यातिः एत्येवं ख्यातिपञ्चकम् ॥ इति ख्यातिः पञ्चधा व्यवह्रीयते । एतेषां परीक्षकाणां अन्यथाख्यातित्वादिप्रकारविवादेपि परस्य परात्मतावभासलक्षणे अध्यासे न विवादः । तेन च अध्यासस्य अनिर्वचनीयता अवश्यम्भाविनी । देहेन्द्रियादौ आत्मानं आत्मधर्मांश्चाध्यस्य खलु सर्वलोकःसुखदुःखादिकं अनुभवति । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः । इत्यादि स्मृतेः । तथा च आत्मनः न सुखदुःखमोहात्मकत्वं पारमार्थिकं भवितुं अर्हति । अन्यथा तत् सत्यत्वे च अनिर्मोक्षप्रसङ्गात् । आत्मा कर्त्रादिरूपश्चेत् मा काङ्क्षीः तर्हि मुक्तताम् । न हि स्वभावो भावानां व्यावर्तेत् औष्ण्यवत् रवेः ॥ इति वार्तिकवचनात् । अज्ञानपरिकल्पितेन सुखित्वादिना दोषेण आत्मनो न दुष्टत्वं पारमार्थिकं भवति आत्मनो असङ्गत्वेन ज्ञेयसम्बन्धासम्भवात् । सर्वेषां हि देहादिषु अनात्मसु आत्मभावो निश्चितोऽज्ञानविजृम्भितः । तत्रैवं सति कर्तृत्वभोक्तृत्वादिरूपः संसारः सर्वोऽपि दृगात्मनि अविद्यया अध्यारोपित एवेति । विद्यया सहकार्येण अविद्यायाः नाशः श्रुतिस्मृतिभ्यः अवगम्यते । श्रुतयः तावत् । इह चेद् अवेदीदथ सत्यमस्ति न चेदिहावेदीन्महति विनष्टिः । तमेवं विद्वानमृतं इह भवति इत्याद्याः सहस्रशः । एवं च ईश्वरस्य एव सतः जीवस्य अज्ञान-उपाधिकृत भेदतः संसारीत्वमिव भवति । वक्ष्यति च भगवान श्रीरमणः ॥ विग्रहेन्द्रिय प्राणधीतमः नाहमेक सत् तज्जडं ह्यसत्... इत्यादिना जीवेश्वर भेदस्य औपाधिकत्वम् । वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः इति । सहेतुकस्य संसारस्य अत्यन्त उपरमश्च स्वात्म-अभिन्नपरमेश्वर ज्ञानात् एव भवति इति च । अतश्च भगवान् श्री रमणाचार्यः स्वप्रयोजन अभावेऽपि भूतानुजिघृक्षया समस्तशास्त्रार्थसारसङ्ग्रहभूतं दुर्विज्ञेयार्थम् त्रिंशत् श्लोकपरिमितं उपदेशसाराख्यं इमं ग्रन्थं संसारव्यावृत्सुनां मुमुक्षूणां उपकाराय उपदिदेश । एतस्य च परं निःश्रेयसमेव संसारोपरमरूपं प्रयोजनं स्वाभिन्नं ब्रह्मैवाभिधेयभूतम् । अतः विशिष्टाभिधेयप्रयोजनसम्बन्धवत् इदं शास्त्रं मीमांसनीयम् । एतदर्थे विज्ञाते समस्तपुरुषार्थ सिद्धिः स्यात् इति । विवेकतः तदर्थं तत्त्वबोधनार्थं यथाप्रतिभानं यत्नः क्रियते । तत्र वर्णाश्रमांश्च उद्दिश्य विहितः सर्वोऽपि धर्मः दृष्टादृष्टाभ्युदयार्थोऽपि सन् ईश्वरार्पण बुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः । शुद्धसत्त्वस्य एव ज्ञानप्राप्ति अर्हता सम्पादनद्वारा ज्ञानोत्पत्तिहेतुत्वेन निःश्रेयसनिदानत्वमपि परम्परया तस्य भवति इति अभिसन्ध्यादौ श्रीरमणभगवान ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं कर्मयोगं उपदिशति स्म । ``ब्रह्मण्याधाय कर्माणि ... योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये इति भगवद्गीतावचनात् । अत्रैवं सति दृष्टानुश्रविकविषयसुखकामनया क्रियमाणानां श्रौतानां स्मार्तानां लौकिकानां वा कृष्यादिनां कर्मणां अतिफल्गुफलत्वेन आयासबहुलत्वेन च अनादर्तव्यत्वं व्यवस्थापयितु कामः भगवानादौ फलदातारं ईश्वरं अनङ्गीकुर्वतां साङ्ख्य-पूर्वमीमांसक-चार्वाकादिनां मतं असङ्गतं इति निरूपयितुं प्रथमं श्लोकं प्रवर्तयति - कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ १॥ कर्तुरिति । कर्माध्यक्षस्य सर्वभूताधिवासिनः साक्षिणः चेतयितुः सर्वकर्तुः ईश्वरस्य आज्ञया (अनुज्ञया) अनुग्रहेण फलं ईष्टानिष्टमिश्रलक्षणं प्राप्यते लभ्यते इत्यर्थः प्रत्यगात्मा स्वयं प्रकाशःसन् निरवयवोऽपि अनिर्वचनीय-अविद्यापरिकल्पित-बुद्धि-मनः-सूक्ष्म-स्थूलशरीर- इन्द्रियादि-अवच्छेदेन अनवच्छिन्नोऽपि अवच्छिन्निव अकर्ताऽपि कर्तेव । अभोक्ता अपि भोक्ता इव । अविषयोऽपि अस्मद्-प्रत्ययो विषयो जीवभावं आपन्नः अवभासते । अहं प्रत्यये भासमानस्य चिदात्मनः असङ्गस्य बुद्धि-इन्द्रियादेः कार्यकरण सङ्घातस्य च क्रियाशक्तिः भोक्तृशक्तिः वा न सम्भवति । जडत्वेन क्रियाकरणभोगशक्ति नैव सम्भवितुं अर्हतः । अतश्च कार्यकरणसङ्घात सङ्कलितं चैतन्यमेव क्रियाकरणभोगशक्तिमत् अहङ्काररूपं जीव इति जन्तुः इति क्षेत्रज्ञ इति च आख्यायते । वस्तुतः तु जीवः चिदात्मनः न भिद्यते तथा च श्रुतिः ``अनेन जीवेन आत्मना अनुप्रविश्य इत्याद्याः । तस्मात् चिदात्माभिन्नस्यापि जीवस्य अहङ्कारादि-उपाधिसम्बन्धवशात् एव कर्तृत्व कारयितृत्व भोक्तृत्वादि व्यवहारः । अहम्प्रत्यय आलम्बनत्वं च अभ्युपगम्यते इति व्यवहाराख्य भेदावस्थायां इयं चिन्ता भगवता महर्षिणा प्रथमं प्रस्तूयते इति अवगन्तव्यं अन्यथा ``ईशजीवयोः वेषधीभिदा । सत्स्वभावतो वस्तु केवलम्'' । इत्यादि उपरितन श्लोकानां असाङ्गत्यापत्तेः अस्मिन्नर्थे च परः सहस्रश्रुतिस्मृतिवचनानि सन्ति । ``आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । सधीः स्वप्नोभूत्वा'' ``ध्यायतीव लेलायतीव'' ``तत्रैव सति कर्तारं आत्मानं केवलं तु यः'' पश्यत्यकृतबुद्धित्वात् न पश्यति दुर्मतिः'' इत्याद्याः यत् एतत् औपाधिकं कर्तृत्वभोक्तृत्वादिकं जीवानां ईश्वर अपेक्षं एव इति । ``एषह्येव साधु कर्म कारयति तं, यमेभ्यः लोकेभ्यः उन्निनीषते । to wish to lead or bring or carry to or into) एषह्येव असाधु कर्म कारयति तं, यमेभ्यः लोकेभ्यः अधो निनीषते । '' ``अज्ञः जन्तुरनीशोयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ``समाने वृक्षे पुरुषो निमग्नोऽअनीशया शोचति मुह्यमानः । '' इत्याद्यैः श्रुतिस्मृतिवचनैरवगम्यते ॥ ननु ईश्वरः द्वेषपक्षपातरहितः श्रूयते । स च कथं जीवान् साध्वसाधुने कर्मणि प्रवर्तयितुं अर्हति । स्वतन्त्रस्सन् ईश्वरः करुणाकरः धर्ममार्ग एव जीवान् प्रवर्तयेत । न अधर्ममार्गे । ततश्च तत् प्रेरिताः सर्वेपि जीवाः धर्ममात्रानुष्ठायिनस्सन्तः सुखिनः एव भवेयुः, य दुःखिनः । तथा च सुखित्वदुःखित्वादि कृतं जगद्वैचित्र्यं अनुभूयमानं अनुपपन्नं स्यात् । जीवानां स्वान्त्र्ये अभ्युपगते तु रागादिदोषेण स्वयं धर्माधर्मयोः उभयोरपि प्रवर्तमानत्वेन सुखित्वदुःखित्वादि कृतं जगद्वैचित्र्यं उपपन्नं स्यात् । तस्मात् स्वतन्त्राः सन्तः जीवाः पुण्यापुण्येषु प्रवर्तन्ते निवर्तन्ते च इत्येव वक्तव्यम् । एवं च विधिनिषेधबोधकशास्त्राणां अर्थवत्त्वं स्यात् । इतरथा अस्वतन्त्राः जीवाः ईश्वरेण एव धर्माधर्मयोः प्रवर्त्यन्ते निवर्त्यन्ते च इति विधिनिषेधशास्त्रानर्थक्यं दुर्वारम् । विधिप्रतिषेध शास्त्राणां बहुनां आनर्थक्य परिहाराय ``एषह्येव साधु कर्म कारयति'' इत्यादिवाक्यानि ईश्वरप्रशंसापरतया नेयानि इति चेत् । न । यद्यपि ईशवरो रागद्वेषरहित एव । तथापि पूर्वपूर्व-जीवकर्मापेक्षया पुण्यापुण्ययोः उभयोः जीवान् प्रवर्तयन्निवर्तयन् अद्वेष पक्षपाताभ्यां विषमो निर्घृणो वा भवति । न खलु जीवीय कर्मणां आदिः अस्ति । अनादित्वात् संसारस्य । अतो जीवकृत धर्माधर्मापेक्षतया कारयितृत्वं ईश्वरस्य न युक्तम् । नापि विधिनिषेध शास्त्रानर्थक्यम् । जीवकृत धर्माधर्मानुसारेण जीवानां धर्माधर्मयोः रागद्वेषावपि ईश्वरः जनयति । ``पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन'' इत्यादि श्रुतेः । एवं च इष्टानिष्टप्राप्ति परिहारार्थिनां विधिनिषेधशास्त्रं अर्थवदेव भवति । यदि विधिनिषेधयोः फलं ईश्वरेण जीवीयधर्माधर्मनिरपेक्षेण विधिनिषेधस्थानीयेन कृतं इति अङ्गीक्रियते, तदा एव विधिनिषेधशास्त्रान् आनर्थक्यं स्यात् । तस्मात् विधिप्रतिषेधशास्त्राविरोधात् ``एषह्येव'' इति वाक्यानि न प्रशंसापराणि इति बोध्यम् । तस्मात् ईश्वराधीनमेव जीवानां औपाधिकं अपि कर्तृत्वभोक्तृत्वादिकं न स्वाधीनं इति सिद्धम् । इष्टानिष्टव्यामिश्रलक्षणसुखदुःखानुभवः एव भोगः । स एव फलशब्दवाच्यो भवति । धर्माधर्मकारयितुं ईश्वरस्यैव धर्माधर्मफलप्रदत्वमपि स्वीक्रियते । तथा च अयं अर्थः गीतायां अपि निरुक्तः यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ स तया श्रद्धया युक्तः तस्याराधनमीहते । लभते व ततः कामान् मयैव विहितान् हि तान् ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । इत्यादिना । एतेन निरीश्वरवादः निराकृतः वेदितव्यः । धर्माधर्मयोः कारयितृत्वेन फलप्रदत्वेन च सर्वज्ञस्य सर्वजीवबुद्धिकर्मफल विभागसाक्षिणः सर्वेश्वरस्य सिद्धत्वात् । न खलु कर्तेव कारयितृनिरपेक्षं कर्मफलं जनयितुं शक्नोति । कर्मकर्तुजीवस्य देशकालनिमित्तविशेष अनभिज्ञत्वात् । लौकिकस्य कृषिसेवादेः फलं आत्मसेव्यादि अधीनं हि दृश्यते । अतः कर्मफलसिद्धिः ईश्वरात् एव इति । तदर्थं ईश्वरः कश्चन अङ्गीकार्यः । श्रुतिस्मृति इत्यादि प्रमाणानि च सर्वज्ञं ईश्वरं विचित्रप्रपञ्चसृष्ट्यादिकर्तारं अवगमयन्ति । न खलु ईश्वरः नास्ति इति प्रतिषेधवचनं किंश्ञ्चित् उपलभ्यते । प्रत्युत ईश्वरनास्तित्ववादिनां ``असन्नेव स भवति'' इत्यादि श्रुतिभिः निन्दा एव क्रियते । ननु कालकर्मादि एव जीवानां कर्मफलप्रदत्वम अस्तु । किं ईश्वर कल्पना इति अतः आह । कर्म किं इति । कर्म परं किं फलप्रदाने स्वतन्त्रं भवितुं अर्हति किं इत्यर्थः । कुत इत्याह कर्म तत्जडं इति । यस्मात् तत् कर्म अचेतनं तस्मात् कर्मफलदाने न स्वतन्त्रं इत्यर्थः । कर्तृतन्त्रं हि कर्म । क्रियात्मकत्वात् । न हि कर्ता करणं क्रिया च फलप्रदं लोके दृश्यते । तत्र कर्तुः देश काल नियत निमित्त क्रम-अनभिज्ञत्वात् स्वस्वकर्मफलप्रदत्वं न शक्यं वक्तुं इति प्राक् निरूपितम् । एवं करणस्यापि । न खलु हलादिकं कृष्यादिसाधनं व्रीह्यादि फलप्रदं इति युज्यते । अचेतनत्वात् । चेतन अनधिष्ठितस्य अचेतनस्य स्वतः कार्येषु प्रवृत्तिः तु न भवति । रथादिषु अदर्शनात् । एवं कर्मणः अपि फलप्राप्तिः न सम्भवति । ``स्वर्गकामो यजेत'' इत्यादि शास्त्रात् कर्मणः फलसिद्धिः न ईश्वरात् । तद् अस्तित्वे प्रमाण-अभावात् अनुपयोगात् च इति चेत् । न । लोकदृष्टिन्यायविरोधात् । लोके हि सेवादिभिः भक्तिश्रद्धापुरःसरं आराधितेन प्रसन्नेन सेव्येन प्रभुणा तत् तत् सेवानुरूपं आराध्यकार्यफलं प्रदीयते इति दृष्टम् । तदिदं कर्म अपूर्वं वा चेतन-अनधिष्ठितं अचेतनं फलं ददाति एत्येतत् दृष्टविरुद्धं वर्तते । यथा आशुतरविनाशिनः कर्मण फलजनकत्वं दृष्टन्यायविरुद्धं इत्येव अपूर्वं कल्प्यते तथा देवताप्रसादं अन्तरा कर्मणः फलजनकत्वं न सम्भवति इति दृष्टन्यायानुगुण्येन देवताप्रसादात् फलसिद्धेः उपपत्तेः कृतं अपूर्व कल्पनेन । न खलु शुभाशुभकर्मानुसारेण तत्कर्तॄणां फलदात्रीदेवता द्वेषपक्षपातिनी भवति । न हि भवति भूपतिनीतिमार्गस्थं अनुगृह्णन् अनीतिमार्गस्थं निगृह्णंश्च दुष्टो रक्तो वा । तस्मात् दृष्टन्यायाविरोधेन सेव्य इव ईश्वरः त्रिविधकर्मफलं जीवानां प्रसूते नापूर्वं कर्म वा इत्येव बोध्यम् । असंसारिणः फलदातुः एकस्य ईश्वरस्य सिद्धौ ``विरजो विमृत्युः'' ``सत्यकाम सङ्कल्पः'' ``एष सर्वेश्वरः पुण्यं कर्म कारयति'' इत्यादि वेदान्तवाक्यानि परश्शतं सन्ति । स्मृतयश्च परस्सहस्रं विद्यन्ते । न एते अर्थवादाः शक्यं वक्तुम् । अवाधितार्थबोधजनकत्वात् । वेदान्तेषु श्रूयमाणं ईश्वरस्य जगज्जन्मादिकारणत्वं जीवकृतधर्माधर्मापेक्षमेव इति इदं एव फलप्रदत्वं दृढयति । कर्तुः परमेश्वरस्य आज्ञया अनुग्रहहेतुकेन ज्ञानेन फलं मोक्षफलं प्राप्यते सिद्ध्यति इति अर्थान्तं अपि अत्र विवक्षितम् । एतेन धर्माधर्मफलानुभवरूपबन्धहेतोरपि ईश्वरस्य मोक्षप्रदत्वं न स्यात् इति शङ्का परास्ता । ननु किमर्थं एवं सुखदुःखफलप्रदानेन बन्धं, ज्ञानप्रदानेन मोक्षं च प्राणिनां परमेश्वरो विदधाति । ``प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्'' इति न्यायेन बन्धसृष्टेः अनारम्भस्य एव उचितत्त्वात् इति चेत् परमेश्वरस्य जगत्सर्जनं बन्धमोक्षप्रदत्वं च अनाद्यविद्याशक्तिनिबन्धं भवति । अतः न पारमार्थिकं भवितुं अर्हति येन प्रयोजनमनुयोक्तुं युज्यते । आविद्यकस्य अस्य जगत्सृष्टिबन्धमोक्षकारित्वादिस्वभावस्य प्रयोजनापेक्षाया लोके अपि अदृष्टत्वात् । न खलु ऐन्द्रजालिकसृष्टेषु नानाविचित्रवस्तुषु प्रयोजनं चिन्तयन्ति लौकिकाः । जगत्सर्जनफलप्रदत्वादेः व्यावहारिकत्वं अभ्युपेति एव अत्र श्रीरमणभगवता तस्य ईश्वराधीनत्वं उपवर्ण्यते । तस्य मायिकत्वं अभ्युपगमेपि विविधविचित्रप्रपञ्चं विरचयतः निग्रह-अनुग्रहमुखेन फलविशेषादिकं ददतो वा परमेश्वरस्य अविद्याशक्ति सम्बलितस्य स्वभाव इति लीला इति वा स्वीकर्तव्या इति न कश्चित् दोषः । न हि स्वभावः पर्यनुयोक्तुं शक्यते । ननु माभूत् कर्मणः फलप्रदातृत्वम् । कर्मसापेक्षस्य जगदीश्वरस्य एव तत् भवतु । तथाऽपि दृष्टादृष्टाभ्युदयार्थानि श्रौतस्मार्तादिकर्माणि न परितित्याजयिषितानि । निषिधानि च नानुतिष्ठासितव्यानि । सर्वेषु फलार्थित्वस्वभावत्वात् । अनुकूलर्वन्दनीयः हि फलं भवति । इष्टस्वरूपत्वात् सुखस्य । तत्तद्-दृष्टादृष्टसुखरूपफलविशेषानुरागहेतौ इष्टसाधनज्ञाने सति कथं इहामूत्रार्थफलभोगविरागः सम्भवितुं अर्हति । न च दृष्टादृष्टसुखे दुःखसम्भिन्नत्व अवगमात् तत्रापि वैराग्यं जायेत इति वाच्यम् । तर्हि दुःखसम्भिन्नत्वेऽपि सुखस्य दुःखपरिहारार्थं यत्नः आस्थेयः । तथा च अवर्जनीयतया आगतं अपि दुखं परिहृत्य सुखमात्रं उपादेयम् । यथा धान्यार्थी पलालानि परिहृत्य सुखमात्रं उपादत्ते तद्वत् तस्मात् दुःखानुषङ्गभयात् ऐहिकं आमुष्मिकं च सुखं धर्मफलभूतं न परित्यक्तुं उचितम् । किञ्च स्रक्चन्दनादिसम्पर्कजनितस्य सुखस्य दुःखाक्रान्तत्वात्, क्षयिष्णुत्वात् च परित्याज्यत्वे अपि आमुष्मिकस्य स्वर्गादिसुखस्य न परित्याज्यत्वम् । तस्य दुःखासम्भिन्नत्वात् अविनाशित्वाच्च । श्रूयते हि श्रुतिस्मृतिषु - ``अपाम सोमममृता अभूम अग्नम ज्योतिरविदाम देवान्'' ``अक्षय्यं ह वै चातुर्मास्य याजिनस्सुकृतं भवति'' । यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलषोपनीतं च स्वर्गं नित्यसुखास्पदम् ॥ इति । न च कृतकत्वहेतुकं आमुष्मिकसुखस्यानित्यत्वानुमानं सम्भवति । नरशिरः कपालशुचित्वानुमानवत् तन्नित्यत्वावेदकागमबाधितविषयत्वात् इत्येवं प्राप्ते आह - कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ २॥ कृति इति । फलं कर्मफलम् । अतः एव अशाश्वतम् । फल्गुतया लयं अदर्शनं गच्छति इति फलशब्दनिष्पत्तेः । यत्र यत्र फलत्वं तत्र तत्र अनित्यत्वम इति व्याप्तेः । न च मोक्षे व्यभिचारः । तत्र फलत्वस्य अभावात् । तस्य नित्यसिद्धत्व अभ्युपगमात् । अज्ञाननिवृत्ति-उपलक्षित आत्मचैतन्यस्य एव मोक्षपदार्थत्वात् । ``निवृत्तिः आत्म-मोहस्य ज्ञातत्वेन उपलक्षित'' इति सिद्धान्तात् । अज्ञाननिवृतौ तु फलत्वं अनित्यत्वं उभयं अस्ति एव इति न तत्र व्यभिचारः । पक्षसमत्वात् । यत् कृतकं तत् अनित्यमिति व्याप्त्या कर्मसाध्यस्य फलस्य नित्यत्व असम्भवात् । न हि मोक्षः कर्मभिः साधनैः साध्यते येन तस्य आप्यनित्यत्वं आपाद्येत । स्वयमेव आत्मनः ब्रह्मरूपत्वात् । तत्ज्ञानेन अज्ञानादिनिवृतौ स्वात्मस्वरूपावस्थानं हि मोक्षः । तथा च आत्मस्वभावसिद्धस्य साधनैः सिसाधयिषितत्वं सम्भवति । ननु कर्मसाधितस्यापि स्वर्गादिसुखस्य नित्यत्वं आगमादिप्रमासिद्धमित्युक्तं इति चेत् । सत्यम् । यत् कृतकं तद् अनित्यं इति न्यायसहितेन ``तद्यथेह कर्मचितो लोकः क्षीयते एवं एव अमुत्र पुण्यचितो लोकः क्षीयते'' ``अथ यदल्पं तन्मर्त्यम्'' इत्यादि आगमेन ``अपामसोमम्'' इत्यादि आगमस्य बाधितत्वात् । ``अन्तवन्तु फलं तेषां तद्भवत्यल्पमेधसां ``आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन'' । ``क्षीणे पुण्ये मर्त्यलोकं विशन्ति'' । ``इमं लोकं हीनतरं वा विशन्ति'' इत्याद्या श्रुतिस्मृतयः सहस्रशः । ततश्च ``अक्षय्यादिवाक्यानां आपेक्षिकं अमृतत्वमेव लक्षणामर्यादया अर्थः स्वीकार्यः । अतः एव ``आभूत सम्प्लवं स्थानं अमृतत्वं हि भाष्यते'' इति पौराणिक आभणकं श्रूयते । स्वर्गाद्यामुष्मिकसुखेपि क्षयिष्णुताकृतदुःखं अनिर्वार्यम इति ``यन्नदुःखेन सम्भिन्नम्'' इति वचनं अपि सातिशयत्वप्रतिपादकं इति एव उपेयम् । दृष्टदुःखं अनेककारणसन्निपातजनितं वर्तते इति न शक्यते पुरुषप्रयत्नेन परिहर्तुम् । न हि मधुविष-सम्पृक्त यत् विभज्य मधुमात्रं गृहीतुं शक्यते । पलालपरित्यागेन धान्यमात्रग्रहणं सम्भवति । अपि च कृतिमहोदधौ, कर्ममहासमुद्रे, पतनकारणं निमज्जनकारकम् । सुखभोगार्थं कर्म कुर्वन्ति । कर्मार्थं पुनः भुञ्जते इत्येवं कर्मपरम्पराऽनादिरनन्ता बन्धरूपिणी भवति इति भावः । उक्तं च विद्यारण्यश्रीचरणैः ``कुर्वते कर्म भोगार्थं कर्म कर्तुं च भुञ्जते । नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते'' ॥ इत्यादि । अग्निष्टोमादिकर्मभिः स्वर्गप्राप्तिप्रतिबन्धककल्मषरहिताः यजमानाः स्वर्गलोकं काम्यकर्मफलं अनुभूय तद्भोगजनके पुण्ये क्षीणे तद्देहनाशात् तत्र मरणं अनुभूय पुनर्देहग्रहणार्थं मर्त्यलोकं सम्पतन्ति । ते च पुनः गर्भवासादिश्रमान् अनुभूय दुस्तरे अगाधेऽप्लवे जन्ममृत्युतरङ्गान्विते कर्मरूपसंसारमहासमुद्रे पुनरुद्धरणं अविदन्तः निपतन्ति । अविद्याकाममूलकर्मजालस्य उपरमः नास्ति अविद्याविषयं, कर्म अत्यल्पफलत्वादिदोषविशिष्टं बन्धरूपं सकामानाम् । ``कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र'' । ``इति नु कामयमानः'' ``तदेव सक्तः सहकर्मणा इति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणः तस्य यत् किञ्च इह करोति अयम् । तस्माल्लोकात् पुनःएति अस्मै लोकाय कर्मणे'' । इत्यादि श्रुतेः । न तु निष्कामानाम् । अतः फलकामनायाः संसारगतिरेव स्यात् । न परगतिः । तद् एतद् आह गतिनिरोधकं इति । गतिरत्र ज्ञानम् । तन्निरोधकं तत्प्रतिबन्धकम् । ज्ञानोत्पत्तिप्रतिबन्धकं इत्यर्थः । कामपूर्वकप्रवृत्तेः ज्ञानप्रतिकूलत्वात् । कर्महेतूनां कामानां ज्ञानाभावे निवृत्ति असम्भवात् उत्तरोत्तरं कामाभिवृद्धिरेव स्यात् न कर्मक्षयः । नापि ज्ञानं न वा मोक्ष इति भावः । यद्वा गतिः उत्तरमार्गप्राप्तिः तन्निरोधकं तत्प्रतिबन्धकम् । उपासनारहितानां सकामेन पुंसा कृतानां श्रौतस्मार्तादिकर्मणां दक्षिणमार्गप्रतिपत्यर्थत्वेन उत्तरमार्गं अप्राप्य हिरण्यगर्भलोकप्राप्तिप्रतिकूलत्वात् । तस्मात् उपासनासहितः कर्मानुष्ठानेन उत्तरमार्गप्रतिपत्तये एव प्रयत्नः कर्तव्यः इत्यपि तात्पर्यम् । ``न तत्र दक्षिणा यन्ति नाऽविद्वांसः तपस्विनः । अष्टाशीतिसहस्राणां ऋषीणां ऊर्ध्वरेतसाम् । उत्तरेणार्यम्णः पन्थाः तेऽमृतत्वं हि भेजिरे । ये प्रजामीषिरेऽधीराः ते श्मशानानि भेजिरे । ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे । '' इत्यादिस्मृतेः । इयं हिरण्यगर्भपदप्राप्तिः अपि संसारगतिः एव । स्थावरादिसंसारगत्यपेक्षयाऽसौ सात्विकी उत्तमा च भवति इति मनुः प्रपञ्चयति- ``ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च । उत्तमां सात्विकीमेतां गतिं आहुर्मनीषिणः'' । अथवा गतिः दक्षिणमार्गः तन्निरोधकं तत्प्रापकम् । केवलकाम्यकर्मानुष्ठातॄणां सोमादिलोकप्राप्तेः सर्वशास्त्रसम्मतत्वात् । तस्मात् स्थावरान्ताधोगतिप्रापकात् अशास्त्रीयमार्गात् निवृत्य सकामकर्म वाऽनुष्ठातव्यं इति भावः ॥ २॥ ननु सकामकर्माणि पुनरावृत्तिकराणि भवन्ति इति श्रूयते श्रुतिषु । अतः न अनुष्ठातव्यानि । प्रक्षालनात् हि इति न्यायेन कर्मणां सर्वेषां अननुष्ठानं एव श्रेयः इति प्रतिभाति । अतिफल्गुफलत्वात् आयासबहुलत्वाच्च तत्त्वज्ञानप्राप्तिमात्रादेव च निश्रेयससिद्धेः इति प्राप्त आह - ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्ति साधकम् ॥ ३॥ ईश्वरे इति । नेच्छया,अकामनया,कर्मफलं अनपेक्ष्य इत्यर्थः । ननु दृष्टादृष्टानि कर्मफलानि न अपेक्ष्यन्ते चेत् किमर्थं कर्माणि कर्तव्यानि इत्यतः आह - ईश्वरार्पितं इति । ईश्वराय भगवते सर्वकर्मफलदात्रेऽर्पितं समर्पितम् । स्वभावतः शास्त्रतश्च प्राप्तं सर्वं अपि कर्म परमेश्वरप्रीतिप्रसादलाभार्थं कृतं इति भावः । ननु परमेश्वरप्रीतिप्रसादाय वा किमर्थं तानि कर्माणि अनुष्ठेयानि इति आशङ्क्य आह - चित्तशोधकं इति । चित्तस्य मनसश्शुद्धिजनकं इत्यर्थः । ज्ञाननिष्ठायोग्यताप्राप्त्यर्थं कर्माणि अनुष्ठेयानि एव इति भावः । ननु चित्तशोधनं अपि कर्मफलं एव इति वाच्यम् । तथा च तत्र तृष्णा दुर्वारा । तस्मात् तेषां अपि बन्धकत्वं एव इति आशङ्कायां आह । मुक्तिसाधकं इति । मुक्तिं प्रति साधकं बहिरङ्ग-उपायः इत्यर्थः । फलकामनया कर्म क्रियते यदि तत् कर्म फलदं भवेत् । कर्मफलतृष्णां विहाय परमेश्वरार्पणबुद्ध्या क्रियमाणस्य कर्मणश्चित्तशोधनं न फलम् । एवं तस्य स्वभावः तस्य फलत्वे स्वीकृते अपि चित्तशोधनरूपफलतृष्णापि न कार्या एव । ईदृशं कर्म एव ज्ञानप्राप्तिद्वारा मोक्षकारणं इति भावः । इदम एव च गीतायां अपि उक्तम् । ``सिद्ध्यसिद्ध्योम्स्समो भूत्वा समत्वं योग उच्यते । कर्मजं बुद्धियुकाहि फलं त्यक्त्वा मनीषिणः । जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्यनामयम्''। इत्यादिना । तथा च सकामकर्मानुष्ठानमेवात्यल्प फलं बन्धरूपं भवति । न तु निष्कामकर्मानुष्ठानम् । तच्च तन्निवर्तक-पुरुषसंस्कारार्थं भवति । तच्च महाफलम् । आदर्शनिर्मार्जनवद् आत्मज्ञानप्रतिबन्ध निर्मार्जनाय उपयुज्यते । ``ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः । यथाऽऽदर्शतले प्रख्ये पश्यत्यात्मानमञ्जसा ॥ ``आत्मयाजी तु करोति । इदं मे अनेन अङ्गं संस्क्रियते इति'' ``महायज्ञैश्च यज्ञैश्च ब्राह्म्यीयं क्रियते तनुः'' । ``यज्ञो दानं तपश्चेति पावनानि मनीषिणाम्'' इत्यादिश्रुतिस्मृतिभ्यः । कर्मपरित्यागश्च श्रुतिस्मृतिप्रमाणप्रसिद्धः । तस्य निरर्थकत्वात् । अतः एव श्रुतयः । ``कर्मणा बध्यते जन्तुः विद्यया च विमुच्यते । तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ ``न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः'' क्रियापथश्चैव पुरस्तात् संन्यासाश्चोत्तरेण । ``नान्यः पन्था विद्यते अयनाय'' इत्याद्याः । उपायभूतानि एव कर्माणि निष्कामकृतानि ज्ञानस्य । अमृतत्वप्राप्तिश्च ज्ञानादेव । ``विद्यया विन्दतेऽमृतं'' इति श्रुतेः । तस्मात् उत्पन्नात्मज्ञानस्य पुंस एव कर्मपरित्यागः युज्यते । न तु अनुत्पन्नात्मज्ञानस्य । न हि नौकया सागरतीरं गतः पुमान् नौकां (न)विमुञ्चति इति एतत् चित्रं(आश्चर्यम्) भवेत् । एवं च वर्णाश्रमकर्मणां सर्वेषां अनात्मज्ञविषयकत्वं व्याख्यातम् । एतेन फलाभिसन्धिं अन्तरा मोक्षार्थिभिः चित्तशोधकानि कर्माणि अवश्यं अनुष्ठेयानि इति भावः ॥ ३॥ स्यात् एतत् । परमेश्वरार्पणबुद्ध्यानुष्ठीयमानस्य कर्मयोगस्य चित्तशोधकत्वं बन्धनाशकत्वं चायुक्तम् । कर्मणां वैदिकानां आनन्त्येन तेषां सर्वेषां पुरुषायुषेणापि अनुष्ठातुं अशक्यत्वात् इति आशङ्क्य आह - कायवाङ्मनःकार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥ कायेन, वाचा मनसा च क्रियमाणं धर्म्यं कार्यं उत्तमम् । श्रेष्ठम् । न परित्याज्यम् । तच्च क्रमात् पूजनं जपः चिन्तनं भवति इति । न अशेषकर्मानुष्ठानासम्भव-आशङ्का सम्भवति । कायिकवाचिकमानसिकानि पूजाजपध्यानानि ज्ञानोत्पत्तिप्रतिबन्धकपापापकर्षणेन ज्ञानोत्पत्तियोग्यता आधानेन च शोधकानि भवन्ति । अतः एतत् त्रयं मुमुक्षुभिः अवश्यं अनुष्ठेयं इति भावः । अत्र कार्यपदेन अकार्यव्यवश्छेदो बोध्यः । [कायश्च वाक् च कायवाचौ इति प्रथमं विग्रहं कृत्वा ततः समस्तस्य कायवाक्पदस्य मनः पदेन द्वन्द्वसमासः । न तु केवल वाक्पदस्य मनः पदेन द्वन्द्वः तेन च अचतुरेत्यादि सूत्रनिपातितं अकारान्तत्वं नास्ति इति बोध्यम् । शरीरवाङ्मनोभिः यत्कर्म प्रारभते नरः इति श्रीभगवद्गीतायां प्रयोगदर्शनात् । ] अत्र इदं नोध्यम् । धर्मो वा अधर्मो वा कर्मसामान्यं कायं वाचं मनश्च इति त्रीणि आयतनानि आश्रित्य एव उपपद्यमानं दृश्यते । तत्र कायिकस्य एव कर्मणः वाचिकस्य मानसिकस्यापि धर्मत्वम्-अधर्मत्वं च यथाशास्त्रं सम्भवत न केनचित् परिहर्तुं शक्यते । धर्माधर्मयोः उभयोः अपि कायिक अपेक्षया मानसस्य च ज्यायः त्वं उपदिशन्ति धर्मतत्त्वविदो महर्षयः । किन्तु धर्माधर्मयोः उभयोः अधर्मं अधोगतिप्रापकं परित्यज्य शास्त्रचोदितो धर्म एव मुमुक्षुभिः कर्तव्यः । अत्र च क्रमात् उत्तमं इति कायिकपूजन अपेक्षया वाचिको जपः उत्कृष्टः ततः च मानसचिन्तनं उत्कृष्टं इति भगवता कथितम् । एतत् त्रयं प्रतिदिनं ज्ञान-इप्सुभिः कर्तव्यम् । नित्यकर्मत्वात् । यस्य अनुष्ठाने चित्तशुद्धि अतिरिक्तं पुत्रपश्वादिफलादिकं नास्ति, यस्याननुष्ठाने पातित्यं ,ज्ञान-अधिकारित्वं च भवति इति श्रूयते तदेव नित्यं कर्म भवति । ततश्च पूजनं इति एतत् स्नानसन्ध्ययोः उपलक्षकम् । अकृतस्नानसन्ध्यस्य पुरुषस्य अन्यत्र पूजनादौ अवाससः पुरुषस्य अलङ्कारः इव निरर्थकत्वेन अधिकार-असम्भवात् । सनियमस्नानं हि बाह्याभ्यन्तरशोधकत्वेन प्रत्यक्षफलम् । एवं सन्ध्या-कर्म अपि । ``सन्ध्याहीनोऽशुचिर्नित्यमनर्हस्सर्व कर्मसु । ऋषयो दीर्घसन्ध्यत्वात् दीर्घमायुर्वाप्नुवन् । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम्'' इत्यादि स्मृतेः । जपश्च गायत्र्यादिवैदिकमहामन्त्रादीनां कर्तव्यः । वेदानुवचनं च ब्रह्मयज्ञभूतो जप एव । ``जप्येनैव तु संसिद्ध्येत् ब्राह्मणो नात्र संशयः । कुर्याद् अन्यत् न वा कुर्यात् मैत्रो ब्राह्मणः उच्यते । जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया हि भूतानां जपयज्ञः प्रवर्तते । यज्ञानां जपयज्ञोऽस्मि'' इत्यादिस्मृतिः । चिन्तनं उपासनं तच्च शास्त्रीयं किञ्चिद्वस्तु उपादाय तद्विलक्षणप्रत्यय-अनन्तरित समानचित्तवृत्तिसन्तानकरणमेव । उपासनं च सत्त्वशुद्धिकरत्वेन वस्तुतत्त्व-अवभासकत्वेन च आत्मज्ञान उपकारकम् । एवं स्नानसन्ध्यादीनि नित्यकर्माणि अनुष्ठेयानि इति भावः ॥ ४॥ तत्र पूजनजपध्यानानां उत्तरोत्तरं उत्कृष्टानां स्वरूपं उपदेष्टुकामः क्रमप्राप्तं पूजनस्वरूपं प्रथमं उपदिशति । जगत-ईशधी-युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥ जगतः सर्वप्रपञ्चस्य ईशभावनासहितं सेवनं परिचरणं यत् तदेव अष्टमूर्तिभृत्ः पृथिवी-अप्-तेजो-वायु-आकाश- सूर्य-चन्द्र-यजमानाख्य अष्टतनोः देवस्य परमेश्वरस्य पूजनम् । भवति इति शेषः । एवं च प्रपञ्चः सर्वोऽपि परमेश्वरस्वरूपः एव । अहमपि शिवः एव इति सततविभावनं एव परमेश्वरपूजनं भवति । ``सर्वं खल्विदं ब्रह्म । '' ``आत्मैवेदं सर्वम्'' इत्यादि श्रुतेः । इदं उपासकानां, अत्र पक्षे ईशधीपदं ईश्वरभावनापरं अवगन्तव्यम् । अथ ज्ञानिनाम् । स्वात्मनः परमेश्वरत्वज्ञानात् बाधिते अस्मिन् जगति च परमेश्वरत्व अकारकं यत् ज्ञानं आविर्भवति तत् ज्ञानेन युक्तं समब्रह्मात्मतासम्यग्दर्शनं यत् तदेव अष्टमूर्तेः देवस्य पूजन भवति । न अन्यद् आवाहनादि विसर्जनान्तं षोडशोपचारविधानपूर्वकं पूजनं सम्भवति । ज्ञानिनां स्वात्मज्ञानं एव देवपूजनं इति भावः । सर्वदेवात्मकत्वात् । अष्टमूर्तिः पुर्यष्टकम् । तत् बिभर्ति इति अष्टमूर्तिभृत् जीवः स एव देवः स्वयम्प्रकाशात्मा परमेश्वरः तस्य पूजनं ज्ञानं साक्षात्कार इति यावत् । अथ कर्मिणां अभिधीयते । जगतः ईशधीयुक्तं ईश्वरभावनान्वितं सेवनं परिचरणं यस्मिन् तत् । तादृशं अष्टमूर्तिभृतः देवस्य महेश्वरस्य पूजनं ध्यानावाहनादिषोडशोपचारविधानेन पूजाकरणं पूजनम् । भवति इति वाक्यशेषः । ``आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् । पञ्चदेवान्स्मरेन्नित्यं पूजयेत्पापनाशनम् ॥ '' इत्यादिस्मृति-उकतं महेश्वरपञ्चायतन महापूजाविधानं सूचयितुं जगतः ईशधीयुक्तत्वं उक्तम् । अयं भावः । शिवार्चनापद्धतौ हि आदित्यस्य स्फटिकशिलायां महेश्वरस्य वाणे च आवाहनादिकं कर्तव्यं इत्युक्तम् । आदित्यादिपञ्चदेवानां मध्ये प्राधान्यं एकस्य देवस्य अन्येषां च चतुर्णां अप्राधान्यम् । शैवाः शिवं, वैष्णवाः विष्णुम्, शाक्ताः शक्तिरूपिणीं अम्बिकाम्, सौराः सूर्यः, गाणपताः गणपतिं च प्रधानं मन्यन्ते । पूर्वजन्मवासना अनुसारिणी वासना एव अत्र नियामिका बोध्या । एषु पञ्चसु च यस्य यस्य प्राधान्यं तस्य तस्य मध्यस्थानं अन्येषां अङ्गदेवानां आग्नेय्यादिस्थानं च शास्त्रविहितम् । अङ्गदेवताचतुष्टयविशिष्टं प्रधानदेवताराधनं एव पञ्चायतनपूजा इति व्यवह्रियते । अङ्गाङ्गीभावभावनापूर्वकपूजाविधाने अस्मिन् अङ्गदेवताराधनस्य अङ्गि देवताप्रसादात् अतिशयसिद्ध्यर्थं उपयोगः । राजप्रसादसिद्ध्यर्थं तत् अमात्य-तत्प्रणयित-परिचारक आराधन् विनियोगः इव अत्र अपि बोध्यम् । न हि राजपूजन तत् अमात्यादिकं अप्रसाद्य फलाय पर्याप्तं भवितुं अर्हति । एवं एव इन्द्रादिदेवपूजात्मको यज्ञादिः अपि तत् देवता अप्रसादयन् न फलाय कल्पते । तच्च यथा प्रधानयागजन्य परमापूर्वे जनयितव्ये प्रयाजादि अङ्गजन्यपण्डापूर्वाणां उपयोगः भवति एवं इह अपि । अमात्यादिप्रसादं अन्तरा राजप्रसादः यथा दुर्घटः तथा अङ्गदेवताप्रसादं विना न प्रधानदेवताप्रसादश्च भवति । सर्वेश्वरः सर्वकारणभूतः एकः एवेश्वरः । ``एकोदेव'' इति श्रुतेः । स एव पूज्यः । आदित्यादयः अङ्गदेवताः । ``अङ्गानि अन्यादेवता'' इति श्रुतेः । अमात्यादिद्वेषे यथा राजप्रसादो न भवति तथा अङ्गदेवताद्वेषे प्रधानदेवताप्रसादोऽपि न स्यात् । साङ्गस्य परमेश्वरस्य आराधनात् मोक्षपर्यन्तं फलम् ,विरोधात् च नरकपर्यन्तं अहितं स्यात् । इदमेव पञ्चायतनदेवतापूजारहस्यम् । एतदर्थमेव जगतः ईशस्वरूपत्वविभावनं अभिहितम्,पञ्चदेवायतनानां पञ्चानां अपि पञ्चभूतात्मकत्वात् । अतः एव अष्टमूर्तिभृत्वं देवस्य विशेषणं दत्तम् । अष्टमूर्तिभृत् शिवः इति प्रसिद्धः । तस्य पूजनं इति अनेन शिवस्य प्रधानदेवतात्व-अवगमात् शिवपञ्चायतनदेवतापूजनं एव अत्र विवक्षितं इति विशेषणानां स्वारस्यात् अवगम्यते । ``यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गप्राः । पूर्णेन्दुवदना नार्यश्शिवपूजाविधेः फलम् ॥ '' इति वचनबलात् अष्टमूर्तेः भगवतो महेश्वरस्याराधनादेवाष्टैश्वर्यसिद्धिः । एतं कर्मिणां उपासकानां च ज्ञानिनां त्रयाणां ईश्वर-पूजनं अभिहितं अधिकारानुगुण्येन इति बोध्यम् । न चैव अर्थत्रयपरत्वे अस्य श्लोकस्य वर्ण्यमाने कायिकत्वं असङ्गतं इति वाच्यम् । सेवनपदार्थस्य कायिकत्वेन अर्थत्रयसाधारणत्वात् । न च अत्र अष्ट मूर्तयः यस्य इति बहुव्रीह्याश्रयणेन एव विवक्षितार्थलाभे, कर्मधारयसमासाश्रयणेन अष्टमूर्तिपदं विगृह्य, ततः तत् बिभर्ति इति वा तस्य भृत् इति वा समासाश्रयणेन व्याख्याने क्लेशाधिक्यात् भृत्पदं अनर्थकं इति वाच्यम् । अमूर्तेरीश्वरस्य अष्टमूर्तित्वं अवास्तवं इति तत्क्प्रकाशकत्वेन तत्पदसार्थक्यात् । अमूर्तेः असंसर्गिणः परमेश्वरस्य मूर्तिमत्वं तात्त्विकं न भवति ``असङ्गो न हि सज्जते'' इति श्रुतेः । अपितु अभिमानिकं एव इति । अतः एव महाकविः अपि आह ``अष्टाभिः यस्य कृत्स्नं जगदपि तनुभिः बिभ्रतो न अभिमानः'' इति । तस्मात् साधु उक्तं अष्टमूर्तिभृत् देवपूजनं इति ॥ ५॥ अथ वाचिकं त्रिप्रकारं जपं उपदिशति - उत्तमस्तवादुच्चमन्दतः । चित्तजं जप ध्यानमुत्तमम् ॥ ६॥ उत्तम इति । उच्चं उच्चैस्स्वरेण मन्दं मन्दस्वरेण च । प्रकारार्था तसिः । उत्तमस्य उत्कृष्टतमस्य ऊर्द्ध्वतमस्य उत्गततमस्कस्य वा सर्वाभिष्टदेवस्य परमेश्वरस्य स्तवात् , वैदिकात् आर्षात् अन्यस्मात् चित्तजं मनसि जायमानम् । मनसा आवर्त्यमानं इत्यर्थः । जपध्यानं मननात्मको जपः उत्तमः श्रेष्ठः भवति । जपो द्विविधः'' उच्चैरुपांशुश्चेति । मानसिकोऽपि मननध्यान भेदात् द्विविधः । अन्यश्रुतिगोचरत्वं उच्चैष्ट्वम् । स्वश्रुतिमात्रगोचरत्वं उपांशुत्वम् । श्रुति-स्मृति-इतिहास-कल्प-सूत्र-पुराण-सहस्रनामादिपारायणं अपि वाचिकजप अन्तर्गतं भवति । स्वश्रुतेः अगोचरपर अवाग्रूपः ,विच्छिद्य क्रियमाण मानसः भवति । उच्चस्वरेण जप-अपेक्षया उपांशुजपस्सहस्रगुणः । उपांशुजप-अपेक्षया मानसस्सहस्रगुणः, उच्चजपः अधमः । मन्दजपो मध्यमः । मानसं मननं उत्तमं कदाचित् क्रियमाणं अपि । निरन्तर-चिन्तनात्मकं ध्यानं च अनन्तरं वक्ष्यति । अतः अत्र ध्यानपदं मननार्थकं बोध्यम् । न चैवं मानसत्वात् मननस्य वाचिकत्व असाम्प्रतं इति शङ्क्यम् । मननस्य मध्यमारूपत्वसंप्रतिपत्तेः । ननु मानसयोः मनन ध्यानयोः को भेदः इति चेत् । मननं मन्त्राणां आवृत्तिरूपम् । ध्यानं मन्त्रविषयप्रत्ययावृत्तिरूपं इति गृहाण । वर्णपदवाक्यविषयाणां मानसवृत्तीनां एव मन्त्रत्वम् । स्पष्टं च इदं आकरे । अतः एव आहुः भगवत्पादाः ``मनोवृत्तिरूपत्वे मन्त्राणां मनोवृत्तिः एव आवर्त्यते इति मानसो जपः उपपद्यते । अन्यथा अविषयत्वात् मन्त्राः न आवर्तयितुं शक्यन्ते घटादिवत् इति मानसः जपो न उपपद्यते'' इति ॥ ६॥ अथ इदानीं तृतीयं चिन्तनं ध्यान-अपर-पर्याययं आह आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ ७॥ आज्यधारयेति । आज्यधारया धृतधारया, स्रोतसा, प्रवाहेण समं सदृशं सरलचिन्तनं निरन्तरसंसरणं विरलतः विच्छिद्य विच्छिद्य कृतात् चिन्तनात् पूर्वोक्तमननात् परं श्रेष्ठम् । चिन्तन-स्मरण ध्यान-निदिध्यासनोपासनादि पदाभिधेयं इदं एव । चिन्तनपदं एव अन्तर्णीतावृत्तिगुणं मानसव्यापारं अर्थं अभिधत्ते । तेन च सत्कारदीर्घकालनैरन्तर्येण ध्येयविषयप्रत्ययावृत्तिः अवगम्यते । सगुणस्य निर्गुणस्य वा तत् चिन्तनं तत् तत् साक्षात्काराय कल्पत इति ``यस्य स्याद् अद्धा न विचिकित्सा अस्ति'' ``देवो भूत्वा देवान् अप्येति'' इति शास्त्रात् दृष्टफलत्वं अवघातवत् अधिगम्यते । अतः यावत् फलोदयं आवर्तनं उपासनस्य अभ्युगमनीयम् । निर्विशेषब्रह्म-आत्मसाक्षात्कारफलेषु, ``मानसन्तु किं मार्गणे कृते'' इत्यादिना उपरि-उपदिश्यमानेषु विचारेषु च सततचिन्तनं आवश्यकं एव । स्वात्मस्वरूप-अवस्थानलक्षणायाः मुक्तेः प्रत्यक्षफलत्वेन श्रुति-स्मृति-अनुभवसिद्धत्वात् । एवमेव सविशेषब्रह्मसाक्षात्कारफलेषु च दृष्टफलत्वात् आवर्तनं आवश्यकम् । तत् च सततं विधेयं इति एव अत्र विवक्षितं बोध्यम् । एतत् सर्वं अभिप्रेत्य एव चिन्तनीयं विहाय चिन्तनक्रममात्रं उपदिष्टम् । तत्र सुखावबोधार्थं आज्यधारानदीप्रवाह दृष्टान्तद्वयं उपात्तम् । आज्यं हि देवपितृमनुष्यपूज्यं परमपवित्रं च इति श्रुतिस्मृतिप्रसिद्धम् । चिन्तनस्य उत्कृष्टवस्तुविषयकत्वेन पावित्र्यं सूचयितुं तैलादीन् विहाय आज्यधारा औपम्यं कथितम् । आज्यधारायाः पुरुषप्रयत्न-निष्पाद्यत्वेन सातत्य असम्भवात् वैरल्यशङ्कायां स्रोतोनिदर्शनान्तरं निर्दिष्टम् । स्रोतसः धारावाहिकत्वं स्वभावसिद्धम् । न पुरुषप्रयत्ननिष्पाद्यं इति एतत् सर्वविदितम् । एवं ध्यानस्य नैरन्तर्यं नैसर्गिकं भवितव्यं इत्याशयः । ऋजुकुटिल नानापथजुषां अपि स्रोतसां यथा प्रवाहविच्छेदो न भवति एवं नानाकुटुम्बकार्यव्याकुलीभूतं अपि ध्यानं अविच्छिन्नं भवितव्यं इति अपि । विरलचिन्तनस्य सरलचिन्तन अपेक्षया अवरत्वे अपि न त्याज्यत्वम् । सरल चिन्तनद्वारत्वात् ॥ ७॥ एवं सामान्यतः ध्यानस्वरूपं अभिधाय तद्विशेषान् वक्तुं उपक्रमते । भेदभावनात्सोहमित्यसौ । भावनाऽभिदा पावनी मता ॥ ८॥ भेदेति । भेदभावनात् । भेदेन भावनात् ध्यानात् अन्यो अहं अन्यो असौ इति । तस्मात् भेदभावनात् सोहं इति ब्रह्मैवाहमस्मीति असौ अभिदा भेदशून्या भावना ध्यानं पावनी परिशुद्धिकरी मता सर्वशास्त्र-अनुभव-सम्मता । त्वं वा अहं अस्मि भगवो देवता अहं वै तत्त्वमसि भगवो देवते'' ``तद्योऽहं सोऽसौ सोऽहं'' ``अहं ब्रह्मास्मी''त्येवमादिश्रुतिभिः अभेदध्यानस्य एव उक्तेः । ``अथ यः अन्यां देवतां उपास्ते अन्यः असौ अन्यः अहं अस्मि इति न स वेद यथा पशुः'' ``मृत्योस्समृत्युमाप्नोति यः इह नानेव पश्यति'' ``उदरमन्तरं कुरुते । अथ तस्य भयं भवति'' इत्यादि श्रुतिभिः भेदः भावनाया अपवादात् च । उपासनेषु अहङ्ग्रह उपासनं एव श्रेष्ठम् । ब्रह्मात्मनोः अभेदस्य तात्विकत्वात् । उपाधिकृतविरुद्धधर्माध्यासेन बिम्बप्रतिबिम्बवत् जीवब्रह्मभेदस्य अतात्त्विकत्वात् । आत्माभिन्न परमात्मध्यानस्य एव अभयामृतत्व हेतुत्वम् । मृतिभयहेतोः अन्यस्य अभावात् । न हि स्वेन एव स्वस्य मृतिभयादिकं सम्भवितुं अर्हति । मृतिभयहेतोः अपि भेदभावनस्य न अत्यन्तं परित्याज्यत्वं भवितुं अर्हति । अभेदभावनहेतुत्वात् । अन्यथा शास्त्रविहितानां प्रतीकसम्पदादिभेदोपासनानां आनर्थक्यप्रसङ्गात् । न हि प्रतीकादिषु अपि अहङ्ग्रहः सम्भवति । स्वभिन्नत्वात् । तथा विधानाभावात् च । न च प्रतीकानां ब्रह्मरूपत्वात् अहङ्ग्रहोयुक्त इति शङ्क्यम् । प्रतीकं हि ब्रह्मविकारं भवति । तत्र विकाररूपं ब्रह्मदृष्ट्या यदि तिरस्क्रियते तदा प्रतीकता अपगच्छति । तथा च तेषां प्रतीकत्वविलयेन ब्रह्मत्व आपतौ सत्यां आलम्बन अभावात् अहङ्ग्रहो न सघटेत । वस्तुवृत्तं विकाररूपं अनुपमृद्यैव प्रतीकोपास्तिविधानात् । तस्मात् प्रतीकोपासनानि भेदोपासनानि भवन्ति । तानि च नानाविधानि भवन्ति । अभ्युदयार्थानि कानिचित् क्रम्मुक्त्यर्थानि दहरादि उपासनानि कर्म समृद्धि अर्थानि उद्गीथादि उपासनानि । एतेषु अहङ्ग्रहोपासनं सविशेषनिर्विशेषोभयविषयकं इति प्राक् उक्तम् । उपासनानां च चितैकाग्र्यद्वारा ज्ञानं एव मुख्यं फलं इति मन्तव्य । तदुक्तं ``निर्विशेषं परम्ब्रह्म साक्षात्कर्तुमनीश्वराः । ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः इति ॥ ८॥ अथ अभेदोपासने विशेषं आह - भावशून्यसद्भावसुस्थितिः । भावनाबलात् भक्तिरुत्तमा ॥ ९॥ भावेति । भावनाबलात् अभेदानुसन्धानसंस्कारप्राबल्यात् ध्यातुः या भावशून्या सङ्कल्पविकल्परहिताः सद्भावे सद्रूपे परमात्मनि सुस्थितिः तत् आत्मतास्थितिः उत्तमा भक्तिः भवति । न अन्या इति भावः । ध्याता यादृशः ध्यानवान् भवति सः तादृश ध्यानसंस्कारप्रकर्षात् तद् देवतात्मत्वं जीवदशायां देहपाते अपि प्राप्नोति । ``तं यथा यथा उपासते तदेव भवति'' । ``यथा क्रतुः अस्मिन्लोके पुरुषो भवति तथा इतः प्रेत्य भवति'' इत्यादिश्रुतेः । भावनाप्रचयश्च भक्तिश्रद्धापुरस्सरं क्रियमाणया भावनया एव जायेत इति सद्भावात्मता प्राप्तेः उत्तमभक्तिरूपता अभिहिता । एषा एव परभक्तिरिति भावः । `` मा भव ग्राह्य भावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव । सशान्तसर्वसङ्कल्पा या शिलावदवस्थितिः । जाग्रन्निद्राविनिर्मुक्ता सा भक्तिः परमा मता'' इत्यादि वचनात् । अथवा, भावनाबलात् अभेदध्यानबलात् , भावशून्यः प्रपञ्चातीतः यः सद्रूपः भावः तस्मिन् सुस्थितिः उत्तमा भक्तिः इति । एतेन शून्यवादो निराकृतः । ध्यानस्य भक्तिरूपत्व अभिधानात् अभेदो व्याख्यातः ॥ ९॥ अथ इदानीं प्रकरणार्थं उपसंहरन् पूर्वोक्तध्यानाभ्यासपरिपाक-जनित निजात्मसिद्धिलाभं महीकरोति हृत्स्थले मनस्स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ १०॥ हृत्स्थले इति । हृत्स्थले-हृदयस्थाने । अनेन मूलाधारादि-स्थानव्यवच्छेदः कृतः । तेषां मन आयतनत्व-अभावात् हृदयमात्रप्रतिष्ठितत्वात् मनसः । तस्मिन् हृदये मनस्स्वस्थता मनसस्थितिः मनसः स्वस्मिन् आत्मनि स्थितता निष्ठता वा क्रिया निष्कामकर्मानुष्ठानरूपा च भवति । निश्चितं प्रत्यक्षानुमानशब्दप्रमाणनिर्णीतं इति भावः । अत्र इदं अनुसन्धेयम् । मनो हि इदानीं न स्वस्थानभूते हृदये तिष्ठति । किन्तु बहिर्विषयेषु । विषयेभ्यः प्रत्याहृत्य मनसः स्वस्थाने स्थापनं कर्तव्यम् । एतदर्थमेव सर्वाणि शास्त्राणि प्रवृत्तानि । पूर्वोक्तपूजनजपध्यानानां च अत्र एव उपयोगः । रजस्तमोदोषेण बहिर्विक्षिप्यते मनः । तादृक दोष-अपनयनार्थं कर्माणि प्रवृत्तानि । बहिर्विक्षेपरहितस्य एकाग्रतासम्पादनार्थं उपासनायोगौ प्रवृतौ । कर्मभक्ति योगादिभिः स्वस्थानस्थापिते मनसि तत्रस्थ आत्मावबोधश्च अयत्ननिष्पाद्यः एव । मनसः हृत्स्थलस्थितिः एव हि आत्मविज्ञानं उच्यते न अन्यत् । बहिर्विषयात् उपरताः स्वहृदयस्थानसंस्थिताः सम्यग्दर्शिनः बहवः । श्रुतिस्मृतिसंवादाश्च भूयांसः । तस्मात् मनसो हृदयस्थापनं एव दुर्घटं अपि सम्पादनीयम् । हृदयस्थस्य मनसो मनस्त्वं अपगच्छति । मनस्वस्थताक्रिया इति एकं वा पदम् । मनसः स्वात्मनिस्थतेः क्रिया करणं भक्तियोगबोधरूपं भवति इत्यर्थः बोध्यः ॥ १०॥ विषयप्रवणैकस्वभावस्य मनसो हृदयस्थानस्थापना-उपायं आह- वायुरोधनात् लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ ११॥ वायुरोधनात् इति । वायोः प्राणस्य रोधनात् निग्रहात् जालपक्षिवत् जालेन बद्धः श्येनादिपक्षिवत् मनो लीयते निगृह्यते । इदं वायुनिरोधनं मनोनिरोधनसाधनं एव । न पुनः नाशसाधनम् । एकतत्त्वाभ्यासस्य एव तन्नाशकत्वात् इति भावः तदुक्तं- चित्तं प्राणेन सम्बद्धं सर्वजीवेषु संस्थितम् । रज्ज्वा यद्वत् सुसम्बद्धः पक्षी तद्वदिदं मनः ॥ तर्कैर्जल्पैस्शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः । न मनो जीयते प्राणवायुरोधनात् विना विधे ॥ इत्यादि अत्र इदं योगशास्त्रतत्त्वं अवगन्तव्यम् । प्राणवायुरोधनं नाम प्राणायामः । स च त्रिविधः । रेचकः पूरकः कुम्भक इति । शरीर-अन्तर्गतस्य वायोः बहिः उच्छ्वासेन निस्सरणे रेचकः । बहिष्ठस्य वायोरन्तर्निश्वासेन प्रवेशने पूरकः । उच्छ्वासनिश्वासनिरोधेन निश्चलतया अवस्थापने कुम्भकः । कुम्भको द्विविधः । आन्तर्कुम्भको बाह्यकुम्भकश्चेति । तत्र पूरक-अनन्तरं क्रियमाणः स्वासप्रश्वासप्रतिरोधः अन्तःकुम्भकः । रेचक-अनन्तरं क्रियमाणः तु बाह्यकुम्भकः । एवं त्रिविधेन प्राणायामेन अभ्यस्यमानेन प्राणः दीर्घसूक्ष्मो भवति । यथा च तूलपिण्डो घनीभूतः प्रसार्यमाणः विरल-अवयवतया दीर्घः सूक्ष्मश्च भवति तद्वत् । श्वासः हृदयात् निर्गत्य नासाग्रसम्मुखे द्वादशाङ्गुलपरिमितदेशे परिसमाप्यते । तत एव च परावृत्य हृदयदेशपर्यन्तं अन्तः प्रविशति इति स्वाभाविकी प्राणापानयोः गतिः । प्राणायाम-अभ्यासेन तु क्रमेण क्रियमाणेन नाभेः मूलाधारात् वा नासाग्रमुखे चतुर्विंशति-अङ्गुलपर्यन्ते,त्रिंशदङ्गुल-परिमिते वा देशे परिसमाप्येत । एवं रेचकपूरककुम्भकभेदेन त्रिविधात् प्राणायामात् अन्योऽपि चतुर्थः कश्चित् प्राणायामः विद्यते । सः अपि कुम्भकाख्यः एव । अयं तृतीयकुम्भकाभ्यासपाटवात् धारणाख्यभूमिकानिष्पादकतया उपयुज्यते । सः अयं चतुर्विधः प्राणायामः एव अत्र मनोनिग्रहोपायतया श्रीरमणेन कथितः । श्येनादीनां जालान्तः पातित्वे सुनिग्रहत्वं इव प्राणान्तः पातित्वेन मनसो अपि प्राणरोधेन सुनिग्रहत्वं भवति इति स्फुटयितुं जालपक्षिवत् इति निदर्शन-उदाहरणम् । उपक्रमस्थं ``लीयते'' इति पदं उपसंहारस्थरोधपदानुसारेण निग्रहपरं इति बोध्यम् ॥ ११॥ प्राणनिरोधस्य मनोनिरोधहेतुत्वं विशदयितुं आरभते । चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ १२॥ चित्तेति । चिता-चैतन्येन, क्रियया चलनादिक्रियया च युताः समन्विताः चित्तवायवः चित्तानि प्राणाश्च शक्तिमूलका सर्वेश्वरशक्तिबीजसम्भूता शाखयोर्द्वयी परमात्मशक्तेः उत्पन्नौ मनः प्राणौ शाखाद्वयौ भवतः । मनसः ज्ञानशक्तिप्राधान्येन प्राणस्य क्रियाशाखात्वम् । एतादृशविभागद्वयस्य अनादिमायाशक्तिः एव मूलं न परमात्मा । तस्य स्वतो मनःप्राणशून्यत्वेन असङ्गत्वेन च प्राणमनो विभागजनकत्व असम्भवात् । ज्ञानक्रियाशक्ति-अधिष्ठितात् सृष्टिस्थितिसंहारशक्तिज्ञानवत्तया उपचितात् ब्रह्मणः मनः प्राणानां सृष्टिः श्रूयते । हृदयं एव प्राणमनसोः उत्पत्तिस्थानं भवति । हृदि एव च आत्मज्योतिः प्रकाशते । ``हृदि अन्तर्ज्योतिः पुरुषः'' ``आत्मनः एष प्राणो जायते'' ``एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च'' ``दश इमे पुरुषे प्राणाः'' इत्यादि श्रुतिभ्यः । हृदि अन्तस्थं आत्मज्योतिश्च सूक्ष्मस्थूलतारतम्यक्रमेण परम्परया हृदयादिकं कार्यकरणसङ्घातं च चैतन्यज्योतिः शूरितं करोति । (शूरीकृ/ शूरी- प्. -करोति, to turn into a hero) तत्र चित्तं अतिस्वच्छद्रव्यं आदर्शवत् आत्मनः अतिसमीपवर्तित्वेन प्रथमं आत्मचैतन्यव्याप्तिमद् भवति । एतेन एव चित्तं आत्मा इति बहवः प्रतिपन्नाः । चित्तं एव अन्तःकरणं भवति । तच्च नास्ति इति वक्तुं न पार्यते । कर्मेन्द्रिय-बुद्धीन्द्रियासम्भावितया कामसङ्कल्पविक्रियायाः अभ्यूहितुं शक्यत्वात् । अन्तः करणस्य कस्यचिद् अभावे श्रोत्रादिबाह्यकरण विषयसम्बन्धे सत्यपि पुरोवस्थितविषयं पुरुषो न गृहीतुं शक्नोति । ``अन्यत्रमना अभूवन् अश्रौषं इति व्यवहारदर्शनात् । तस्मात् यस्य असन्निधानात् शब्दादिग्रहणसमर्थस्य अपि श्रोत्रेन्द्रियादेः स्वस्वविषयसम्बन्धे सत्यपि शब्दादिविज्ञानं न जायते, यस्य सन्निधानात् च भवति, तादृशं श्रोत्रादि-इन्द्रियव्यतिरिक्तं चित्तं नाम अन्तःकरणं श्रोत्रादि-इन्द्रियसम्बन्धि इति स्वीकार्यम् । तच्च एकं अपि वृत्तिभेदात् अनेकं भवति । मननात् मनः इति,अभिमानात् अहङ्कारः इति, निश्चयात् बुद्धिरिति, स्मरणात् चित्तं इति च आख्यायते । तत् स्वतः तु एकं एव । तात्त्विकभेदे प्रमाणाभावात् । एवं च अहङ्कारादिषु आत्मचैतन्यावभासनं आनन्तर्यात् आपतति । ततश्च इन्द्रियादिषु ततः शरीरे । एवं प्राणादिकेषु अपि तदा आत्मज्योतिषो व्याप्तिः अस्ति । अन्यथा जाग्रदादिषु प्राणस्फूर्तेः असम्भवात् स्वतः प्राणस्य जडत्वात् । एवं च ज्ञानेन्द्रियपञ्चकं भूतपञ्चकं अन्तः करणचतुष्टयं प्राणादिपञ्चकं अविद्याकामकर्मादिकं सर्वं अपि पारम्पर्येण चैतन्यज्योतिषा अवभास्यते । इमं एव आशयं आह भगवद्गीता यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ इति रूपादिविषयपञ्चकव्यवस्थानुगुण्येन चक्षुरादीनि ज्ञानेन्द्रियाणि पञ्च सिद्ध्यन्ति । तथा वचनादिकार्यपञ्चकव्यवस्थानुगुण्येन वागादि-इन्द्रियाणि पञ्च सिद्ध्यन्ति । एवं सामान्यकरणभूतं चित्तं अपि । एवं प्राणविभागेपि चैतन्यस्य सम्बन्धः वर्तते । परन्तु स्वापे प्राणे जाग्रति सत्यपि चैतन्य-अननुभवात् अप्राधान्यं बोध्यम् । संहतत्वात् अचेतनत्वात् भौतिकत्वात् च चक्षुरादिवत् आत्मोपभोगकरणं एव प्राणः । स च अध्यात्मं पञ्चव्यूहो भवति । व्यूहश्च कार्यवशात् एव भवति । तत्र हृदयजन्या मुखनासिकाभ्यां सञ्चरमाणा वृत्तिः प्रणयनात् प्राणः । मूत्रपुरीषादि-अपनयनात् अपानः , वीर्यवत्कर्मकरणहेतुः प्राणापानसन्धिस्थः व्यायमनात् व्यान उच्यते । उदान ऊर्ध्वगमनादिहेतुः आपादतलमस्तकव्याप्तः ऊर्द्ध्ववृत्तिः । भुक्तपीतान्नस्य समं नयनात् अन्नपक्ता समानः । एतेषां वृत्तिभेदानां सामान्यभूता चेष्टा अभिधेया वृत्तिः दशेन्द्रियवृत्ति-अपेक्षया भिन्नः प्राणाख्या भवति । यथा मनसः चक्षुरादि-इन्द्रियजन्यपञ्च वृत्तयो भवन्ति तथा प्राणस्य अपि पञ्चवृत्तयो भवन्ति । चक्षुरादि-इन्द्रियेषु मनसः इव प्राणस्य अपि सम्बन्धो वर्तते । अतः एव श्रुतिषु एकादशप्राणाः इति प्राणपदेन मन-आदिनां अपि व्यवहारः दृश्यते । प्राणनिरोधस्य मनोनिरोधहेतुत्वं सम्भवति इति भावः । वृत्तिभेदापेक्षया पुरुषभेदापेक्षया वा चित्तवायव इति बहुवचनम् । शक्तिः एव मूलकं यस्याः इति विग्रहे समासात् उत्पन्नस्य टापः सुपः परत्वात् ``प्रत्ययस्थात् कात् पूर्वस्य अत इदाप्यसुपः'' (७-३-४४) इति इत्वस्य अप्रवृत्तिः । बहुपरिव्राजकाः इति वत् ॥ १२॥ एवं अविद्याशक्तिशाखाद्वयभूतयोः प्राणमनसोः प्राणरोधेन मनोरोधनसम्भवेपि पुनः उद्भवः स्यात् इति आह- लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ १३॥ लयेति । उभययोः चित्तवाय्वोः रोधने निग्रहे सति लयविनाशने फलभूते सम्भवतः । प्राणनिरोधेन मनोलयो भवति । मनोवृत्तिनिरोधे मनोविनाशो भवति । तत्र प्राणरोधेन लयगतं मनः पुनः उद्भवति । मृतं न भवति । सकलमनोवृत्तीनां वासनामात्रशेषतया निरोधः एव लयः । मनसो वासनानाशः एव नाशः । सर्ववृत्तिनिरोधरूप-आयामसंप्रज्ञातसमाधौ वासनाया अविनाशेन पुनरपि मनसो व्युत्थानं सम्भवति । अध्यात्मविद्याधिगमेनैव मनोगता वासना विनश्यति । तदानीं मनोमृतं न पुनरुद्भवितुं अर्हति । भर्जितबीजवत् पुनः उद्भवशक्तेः ज्ञानाग्निना दग्धत्वात् । चित्तवृत्तिनिरोधात्मक-योगमार्गस्य अपि साक्षात्कारसाधनत्वं विचारमार्गस्य एव सम्भवति इति वासिष्ठादौ प्रपञ्चितम् - द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव । योगो वृत्तिनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ असाध्यः कस्यचिद्योगः कस्यचित्-तत्त्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमःशिवः ॥ इत्यादिना । एतयोर्द्वयोः प्रथमं प्रपञ्चसत्यत्वादिनो हैरण्यगर्भाद्याः संप्रतिपेदिरे तन्मते चित्तवृत्तिनिरोधः एव चित्तरहितसाक्ष्यात्मसाक्षात्कारं प्रति हेतुः । असंप्रज्ञातसमाधौ सर्ववृत्तिनिरोधरूपायां या चितिशक्तिप्रतिष्ठा सा एव कैवल्यम् । औपनिषदाः तु श्रीभगवत्पादमतानुसारिणः द्वितीयं विचारमार्गं प्रतिपेदिरे । सर्वाधिष्ठानसाक्षिचैतन्यसाक्षात्कारे विचारेण जनिते तादृक्चैतन्य अध्यस्तस्य चित्तस्य सर्वस्य दृश्यस्य प्रपञ्चस्य वा प्रतिभासाभावः साक्षात्कारवशात् अनायासेन एव सिद्ध्यति । साक्षात्कारेण एव चित्तादिदृश्यप्रतिभास-अभावस्य सिद्धत्वेन तेषां चित्तवृत्तिनिरोधरूपयोग-अपेक्षा नास्ति । गुरुशास्त्रमुखात् स्वस्वरूपविचारणेन एव चित्तगताः कामक्रोधादयः दोषाः सर्वेऽपि विनश्यति । अतः तदर्थं अपि तेषां न योगापेक्षा विद्यते । अतः एव तैत्तिरीयोपनिषदि ``तपसा ब्रह्म विजिज्ञासस्व'' इति वरुणेन पुत्रस्य भृगोः पुनः पुनः विचाराख्यं तपः एव ब्रह्मसाक्षात्काराय उपदिष्टं इत्युक्तम् ॥ १३॥ उभयरोधनप्रयुक्तयोः लयविनाशयोः पुनः अनुद्भवहेतुं विशदीकर्तुं आरभते । प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ १४॥ प्राणबन्धनात् इति । प्राणबन्धनात् प्राणनियमात् लीनं लयगतं मानसं एकचिन्तनात् एकवस्तुध्यानात् अदः नाशं एति । नश्यति इत्यर्थः । प्राणनिरोधेन मनसो लयमात्रं भवति न तु विनाशः । स तु एकतत्वचिन्तनात् एव भवति । तथाहि - चित्तं रजस्तमोवशात् प्रतिक्षणं परिणामि द्रव्यम् । ``प्रतिक्षणपरिणामिनो हि भावाः ऋते चितिशक्तेः'' इति न्यायात् । प्रदीपज्वालासन्तानवत् कामसङ्कल्पादि वृत्तिरूपेण निरन्तरं परिणममानस्य चित्तस्य वृत्तिरूपपरिणामत्यागेन निरोधाकारपरिणामः एव मनसो लयः इत्युच्यते । मनसो वृत्तिरूपः परिणामश्च प्राणस्पन्दाधीनः एव भवति । ``प्राणबन्धनं हि सोऽस्य मनः'' इत्यादिश्रुतेः । अतः प्राणस्पन्दनिरोधात् चित्तस्पन्दो निगृहितो भवेत् । किन्तु पुनः प्राणे चलति चित्तं अपि निरोधावस्थां विहाय स्पन्दितुं आरभते । प्राणनिरोधस्य असार्वदिकत्वात् । अतः प्राणनिरोधः मनसो धारणादि-उपरितनभूमिकासु योग्यतासम्पादकः एव भवति । इदं एव प्राणायाम-प्रतिष्ठाफलतया भगवान् पतञ्जलिः अपि ``ततः क्षीयते प्रकाशावरणम्'' । धारणासु च योग्यता मनसः इत्यादिना प्रतिपादयामास । प्राणपरिस्पन्दाधीनचित्तपरिस्पन्दात् एव चितिशक्तेः परिस्पन्दो जायते । तेनैव च संसृतिरनुभूयते । मूलप्रकृतिभागभूतैः सत्वरजस्तमोगुणैः सम्पन्नस्य चित्तस्य संसर्गात् एव चित्तसंसरणम् । स्वतः चित्तः कूटस्थनित्यत्वेन अपरिणामित्वात् । चित्तात् विविक्तं चित्ज्ञानं एव पुरुषार्थः इति साङ्ख्यपाताञ्जलाः अभिमन्वते । चित्तचितिशक्त्योः किल संयोगः एव संसारनिदानम् । तस्य च अविवेकाख्या अविद्या एव हेतुः भवति । सा च तयोः विवेकाख्यात्या निवर्त्यते । तन्निवृतौ तद् हेतुकः सम्योगो अपि निवर्तते । तन्निवृतौ च तद् हेतुकः संसारः अपि निवर्तते । तदुक्तं पञ्चशिखाचार्यैः - ``तत् संयोगहेतुविवर्जनात् स्यात् अयं आत्यन्तिको दुःखप्रतीकारः'' इति । एवं च चेतनस्य अपरिणामित्वात् न साक्षात् बन्धमोक्षौ सम्भवतः । गृहीतचित्प्रतिबिम्बस्य चित्तस्य एव बन्धमोक्षौ । यथा योधेषु वर्तमानौ जयपराजयौ राजनि उपचर्येते, तथा चित्ते वर्तमानौ बन्धमोक्षौ चेतने अतिदिश्येते । चेतनस्य भोगापवर्गौ च साधयितुं प्रकृतिरेव प्रकृत्या प्रवर्तते इति एवं साङ्ख्यानां सिद्धान्तः । तस्मात् चित्ताख्यं त्रिगुणात्मकं प्राणस्पन्दनिरोधात् निगृहीतं अपि वासनावशात् पुनः उद्गच्छेत् । तस्य पुनः अनुद्भवार्थं एकचिन्तनं एव निदानम् । अयं भावः । प्राणायामः दृढाभ्यासेन निरुद्धं चित्तं प्रत्याहार-धारणा-ध्यान-समाधियोग्यं भवेत् । तच्च पञ्चावस्थं भवति । क्षिप्तं मूढं विक्षिप्तं एकाग्रं निरुद्धं चेति । तत्र विषयेषु आसक्तं क्षिप्तम् । कदाचिद् विषयासक्तम्, कदाचिद् ध्यानासक्तं विक्षिप्तम् । निद्रा-तन्द्रादिग्रस्तं मूढम् । एकाग्रं तु एकविषयकधारावाहिकवृत्तिसमर्थम् । निरुद्धं सर्ववृत्ति उपरमावस्थम् । एतेषु विक्षिप्तभूमौ ध्यानं कदाचित् वर्तमानं अपि प्रवातमध्यस्थप्रदीपवत् विनश्येत् । एकाग्रावस्थायां संप्रज्ञातसमाधिसिद्धिः । ध्येयाकारवृत्तिमात्रं अस्यां अवस्थायां प्रतिभासते । तस्या अपि निरोधे असंप्रज्ञातसमाधिसिद्धिः । अस्यां भूमौ आत्मसाक्षात्कार-उदयो भवेत् । एक-चिन्तनं इत्येनेन संप्रज्ञात-असंप्रज्ञातसमाधिद्वयं विवक्षितम् । अतः मनोनाशसाधनं समाधिद्वयं सम्पादनीयं इति भावः । तादृशसमाधिलाभं प्रति एकतत्त्वाभ्यास वैराग्ययोःएव मुख्यहेतुत्वं तैर्थिकाः समानन्ति । एवं प्राणस्पन्न्दनिरोधस्य अपि लम्बिकायोगादिकं साधनं उपदिशन्ति । सर्ववृत्तिनिरोधावस्थायाः असंप्रज्ञातसमाधेः अपि वासनाक्षयार्थं पुनः पुनः अभ्यासः कर्तव्यः । एवं अभ्यासपरिपाकेन एकवस्तुज्ञानं जायते । ततश्व आत्यन्तिक-चित्तनाशः । प्राणबन्धनक्रमोपदेशात् हठनिग्रहो अनभिमतः इति विज्ञायते । मनस्थानस्य हृदयस्य चक्षुरादिगोलकवत् हठेन ग्रहीतुं अशक्यत्वात् । क्रमनिग्रहक्रमश्च वासिष्ठादौ विस्तरशः वर्णितः । ``अध्यात्मविद्याधिगमस्साधुसङ्गम एव च । वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् ॥ एताः ताः युक्तयः पुष्टाः सन्ति चित्तजये किल ॥ '' इत्यादिना । यथा दुर्दान्तः मत्तङ्गजो विनाङ्कुशेन नियन्तुं न शक्यते, तथा दुर्निग्रहं चित्तं सद्गुरूपदिष्ट-सद्युक्तिं विना नियन्तुं न शक्यते । तत्र अध्यात्मतत्त्वसाक्षात्कारः प्रथमः उपायः । यस्तु विद्यादिमदेन साधुसङ्गं न कर्तुं अभिलषति, तस्य प्राणस्पन्दनिरोधः उपायः । प्राणस्पन्दनस्य चित्तस्पन्दं प्रति हेतुत्वं पूर्वमुक्तम् । अतः तन्निरोधे चित्तशान्तिसम्भवात् । तदुक्तं - ``द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ ``चित्तं प्राणपरिस्पन्दमाहुः आगमभूषणाः । तस्मिन्संरोधिते नूनं उपशान्तं भवेन्मनः ॥ '' इति । एतावता प्राणनिरोधार्थं अभ्यासः एव कारणम् । मनोवासनानाशार्थं वैराग्यं इति उक्तं भवति । यथाहि तीव्रवेगोपेतं नदीप्रवाहं मृद्-दार्वादिसेतुबन्धेन निरुध्य कूल्य (belonging to a bank)-अप्रणयनेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरवत् कुरुते तथा वैराग्येण चित्तनद्या-विषयप्रवाहं निरुध्य एकवस्तुचिन्तनेन शान्तेन प्रशान्तवाहिता सम्पाद्यते इति क्रमनिग्रहः सुकरः इति महर्षेः हृदयम् । अमुं आशयं योगसूत्रभाष्ये व्यासाचार्याश्च ``चित्तनदीनाम-उभयतोवाहिनी । वहति कल्याणाय वहति पापाय च'' इति निरूपयामासुः । एकचिन्तनाभ्यासः च सुचिरं उद्वेगं अन्तरानुष्ठेयः । ``जन्मान्तर शताभ्यस्ता राम ! संसारवासना । सा चिराभ्यासयोगेन न विना क्षीयते क्वचित् ॥ '' इति ॥ १४॥ एवं सुचिराभ्यासे सति नष्टं मनो भवति । नष्टे च मनसि वासनाजनकबाह्यनिमित्त-अभावात् वासना अपि क्रमेण क्षीयते । क्षीणायां च वासनायां प्रतिबन्ध-अभावात् आत्मज्ञानं उदेति । ततः कृतकृत्यत्वं भवति इत्याह - नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥ नष्टेति । नष्टं मानसं यस्य सः नष्टमानसः स च असौ उत्कृष्टयोगी च इति । तस्य मनोनाशसम्पादनेन उत्कृष्टस्य योगिनः, मनोनिरोधमात्रं कृतवतो योगिनोऽपरमत्वं अभिहितम् । अतः एव स्वस्थितिं स्वात्मनि स्थितिं यतः प्राप्तस्य कृत्यं कार्यं अस्ति किम् ? नास्ति इत्यर्थः । कृतकृत्यत्वं भवति इति भावः । यद्वा विषयप्रवणं मनः पूर्वोक्त तत्त्वाभ्यासेन प्रत्यक्प्रवणतासम्पादनद्वारा विनाशं प्रापितवतः स्वनिष्ठस्य योगिनः किं कुत्सितं कृत्यं अस्ति इति काकुः ।(change of the voice under different emotions) तादृश योगिश्रेष्ठे विधिनिषेधशास्त्रं न प्रभवति । लोकानुग्रहार्थं कर्म कुर्वन् अन्यथा कुर्वन् वा, स न हीयते इति भावः । ``यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ॥ '' ``आत्मलाभान्नपरं विद्यते''। ``यल्लाभान्नापरो लाभः'' इत्यादि श्रुतिस्मृतेः । मनोनाशं अकृतवतः अयोगिनः अस्वस्थत्वेन स्वास्थ्यलाभाय कृत्यमस्ति एव । अकृतकृत्यत्वात् तस्य । एतेन योगिनः जीवन्मुक्तिप्रापकत्वस्य शास्त्रसम्मतत्वात् ॥ १५॥ एवं योगिनां कृतकृत्यं उपदिश्य तेषां एव तत्त्वसाक्षात्कारप्राप्तिद्वारा निरतिशय-आनन्दरूपदृष्टमहाफलं उपदिशन् योगप्रकरणं उपसंहरति - दृश्यवारितं चित्तमात्मनः । चित्वदर्शनं तत्त्वदर्शनम् ॥ १६॥ दृश्येति । दृश्यवारितं दृश्येभ्यः वारितं परावर्तितं चित्तं एव आत्मनः चित्वदर्शनं भवति । दृश्यसंविलितं चित्तं योगाभ्यासेन दृश्यवियुक्तं यदा भवति तदा तच्चित् भवति । चित्वमेव चित्तस्य यथार्थस्वरूपम् । अतः चित्तसम्बन्धि चैत्यपरिमार्जनं एव चित्त्वदर्शनम् । चित्तं जडं स्वतः अन्यत् साधयितुं न समर्थं भवति । अतः स्वसिद्धये स्वविषयसिद्धये च, स्वसाक्षीभूतं स्वप्रकाशचिद्रूपं वस्तु समालम्बते । ततः च चिद्-अधीनजीवितं चित्तं असद् एव । स्वसाक्षिणं परमात्मानं विस्मृत्य चित्तं दृश्याकारं जीवति । यदि पुनरपि परमात्मस्मृतिं प्राप्नोति तदा चित्तत्वं परित्यज्य चित्तं चित्वं प्राप्नोति । तथा च चित्तात् चैत्यपरित्यागः एव अन्ततः चिन्मात्रता पर्यवसन्ना भवेत् । इदं एव तत्त्वदर्शनम् । चित्तरहितः चित्वदर्शनस्य एव परमार्थत्वात् । तथा च उक्तम्- ``चित्स्वभाव परामृष्टा स्पन्दशक्तिः असन्मयी । कल्पना चित्तिमित्युक्त्या कथ्यते शास्त्रदृष्टिभिः ॥ चित्तमित्येव रूढोऽयं यदैव कलनोदिता । तदैव चित्वं विस्मृत्य सा जडेव व्यवस्थिता । दृश्याऽसम्भवबोधेन मनसो दृश्यमार्जनम् । सपन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः ॥ '' इति । निर्वाणनिर्वृतिः इति अमनस्कस्य योगारूढस्य निरतिशय-आनन्दप्राप्तिः अभिहिता । अर्थमनर्थं अन्यत्र अपि उक्तः । ``समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् । न शक्यते वर्णयितुं गिरा तत् यदेतद्-अन्तःकरणेन गृह्यते ॥ '' इति गीतायां अपि ``प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ '' इत्यादिना । अचित्तत्वं एव मुक्तिः । अतः तदेव आसादनीयं इति भावः ॥ १६॥ एतावता योगाभ्यासमार्गेण मनोनाशः उपदिष्टः । इदानीं विचारमार्गेण तन्नाशं आह - मानसन्तु किं मार्गणे कृते । नैव मानसं मार्ग आर्जवात् ॥ १७॥ मानसमिति । मानसं तु किं ? मनसः स्वरूपं किं इति मार्गणे विमर्शे कृते मानसं नैव विद्यते । तु शब्दः पूर्वोक्तयोगाभ्यासक्रमापेक्षया विचारमार्गस्य व्यतिरेकद्योतनार्थः । तु शब्द सूचितं व्यतिरेकं एव विशदयति-मार्गे इति । मार्गे विचारः मार्गे आर्जवात् ऋजुभावस्य विद्यमानत्वात् इत्यर्थः । सङ्कल्पविकल्पादिवृत्तिमत्त्वं मनसः स्वरूपम् । सर्वशक्तेः मायाशबलस्य आत्मनः समुत्पन्नं भावनामात्रं एतत् भवति । तच्च चिदचित् उभयसंवलनरूपत्वात् न एकतरं रूपः भजति । परमार्थतः तु ``मन्वानो मनः'' इति ``तान्येतानि कर्मनामधेयानि'' इति श्रुतौ आत्मनः कर्मप्रयुक्त-नामधेयेषु मनस्-शब्दपरिगणनात् चेतन आत्मा एव मनो अविद्या-उपाधिवशात् अचेतनतां उपगच्छति । अतो नचित् अपि अचित् न सत् न अपि असत्-मनः इति चिदचिद्विलक्षणं सदसदुभयविलक्षणं च भवति । एवं चलनस्वभावत्वं अपि तस्य औपाधिकं एव । तथा च तच्छैलूषवत् थे लेअदेर् ओफ़् अ बन्द् , ओने व्हो बेअत्स् तिमे) क्रियानिमित्तानि नानानामरूपाणि अहङ्कारचित्तबुद्धिजीवादीनि धत्ते । यथा पचनात् पाचकः इति, पठनात् पाठकः इति, कर्षणात् कृषिकः इति,आधिपत्यात् अधिपतिः इति च विचित्रक्रियाकरणाद् एकः एव नरो नानाशब्दप्रत्ययभाक् भवति तथा मनोऽपि कर्मवशात् तानि नानानामानि धत्ते । वस्तुतः तु मनः एकं एव । मनसः कर्मैवेदं देहेन्द्रियादिकं सर्वं जगत् । तद्भावे भावात् तदभावे च अभावात् । बन्धमोक्षौ अपि मनः आयत्तौ एव । ``मन एव मनुष्याणां कारणं बन्ध मोक्षयोः । '' ``बन्धाय विषयासक्तं मोक्षे निर्विषयं स्मृतम्'' इत्यादि श्रुतेः । अतः मनोनिरोधमात्रेण बाह्याभ्यन्तरकृत्स्नबन्धनिवृत्तिः सिद्ध्यति । तन्निरोध-उपायश्च प्राणस्पन्दनिरोधः प्राक् उक्तः । स च धारण असाधकतया प्राणस्य दीर्घसूक्ष्म-एकाग्रतां जनयति इति समाधेः बहिरङ्गः एव । एकचिन्तनरूप-संप्रज्ञातसमाधिप्राप्तिद्वारा मनोनाश-सम्पादनं अनृजुः क्लिष्टश्च पन्थाः । मनसः स्वरूपं कीदृशं इति मनस्सत्त्वविचारो ऋजुः पन्थाः । मनोभ्रान्तिकृतत्वात् बन्धप्रत्ययस्य तन्निर्णयाय एव प्रयत्नः कार्यः । यस्य बन्धप्रत्ययप्रयोजकता तस्य परित्यागेन एव तन्निवृत्तिः स्यात् । ``सारभे तच्चिकित्सया निदानपरिवर्जनम् । '' इति च आयुर्वेदविदां समयः । न हि रोगनिदानापथ्याशनादिरोगतत्त्वनिर्णय-अभावे तच्चिकित्सायै प्रयत्नः सङ्घटेत । मनः तत्त्वे च विचार्य निर्णीते मनः शशविषाणवद् असत्कल्पं पर्यवस्यति । अतः अविचारद्वैतभावनामात्रसिद्धस्य मनसो विचारजन्यज्ञानमात्रात् लयसिद्धिरिति विचारः कार्यः इति भावः । तथा च उक्तम् - ``जडत्वात्-निस्वरूपत्वात् सर्वदैव मृतं मनः । मिथ्या सङ्कल्पकलितं मिथ्यावस्थितिमागतम् । अन्विष्टमपि नो दृष्टं का तस्य किल शक्तता । अहो नु खलु चित्रेयं मायामय विहायसि'' ॥ इति । अत्र उदाहरन्ति इमं इतिहासम् । आसीत् कश्चन जामातृ प्रियसखः । स च वितते कस्मिंश्चित् विवाहमहोत्सवे जामातुः स्निग्धोहम् (affectionate, friendly, attached) इति वदन् जामात्रा साकं प्रविष्टवान् । ततश्च जामातृसखस्यापि कन्यासम्बन्धिनः अर्हणानि कारयामासुः । जामातरि निरतिशयविश्वासेन प्रियहितं इव भासमानं अमुं प्रति कन्यासम्बन्धिनः वरसम्बन्धिनः वा ``कोऽयम्'' , ``कुतो वाऽगतः'' ``किं एवं भोगान् भुङ्क्ते'' इत्यादिकं न विचारयामासुः । कन्यासम्बन्धिनः जामातृपक्ष्योऽयं कश्चित् स्यात् इति वितर्कयामासुः । वरसम्बन्धिनश्च कन्यापक्ष्योऽयं कदाचित् स्यात् इति निर्णयाम्बभूवुः । अयं च भोगान् भुङ्क्ते । उभयपक्षीयान् अधिक्षिपति । सर्वकार्यनिर्वाहे स्वातन्त्र्यं आवहति । उच्चावचं चेष्टते । एवं बहुतिथे काले विगलिते वितर्कशङ्काकुलाः ते कोऽयं एवं एवं वल्गति इति विचारयितुं आरभन्त । जामातृनिकटं आगत्य ``तवाप्तो वाऽयम्'' इति अपृच्छन् । ``न मम अयं आप्तः किं तु युष्माकं आप्तः स्यात् इति निश्चेयं अहम्'' इति जामाता प्रत्यवदत् । ते च अस्मद् आप्तः बन्धुः वा नायं इति प्रत्यवादिषुः । एवं एतेषां स्वतत्वविचारप्रवृत्ति उन्मुखतां इङ्गितेन अभिज्ञाय ``न इतः परं अत्र अवस्थातुं अस्माभिः न शक्यम्'' इति मनसि मन्वानः तान् अनापृच्य एव यत्रक्वापि जामातृसखः पलायितः इति । अतः जामातृसखवत् मनः अपि अविचारदशायां अधिकरोति । विचार्यमाणे मनः तत्त्वे चिदचिदुभयपक्षेपि असम्भवात् तन्नास्ति एव अलीकवत् इति भावः ॥ १७॥ ननु मनसो अलीकवत् असत्वे प्रतियोगिप्रसिद्धेः अभावात् निषेद्धुं विचारयितुं वा नैव शक्यते इति आशङ्क्य अविचारदशाप्रसिद्धां मनस्थितिं लक्षणप्रमाणाभ्यां उपवर्णयति - वृत्तयस्त्वहं वृत्तिमाश्रिताः । वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥ वृत्तय इति । वृत्तयो मनः इति मनसः लक्षणम् । कामसङ्कल्पादिवृत्तयः अनन्ताः । वृत्तयः सङ्कल्पाः उच्यन्ते । न तद् अतिरिक्तं मनसः तत्त्वं अस्ति । ताः च जडा अपि चित्सम्बन्धात् तप्तायगोलकवत् चेतना उपलक्ष्यन्ते । एताश्च वृत्तयो देहादि-अभिमानाख्यं अहङ्कारं आश्रित्य विजृम्भन्ते । मिथ्याभूतदेहादि-अभिमानेन निमित्तेन प्रथमं उत्थीयमाना वृत्तिः एव अहङ्कारः इति भण्यते । सा च सर्वानर्थहेतुत्वात् भवबन्धिनी । परमार्थः तु जडाजडयोः अज्ञानतत्साक्षिणोः अन्तराळिकं साभासं तत्त्व अन्तःकरणं एकं एव जीव-बुद्धि-मनः-चित्त-अह्ङ्कारादि नानानामभिर्व्यवह्रियते । जीवनात् जीवः इति देहादौ अहं अभिमानात् अहङ्कारः इति निश्चयात् बुद्धिः इति सङ्कल्पात् मनः इति स्मरणात् चित्तं इति च अज्ञानांशेन प्रकृतिः इति च एकं एव तत्त्वं औपाधिकनानासंज्ञाभिः श्रौतानां प्रक्रिया । तत्त्वदर्शिभिः व्यासादिमुनीन्द्रैरपि अन्तःकरणतत्वं एवमेव व्यवस्थापितम् । गौतमादिकृततन्त्रानुसारिणः तु स्वस्वबुद्ध्यनुसारेण अहङ्कारादि अन्तःकरण तत्त्वं अन्यथा अन्यथा व्याचक्षते । तत्र गौतमीयाः अहङ्कारः द्रव्यविशेषः विभुः जीवः । तत्ज्ञानकारणं मनो अणुप्रमाणम् । बुद्धिः तु जीवगुणः । सा च अत्रिक्षणावस्यायिनि इति वर्णयन्ति । सङ्ख्याश्च मूलप्रकृतिकार्यभूता बुद्धिः महतत्वम् । अहङ्कारः च तत्कार्यः तत्त्वान्तरम् । मनः तु एकादश-इन्द्रिय-अन्तर्गतं इति सिद्धान्तयन्ति । जैमिनीयमतानुसारिभिः च कैश्चित् मनो विभुद्रव्यं इति । अन्यैश्च अन्नमयं इति । अहङ्कारश्च जडज्ञानोभयात्मकः । स एव जीवात्मा । तस्य चिदंशो बुद्धिः इति निरूपयन्ति । पाञ्चरात्रं अतीयैः च वासुदेवाख्यात् परमात्मनः सङ्कर्षणाख्यः जीवः सः एव अहङ्कारः तस्मात् प्रद्युम्नाख्यं मनः ततो अनिरूद्धाख्या बुद्धिः च आजायते इति सङ्गिरन्ते । चार्वाकाः च कायस्य चैतन्यगुणो यः सः एव बुद्धिः । कायः एव अहङ्कारः स एव आत्मा । तस्य पूर्वापरपरामर्शः मनः इति वदन्ति । आर्हतैः च मध्यमपरिमाणः चिद्रूपः जीवाः अस्तिकायः एव अहङ्कारः । तस्य विषयाभिलाषः मनः । विषयविज्ञानं च बुद्धिः इति व्यवस्थाप्यते । बौद्धः तु आलयविज्ञानधारा क्षणिकी बुद्धिः । स एव आत्मा । अहङ्कारश्च प्रवृत्तिविज्ञानात्मकः । बुद्धेरेव बाह्यविषयाकारपरिणामः मन इति निश्चीयते । एताः च वादिविकल्पनाः स्वकपोलकल्पिताः प्रमाणमूर्धन्य-उपनिषद्सम्मताः न भवन्ति । अतः एव भगवान् श्रीरमणः प्रामाणिकं औपाधिकं संज्ञाभेदं वृत्तयो मनः इति प्रथमं अङ्गीकृत्य विद्धि अहं मनः इति पश्चात् एकत्वं उपदिशति । अतः अहन्त्वं एकं एव आस्ते । वृत्तयो द्विविधा भवन्ति । अहंवृत्तिः इदंवृत्तिः इति । बुद्धीन्द्रियादि सर्ववृत्तयः इदंवृत्तौ अन्तर्भूताः । इदमाकारवृत्तीनां सर्वासां अहमाकारवृत्ति एव मूलस्कन्धः । प्रथमत्वात् । अज्ञानतादात्मनः चित्तः देहादि-अभिमानी अहङ्कारः एव प्रथमं उदेति । तद् अनन्तरं चित्त बुद्ध्यादि-दृश्यसंवेदनात्मिका इदंवृत्तयः प्रादुर्भवन्ति । उत्तमपुरुष-अभावे न प्रथम मध्यमौ सम्भवतः । अतः अहङ्कार एव सर्वस्य मायामयस्य प्रपञ्चस्य मूलप्रदेशः । अहङ्कारस्य इदंवृत्तिषु अभिमानः एव ममता इति निरुच्यते । विचारेण अहङ्कारत्यागे ममतात्यागः सुलभः भवति । अतः अहं अर्थविचारः कर्तव्यः ॥ १८॥ ननु अमूर्तत्वेन अहङ्कारस्य कथं दाहः वा त्यागः वा सम्पादयितुं शक्यते इति आशङ्कायां अहंवृत्तिमूलस्थान-अन्वेषणाख्यविचारजनितस्वात्मसंवित्-बलेन तद्दाहः अतिसुकरः इत्याह - अहमयं कुतो भवति चिन्वतः । अयि पतत्यहं निजविचारणम् ॥ १९॥ अयमहमिति । अहंवृत्तिरूपोऽहङ्कारः कुतः कस्मात् उद्भवति उद्गच्छति इति चिन्वतः विचारयतः पुंसः अयं अहङ्कारः पतति तद् उत्पत्तिस्थाने विनश्यति । इदं निजविचारणं आत्मविचारः इत्यर्थः । अयि इति विचारसुकरता-द्योतनार्थं शिष्यं प्रति अनुनयोक्तिः । तदुक्तम् - ``राजन् ! स्वात्मविचारोऽयं कोऽहं स्यां इति रूपभृत् । चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः ॥ इति अयं भावः - यथा अहम्भावलक्षणात् कारणात् मन-आदिलक्षणस्संसार-अङ्कुरो जायते तथा अहम्भावस्य अपि कारणं ``किम्'' इति शास्त्रप्रमाणतः विचारणीयम् । ततश्च चिद्रूपः आत्मा एव तत्कारणं इति निश्चीयेत । देहादि-अहङ्कारान्ताः सर्वे अपि अध्यात्मिका अर्थाः च अनृताः अनात्मानः । अतः तेषां स्वतः सेद्धुं अशक्यत्वात् तद्-विलक्षण-आत्म-अध्यासात् सिद्धौ मिथ्यात्वं उपगन्तव्यम् । संविद्रूपः आत्मा मूषानिषिक्त-द्रुतताम्र इव शरीरादि-आकारेण अहं इति प्रतिभासते । शरीरादौ अहन्त्ववेदनं च न वास्तवम् । अमूर्तस्य मूर्तदेहादिसम्बन्धस्य वास्तवत्व असम्भवात् । एवं देहादौ अहं इति तादात्म्य-अभिमानलक्षणस्य अहमः कारणं किं इति विवेकदशा पर्यालोचनीयम् । अन्ततः अहन्त्वं असत्कल्पं विनश्यति । इदंवृत्तिपरित्यागेन अहम्वृत्तेः मूलस्थाने मार्गिते सापि कतकरजोवद् हि नश्यति । देहेन्द्रियादिषु अभिमानाख्य अहङ्कारवृत्तिविनाशे अनहन्ता स्यात् इति इदं एव आत्मविचारणं इति । तथा च वासिष्ठे - ``नाहन्त्वं लभ्यते राम ! बुद्ध्या सम्यङ् निएरीक्षताम् । असदेव कुतोप्येतत्-बाह्यलक्ष इवोदितम् ॥ '' ``कोहं कथमिदं चेति विचारेणैव नश्यति । नाहमित्येव निर्वाणं किमेतावति मूढता ॥ '' इति । ``कोहं कथमिदं दृश्यं को जीवः किं च जीवनम् । '' जीवितं भुवनं वापि ततोऽहमिति नश्यति ॥ '' इति च । ``यदा यदा देहादौ अहम्भावोदयः स्यात् तत्समकालं एव तत्र तत्र अनहन्त्वबुद्धिः उत्पादनीया । एवं पुनः पुनः सावधानं उपस्थापितेन अनहम्भावभावनेन अहम्भावविनाशः कर्तव्यः इति भावः ॥ एवं अहमः मूलास्थान-अन्वेषणेन अहन्ताविनाशकथनेन जगन्नाशः अपि सूचितः । अहन्तामूलत्वात् जगतः । पूर्वं समाधि-अभ्यासेन मनोनाशः ``नष्टमानसोत्कृष्टयोगिनः'' इति अत्र कथितः इति भेदः ॥ १९॥ ननु लोके अहङ्कारस्य आत्मतया प्रसिद्धत्वात् तन्नाशे स्वात्मनाशापत्या नैरात्म्यापत्तिः स्याद् इति शङ्कायां आह - अहमि नाशभाज्यहमहन्तया । स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥ अहमिति । अहमि अहङ्कारे नाशभाजि सति कोऽहं कुतोऽहं इति विचारजनितसाक्ष्यहङ्कारविवेकविज्ञानेन समूलकाषं कषिते सति हृत् सर्वोपसंहाराधिष्ठानं परमपूर्णसत् निरतिशयबृहत्वरूपं सद्वस्तु अहम् - अहं तया विनष्ट-अहङ्कारात् विलक्षण अहन्तया स्वयं प्रयत्नं विना स्वयं एव स्फुरति प्रकाशते । तथा च आत्मनो नाशः सम्भवति । अहेयस्वभावत्वात् । साक्ष्यात्माभिन्नस्य परिच्छिन्नस्य देहमात्र-अहम्भावस्य विनाशे अपि तादृग् अहम्भावनाशोपलक्षितं पराहम्भावरूपं परमार्थ सच्चिद्रूपं वस्तु न नश्यति इति भावः । अत्र अहङ्कारत्रयं भगवता उपदिष्टम् । तस्य अयं आशयः । देहपरिच्छिन्नः अहङ्कारः नाशप्रतियोगितया निर्दिष्टः प्रथमः । देहादिपरिच्छेदविहीनः सर्वपदार्थविकारात्मना भासमानो अहङ्कारो द्वितीयः । अवस्थात्रयादि सर्वपदार्थसारभूतः सर्वकारणीभूतः सर्वदा एव हृदि संस्थितः अखण्डाद्वयसन्मात्रस्वरूपः तृतीयः अहङ्कारः । अहन्तया इति उपलक्षणे तृतीया । तथा च अयं अर्थः सम्पद्यते । अहङ्कारद्वयं अपि विनाश्य सर्व-अहङ्कारनाश-अवधिभूततया परिशिष्यमाणं निरहम्भावं पूर्णसन्मात्रं स्फुरति इति । न केवलं ; तादृक्सन्मात्रस्फुरणं धर्माधर्मादिवद् अलौकिकं किन्तु सर्वप्रत्यक्षानुभवसिद्धं एव इति वक्तुं स्फुरति इति स्वानुभवसिद्धिः उक्ता । सर्वदृश्यसमष्ट्यभिमन्तारं देहेन्द्रियादि-व्यष्टि-अभिमानिनं अहङ्कारं च स्वात्मविचारजन्यबोधेन निर्मूलनं कृत्वा परिशिष्टचिन्मात्रस्थितिः एव श्रेयस्करी इति भावः ॥ २०॥ अहन्तानाश-उपलक्षितचैतन्यस्य व्यपदेश्यतां अहम्पदलक्ष्यत्वबोधनद्वारा विशदयन् पूर्वसूचितं अहङ्कारत्रयं अपि स्पष्टयति - इदमहं पदाभिख्यमन्वहम् । अहमि लीनकेऽप्यलयसत्तया ॥ २१॥ इदमिति । अहमि देहाभिमानात्मकाहङ्कारे लीनके अपि विनष्टे अपि अन्वहं समष्ट्यहङ्कारात् अनु अनन्तरं अलयसत्तया अविनश्वरसद्रूपतया अहम्पदाभिख्यं अहम्पदलक्ष्यार्थं इदम् (प्रकृतम्) स्वप्रकाशापरोक्ष-चिन्मात्रं वस्तु स्फुरति । विचारजन्यज्ञानेन देहादिपरिच्छिन्नाहङ्काराध्यासस्य यो विनाशः प्राक् उक्तः स एव ``अहमिलीनकेऽपि'' इत्यनेन वर्णितः । समष्ट्यहङ्कारश्च हिरण्यगर्भः इत्युच्यते । व्यष्ट्यहङ्कारस्य कल्पितत्वेन विनाश्यत्वं इव समष्ट्यहङ्कारात्मनो हिरण्यगर्भस्य अपि कल्पितत्वमेव । समष्ट्यहङ्कारभावं आपन्नस्य परमेष्ठित्वम् । इदं अपरब्रह्मरूपं इति सिद्धान्तः । परमार्थदृष्टौ तु न परमेष्ठी जीवः जगद्वा किञ्चित् अस्ति । ब्रह्मैव सद्रूपं पूर्णं अवशिष्यते । तच्च देशकालवस्तुपरिच्छेदशून्यमिति द्योतयितुं एव पूर्वं परमपूर्णसत् इति पूर्णात्वांशे परमत्वविशेषणं दत्तम् । अत्रापि अन्वहं इति सर्वात्मक-अहङ्कारस्य अपि हेयत्वं एव उक्तम् । तस्य सप्रपञ्चत्वात् । व्यष्टिसमष्ट्यादिसर्वप्रपञ्च-अतीतः यो अहङ्कारः स एव उपादेयः । सत्तया सर्वदा स्फुरणात् । अतः एव सुषुप्तौ व्यष्टिसमष्यहङ्कारद्वयविनाशे सत्यपि सद्रूप-आत्मानुभवश्च सर्वलोकप्रतीतः । तदानीं आत्मनाशस्य न केनापि अभ्युपगन्तुं शक्यत्वात् । ``अविनाशी वा अरे अयं आत्माऽनुछित्तिधर्मा'' इत्यादि श्रुतेः । सुषुप्तौ विशेषविज्ञान-अभावे अपि निर्विशेषस्वरूपचितः नासत्वम् । अहम्पदाभिख्यत्वं अव्यपदेश्यस्य आत्मनः काल्पनिकं एव । इदन्त्वव्यावृत्तिरूपं प्रवृत्तिनिमित्तं च पुरस्कृत्य एव सद्ब्रह्मादिशब्दाभिधेयत्वं अपि । न वस्तुवृत्तेन । अतः अहन्तानाशे न केनापि शब्देन तत्कालस्फुरितं वस्तु व्यपदेष्टुं शक्यते । महासमुद्रे विलीनस्य सैन्धवस्य इव व्यपदेश्यत्वं एव तदा भवति । एतेन सर्वविध-अहन्तावधिकद्वैतप्रपञ्चोपशमोलक्षितब्रह्मभावेन अवस्थानं विचारजनितत्वज्ञानं अन्तरा न सम्भवति इति भावः ॥ २१॥ अहमयं कुतो भवति चिन्वतः इति अहमो मूलस्थानान्वेषणं उक्तम् । तद् अन्वेषणप्रकारं उपदिशति - विग्रहेन्द्रिय प्राणधीतमः । नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥ विग्रहेति । विग्रहः पाञ्चभौतिकं स्थूलशरीरं इन्द्रियाणि ज्ञानेन्द्रियकर्मेन्द्रियाणि दश मिलितानि प्रत्येकं वा प्राणः जीवनहेतवो दश वायवः धीः मनः चित्तं अहङ्कारः इति अन्तःकरणं धीपदेन ग्राह्यम् । तमः अव्याकृतमाया अव्यक्त-अज्ञानादिपदाभिधेयं वस्तु च, नाहं अहम्पदाभिख्यः पूर्वोक्तः चिदात्मा न भवति । तत्र हेतुः- जडं इति । अन्याधीनप्रकाशत्वं एव जडत्वम् । तथा च देहादि अव्यक्तान्ता अनात्मानः जडत्वात् अनुमानं एकं प्रमाणं उक्तं भवति । न च जडत्व असिद्धिः । देहादिजाड्यस्य प्रकृतिसिद्धत्वेन अपह्नोतुं अशक्यत्वात् । अतः स्वरूपसिद्धये स्वसाक्षिभूतंस्वप्रकाशचिद्रूपं तत्त्वं अपेक्षते इति अन्याधीनप्रकाशत्वं अव्याहृतं देहादेः । अतः नाहम्पदलक्ष्यार्थाः ते भवन्ति । ननु विग्रहेन्द्रियादयः प्रकाशमानाः सन्तः प्रत्यक्षतः अनुभूयन्त । नैयायिकप्रभृतयः दर्शनकृतश्च प्रकाशमानतया सदात्मत्वं तेषां अभिमन्यन्ते । अतः कथं अप्रकाशमानत्वेन तेषां अनात्मत्वं व्यवस्थापयितुं शक्यते इति चेत् । न । चित्यचिदात्मसन्निधानाभावे विग्रहादीनां प्रकाशमानता अस्म्भवात् । सुषुप्तौ विग्रहादिप्रकाश-अभावेन आत्माभावप्रसङ्गाच्च । न च इष्टापत्तिः । कृतहानाकृताभ्यागम प्रसङ्गात् । अतः सुषुप्तेः प्राक्कालीन आत्मा एव पश्चाद् अपि अनुस्यूततया वर्तते इति उपेयम् । भिन्नत्वे च प्रत्यभिज्ञा अनुपपत्यादयः दोषाः परस्सहस्रं सम्भवेयुः । नैयायिकप्रभृतयः तु नित्यसाक्षिप्रकाशं आत्मानं अजानाना एव परप्रकाश्यस्य अनित्यविज्ञानस्य देहेन्द्रियादि अन्यतमस्य आत्मत्वं मन्यन्ते । अतः ते भ्रान्ताः एव । ननु देहेन्द्रियादिषु सत्वं भासते । अतः सत्तावत्वात् ते कथं अनात्मानः इति शङ्कायां तेषां सत्वम अपि चिदात्मसत्ताधीनं एव इति चिद्विभिन्नत्वं इव सद्भिन्नत्वं व्यवस्थापयितुं अनुमानान्तरं आह - एकसद् इति । देहेन्द्रियादयः न एकसत् इति पृथक् अन्वयो बोध्यः । एकं अखण्डं सत् सत्तासामान्यं इत्यर्थः । तथा च देहादयः न अखण्डसन्मात्र आत्मरूपा भवितुं अर्हन्ति । कुतः इति आकाङ्क्षायां हि असत् इति हि यस्मात् देहेन्द्रियादिकं सद्भिन्नम् तस्मात् इत्यर्थः । तथा अयं अर्थः सम्पन्नो भवति । देहेन्द्रियादयः आत्मानः सद्भिन्नत्वात् । न खलु प्रकाशमान्त्वमात्रं देहेन्द्रियादेः सत्वं अवगमयति; रज्जुसर्पमरीच्युदकादीनां अपि प्रकाशमानत्वेन सत्त्वापत्तेः । न च रज्जुसर्पादीनां आरोपितत्वेन प्रकाशमानत्वे अपि न सत्त्वम् अङ्गीकर्तुं शक्यते । देहेन्द्रियादीनां अनारोपितत्वात् प्रकाशमानत्वप्रयुक्तं सत्वं अवश्यं अङ्गीकार्यं इति वाच्यम् । देहेन्द्रियादीनां अपि चिदात्मनि अध्यासेन रज्जुसर्पादिवद् आरोपितत्वात् । देहेन्द्रियादीनाम् अत्यन्त-असत्वे प्रकाशमानत्व अयोगः । तेषां आत्यन्तिकसत्त्वे च अप्रकाशमानत्व अयोगः । तथा च बाध्यमानत्व अयोगः स्यात् इति न सत्वं नापि सदसत्वं परस्परविरोधात् इति अनिर्वाच्यत्वं एव विमृश्यमाने सिद्ध्यति । चिदात्मा एव परमार्थसद्रूपः । सत्वेनैव निर्वाच्यः सः । अबाधितस्वयम्प्रकाशता एव सत्ता भवति । सा च स्वरूपं एव आत्मनः । न तु तद् अतिरिक्ता भवति । सत्तासामान्य-अर्थक्रियाकारित्वादिकं नैय्यायिकादिभिः अभ्युपगम्यमानं सर्वं आत्मसत्ताधीनसत्ताकत्वात् अलक्षणं एव । न एकसत् इति अनेन एकसत्तावादं अनुस्मारयति भगवान् । तज्जडं ह्यसत् इति अनेन देहेन्द्रियादिप्रपञ्चस्य अत्यन्त असत्वपक्षं अपि संसूचयति । व्यावहारिकदृष्ट्या भ्रान्तिप्राप्त-अहम्पदाभिधेयत्वं देहेन्द्रियादीनां निषिध्यते । तेषु अहन्त्वभ्रमनिवृत्तिं विना अहमः मूलान्वेषणस्य अशक्यसम्पादत्वात् । चार्वाकादयः हि वादिनः विग्रहादीनां एव अहम्प्रत्ययगम्यत्वं उररीकुर्वन्ति । तदपि अनुचितं इति निरूपणीयम् । कोऽहं कुतोऽहं इति विचारः संशयपूर्वकः एव । स च वादिविप्रतिपत्ति-अधीन इति तत् अभिमतपक्षाणां असाधुत्वनिरूपणं अपि प्रस्तुत-उपष्टम्भकतया जिज्ञासु-उपयोगितया च भगवता कृतम् । न पुनः परमतनिषेधव्यासिनतया इति बोध्यम् । किञ्च अज्ञानाद् अनादिकालात् आरभ्य भ्रान्त्या प्रसक्तमनात्मदेहादौ आत्मभ्रमं अध्यारोपापवाद-न्यायं आश्रित्य अपवदितुं विग्रहादि अनात्मत्वं भगवान् व्यवस्थापयति । व्यवहारदृष्ट्याध्यारोपः परमार्थदृष्ट्या अपवादः । उपदेशादिव्यवहारार्थं एव व्यवहारपरमार्थदृष्टिसम्मेळनं अपि अङ्गीक्रियते । एतत् दृष्टिपरिकल्पनमूलकं एव सत्तत्रैविध्य कल्पनं अपि । घटादयो व्यावहारिकाः । रज्जुसर्पादयः प्रातिभासिकाः । वन्ध्यापुत्रः शशश‍ृङ्गादयः तु अत्यन्त असन्तः इति चैवं अवान्तरवैलक्षण्यकल्पनं अपि अज्ञबोधनार्थं एव । परमार्थतः तु देहादयः वा रज्जुसर्पादयः वा शशविषाणादयः व सर्वेऽपि विकल्पनामात्रतयाऽत्यन्त असन्तः एव । अतः एवाविग्रहादीनां अत्यन्त असत्वं वैज्ञानिकदृष्ट्या भगवता ``तज्जडंह्यसत् इति'' प्रतिश्रुतम् । तत्त्वविदो भगवतः श्रीरमणस्य तत्त्वदृष्ट्या देहेन्द्रियादिकं जगदखिलं आत्मरूपं एव इति शशश‍ृंङ्गसमानं असद् एव भवति । एवं असतः जगतः आत्मसत्तया सत्वकल्पने च प्रातिभासिकव्यावहारिकादिषु वस्तुषु त्रिषु अपि समानत्वेन सत्तात्रैविध्यकल्पनायाः न अवकाशः एव । अखण्डसद्रूपात्मदर्शने जाते देहेन्द्रियादेः जगतः जगत्वमेव विनश्यति । तत्सर्वं आत्मनि तिरोभवति । तन्मात्रं च तत्त्वतो न भिद्यते । इदं एव अभिप्रेत्य ``स्फुरति हृत्स्वयं परमपूर्णसत्'' इति देहेन्द्रियादिभेदप्रतिभासशून्यं आत्मज्ञानं विचारफलतया प्राग् अभिहितम् । एवं च विग्रहादिकार्यकरणसङ्घाते नाऽहं नाऽहं इति विचारेण निषिद्धे मिथ्या-अहङ्कारबाधेन परिशिष्ट-अखण्डसद्रूप अहं स्वरूपबोधः पर्यवस्यति इति भावः । विग्रहेन्द्रियप्राणधीतमः इति नपुंसक -एकवद्भावः ॥ २२॥ परमपूर्णसत् अलयसत्तया एकसत् इति निरहम्भाक्कालीनस्य अहमः तस्य च स्फुरति इति स्फुरणक्रियाश्रयत्वं अपि आवेदितम् । अतः भवति सन्देहः सत्वभासकं स्फुरणान्तरं अस्ति न वा इति । अस्ति चेद् जडत्वप्रसङ्गः, नास्ति चेत् असत्व आपत्तिः इति इमं संशयं परिहर्तुं सच्चितोः अभेदं आह - सत्वभासिका चित्क्ववेतरा । सत्तया हि चित् चित्तयाह्यहम् ॥ २३॥ सत्वभासिकेति । आत्मसत्वस्य भासिका प्रकाशप्रयोजिका इतरा अन्या चित्क्व अस्ति । न कुत्रापि अस्ति इत्यर्थः । सत्त्वभासकचित् अन्तरं नास्ति इति यावत् । कुत इति अपेक्षायां आह - सत्तया इति । हि यतः सत्तया सत्वेन एव चिद्भवति । चित्तया एव हि अहं सद्भवति । सच्चितोः अभेदात् इति भावः । सत्वभासकचिद्-अन्तरं अस्ति चेद् तादृक् चिद् अन्तरसत्वभासकचित् अन्तरं अङ्गीकर्तव्यम् । एवमेव तस्य तस्य अपि स्यात् इति अनवस्था दुर्वारा । अतः सद् एव चिद् चिद् एव सत् इति स्वीकार्यम् । तथा च सत्वं स्वयम्प्रकाशमानत्वं एव । आत्मनः सर्वविशेषरहितत्वात् सत्ता सामान्यरूपत्वं एव, नतु सत्ताश्रयत्वम् । एवं चित्वं अपि सवितृप्रकाशवद् आत्मस्वरूप-अव्यरिक्तं एव, न तु ज्ञानक्रियाश्रयत्वम् । ज्ञातृत्वं तु आत्मनः बुद्ध्यादि-औपाधिकं एव । एवं च न अनवस्थादिदोषप्रसङ्गः । आत्मनः सच्चिदंशयोः एव देहादिप्रपञ्चेषु भानं न स्वतः तेषु सत्वभाने सिद्ध्यतः । जडत्वात् अनिर्वचनीयत्वात् असत्वात् च । ``असद्वा इदमग्र आसीत्'' नैवेह किञ्चन अग्रे आसीत् इत्यादिश्रुत्या प्रत्यक्षादि अनुभवेन च देहेन्द्रियगगन-पवनादिप्रपञ्चस्य आद्यन्तयोः असत्वं अवगम्यते । मध्यकाले तेषां सत्वं प्रतीयते । आद्यन्तयोः असद्भूतानां वर्तमानदशामात्रे सत्वेन प्रतिभासमानानां देहेन्द्रियादीनां कदाचिद् असत्वं कदाचित् सत्वं इति सदसद् उभयरूपत्वं वक्तुं न शक्यते । सत्व-असत्वयोः अन्योन्य-प्रतिद्वन्द्विरूपत्वेन अन्यतरनाशं अन्तरा निवेशन (bringing to rest, fixing) असम्भवात् । एवं च अवश्यं अन्यतरप्रणाशे स्वीकर्तव्ये वर्तमानदशाप्रतीतस्य सत्वस्य एव प्रणाशः अभ्युपेयः । तथा च त्रिषु अपि कालेषु असत्वं एव देहेन्द्रियादिप्रपञ्चस्य सिद्ध्यति । न च आद्यन्तयोः प्रतीतस्य असत्वस्य एव प्रहाणं भवतु । एवं चेत् प्रपञ्चस्य कालत्रयेपि सत्वं एव सिद्ध्येत् इति वाच्यम् । आद्यन्तयोः चिरतरं असत्वप्रतीतेः । अतः अचीरप्रतीतमध्यकालसत्वस्य एव प्रहाणं श्रुतियुक्ति-अनुभवसिद्धं इति दृश्यप्रपञ्चस्य असत्वं सिद्धम् । ``आदावन्ते च यन्नास्ति वर्तमाने अपि तत्तथा'' इत्यादि वचनात् च । एवं च प्रपञ्च-असत्ववादिनां केषाञ्चिद् आचार्याणां पक्षः । सत्वादिनां अखण्डसन्मात्रं सर्वत्र प्रपञ्चे दृश्यते इति पक्षः । सोऽपि उपपन्नः एव । ``सदैव सोम्य इदमग्र आसीत्'' इत्यादिश्रुतिभिः आद्यन्तयोः सद्रूपत्वं प्रपञ्चस्य प्रतिपादितम् । स्थितिकाले च प्रमाणप्रवृतौ सत्यां सर्वं सत् इति एव प्रतीयते इति अनुभवसिद्धम् । ``असद्वा इदमग्र आसीत्'' इत्यादिश्रुतियुक्त्योः च अनभिव्यक्तसत्ताकत्वप्रतिपादकतया चरितार्थत्वेन सत्वश्रुतियुक्त्योः अन्यथा उपपादन-असम्भवात् सदातनी-सार्वत्रकी सर्ववस्तुसत्ता लाघवात् एक एव इति युक्ता । एवं सत्ता-एक्ये सिद्धे आदावन्ते च कारणब्रह्मरूपसत्तया एव प्रपञ्चस्य सत्वं न तु तत् अतिरिक्तसत्ताकत्वम् । अखण्डसत्त सर्वत्र दृश्यते इत्ययं सत्ववादिनां अभिमतः पक्षः । पक्षद्वय अपि क्षोदक्षमं एव । परन्तु देशकालपरिच्छिन्न-अनन्तसत्ता समवायार्थक्रियाकारित्वादिकल्पनं पक्षद्वयबहिर्भूतं सर्वश्रुतियुक्तिविरुद्धं अनुचितं एव । प्रपञ्चस्य सदसत्वपक्षद्वयं सप्रयोजनं एव । आत्मत्वेन् कल्पितेषु देहादिषु असत्वबुद्ध्या आत्मत्वनिरासद्वारा ऐकात्म्यदर्शने प्रपञ्चासत्ववादः उपयुज्यते । एवं सत्ववादोऽपि । कथं इति चेत् असद्वात् अस्य अन्यार्थत्वेन प्रपञ्चस्य नासत्वं मन्तव्यम् । किन्तु सर्वं सद् एव । प्रपञ्चस्य असत्वस्थापनार्थं सत्वप्रसिद्धिः वक्तव्या भवति । प्रपञ्चे सत्वप्रसिद्धौ तद्विरोधित्वात् असत्वं न सिद्ध्यति । तत्र सत्व-अप्रसिद्धौ च प्रतियोगिप्रसिद्धि-अभावेन तत्प्रतिरोधक असत्वम् सुतरां न सिद्ध्यति । एवं सर्वत्र सत्तया प्रतिरुद्धं असत्वं निरास्पदं भवेत् इति अखण्ड-सन्मात्र-आत्मवस्तुपरिशेषे सिद्धे देहादिप्रपञ्चाकारस्य पृथक् अप्रतिभासमानत्वेन सच्चिन्मात्रं अखण्डं वस्तु एव अहं इति साक्षात्कारात् स्वात्मप्रतिष्ठासिद्धिः प्रयोजनम् । अतः अखण्डसच्चिद्रूपत्वं आत्मनः एव न अन्यस्य इति सिद्धम् । एवं आनन्दत्वं अपि । न आनन्दवत्वं आत्मनः । ``विज्ञानं आनन्दं स्यात्'' यो वै भूमा तत् सुखम्'' ``एष परम आनन्दः सत्यं ज्ञानं अनन्तं ब्रह्म'' इत्यादि श्रुतिभ्यः । तान्त्रिकाः तु आत्मनः धर्मत्वेन सच्चिदानन्दान् कथयन्ति । आत्मा सत्वधर्मको वा सद्रूपो वा इत्यादिविवादात् प्राक् तादृक् विवादास्पदीभूतं जडविलक्षणं अनृतभिन्नं स्वतस्सिद्धं किञ्चित् तत्त्वं वादिभिः सर्वैः अपि अङ्गीकार्यं अकामेन अपि । अन्यथा स्थिरस्य कस्यचित् विवादकर्तुः अभावे धर्मत्वादिसर्वविवादलोपप्रसङ्गः । अतः विवादकर्तृत्वेन विवादाभिज्ञत्वेन विवादकृतजयपराजयरूप फलभागत्वेन च स्थिरः कश्चित् अभ्युपेयः । स च न केनापि निराकर्तुं शक्यते । निरालम्बनविवादासम्भवात् । स च सच्चिदानन्दरूपः इति अनुभवसिद्धत्वेन न कारणान्तरं मार्गणीयम् । इदं अनुभवसिद्धत्वमेव ``चित्तया हि अहं इति'' भगवान् आह । सच्चिद्रूपः आत्मा स्थिरः कश्चित् सर्वैः वादिभिः अङ्गीकार्यः इति तदर्थः । अयं विशेषार्थः यदि न अभविष्यत् तर्हि ``चित्तया हि सत्'' इति एव प्रयोगः अभविष्यत् । ``सत्वभासिका चित्क्ववेतरा'' इति सत्वस्य चित् अन्तरभास्यत्वप्रतिक्षेपे सत्वाभिन्नचिद्भास्यत्वशङ्कायां तद् अपोदनार्थं सत्तया हि चित् चित्तया ह्यहं इत्याह । अयं भावः चित्स्वरूपलाभः सत्वेन एव । तच्च सत्वं चित्स्वरूपमेव सेत्स्यति । सत्वस्य चिद्भिन्नत्वे चितः असत्वप्रसङ्गात् । न च इष्टापत्तिः । चिद् अस्ति इति व्यवहारविलोपापत्तेः । एवं सतः स्वरूपलाभश्च चित्तैव । तच्च सत्वं चिदभिन्नम् । चिद्भिन्नत्वे सति सत्स्वरूप-अलाभप्रसङ्गात् । न च सदंशेन चित् चिदंशेन सत् च परस्परभास्यभासकतां प्राप्नोति इति वाच्यम् । आत्मनः निरंशत्वेन तत्रांशभेदकल्पना अनुपपत्तेः । कथं तर्हि निर्विशेषस्य निरवयवस्य अतिसूक्ष्मत्वेन अतीन्द्रियस्य आत्मनः सच्चिद्रूपत्वसिद्धिः । सच्चितोः अभेदेन एव स्वयम्प्रकाशमानताख्यसत्वस्य प्राक् उक्तरीत्या सिद्धेः । ननु निर्धर्मके आत्मनि कथं स्वयम्-प्रकाशमानतारूपसत्वाश्रयत्वं सम्भवति । निर्धर्मकत्वभङ्गापत्तेः इति चेत् । न । सद्रूपत्व उक्त्या एव प्रत्युक्तत्वात् । ननु कथं सच्चिदादिशब्दप्रत्ययविषयत्वं नामजातिक्रियागुणविहीनस्य निर्विशेषस्य आत्मनः । सर्वे च शब्दाः नामजात्यादिसम्बन्धसापेक्षं एव अर्थं बोधयन्ति इति नियमः । अतः न चिदादिशब्दप्रत्ययविषयत्वं आत्मनः सिद्ध्यति । ``यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । अनिरुक्ते अनिलयने इति च'' श्रुतयः अवाच्यत्वं आत्मनः आमनन्ति । अव्यपदेश्यस्य च आत्मनः अव्यपदेश्यता कथं इति चेत् अतद्व्यावृत्या इति गृहाण । जातिगुणक्रियाकुलगोत्रसूत्रविहीनत्वात् अद्वयत्वात् अविषयत्वात् आत्मत्वात् च केनापि इदन्तया विधिमुखेन व्यपदेशः सम्भवति । अतः सत् इति अस्य असत् न इत्यर्थः । चिद् इति अस्य अचित् न इत्यर्थः । आनन्दं इति अस्य आनन्दं न इत्यर्थः सिद्ध्यति । एवं च अनृतजडदुःखात्मकप्रपञ्चव्यावर्तकत्वं आयाति । प्रपञ्चस्य अनृतत्वं प्राक् स्थापितम् । ``वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्'' इत्यादिश्रुतिभ्यश्च तत्सिद्धम् । लोकप्रसिद्ध-अनित्यज्ञप्तिरूपत्वप्रतिषेधेन अपि चित्वं उच्यते । नित्यज्ञप्तिरूपं ब्रह्म इत्यर्थः पर्यवस्यति । ``न हि विज्ञातुः विज्ञातेः विपरिलोपः विद्यते अविनाशित्वात्'' इत्यादिश्रुत्या विज्ञातृस्वरूपव्यतिरिक्तनित्यज्ञप्तिसिद्धेः । तथा च अनृतजडदुःखव्यावृत्या सद् आदिशब्दाः आत्मानं बोधयन्ति इति आकरे विस्तारः ॥ २३॥ एवं ``मानसं तु किम्'' इति आरभ्य जीवात्मपरिशोधनं कृतम् । तेन च अयं अर्थः परिनिष्पन्नः । प्रत्यक्षानुमान-उपमानशब्द-अर्थापत्यादिमान-अगम्यत्वात् ज्ञातुः स्वरूपत्वेन नास्ति इति अपलपितुं अशक्यत्वात् च परिशेषतः देहेन्द्रिय-अन्तःकरणादिप्रत्याख्यानप्रकारेण स्वयं अन्विष्य तत्साक्षितया अविषयीभूतस्वयम्प्रकाश-सच्चिदानन्दरूपः आत्मा ज्ञेयः इति । एवं जीवात्मपरिशोधनं कृत्वा तस्य परमात्माभिन्नत्वं कथयितुं परमात्मपरिशोधनं आह - ईशजीवयोर्विषधीभिदा । सत्स्वभावतो वस्तु केवलम् ॥ २४॥ ईशेति । ईशजीवयोः ईशः सर्वज्ञं सर्वशक्तं मायाशबलं सर्वनियामकं चैतन्यम् । जीवः किञ्चिज्ञं किञ्चित्छक्तं देहेन्द्रियान्तःकरणादि-उपाधि-अवच्छिन्नं तत्प्रतिबिम्बितं वा चैतन्यम् । तयोः ईशजीवयोः वेषधीभिधा वेषः उपाधिः तस्य धीः भ्रान्तिप्रत्ययः तेन भिदा भेदः भवति इति शेषः । उपाधिभ्रान्तपरित्यागे विचारेण ईशजीवयोः सत्स्वभावतः सद्रूपत्व-अविशेषणात् तेनरूपेण वस्तु केवलं अखण्डं एकं वस्तु शिष्यते । जीवेश्वरभेदक-उपाधिभ्रम-अपगमे जीवत्वं ईश्वरत्वं उभयं अपगच्छति । अखण्ड-सच्चिद्रूपं अव्यपदेश्यं तत्त्वं एकं एव शिष्यते इत्यर्थः । भगवता श्रीरमणेन जीवेश्वरजगतां त्रयाणां अपि अत्र मिथ्यात्वं उपदिष्टं इति विस्पष्टं अधिगम्यते । अन्यथा वेषकल्पना-प्रयुक्तभेदं जीवेश्वरयोः न उच्येत । सत्स्वभावतः इति च । अतः विज्ञायते तेषां त्रयाणां मिथ्यात्वं तद् अभिमतं इति । अखिलवेदान्तानां अखण्डैकार्थं इष्टत्वं च भगवता सूचितम् । वस्तुकेवलं इति उपदेशात् । वस्तुनः केवलत्वं च जीवेश्वरत्व-उपलक्षित-अखण्डव्यक्तिमात्ररूपत्वं एव । न हि जीवेश्वरयोः अभेदः नाम कश्चन संसर्गरूपः स्वीक्रियते । अपितु जीवत्व-उपाधेः ईश्वरत्व-उपाधेश्च विचारजनितविज्ञानेन विनाशे अखण्डैकसच्चिन्मात्र-व्यक्तिपर्यवसायित्वं एव । ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' इत्यादि श्रुतेः । अतः सद्वस्तु-आश्रयविषयाद् अनादि-अज्ञानात् एव जीवेश्वरजगद्विभ्रमो जायते इति तेषां सत्स्वभावत्वनिर्धारणार्थं अवश्यं अभ्युपेयम् । किञ्च ईशजीवयोः वेषधीकृतो भेदः प्रत्यक्षादिप्रमाणसिद्धः । उभयानुगतं सत्स्वभावत्व-उपलक्षित-अखण्डव्यक्तिमात्रत्वं तु श्रुतिविद्वद्-अनुभवमात्रगम्यम् । एवं च प्रत्यक्षादिना विरुद्धस्वभावत्वेन अवगम्यमानयोः जीवेश्वरयोः एकव्यक्तिमात्रत्वं यावत् प्रत्यक्षादीनां अप्रामाण्यं न व्यवस्थाप्यते तावत् दुर्घटम् । चन्द्रप्रादेशिकत्वादिस्थले प्रत्यक्षादीनां यथाभूतार्थौ-आवेदकत्व(Making known)-अभावेन तद्-रीत्या सर्वत्र तेषां अनाश्वासप्रतिपादनद्वारा अप्रामाण्यं अपि पूर्वाचार्यसम्मतं श्रीरमणभगवद्-अनुमतं इति च विशदम् ॥ २४॥ एवं वेषभ्रान्तिप्रत्ययम्-अन्तरा जीवेश्वरयोः भेद-अनुपलम्भात् उपाधिभूतवेषाणां स्वातन्त्र्येण सत्तायां प्रमाण-अभावात् आविद्यकत्वे सिद्धे परिपूर्ण-सच्चिदात्मा जीवः इति अवधृतं भवति । एवं ईशोऽपि इति । देहेन्द्रियादि-अपोहमुखेन तत्साक्षितया तद्-अधिष्ठानतया च निरुपाधिकं ब्रह्मैवाहं इति निखिलवेदान्त-मूर्धन्यभूत-महावाक्यार्थसारसर्वस्वं ब्रह्मात्मैक्यज्ञानं उपदिशति - वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः ॥ २५॥ वेषहानत इति । वेषहानतः ईशजीवयोः यो वेषः उपाधिः तस्य हानतः प्राक् उक्तरीत्या विचारेण विना असम्पादनात् स्वात्मदर्शनं यत् अखण्डसच्चिदात्मज्ञानं तदेव ईशदर्शनं परमात्मज्ञानं भवति । तद् उपपादयति - स्वात्मरूपतः इति । विवेकेन शोधितस्य ईशस्य शोधितस्वात्मरूपत्वात् इत्यर्थः । स्वात्मा च सर्वेषां नित्यसिद्धः इति स्व-अभिन्नब्रह्मज्ञानार्थं न यतनीयम् । किन्तु अज्ञानजनितवेषनिवृत्यर्थं एव । तत्र प्रथमं स्वात्मनः वेषहाने जाते परमात्मनः वेषहानं अपि सिद्ध्यति इति न तद्वेषहानार्थं अपि पृथक् प्रयत्नः आस्थेयः । स्वात्मवेषग्रहणमूलकत्वात् ईशवेषकल्पनस्य । यदि स्वात्मनः वेषग्रहः अपनीतः भवेत् तद् ईशवेषः वा ईशो वा जगद्वा किमपि न स्वरूपसत्तां लभते । अतः ईशदर्शनार्थं स्वात्मवेषहानं अन्तरा न अन्या गतिः । आत्मा एव ब्रह्म इति च सर्वोपनिषदां सिद्धान्तः । स्वात्मविचारापेक्षया ईशदर्शनार्थं न अन्यः अस्ति उपायः । स्वात्मविचारः एव ब्रह्मविचारः इत्युच्यते । स्व-अन्यत् चेत् ब्रह्मविचारः अपि अन्यः स्यात् । स्व-अन्यत्वे स्वीकृतेऽपि तादृशस्य ब्रह्मणः न विचारापेक्षा भवति । विचारात् प्राक् एव गुरूपदेशमात्रेण तत्स्वरूपस्य निर्णीतत्वेन संशय-असम्भवात् विचारासम्भवः । अतः ब्रह्म-अभिन्नजीवविचारः एव जीव-अभिन्नब्रह्मज्ञानहेतुः । स्वात्मदर्शनं ईशदर्शनं इति दर्शनयोः अभेदकथनेन तद्विषययो जीवेशयोः अपि अभेदः सिद्ध्यति । स च अभेदः न जीवत्व-ईश्वरत्वाभ्यां सम्भवति । परस्परविरुद्धत्वात् । किन्तु स्वात्मरूपतः पूर्वोक्तसत्स्वभावतः इत्यर्थः ॥ २५॥ परितिष्ठितं आत्मतत्त्वज्ञानं सफलं प्रतिजानीते भगवान् - आत्मसंस्थितिस्स्वात्मदर्शनम् । आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥ आत्मसंस्थितिरिति । आत्मनि संस्थितिः एव स्वात्मदर्शनम् । न अन्यत् । कुतः इति चेत् आत्मनिर्द्वयात् आत्मनः भेद-अभावात् । एतत् उक्तं भवति । घटादिदर्शनं इव स्वात्मदर्शनं न भवति । विज्ञानस्वरूपत्वात् आत्मनः । न खलु यस्य यत् स्वरूपं भवति तस्य ज्ञानान्तरविषयत्वं सम्भवति । स्वात्मनि क्रियाविरोधात् । ज्ञानान्तरविषयत्वे ज्ञानस्वरूपभङ्ग-आपत्तेश्च । यो हि ज्ञाता स एव दर्शनरूपः । तस्य च सर्वात्मकत्वात् ज्ञातुः ज्ञातृ-अन्तर-अभावाच्च न दर्शनविषयत्वम् । तथा च श्रुतिः । ``विज्ञातारं अरे केन विजानीयात्'' ``स वेत्ति वेद्यं न च तस्य अस्ति वेत्ता'' इत्याद्याः । अतः च आत्मभावापत्तिः एव आत्मदर्शनम् । स्वाभाविकी आत्मभावापत्तिश्च नित्यसिद्धा अपि अविद्यया अप्राप्ता एव भवति । अतः अविद्याजनितविपरीतग्रहे विद्यया अपनीते सा अभिव्यज्यते इति आत्मदर्शनं आत्मा आप्तिः वा उपचारमात्रं एव । ज्ञानेन अज्ञान-तत्कार्यदेहादि-अध्यासनिवृतौ स्वाभाविकी या स्वात्मभावस्थितिः सा एव आत्मनिष्ठता अपि भवति । आत्मनिर्द्वयात् एव । न अन्यादृशी गृहस्थता एव देवदत्तस्य । आत्मनः अद्वयत्वेन अनन्यत्वात् । यथा स्वस्वरूप-अनन्यत्वेन आत्मदर्शनं आत्मभावप्राप्तिः एव सम्भवति तेन एव हेतुना आत्मनिष्ठता अपि इति तादृशः व्यवहारः अपि औपचारिकः एव इति भावः । अनेन जीवन्मुक्तस्थितिः अभिहिता कृतकृत्यता च सूचिता । नित्यमुक्तस्वभावस्य आत्मनः अज्ञान-आवरणं एव बन्धः इत्युच्यते । ज्ञानेन तन्नाशः एव मुक्तिः । नष्टे च अज्ञाने दृश्यमानः व्यवहारः सर्वोऽपि कौतुकाय एव विदुषः ॥ २६॥ ननु कुतः आत्मसंस्थितः एव आत्मदर्शनं इति आकाङ्क्षायां आह - ज्ञानवर्जिताऽज्ञानहीनचित् । ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥ ज्ञानवर्जितेति । ज्ञानवर्जिता वृत्तिज्ञानवर्जिता अज्ञानवर्जिता च या चित् चैतन्यं ज्ञान-अज्ञानविलक्षणं ज्ञानं आत्मदर्शनं भवति । तत् ज्ञातुं अन्तरं भेदः नास्ति किम् ? न अस्ति इत्यर्थः । ज्ञातत्व-अज्ञातत्वविलक्षण-ज्ञप्तिमात्रस्वभावकं आत्मानं अन्यज्ञानेन विषयीकर्तुं भेदः नास्ति इति । ज्ञानवर्जितत्व-उक्त्या अज्ञेयत्वं उक्तम् । अज्ञानहीनत्व उक्त्या च ज्ञेयत्वं अभिहितम् । ज्ञेयत्व-अज्ञेयत्व-उभयशून्यकथनेन ज्ञातत्व-अज्ञातत्वविलक्षणं एव ज्ञानं इति उक्तं भवति । तच्च ज्ञानं आत्मरूपम् । अतः ज्ञातत्व-अज्ञातत्व-उभयशून्यं आत्मतत्त्वं वेत्तुं ज्ञानान्तरं न सम्भवति । ज्ञानान्तरं अस्ति चेत् तेन ज्ञातत्वं आत्मचैतन्यस्य स्यात् । तथा च चैतन्यभेदापत्तिः । किं च आत्मनः ज्ञातत्व-आपत्तिश्च । ज्ञातत्वे च आत्मनः जडत्वविकारित्वादयः दोषाः प्रादुष्यः । अन्तरं इति अनेन ज्ञानान्तरविषयतापादकभेदः ज्ञानमात्रस्वरूपे आत्मनि नास्ति इत्यर्थः । नित्यसिद्धज्ञान-प्रकाशस्य स्वरूप-अभिव्यक्तौ ज्ञानान्तर-अपेक्षा च न युज्यते । स्वतःसिद्धप्रकाशात्मत्वात् । न खलु दीपः स्वस्वरूप-अभिव्यक्त्यर्थं अन्यदीपप्रकाशं अपेक्षते । नापि च ज्ञानाज्ञानविलक्षणरूप-ज्ञानात् अन्यत् ज्ञानं अस्ति । येन स्वरूपज्ञाने अपि अपेक्षेत । तथा च आत्मानं जानामि न जानामि इति एतद् उभयविलक्षणचैतन्य-मात्र अवस्थितिः या पूर्वा उक्ता सा एव आत्मदर्शनं इति भावः । ``अन्यदेव तद्विदितात् अथो अविदितात् अधि'' ``अविज्ञातं विजानतां विज्ञातं अविजानताम्'' इत्यादि श्रुतेः । किञ्च अत्र अर्थान्तरं अपि । ज्ञातत्व-अज्ञातत्व-उभयविलक्षणज्ञानैकरसे स्वात्मनि शास्त्र-आचार्य-उपदेशादिना लब्धे ज्ञातुं अन्तरं अन्यत् वस्तु अस्ति किम् ? आत्मविज्ञानेन एव सर्वविज्ञानप्राप्तेः । कृतकृत्यत्वाच्च विज्ञेयान्तरं न अवशिष्यते इति । ननु ज्ञान-अज्ञानविलक्षणज्ञानस्य ज्ञानार्थं यदि ज्ञानान्तरं नास्ति तदा ``तत्त्वमसि'' ``अहं ब्रह्मास्मि'' ``तदात्मानं एव अवेत्'' ``एतं आत्मानं विदित्वा'' इत्याद्याः श्रुतयः ज्ञानान्तर-अस्तित्व-आवेदका निरर्थिका भवेयुः इति चेत् । न । अविद्याजनितविपरीतग्रहणनिवृत्यर्थं ज्ञानान्तर-अस्तिता-आवेदकत्वात् तासाम् । ``जानाम्यहं ब्रह्म'' न जानामि ब्रह्म इति अविद्यया अन्तः करणादिषु लौकिकैः व्यवहियते । आत्मानं ज्ञान-अज्ञानविलक्षणज्ञानमात्रं विवेकतः पृथक्कृत्य अपोहार्थं ज्ञानस्वरूपस्य अपि ज्ञानान्तर-अपेक्षया उपदेशः श्रुतिषु क्रियते न पुनः स्वभावसिद्धज्ञानस्वरूपप्रकाशनार्थं ज्ञानान्तर-अपेक्षा श्रुतिभिः उपदिश्यते । अन्तःकरणादौ आत्मत्वभ्रान्तेः अभावे च ज्ञानान्तर-उपदेश-आनर्थक्यं इष्टं एव । विपरीतग्रहरूप-निमित्त-अभावे नैमित्तिक-उपदेशस्य अपि असम्भवात् । अतः ज्ञानाज्ञानविलक्षण-ज्ञानात्मकं स्वरूपं इति साधु एव । एतेन हेयोपादेयविलक्षणत्वं अर्थात् उक्तं भवति । ज्ञानाज्ञानविलक्षणज्ञानस्य स्वस्वरूपभूतत्वेन न हेयत्वं उपादेयत्वं वा शक्यं वक्तुम् । हेयत्व-उपादेयत्वयोः भेदसापेक्षत्वात् । स्वस्माद् अन्यत् हि हेयं उपादेयं वा भवति । न तु स्वस्य स्वयं एव हेयं उपादेयं वा भवति । भेदाभावात् । ``अस्ति किं ज्ञातुमन्तरम्'' च भेदं व्यावर्तयति भगवान् । ज्ञानाज्ञानविलक्षणत्व-उपदेशेन ज्ञानस्वरूपस्य आत्मनः हेयोपादेय विलक्षणत्वं व्यक्त-अव्यक्तविलक्षणत्वं कार्यकारणविलक्षणत्वं सत्त्वासत्त्वविलक्षणत्वं च एकेन भेद-असम्भवहेतुना एव भगवता संक्षिप्य उपदिष्टं इति बोध्यम् । तथा च सर्व-विशेषप्रत्यस्तमित-आत्मतत्त्वं अतिसूक्ष्मं इति भावः ॥ २७॥ एवं ज्ञानाज्ञानविलक्षण-ज्ञप्तिमात्रसंस्थितिरूपां जीवन्मुक्तिस्थितिं अभिधाय जीवन्मुक्ति-विदेहमुक्त्योः उभयोः अपि आनन्द-आत्मत्वं उपदेष्टुं उपक्रमते - किं स्वरूपमित्यात्मदर्शने । अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ २८॥ किं स्वरूपमिति । किं स्वरूपम् देहेन्द्रियादिषु अहन्तया भासमानेषु मुख्यात्मस्वरूपं कीदृशं इति प्राक् उक्तदिशा विचारेण आत्मदर्शने ज्ञानाज्ञानविलक्षणज्ञानमात्रस्थितिलाभे जाते,अव्ययं नाशरहितं अभवं भवः संसारः तद् रहितं सांसारिकसुखदुःखोभयविलक्षणं इत्यर्थः । आपूर्णं आसमन्तात्, पुरस्तात् पश्चात् दक्षिणतः च उत्तरेण-अधस्तात्-उपरिष्टात् च व्यापकं चिन्मयं सुखं अनायासलक्षणं सिद्ध्यति इति शेषः ॥ अथवा किं स्वरूपं यस्य तत् किंस्वरूपं ज्ञातं इति अज्ञातं इति वा निर्णेतुं अशक्यं आत्मस्वरूपमिति एवं आत्मदर्शने जाते इत्यर्थः । शिष्टं प्राग्वत् । आत्मदर्शनवतां जीवन्मुक्तानां सच्चिदात्मप्राप्तिः नित्यसिद्धा इति प्राङ्निरूपितम् । आनन्दात्मत्वं तेन एव सिद्धं अपि वैषयिकसुखदुःखवैलक्ष्यण्यबोधनार्थे पुनः उपदिष्टम् । साङ्ख्यवैशेषिकादयः हि मोक्षसुखं संवेद्यं इति विवदन्ते । अन्ये च केचन स्वानुभूति विषयं इति मन्यन्ते । उभयं अपि न भगवद्-रमणाचार्यानुमतम् । आपूर्णचित्सुखं इति सुखस्य आत्मस्वरूपत्ववर्णनात् । श्रुतिषु च सुखस्वरूपत्वं आत्मनः अभिहितम् । आत्मानन्दयोः अभेदे सिद्धे च अनुभूतिविषयत्वं प्रमाणान्तरसंवेद्यत्वं वा न सङ्गच्छते । ``यत्रत्वस्य सर्वं आत्मा एव अभूत् तत् केन कं विजानीयात्'' । ``यत्र न अन्यत् पश्यति न अन्यत् श्रुणोति न अन्यद् विजानाति स भूमा'' । ``भूमैव सुखं नाल्पे सुखं अस्ति'' इत्यादि श्रुतेः । अतः आत्मानन्दः न अनुभाव्यः । किन्तु अनुभवरूपः । अतः आनन्दात्मकात्मभावापत्तिः एव वस्तुतः आनन्दानुभवः । आत्मनि अनृतजडदुःखात्मकत्व-भ्रमनिवृतौ स्वस्वभावभूत-आनन्दात्मतास्थितिः अधिगम्यते मुक्तैः । ज्ञानेन अज्ञाननाशप्रयुक्तदेहादि-अभावः हि मोक्षः । मोक्षे देहेन्द्रियमनसां अभावेन कथं आनन्दानुभवः शक्यते वर्णयितुम् ? समुद्रात् उद्धृतं उदकं पुनश्च समुद्रे प्रक्षिप्तं यथा न पृथक्त्वेन प्रतीयते तथा आनन्दात्मनि विलीनश्च मुक्तः कथं स्वाभिन्नानन्दात्मकत्वं ज्ञातुं क्षमेत । अतः मोक्षसुखं न संवेद्यं इति सिद्धम् ॥ २८॥ ननु ``जक्षन्क्रीडन् रममाण'' ``सोश्नुते सर्वान्कामान्सह । ब्रह्मणाविपश्चितेति'' , स यदि पितृलोककामो भवति इत्यादि श्रुतिषु मुक्तिसुखं संवेद्यं इति प्रतिपादितम् । तासां च न अप्रामाण्यं भवितुं अर्हति । अतः मानान्तर-अवेद्यत्वे अपि मुक्ति-आनन्दस्य स्वसंवेद्यत्वं अभ्युपेयं एव । लोके च सुखी अहं इति सुखात्मकं आत्मानं स्वयं वेदयतः इति प्रसिद्धम् । अतः आनन्दात्मकत्ववचनानां अपि स्वसंवेद्यत्व-अर्थकतया नेयत्वात् इति आशङ्क्य आह - बन्धमुक्त्यतीतं परं सुखम् । विन्दतीह जीवस्तुदैविकः ॥ २९॥ बन्धेति । दैविकः दैवीसम्पत्सम्पन्नः । अथवा जन्मान्तर-अर्जितसुकृतनिकरनिर्धूतपापनिवहः, यद्वा दैवं मुक्ति सुखानुभावकप्रारब्धकर्म तत्सम्पन्नः । अथवा दैववश-आसादितज्ञानसामग्रीसम्पन्नः दैविकः जीवः । न तु सर्वोऽपि । तु शब्दः दौर्लभ्यद्योतनार्थः । इह अस्मिन् शरीरे वर्तमाने एव । अथवा मनुष्यजन्मनि । यद्वा जीवदशायां एव । अथवा विद्या-उत्पत्तिसमकाले एव न तु कालान्तरे देशान्तरे लोकान्तरे जन्मान्तरे वा । बन्धमुक्ति-अतीतं बन्धमोक्षविलक्षणं परं निरतिशयं सुखं सच्चिदानन्द-एकघनं स्वाभाविकं अजरामरं अभयं पदं विन्दति लभते । अलब्धत्वभ्रमनिवृत्तिं अश्नुते इति भावः । एवम्भूतस्य आत्मनः नित्यप्राप्तत्वात् । ``ब्रह्म एव असन् ब्रह्म अप्येति'' ``ब्रह्मवेद ब्रह्मैव भवति'' इत्यादि श्रुतिभ्यः । नित्यमुक्तस्वभावस्य आत्मनः अज्ञान-आवरणं एव बन्धः । तन्नाशः एव मुक्तिः । बन्धस्य सत्यत्वे अनिर्मोक्षप्रसङ्गात् मिथ्यात्वं पर्यवस्यति । सदैकस्वभावः आत्मनि बन्धः कल्पितः । कल्पनाकाले अपि स्वभावप्रच्युतिः न आत्मनः । सुखित्वदुःखित्वमूढत्व-जनिमरणादयः संसाराः सर्वे अपि आत्मनि अध्यारोपिताः । सुखित्वादिसंसार-अवस्थासु सर्वासु अपि विशेष्यत्वेन अनुगतः आत्मा अवभासते एव । अथाऽपि सुखित्वादिविशेष-अध्यारोपवशात् एव आत्मनः स्वरूप-अवस्थानं न सम्भवति । गुरुशास्त्र-उपदेशेन स्वरूप-अवस्थानं श्रेयः इति श्रुतेः सति सुखित्वादिकृतस्वरूप-अनवस्थानं निवर्तते । अतः सुखित्वदुःखित्वादि-विशेष-अध्यारोपसापेक्षा एव मुक्तिः । बन्ध-आरोप-अभावे मुक्तिः अपि न अपेक्षिता एव । न खलु निगडबन्ध-अभावे निगडमुक्तिः आवश्यकी भवति । यदि दुःखित्वादिबन्धः नास्ति तदा बन्धनिवृत्तिरूपमोक्षः अपि नास्ति एव । परमात्मनि यस्य कस्यचित् वास्ताविकत्व-असम्भवात् । अतः बन्धभ्रान्तिनिवृत्तिमात्रे मोक्षः अपि व्यावहारिकः एव । न खलु बन्धः भ्रान्तिमत्व-अविद्यावत्व-तद्-अभावाभ्यां आत्मस्वभावस्य कश्चित् विशेषः शक्यते वक्तुम् । सर्वदा तस्य निर्विशेषचैतन्य-एकरसस्वभावत्वात् । अतः बन्धमुक्ति-अतीतं सुखस्वरूपं आत्मवस्तु एव परमपदं इति भगवता उपदिष्टम् । तदुक्तं - ``न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थता ॥ इति किञ्च जीवन्मुक्तः विदेहमुक्तव्यवहारः अपि अज्ञकल्पित एव न परमार्थः । स्वस्वाभाविक-आत्मलाभरूपे ज्ञानफले मुक्तिभेदविशेषस्य अपि असम्भवात् । नापि ज्ञानोदये जाते विदेहतापत्तिः । स्वविरोधि-अंशस्य एव ज्ञानेन बाधितत्वात् । ज्ञान-अधिकबलस्य प्रारब्धकर्मणः फलत्वात् देहधारणस्य तस्य च उपजीव्यत्वेन ज्ञान-अविरुद्धत्वात् । उपादानभूतनिद्रानाशे अपि स्वप्नसंस्कारस्य किञ्चित् कालं अनुवृत्तिवद् अज्ञाननाशे अपि यावत् प्रारब्धं देहादिप्रतिभास उपपन्नः एव । स च चित्रव्याघ्र इव दृश्यमानः कौतुकाय एव न बन्धाय भवति । कथं इति चेत् ? सदेहप्रतिभासात् च अन्य-अज्ञजनदृष्ट्या एव न तु स्वदृष्ट्या भवति । स्वनिश्चयेन तु स्वयं विदेहः एव भवति । अतः स्वरूप-अवस्थितेः समत्वे जीवन्मुक्ति-विदेहमुक्त्योः स्वदृष्ट्या भेदकल्पना-असम्भवात् । अतः न अनयोः स्व-अनुभवतः विशेषः । ननु भोक्तृत्व-अभोक्तृत्वकृतः विशेषः तयोः स्यात् । प्रारब्धभोगार्थत्वात् देहस्थितेः इति चेत् । न । भोक्तृत्व-अभिमानेन भोगास्वादने भोगकृतः विशेषः स्यात् । न तु असङ्ग-उदासीन-आत्मैकात्म्यं गतस्य विदुषः अभिमानलेशः अपि सम्भावयितुं शक्यते । विदुषा क्रियमाणः सर्वव्यवहारः अपि कर्तृत्वादि-अभिमानशून्यः इति न अनर्थाय । व्यवहारकाले अपि स्वरूप-प्रच्युति असम्भवात् । सर्वभेदव्यवहारकल्पके अज्ञाने विनष्टे ज्ञानमात्रपरिशेषे समे सति जीवन्मुक्तिविदेहमुक्त्योः न अणुमात्रं अपि स्वदृष्ट्या भेदः भवति इति अन्यत्र विस्तरः । दैविकः इति अस्य अयं भावः । आत्मलाभार्थं दैवं प्रधानं पौरुषं तु अप्रधानं इति । न खलु कार्यसामान्यं पौरुषमात्रेण वा दैवमात्रेण वा सिद्ध्यति । पौरुषस्य अनुग्राहकतया दैवानुकूल्य-अभावे कार्यं न सिद्धयति अध्यक्षं इदं सर्वेषाम् । अतः एव दुर्दैवानां बहुशः कृतप्रयत्नानां अपि न आत्मलाभः पुरुषार्थो वा सिद्ध्यति । तत्र को हेतुः ? दैवप्रातिकूल्यं एव इति निश्चयः । दैवपौरुषयोः भूयान् विवादः दृश्यते वादिनां प्रधानत्वे । भगवतः श्रीरमणस्य तु दैवपौरुष-उभयसम्मेलनेन एव पुरुषार्थः सिद्ध्येत् इति मतम् । ``मानसं तु किं मार्गणे कृते'' इति आरभ्य ``किं स्वरूपमित्यात्मदर्शने'' इति एतावत् पर्यन्तं पौरुषप्रयत्नरूप-आत्मविचारक्रमः कथितः । अवसाने च दैवं कथितं इति उभयसम्मिलितत्वं भगवतः मतं इति श्लिष्यते एव । अतः एव योगीश्वरेण श्रीयाज्ञवल्क्येन अपि एवं उक्तम् । ``दैवे पुरुषाकारे च कार्यसिद्धिः व्यवस्थिता'' इति । अतः मन्यामहे महर्षेः मतं एव बहुमतं सर्वेषां इति । तच्च दैवं प्राक्तनं कर्म वा प्राक्तनं पौरुषं वा कालयदृच्छानियति-आदिरूपं वा नवग्रहादिरूपं वा यथातथा भवतु । न तद्विशेषेसु आग्रहः । परन्तु अदृष्टसहितेन दृष्टप्रयत्नेन एव पुरुषार्थलाभः मुमुक्षूणां इति । अथवा दैवं अरुणाचलेश्वरशक्तिपातः । ततः तत्सम्पन्नः दैविकः स्वयं एव भगवान् श्रीरमणः । अहं इव अन्यः अपि एवं ईश्वर-अनुग्रहात् तत्पदं अश्नुते इति । अन्यथा मानुषाणां ``त्रिभिर्क्रणवा (अवरोधः) जायत'' इति श्रुतौ देवादि ऋणित्वश्रवणात् ``तस्मात् एषां तन्नप्रियं यत् एतत् मनुष्याः विद्युः इति श्रुतौ च देवकृतविद्या-विघ्नप्रतिपादनात् कृतोऽपि पौरुषप्रयत्नः विफलः एव भवेत् । श्रुतिः अपि आह - ``यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनूं स्वाम् । '' ``यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मनः ॥ '' इत्यादिना । इह इति लोकान्तरप्राप्यत्वं व्यवच्छिनत्ति । ``इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । '' ``इह चेद् अवेदीत् अथ सत्यमस्ति । '' ``ईश्वरानुग्रहादेव पुंसां अद्वैतवासना । महामयकृतत्राणा द्वित्राणां उपजायते ॥ '' इत्यादि वचनात् । विन्दति इति अनेन पुरुषार्थ-भागिनः पुरुषस्य दौर्लभ्यं द्योतयति । ``बहूनां जन्मनामन्ते,'' ``अनेकजन्मसंसिद्धः'' ``मनुष्याणां सहस्रेषु'' इत्यादि वचनात् । तस्मात् सर्वलाभोत्तमलाभं उत आत्मलाभार्थं पूर्वोक्तपौरुषप्रयत्नेन सह दैवानुग्रह अपि आसादनीयः इति भगवद्-उपदेशसारः । परिसमाप्तः समस्तशास्त्रार्थसारसङ्ग्रहभूत उपदेशसारः । अथ इदानीं स्व-उक्तार्थे मुमुक्षूणां विश्वासं अभिवर्धयितुं उपदेशसारस्य अस्य आगमसंप्रदायपरिशुद्धिं अन्ते भगवान् वर्णयति- अहमपेतकं निजविभानकम् । महदिदं तपो रमणवागियम् ॥ ३०॥ अहमिति । अहमा अहम्त्वेन अपेतकं वर्जितं कर्तृत्व-अभिमानरहितं इत्यर्थः । निरहम्भावसहजब्रह्मस्थितिकं इति यावत् । अतः एव निजविभानकं निजं स्वीयं आत्मीयं न अन्यापेक्षं विभानं प्रतिभानं स्फुरणं इति यावत् । सहज-आत्मस्थितौ स्वयं एव स्फुरितं इति भावः । दैविकतपः प्रभावप्राप्तत्वं आह । ``महदिदं तपः'' इति । महत् ब्रह्म तद्विषयकं तद्रूपं वा इदम्-अन्तरं यत् तपः ज्ञानमयं तपः सा एव इयं ग्रन्थरूपा रमणवाक् । रमणस्य वाक् वाक्यं उपदेशः इत्यर्थः । निरहम्भाव-आत्मसहजस्थिति-ज्ञानतपोरूपः अयं श्रीरमण-उपदेशसारः इत्यर्थः । अहमपेतकं इति अनेन बुद्धिपूर्वकत्वनिरासः । निजविभानकं इति अनेन स्वयम्प्रतिभान-वेदसमत्वं अभिमतम् । ``महदिदं तप'' इति स्वीयकठिनतपस्सम्पादितत्वं अनायासलक्षणज्ञानमयत्वं मुमुक्षूपादेयज्ञानविचार-सार-सङ्ग्रहरूपत्वं इति एवं आदिकं सूचितम् । रमणवाक् इति अनेन मुमुक्षूणां आत्मसमतासम्पादकं इति ध्वनितम् । उपदेशसाराख्य-उपनिषद्-द्रष्टुः महर्षेः नामधेय-उल्लेखनं च इति सर्वं रमणीयम् । जयन्ति रमणाचार्यं पादपाथोब्जरेणवः । विरजस्का विराजन्ते यच्छिरस्का नरालयः ॥ १॥ अन्विष्य खिन्नौ विधिमायवौ यत् महोद्यमेनापि महः पुरस्थम् ॥ १॥ तदेव यं शक्तिनिपातदम्भात् वव्रे स्वयं तं रमणं वृणीमः ॥ २॥ यत्कृपालवमात्रेण तीर्णोऽस्मि भवसागरम् । श्रीगुरून् रमणाभिख्यान् प्रणतोऽस्मि शिवङ्करान् ॥ ३॥ क्वचैतत्ग्रन्थगाम्भीर्यं क्व मे मन्दमनीषिता । तथापि अस्याः कृतेर्मूलं रमणीयनिरीक्षणम् ॥ ४॥ जाग्रत्स्वप्नसुषुप्त्यतीतमखिलाधिष्ठानमाभ्यन्तरं प्रत्यक् ब्रह्म रसायनं सुखधनं पूर्णं परं पावनम् । स्वात्मज्योतिरनादिमध्य निधनं मायाविहीनं शिवं सर्वज्ञं हृदि मे चकास्तु सततं संसारविच्छित्तये ॥ ५॥ मुक्तिं सिषाधयिषतां अवनाय नॄणां आनन्दबोधमगुणं स्वमपास्य रूपम् । भान्तं गुरोर्भुवनमङ्गलविग्रहेण शोणाचलैक निलयं रमणं नतास्मः ॥ ६॥ निर्दोषं निर्गुणं वस्तु लोकेस्मिन्नोपलभ्यते । अतो मे साहसं सन्तः सहन्तां स्निग्धचेतसः ॥ ७॥ यज्ञेशमखिपुत्रेण जगदीश्वरशास्त्रिणा । कृत्रा साधुमुदे भूयात् व्याख्या तत्त्वसुबोधिनी ॥ ८॥ इति भगवच्छ्रीमद्रमणमहर्षेः उपदेशसारस्य इञ्चिक्कौल्लैग्रामवासिना यज्ञेशमखिसूनुना, अभयाम्बागर्भसम्भवेन शास्त्ररत्नाकर, आत्मविद्याभूषण, विद्यालङ्कार बिरुदालङ्कृतेन जगदीश्वरशास्त्रिणा कृता तत्त्वबोधिन्याख्या व्याख्या समाप्ता । हृदयकमलवासिने श्रीमते रमणाय नमः । Encoded and proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : Upadeshasara Bhashyam 2 Tattvabodhini
% File name             : upadeshasArabhAShyam2.itx
% itxtitle              : upadeshasArabhAShyam 2 athavA tattvabodhinI (jagadIshvarashAstriNA kRitA vyAkhyA)
% engtitle              : upadeshasArabhAShyam 2
% Category              : major_works, bhAShya
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : V Jagadishwar shastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : V Jagadishwar shastri's Sanskrit Commentary on Ramana Maharshi's Upadeshasaram
% Latest update         : August 28, 2021
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org