सन्ध्याप्रयोगः

सन्ध्याप्रयोगः

अथ सन्ध्याप्रयोगः(१) । यथोक्तस्नानानन्तरं श्वेतं अस्यूतारजकधौतं वस्त्रं(२) परिधाय उपवस्त्रं(३) गृहीत्वा कुशादिविहितासने(४) प्राङ्मुख(५) उपविश्य पवित्रपाणिः(६) पुण्यदेशे(७) सन्ध्योपासनमारभेत, तत्रादौ यज्ञीयभस्म तीर्थमृदो वा गृहीत्वा जलमिश्रणानन्तरं ``ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्'' (इति मर्दयित्वा) ``ॐ नमः शिवाय'' इत्यभिमन्त्र्य तिलकं(८) कुर्यात्तत्र मन्त्रः - ॐ त्र्यायुषं जमदग्नेः इति ललाटे, ॐ कश्यपस्य त्र्यायुषं इति ग्रीवायाम्, ॐ यद्देवेषु त्र्यायुषं इति बाहुमूले, ॐ तन्नोऽअस्तु त्र्यायुषं इति हृदये । विष्णुस्मरणम् - अपवित्रः पवित्रो वेत्यस्य वामदेव ऋषिः मुखे विष्णुर्देवता गायत्रीछन्दः पवित्रकरणे विनियोगः ॥ ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥ (अनेन मन्त्रेण विष्णुं स्मृत्वा किञ्चिज्जलं शिरसि सिञ्चेत्) ॥ आचमनम्(९) - ॐ ऋग्वेदाय स्वाहा, ॐ यजुर्वेदाय स्वाहा, ॐ सामवेदाय स्वाहा (इति त्रिभिर्मन्त्रैः ब्रह्मतीर्थेन जलं त्रिराचम्य) ॐ अथर्ववेदाय नमः (इति करौ प्रक्षाल्य दक्षिणकर्णं स्पृशेत्) ॥ शिखाबन्धनम्(१०) - प्रणवव्याहृतिगायत्र्या ॐ ब्रह्मवाक्यसहस्रेण शिववाक्यशतेन च । विष्णोर्नामसहस्रेण शिखाग्रन्थिं करोम्यहम् ॥ (इत्यनेन वा बध्नीयात्, बद्धायां केवलं संस्पृशेदेव ॥) खस्पर्शः(११) - ॐ विष्णुर्विष्णुर्विष्णुः (इति पठित्वा) ॐ वाग्वाक् (१२) ॐ प्राणः प्राणः(१३) ॐ चक्षुश्चक्षुः ॐ श्रोत्रं श्रोत्रं ॐ नाभिः ॐ हृदयं ॐ कण्ठः ॐ ललाटं ॐ शिरः ॐ शिखा ॐ बाहुभ्यां(१४) यशोबलम्(१५) । (इतीन्द्रियाद्यायतनानि जलार्द्रदक्षिणकरस्य मध्यमानामिकाभ्यां संस्पृशेत्) ॥ अभिषेचनम्(१६) - ॐ ॐ पुनातु, ॐ भूः पुनातु, ॐ भुवः पुनातु, ॐ स्वः पुनातु, ॐ महः पुनातु, ॐ जनः पुनातु, ॐ तपः पुनातु, ॐ सत्यं पुनातु, ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । ॐ सर्वं पुनातु (वामकरे(१७) जलमादाय दक्षिणानामिकया प्रतिमन्त्रं जले मूर्द्धानमभिषिञ्चेत्) ॥ आसनोपवेशनम् - ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसनोपवेशने विनियोगः । ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् । (इति मन्त्रेण दक्षिणहस्तस्य मध्यमानामिकाभ्यां आसनोपरि किञ्चिज्जलं क्षिपेत्) ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया (इति वामपादपार्ष्णिना त्रिवारं भूमिं ताडयित्वा भूतान्युत्सार्याणि) ॥ श्री भैरवनमस्कारः - ॐ तीक्ष्णदंष्ट्र महाकाय कल्पान्तदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि । (इत्यनेन मन्त्रेण श्रीमहाभैरवं नमस्कृत्य सङ्कल्पं कुर्यात्) ॥ अथ सङ्कल्पः(१८) - दक्षिणकरे जलमादाय, ॐ तत्सदद्यैतस्य ब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलि-प्रथमचरणे अनन्तकोटिब्रह्माण्डाभ्यन्तरे अस्मिन् ब्रह्माण्डे जम्बूद्वीपे भारतखण्डे आर्यावर्तैकदेशान्तर्गते पुण्यक्षेत्रे अमुकदेशे षष्ट्यब्दानां मध्ये अमुकसंवत्सरे अमुकऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रोत्पन्नोऽमुकशर्म्माहं(१९) ममोपात्तदुरितक्षयपूर्वकब्रह्मवर्चसकामार्थं श्रीपरमेश्वरप्रीतये प्रातः(२०) सन्ध्योपासनं करिष्ये (इति सङ्कल्प्य भूमौ तज्जलं क्षिपेत्) ॥ अथ पुनराचमनम् - ॐ अघमर्षणसूक्तस्याघमर्षणऋषिरनुष्टुप् छन्दो भाववृतो देवता अश्वमेधावभृथे विनियोगः ॥ ॐ ऋतञ्च सत्यञ्चाभीद्धात्तपसोध्यजायत ततो रात्र्यजायत ततः समुद्रो अर्णवः, समुद्रादर्णवादधि संवत्सरो अजायत, अहोरात्राणि विदधद्विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवञ्च पृथिवीं चान्तरिक्षमथो स्वः । अथ करन्यासः(२१) - ॐ भूः अङ्गुष्ठाभ्यां(२२) नमः । ॐ भुवः तर्जनीभ्यां(२३) नमः । ॐ स्वः मध्यमाभ्यां(२४) नमः । ॐ तत्सवितुर्वरेण्यम् । अनामिकाभ्यां(२५) नमः । ॐ भर्गो देवस्य धीमहि कनिष्ठिकाभ्यां(२६) नमः । ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां(२७) नमः ॥ अथ षडङ्गन्यासः(२८) नमः । ॐ भूः हृदयाय(२९) नमः । ॐ भुवः शिरसे(३०) स्वाहा । ॐ स्वः शिखायै वषट्(३१) । ॐ तत्सवितुर्वरेण्यं कवचाय(३२) हुँ । ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय(३३) वौषट् । ॐ धियो यो नः प्रचोदयात् अस्त्राय(३४) फट् । अथ प्रणवन्यासः - ॐ ``अ'' कारं नाभौ । ॐ ``उ'' कारं हृदये । ॐ ``म'' कारं मूर्धनि ॥ अथ सन्ध्याप्रयोगः टिप्पणिका । Footnotes for starting of sandhyAprayogaH (१)- सम्यग् ध्यायन्ति सम्यग् ध्यायते वा परब्रह्म यस्यां सा सन्ध्या द्वितीयोऽर्थस्तु - सन्धीयते परब्रह्म सा सन्ध्या सद्भिरुच्यते ॥ (सप्तदशी) । अहोरात्रस्य या सन्धिः सूर्यनक्षत्रवर्जिता । सा तु सन्ध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः । ``अहरहः सन्ध्यामुपासीत'' (तै. ब्रा.) । शक्तिमानुदिते काले स्नानं सन्ध्यां न हापयेत् इति व्यासः । उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा भास्करोपेता प्रातः सन्ध्या त्रिधा मता । उत्तमा भास्करोपेता मध्यमा लुप्तभास्करा । अधमा तारकोपेता सायं सन्ध्या त्रिधा मता । अघ्यर्धं यामादा(?) सायं सन्ध्या माध्याह्निकीष्यते । (ध. सिं. सा.) । गौणकालः - उदयास्तमयादूर्ध्वं यावत्स्याद्घटिकात्रयम् । तावत्सन्ध्यामुपासीत प्रायश्चित्तमतः परम् ॥ (स्कान्दे) स्वकाले सेविता नित्यं सन्ध्या कामदुधा भवेत् । अकाले सेविता सा च सन्ध्या वन्ध्या वधूरिव । (विश्वा.) । मुख्यकाले यदावश्यं कर्मं कर्त्तुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो मतः । (गोभिलः) । गौणोऽप्यतिक्रम्य आसायं प्रातः सन्ध्यां कुर्यादिति केचित् । (२)- स्नात्वैवं वाससी धौते अक्लिन्ने परिधापयेत् । अभावे धौतवस्त्रस्य पट्टक्षौमादिकानि च । कुतपं योगपट्टं वा विवासा येन नो भवेत् । (ना. दे.) । आर्द्रवासास्तु यः कुर्याज्जपहोमपरिग्रहान् । सर्वं तद्राक्षसं विद्यात्कर्मजातञ्च यत्कृतम् । यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा । जपो होमस्तथा दानं तत्सर्वं निष्फलं भवेत् । न स्यूतेन न दग्वेन पारक्येण विशेषतः । मूषकोत्कीर्णजीर्णेन कर्मं कुर्याद्विचक्षणः । (आपस्तम्बः) । (३)- होमदेवार्चनाद्यासु क्रियासु पठने तथा । नैकवस्त्रः प्रवर्तेत द्विजो नाचमने जपे । (वि. पु.) । (ना पुरुष इत्यर्थः) । (४)- काम्यार्थं कम्बलञ्चैव श्रेष्ठञ्च रक्तकम्बलम् । कृष्णाजिने ज्ञानसिद्धिर्मोक्षस्तु व्याघ्र चर्मणि । कुशासने मन्त्रसिद्धिर्नात्र कार्या विचारणा । धरण्यां दुःखसम्भूतिर्दौर्भाग्यं दारुजासने । वंशासने दरिद्रः स्यात्पाषाणे व्याधिपीडनम् । तृणासने यशोहानिः पल्लवैश्चित्तविभ्रमः । जपध्यानतपोहानिं कुर्वन् वस्त्रासनं तथा (वस्त्रासनमत्र केवल वस्त्रासनं अत्र विशेषेऽपि सन्ध्यायां कुशासनस्य मुख्यत्वं ग्रन्थान्तराद्बोध्यम्) । (५)- प्राक् पश्चिमोदगास्यस्तु प्रातः सायं निशासु च (इति वाचस्पतिः) । (६)- जपे होमे तथा दाने स्वाध्याये पितृतर्पणे । अशून्यन्तु कर कुर्यात्सुवर्णरजतैः कुशैः । (ल. हा.) । मूलपर्वणि कुर्वाणो महत्या हीयते श्रिया । मध्यपर्वणि कुर्वाणः पुत्रदारैर्वियुज्यते । अनामिकाग्रपर्वस्थं पवित्रं विभृयात्सदा । (शङ्खः) । (७)- पुण्यक्षेत्रं नदीतीरं गुहापर्वतमस्तकम् । तीर्थप्रदेशाः सिन्धूनां सङ्गमं पावन सरः । उद्यानानि विचित्राणि बिल्वमूलं तटं गिरेः । देवाद्यायतनं कूलं समुद्रस्य निजं गृहम् । (शारदा) । गृहेषु प्राकृती (एकगुणा) । सन्ध्या गोष्ठे शतगुणा स्मृता । नदीषु शतसाहस्री अनन्ता शिवसन्निधौ (शातातपः) । बहिःसन्ध्या दशगुणा गोष्ठप्रस्रवणादिषु । खाततीर्थे शतगुणा साहस्री जाह्नवीतटे । (व्यासः) । (८)- ललाटे तिलकं कृत्वा सन्ध्याकर्मं समाचरेत् । अकृत्वा भालतिलकं तस्य कर्म निरर्थकम् । (प्र. पा.) । अन्यच्च -- श्राद्धे यज्ञे जपे होमे वैश्वदेवे सुरार्चने । धृतत्रिपुण्ड्रः पूतात्मा मृत्युञ्जयति मानवः । (कात्या.) । तिलकन्तु यज्ञीयभस्मना मुख्यं चन्दनेन तीर्थमृत्तिकया वा यथाकुलाचारं ललाटादौ कार्यम् । भस्मादीनामभावे जलेनैव धार्यमिति शिष्टाः - ``मृद्भस्मं चन्दनं प्रोक्तं तोयं चैव चतुर्थकम् ।'' (प्र. पा.) । (त्र्यायुषं जमदग्नेस्तु ललाटे ॐ नमो नमः । कश्यपस्य त्र्यायुषं च ग्रीवायां ॐ नमो नमः ॥ ६४॥ यद्देवेषु त्र्यायुषं च बाहुमूले नमो नमः । तन्नोऽस्तु त्र्यायुषमिति हृदि कृष्णाय ते नमः ॥ ६५॥ -- लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५९ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥ ७॥ अथर्ववेदः/काण्डं ५/सूक्तम् २८ त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्। यद्देवेषु त्र्यायुषं तन्नोऽअस्तु त्र्यायुषम्॥ -यजुर्वेद ३.६२) (९)- क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः । भवन्ति हि वृथा तस्य क्रियाः सर्वा न संशयः । (म. नि. तं.) हृत्कण्ठतालुनाभिस्तु शुद्धयेरन् स्त्री च यथासङ्ख्यं द्विजातयः । शूद्रश्च सकृत्स्पृष्टाभिरन्ततः । (याज्ञवल्क्यः) । (१०)- सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखो व्युपवीतश्च यत्करोति न तत्कृतम् । (का. स्मृ.) स्नाने दाने जपे होमे सन्ध्यायां देवतार्चने । शिखाग्रन्थिं विना कर्म न कुर्याद्वै कदाचन (आह्नि. का.) । खल्वाटादिदोषेण विशिखश्चेन्नरो भवेत् । कौशीं तदा धारयीत ब्रह्मग्रन्थियुतां शिखाम् । (११)- त्रिःप्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् (याज्ञ.) । अन्यच्च - अद्भिश्च संस्पृशेत्खानि सर्वाण्यपि विशुद्धये । (वृ. पा. सं.) ॥ (१२)- इत्यनेन ओष्ठे स्पर्शः । (१३)- इत्यनेन नासारन्ध्रयोः स्पर्शः । चक्षुरित्यादि स्पृष्टमेव । विशेषः - प्राणश्चक्षुः श्रोत्रं इत्यत्र प्रथमं दक्षिणस्पर्शः ततो वामस्पर्श इति विवेकः ॥ (१४)- वामबाहुं दक्षिणस्कन्धे धृत्वा तदुपरि दक्षिणबाहुं वामस्कन्धे धारयेत् । (१५)- नमस्कारमुद्रा कार्या । (१६)- शिरसो मार्जनं कुर्यात्कुशैः सोदकबिन्दुभिः । प्रणवो भूर्भुवः स्वश्च सावित्री च तृतीयिका । अब्दैवत्यं ऋचं चैव चतुर्थमिति मार्जनम् । (का. स्मृ.) ॥ (१७)- नद्यादौ सत्वे वामकरे जलग्रहणं नावश्यकं कुशलाभे कुशेनैव मार्जयेत् । (१८)- अयं सङ्कल्पः देशविशेषेण ग्राह्यः, सङ्कल्पश्चेन्मनसि मननं प्रोक्तरीत्याऽथ, वाचाः व्याहर्तव्यं तदनु च करेणाम्बुसेकास्त्रिधेति । (ऋषिभट्टीये) । (१९)- अत्र क्षत्रियो वैश्यो वा चेत्तदा वर्म्माहं गुप्तोऽहमिति क्रमेण योजनीयम् । (२०)- मध्याह्ने - मध्याह्नम्, सायङ्काले - सायं इत्यूहः कार्यः । (२१)- यद्वीजाद्या भवेद्विद्या तद्वीजेनाङ्गकल्पना । अथवा मूलमन्त्रेण । (तान्त्रि.) ॥ (२२)- तर्जनीभ्यामङ्गुष्ठौ स्पृशेत् । (२३)- अङ्गुष्ठाभ्यां तर्जन्यौ स्पृशेत् । (२४)- अङ्गुष्ठाभ्यां मध्यमे स्पृशेत् । (२५)- अङ्गुष्ठाभ्यामनामिके स्पृशेत् । (२६)- अङ्गुष्ठाभ्यां कनिष्ठिके स्पृशेत् । (२७)- दक्षिणकरं वामकरस्य परितो भ्रामयेत् । (२८)- षडङ्गन्यासः कार्यः न वा कार्यो न्यासविधेरवैदिकत्वादिति गृह्यपरिशिष्टे स्पृष्टं एतेनाक्षरन्यासपादन्यासादीनां मुद्रादिविधे शापमोचनादिविधेश्च तान्त्रिकत्वेनावैदिकत्वादनावश्यकत्वं वेदितव्यम । (ध. सिं. सा.)। (२९)- दक्षिणकरेण हृदयं स्पृशेत् । (३०)- दक्षिणकरेण शिरः स्पृशेत् । (३१)- शिखां स्पृशेत् । (३२)- वामकरं दक्षिणस्कन्धे कृत्वा दक्षिणकरञ्च तदुपरि वामस्कन्धे निवेशयेत् । (३३)- दक्षिणकरस्य तर्जनीमध्यमाभ्यां दक्षिणवामनेत्रे क्रमेण स्पृशेत् । (३४)- वामकरतले दक्षिणकरस्य तर्जनीमध्यमाभिः किञ्चित्तालं दद्यात् ॥

सन्ध्याध्यानमावाहनञ्च

प्रातः सन्ध्यायाम् - (पूर्वाभिमुखः) ॐ गायत्रीं त्र्यक्षरां बालां साक्षसूत्रकमण्डलुम् । रक्तवस्त्रां चतुर्वक्त्रां हंसवाहनसंस्थिताम् ॥ ऋग्वेदकृतोत्सङ्गां रक्तमाल्यानुलेपनाम् । ब्रह्माणीं ब्रह्मदैवत्यां ब्रह्मलोकनिवासिनीम् ॥ आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् । आगच्छ वरदे देवि त्र्यक्षरे ब्रह्मवादिनि । गायत्रि(२)च्छन्दसां मातर्ब्रह्मयोने नमोऽस्तु ते । मध्याह्नसन्ध्यायाम् - (उदङ्मुखः) ॐ सावित्रीं युवतीं शुक्लां शुक्लवस्त्रां त्रिलोचनाम् । त्रिशूलिनीं वृषारूढां श्वेतमाल्यानुलेपनाम् ॥ यजुर्वेदकृतोत्सङ्गां जटामुकुटमण्डिताम् । रुद्राणीं रुद्रदैवत्यां रुद्रलोकनिवासिनीम् ॥ आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् । आगच्छ वरदे देवि त्र्यक्षरे रुद्रवादिनि ॥ सावित्रि(३)च्छन्दसां माता रुद्रयोने नमोऽस्तु ते । सायं सन्ध्यायाम् - (पश्चिमाभिमुखः) ॐ वृद्धां सरस्वतीं कृष्णां पीतवस्त्रां चतुर्भुजाम् । शङ्खचक्रगदाशार्ङ्गहस्तां गरुडवाहिनीम् ॥ सामवेदकृतोत्सङ्गां वनमालाविभूषिताम् । वैष्णवीं विष्णुदैवत्यां विष्णुलोकनिवासिनीम् । आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् । आगच्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि । सरस्वति(४)च्छन्दसां मातर्विष्णुयोने नमोऽस्तु ते । प्राणायामः(५) - ॐकारस्य ब्रह्माऋषिः गायत्री छन्दोऽग्निर्देवता शुक्लो वर्णः सर्वकर्मारम्भे विनियोगः । ॐ सप्तव्याहृतीनां विश्वामित्रजमदग्निभरद्वाजगौतमात्रिवसिष्ठकश्यपा ऋषयो गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तिस्त्रिष्टुब्जगत्यश्छन्दांस्यग्निवाय्वादित्यबृहस्पतिवरुणेन्द्रविश्वेदेवा देवताः अनादिष्टप्रायश्चित्ते प्राणायामे विनियोगः । ॐ गायत्र्या विश्वामित्रऋषिर्गायत्री छन्दः सविता देवताग्निर्मुखमुपनयने प्राणायामे विनियोगः । ॐ शिरसः प्रजापतिरृषिस्त्रिपदा गायत्री छन्दो ब्रह्माग्नि-वायुसूर्या देवता यजुः प्राणायामे विनियोगः (इति ऋष्यादिकं स्मृत्वा) ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् (इत्यात्मनः रक्षार्थं समन्तात् प्रदक्षिणवदुदकं क्षिपेत्ततो(६) स्वस्तिकाद्यासनः संमीलितनयनो मौनी प्राणायामत्रयं(७) कुर्यात् तत्राङ्गुष्ठेन दक्षिणनासापुटं निरुध्य वामनासापुटे वायोरादानकाले) - ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यं ॐ तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ॐ आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् । (इति जपन्नाभौ विष्णुं(८) ध्यायेत् ततः अङ्गुष्ठानामिकाकनिष्ठिकाभिर्नासापुटद्वयं निरुध्य वायोर्धारणकाले ॐ भूरित्यादि पठन् हृदये ब्रह्माणं(९) ध्यायेत् । कनिष्ठिकानामिकाभ्यां वामनासापुटनिरोधे दक्षिणनासापुटेन वायोस्त्याग काले पुनरपि ॐ भूरित्यादि पठंल्ललाटे शिवं(१०) ध्यायेत् । अनेन प्रकारेण एकः प्राणायामो(११) भवति, एवं त्रयः प्राणायामाः प्रतिसन्ध्यं कार्याः) । अथ सन्ध्याप्रयोगान्तरे सन्ध्याध्यानमावाहनञ्च टिप्पणिका । Footnotes for sandhyAdhyAnamAvAhana in sandhyAprayogaH (१)- नमस्कारमुद्रां कृत्वा मन्त्रमुच्चारयन् देवतामावाहयेत् । (२)- प्रतिग्रहान्नदोषाच्च पातकादुपपातकात् । गायत्री प्रोच्यते यस्माद्गायन्तं त्रायते यतः (व्यासः) । (३)- सवितृद्योतनात्सैव सावित्री परिकीर्तिता । जगतः प्रसवितृत्वात् वाग्रूपत्वात्सरस्वती । (व्यासः) । गायत्री नाम पूर्वाह्ने सावित्री मध्यमे दिने । सरस्वती च सायाह्ने एवं सन्ध्या त्रिधा स्मृता । (व्यासः) । गायत्री तु साङ्ख्यायनसगोत्रम् । सावित्री तु कात्यायनगोत्रम् । तथा सरस्वती तु बाहुल्यगोत्रम् । (४)- वाग्रूपत्वात्सरस्वती । (व्यासः) । (५)- प्राणायामैर्विना यद्यत्कृतं कर्म निरर्थकम् । अतो यत्नेन कर्तव्यः प्राणायामः शुभार्थिना । (अगस्त्यः) । त्वक् चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् (अत्रिः) । यथा पर्वतधातूनां दोषान्दहति पावकः । एवमन्तर्गतं पापं प्राणायामेन दह्यते । (म. नि. तं.) । (६)- जानूर्वोरन्तरे सम्यक् कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकासनमुच्यते (योगशास्त्र) आदिशब्दात्सुखासनादि, ``तत्र स्थिरसुखमासनम्'' (योगसूत्र) । (७)- नित्यदेवार्चने होमे सन्ध्यायां श्राद्धकर्मणि । स्नाने दाने तथा घ्याने प्राणायामास्त्रयः स्मृता । (व्यासः) । (८)- नीलपङ्कजविख्यातमानीय नाभिमध्यतः । महात्मानं चतुर्बाहुं स केयूरं हरिं स्मरेत् (वृ. पा. सं.) । (९)- हृत्पद्म कुम्भके घ्यायेद् ब्रह्माणं पङ्कजासनम् । रक्तेन्दीवरवर्णाभं चतुर्वक्त्रं पितामहम् । (वृ. पा. सं.) । (१०)- रेचके शङ्करं ध्यायेल्ललाटस्थं त्रिशूलिनम् । शुद्धस्फटिकसङ्काशं संसारार्णवतारकम् । (११)- एवं श्वसनसंरोधे देवतात्रयचिन्तनात् । अग्निवाय्वम्बुसंयोगादन्तरं शुद्ध्यते त्रिभिः । (वृ. पा. सं.) । न प्राणो नाप्यपानेन वेगाद्वायुं समुत्सृजेत् । येन सक्तुं करस्थांश्च निःश्वासो नैव चालयेत् । शनैर्नासापुटाद्वायुमुत्सृजेन्न तु वेगतः (याज्ञ.) ॥ इति सन्ध्याध्यानं आवाहनं च सम्पूर्णम् ।

मन्त्राचमनम्

अथ मन्त्राचमनम्(१) ॥ प्रातः सन्ध्यायाम् - ॐ सूर्यश्चमेति ब्रह्मा ऋषिः प्रकृतिश्छन्दः सूर्यो देवता अपामुपस्पर्शने विनियोगः । (ततः करे चुलुकोदकं गृहीत्वा) ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यद्रात्र्या पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना रात्रिस्तदवलुम्पतु यत्किञ्चिद्दुरितं मयि इदमहमापोऽमृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा (इत्याचम्य(२) पुनस्तूष्णीं द्विराचामेत् ततश्च करं क्षालयेत्) । मध्याह्नसन्ध्यायाम् - ॐ आपः पुनन्त्विति विष्णुरृषिरनुष्टुप्छन्दः आपो देवता अपामुपस्पर्शने विनियोगः । ॐ आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम्, पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम्, यदुच्छिष्टमभोज्यं च यद्वा दुश्चरितं मम सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहꣳस्वाहा ॥ सायं सन्ध्यायाम् - ॐ अग्निश्चमेति रुद्रऋषिः प्रकृतिश्छन्दोऽग्निर्देवता अपामुपस्पर्शने विनियोगः । अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना अहस्तदवलुम्पतु यत्किञ्चिद् दुरितं मयि इदमहमापोऽमृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ॥ मार्जनम्(३) - ॐ आपोहिष्ठेत्यादि मन्त्रस्य सिन्धुद्वीपऋषिर्गायत्रीछन्दः आपो देवता मार्जने विनियोगः (अथ जलाशयस्थैः ताम्रादिपात्रस्थैर्वामहस्तैर्वा जलैः आपोहिष्ठेत्यादिसप्तभिः पदैः शिरसि अष्टमेन भूमौ(४) नवमेन पुनः शिरसि दक्षिणानामिकया मार्जयेत् कुशलाभे कुशेनैव मार्जयेत् ।) ॐ आपोहिष्ठामयो भुवः । ॐ तान ऊर्जे दधात न । ॐ महेरणाय चक्षसे । ॐ यो वः शिवतमो रसः । ॐ तस्य भाजयते ह नः ॐ उशतीरिव मातरः । ॐ तस्मादरङ्ग मामवः । ॐ यस्य क्षयाय जिन्वथ । ॐ आपो जनयथा च नः ॥ आदानप्रक्षेपः - ॐ सुमित्रिया दुर्मित्रया इति द्वयोः प्रजापतिरृषिः यजुश्छन्दः आपो देवता आदानप्रक्षेपे विनियोगः । ॐ सुमित्त्रिया न आप ओषधयः सन्तु (इत्यनेन जलमादाय) ॐ दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यञ्च वयं द्विष्मः (इत्यनेन वामभागे जन्तुहीनस्थले निःक्षिपेत्) ॥ अवभृथः - ॐ द्रुपदादिवेत्यस्य कोकिलो राजपुत्र ऋषिरनुष्टुप् छन्दः आपो देवता सौत्रामण्यवभृथे विनियोगः । ( ॐकारेण जलं वामहस्ते गृहीत्वा तन्न्युब्जेन दक्षिणहस्तेनाच्छाद्य) ॐ द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव । पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः । (इति वारत्रयं पठित्वा तज्जलं शिरसि क्षिपेत्) ॥ अघमर्षणम् - ॐ अघमर्षणसूक्तस्याघमर्षण ऋषिरनुष्टुप् छन्दो भाववृतो देवता अश्वमेधावभृथे विनियोगः । (पुनश्च जलमादाय नासायां योजयित्वा) । ॐ ऋतञ्च सत्यं चाभीद्धात्तपसोऽध्यजायत ततो रात्र्यजायत ततः समुद्रो अर्णवः समुद्रादर्णवादधि संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य मिषतो वशी । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयद् दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः । (इत्यनेनाघ्राय दक्षिणनासया पापपुरुषं निरस्य तज्जलं नावलोक्य वामभागे क्षितौ निक्षिपेत्) । उपस्पर्श - ॐ अन्तश्चरसीति तिरश्चीन ऋषिरनुष्टुप् छन्दः आपो देवता अपामुपस्पर्शने विनियोगः । ॐ अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः, त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् (इत्याचमेत्) ॥ श्रीसूर्यार्घ्यदानम्(५) - ॐकारस्य ब्रह्मा ऋषिर्गायत्रीछन्दोऽग्निर्देवता । महाव्याहृतीनां प्रजापितरृषिः गायत्र्युष्णिगनुष्टुभश्छन्दांसि अग्निवाय्वादित्या देवताः गायत्र्या विश्वामित्र ऋषिर्गायत्रीछन्दः सविता देवता श्रीसूर्यार्घ्यदाने विनियोगः (सूर्याभिमुखस्तिष्ठन् गन्धाक्षतपुष्पयुक्तानि त्रीण्यर्घाणि दद्यात्) । ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्, ॐ ब्रह्मस्वरूपिणे श्रीसूर्यनारायणाय नमः इदमर्घ्यं दत्तं न मम (इत्यर्घत्रयं दत्त्वा दत्तार्घ्योदकेन चक्षुःश्रोत्रस्पर्शनञ्च कुर्यात्)(६) कालातिक्रमे सति चतुर्थं प्रायश्चित्तार्घ्यं देयम् । श्रीसूर्योपस्थानम् - (उत्थाय भूम्यलग्नगुल्फतलभागो वा भूम्यलग्नचरणार्धभागो वा स्वस्तिकाकारपाणिः(७) सूर्याभिमुखः सूर्योपस्थानं कुर्यात्) - ॐ उद्वयमित्यस्य प्रस्कण्व ऋषिः अनुष्टुप् छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः । ॐ उदुत्यमित्यस्य हिरण्यस्तूप ऋषिर्गायत्री छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः । ॐ चित्रमित्यस्य कौत्स ऋषिस्त्रिष्टुप् छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः । ॐ तच्चक्षुरिति दध्यङ्ङाथर्वण ऋषिरक्षरातीतपुर उष्णिक् छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः । ॐ उद्वयं तमसस्परिस्वः पश्यन्त उत्तरम्, देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् । ॐ उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम् । ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने आप्राद्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च । ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् पश्येम शरदः शतं जीवेम शरदः शतꣳ श‍ृणुयाम शरदः शतं प्रब्रवाम शरदः शतमदीनाः श्याम शरदः शतं भूयश्च शरदः शतात् ॥ अथ सन्ध्याप्रयोगान्तरे मन्त्राचमनम् टिप्पणिका । Footnotes for mantrAchamanam in sandhyAprayogaH (१)- कांस्येनायसपात्रेण त्रपुसीसकपित्तलैः । आचान्तः शतकृत्वोऽपि न कदाचन शुद्ध्यति (आह्निककारिका) । (२)- त्रिवृदाचमनम् । (३)- मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया । कुर्याच्चेद्वारिधाराभिस्तत्सर्वं निष्फलं भवेत । (स. या.) ॥ (४)- भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् । शिरस्येव शिरः शब्दो मार्जनज्ञैरुदाहृतः ॥ (५)- कराभ्यां तोयमामन्त्र्य गायत्र्या चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठंस्त्रिः क्षिपेत्सन्ध्ययोः द्वयोः । मध्याह्ने तु सकृच्चैव क्षेपणीयं द्विजादिभिः ॥ ईषन्नम्रः प्रभाते तु मध्याह्ने ऋजुसंस्थितः । उपविष्टस्तु सायाह्ने भूमावर्घ्यं विनिक्षिपेत् (योगीशः) । अप्रवाहोदकस्नानं विप्रपादावनेजनम् । गायत्रीजपमर्घ्यञ्च आदित्याभिमुखश्चरेत् । (स्मृ.) ॥ नार्घ्यञ्जलेक्षिपेदितिशिष्टा । (६)- कालातिक्रमे सति ॐ आकृष्णेन रजसा वर्तमानो निवेशयन्न मृतम्मर्त्यञ्च हिरण्मयेन सविता रथेन देवो याति भुवनानि पश्यन् । ब्रह्मस्वरूपिणे श्रीसूर्यनारायणाय नमः प्रायश्चित्तार्थं इदमर्घ्यं दत्तं न मम । अनेन प्रकारेण चतुर्थार्घ्यं दद्यात् ॥ (७)- प्रातस्तु स्वस्तिकाकारौ मध्याह्ने तूर्ध्वबाहुकौ । सायं मुकुलिताकारौ उपस्थाने करौ स्मृतौ । इति मन्त्राचमनम् ।

गायत्र्यावाहनम्

वैदिकावाहनम् - ॐ तेजोऽसीति देवा ऋषयो गायत्री छन्दः शुक्रं दैवतं गायत्र्यावाहने विनियोगः । (नमस्कारमुद्रां कृत्वा) ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियं देवानामनाधृष्टं देवयजनमसि ॥ लौकिकावाहनम् - ॐ आगच्छ वरदे देवि जपे मे सन्निधौ भव । गायन्तं त्रायसे यस्मात् गायत्री त्वं ततः स्मृता । (इत्यावाह्य) गायत्र्युपस्थानम् - गायत्र्यसीति विमलऋषिः पङ्क्तिश्छन्दः परमात्मा देवता गायत्र्युपस्थाने विनियोगः (उपस्थानमुद्रां कृत्वा) - ॐ गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि नहि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परो रजसेऽसावदो मा प्रापत् (इत्युपस्थाय ध्यानमुद्रां कृत्वा ध्यायेत्) । गायत्रीध्यानम् - ॐ श्वेतवर्णा समुद्दिष्टा कौशेयवसना तथा । श्वेतैर्विलेपनैः पुष्पैरलङ्कारैश्च भूषिता । आदित्यमण्डलस्था च ब्रह्मलोकगताथ वा । अक्षसूत्रधरा देवी पद्मासनगता शुभा । (इति ध्यात्वा) गायत्रीजपः(१) - ॐकारस्य ब्रह्मा ऋषिर्गायत्री छन्दोऽग्निर्देवता शुक्लो वर्णः जपे विनियोगः । ॐ त्रिव्याहृतीनां प्रजापतिरृषिर्गायत्र्युष्णिगनुष्टुभश्छन्दांस्यग्निवाय्वादित्या देवता जपे विनियोगः । ॐ गायत्र्या विश्वामित्र-ऋषिर्गायत्री छन्दः सविता देवता शुक्लो वर्णः अग्निर्मुखं ब्रह्मा शिरो विष्णुहृदयं रुद्र कवचं परमात्मा शरीरं साङ्ख्यायनषट्स्वरा सरस्वती जिह्वा पिङ्गाक्षी त्रिपदा गायत्री सवितुः प्रीतये अष्टोत्तरशतसङ्ख्यया(२) जपे विनियोगः । (इति विनियोगं कृत्वा वस्त्राच्छादितां(३) जपमालां गोमुखीं वा नाभिदेशे(४) धृत्वा) - गायत्रीमन्त्रः - ॐ भूर्भुवः स्वः ॐ तत्सवितुर्वरेण्यं(५) भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् (एवं प्रवाल-रुद्राक्ष-स्फटिकमौक्तिकादिनिर्मितया मालया(६) करमालया(७) वा मन्त्रार्थं ध्यायमन्मौनी सूर्याभिमुखस्तिष्ठन्(८) आमण्डलदर्शनाद्यथा(९) शक्ति जपेत् ततः करसम्पुटं कृत्वा ॐ देवागातु विदोगातु वित्त्वागातु मितमनसस्पत इमं देवयज्ञꣳ स्वाहा वातेधाः (इति पठित्वा दक्षिणकरे जलमादाय) । जपार्पणम् - अनेन प्रातः(१०) सन्ध्याङ्गभूतेन अमुकसङ्ख्याकेन गायत्रीमन्त्रजपाख्येन(१२) कर्मणा श्रीभगवान् ब्रह्मस्वरूपी(१३) सविता प्रीयतां नमः । (इति जलं क्षिपेत्) । प्रार्थना - यदक्षरपदभ्रष्टं मात्राहीनन्तु यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि । (इति प्रणिपत्य) । श्रीसूर्यप्रदक्षिणा(१४) - ॐ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदेपदे ॥ (इति श्रीसूर्यं प्रदक्षिणीकृत्य प्रणमेत्) । श्रीसूर्यप्रणामः - ॐ एकचक्र इत्यस्य नारायण ऋषिः उष्णिक् छन्दः श्रीसूर्यो देवता सूर्यनमस्कारे विनियोगः । (इति विनियोगं कृत्वा हस्तौ समानीय) ॐ एकचक्रो रथो यस्य दिव्यः कनकभूषितः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः । (इति नत्वा सूर्याभिमुखस्तिष्ठन् घण्टावत्-रणरणत्स्वरेण प्रणवोच्चारणं कुर्यात्) । सन्ध्याविसर्जनम्(१५) - स्तुता मया वरदा वेदमाता प्रचोदयन्तां पावमानी द्विजानाम् । आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसं मह्यं दत्त्वा व्रजत ब्रह्मलोकम् । ॐ उत्तरे शिखरे इत्यस्य कश्यप ऋषिरनुष्टुप् छन्दः सन्ध्या देवता सन्ध्याविसर्जने विनियोगः । ॐ उत्तरे शिखरे देवि भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् । (इत्यनेन संहारमुद्रया(१६) सन्ध्यां विसर्जयेत्) ॥ देवब्राह्मणनमस्कारः - (नमस्कारमुद्रां कृत्वा) - ॐ तत्सत् । ॐ सन्ध्यायै नमः । ॐ गायत्र्यै नमः । ॐ सावित्र्यै नमः । ॐ सरस्वत्यै नमः । ॐ सर्वेभ्यो देवताभ्यो नमः । ॐ आसत्यलोकात्पातालादालोकालोकपर्वतात् । ये सन्ति ब्राह्मणा देवास्तेभ्यो नित्यं नमो नमः । यज्ञात्मने नमस्कारः - चतुर्भिश्च(१७) चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः । (इति नमस्कृत्य) ॥ ईश्वरस्तुतिः - ॐ आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्विष्णोः सम्पूर्णं स्यादिति श्रुतिः ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् । नमस्कृतिपूर्वकशुभकामना - (करौ बद्ध्वा प्रणमेत्) ॐ नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि, त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु मां अवतु वक्तारम् ॥ मा मतिः परदारेषु परद्रव्येषु मा मतिः । परापवादिनी जिह्वा मा भूज्जन्मनि जन्मनि । सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् । अनायासेन मरणं विना दैन्येन जीवनम् । देहान्ते परमं स्थानं देहि मे परमेश्वर ॥ (इति सम्प्रार्थ्य) । अर्पणम् - (जलं गृहीत्वा) । ॐ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ अनेन प्रातः(१८) सन्ध्योपासनाख्येन कर्मणा भगवान् ब्रह्मस्वरूपो(१९) परमेश्वरः प्रीयतां नमः (इति जलं क्षिपेत्) । ततो द्विराचमनम्(२०) । ॐ ऋग्वेदाय स्वाहा, ॐ यजुर्वेदाय स्वाहा, ॐ सामवेदाय स्वाहा । हस्तप्रक्षालनम् - ॐ अथर्ववेदाय नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः । आसनाधः जलं क्षिप्त्वा ॐ शक्राय नमः इत्युच्चार्य्य स्वमस्तके(२१) मृदं धृत्वा सन्ध्यावशिष्टजलं(२२) क्षिपेत् । ॥ इति सन्ध्याप्रयोगः(२३) ॥ अथ सन्ध्याप्रयोगान्तरे गायत्र्यावाहनस्य टिप्पणिका । Footnotes for gAyatryAvAhanam in sandhyAprayogaH (१)- मनोमध्ये स्थितो मन्त्रो मन्त्रमध्ये स्थितं मनः । मनोमन्त्रसमायुक्तं एतद्धि जपलक्षणम् ॥ कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायत्र्यग्निमुखी प्रोक्ता तस्मादुत्थाय तां जपेत् ॥ (गोभिलः)। अङ्गुष्ठाग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घनात् । असङ्ख्यातं तथा जप्तं तत्सर्वं निष्फलं भवेत् ॥ (यमः) । (विशेषजपनियमास्तु जपविधेष्टिप्पण्यामग्रे द्रष्टव्याः) ॥ (२)- अत्र दश अष्टाविंशति, अष्टोत्तरशत, सहस्र इत्येषां मध्ये अनुष्ठेयं पदं योज्यं (३)- वस्रेणाच्छाद्य तु करं दक्षिणं यः सदा जपेत् । तस्य स्यात्सफलं जाप्यं तद्धीनमफलं स्मृतम् । अतएव जपार्थं तु गोमुखी घ्रियते जनैः । (व्यासः) ॥ (४)- प्रातर्नाभौ करं कृत्वा मध्याह्ने हृदि संस्थितम् । सायं जपेच्च नासाग्रे ह्येतजपविधिः स्मृतः ॥ (५)- पाठकाले वरेण्यं स्याज्जपकाले वरेणियम् (इति शिक्षावचने पैठीनसिनोक्तम्) । (६)- अष्टशतं चतुःपञ्चाशत् सप्तविंशतिर्वा मालामणयः । (ध. सि. सा.) ॥ (७)- करमालाप्रकारः - पर्वभिस्तु जपेद्देवीं माला काम्यजपे स्मृता । गायत्री वेदमूला स्याद्वेदः पर्वसु गीयते । आरभ्यानामिकामध्ये पर्वाण्युक्तान्यनुक्रमात् । तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु । मध्यमाङ्गुलिमूले तु यत्पर्वन्द्वितयं भवेत् । तत्तु मेरुं विजानीयाज्जपे तन्नातिलङ्घयेत् । (गा. क.) । (८)- प्रातर्मन्ध्याह्नयोस्तिष्ठन् सायमासीन एव च । (९)- सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं यः पठेद्विप्रो न स पापेन लिप्यते । (ल. अ. स.) ॥ अन्यच्च - अष्टोत्तरशतं नित्यमष्टाविंशतिरेव वा । विधिना दशकं वापि त्रिकालेषु जपेद् बुधः । (व्या.) सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात् त्वचेवाहिर्विमुच्यते । (मनुः) । ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रजा यशश्च कीर्तिश्च ब्रह्मवर्चसमेव च, इति मनुनाऽपि गायत्रीजप एव सन्ध्यापदं प्रयुक्तं गायत्रीजपेन दीर्घायुर्भवतीति ॥ (१०)- मध्याह्ने - मध्याह्नम्, सायङ्काले - सायं इत्यूहः कार्यः ॥ (११)- अत्र दश, अष्टाविंशति, अष्टोत्तरशत, सहस्र इत्येषां मध्ये अनुष्ठितं पदं योज्यम् । (१२)- यत्कृते दशभिर्वर्षैस्त्रेतायां हायनेन यत् । द्वापरे यत्तु मासेन अहोरात्रेण तत्कलौ ॥ तपसो ब्रह्मचर्यस्य जपादेश्च फलं द्विजाः । प्राप्नोति पुरुषस्तेन कलिमाप्नोति मानवः ॥ (विष्णुपुराण) । (१३)- मध्याह्नसायं-सन्ध्ययोः ब्रह्म इत्यस्य स्थाने क्रमेण रुद्रविष्णु इत्यूहः कार्यः । (१४)- एकां चण्ड्यां रवौ सप्त तिस्रो दद्याद्विनायके । चतस्रो विष्णवे दद्याच्छिवे सार्द्धं प्रदक्षिणाः । (लिङ्गार्चनचन्द्रिका) ॥ ब्राह्मणानामपि चतस्र एव प्रदक्षिणास्तेषामपि हरिरूपतायाः शास्त्रनिरूपितत्वात् ॥ (१५)- न स द्विजो यो न करोति सन्ध्यां, सन्ध्या न सा या मनसो विशुद्धिम् । शुद्धिर्न सा यत्र न सत्यमस्ति सत्यन्न तन्निर्भयता न यत्र । (१६)- करपृष्ठभागौ संस्पृष्टौ कृत्वा परस्पराकुञ्चिताङ्गुलिकौ अधोमार्गेण भ्रामयेदेषा संहारमुद्रा । (मन्त्रसारे) ॥ (१७)- आश्रावयेति चतुरक्षरम् । अस्तु श्रौषडिति चतुक्षरम् । यजेति द्व्यक्षरम् । यजामहे इति पञ्चाक्षरम् । द्व्यक्षरो वषट्कार इति सप्तदशभिरक्षरैर्यो हूयते तस्मै यज्ञात्मने नमः ॥ (१८)- मध्याह्ने - मध्याह्नम्, सायङ्काले - सायं इत्यूहः कार्यः । (१९)- मध्याह्न - सायं सन्ध्ययोः ब्रह्मस्वरूपी इत्यस्य स्थाने क्रमेण रुद्रविष्णु इति योजनीयम् । (२०)- होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेदन्यत्रापि सकृत्सकृत् । द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥ (२१)- अप्रोक्षितजपस्थानाच्छक्रो हरति तज्जपम् । तन्मृदा-लक्ष्म कुर्वीत ललाटे तिलकाकृति ॥ (२२)- पादशेषं पीतशेषं सन्ध्याशेषं तथैव च । शुनो मूत्रसमं तोयं पीत्वा चान्द्रायणं चरेत् ॥ (२३)- सन्ध्याफलम् - सन्ध्यामुपासते ये तु सततं शंसितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकं सनातनम् (अत्रिः) । दिवा वा यदि वा रात्रौ यदज्ञानकृतं भवेत् । त्रिकालसन्ध्याकरणात्तत्सर्वं विप्रणश्यति । (याज्ञ.) ॥ सन्ध्याऽकरणे दोषः - नानुतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् । (दक्षः) । स्नानं सन्ध्यां त्यजन्विप्रः सप्ताहाच्छूद्रतां ब्रजेत् (कात्यायनः) ॥ दोषापवादः - देवाग्निद्विजविद्यानां कार्ये महति संस्थिते । सन्ध्याहानौ न दोषोऽस्ति यतस्तत्पुण्यसाधनम् ॥ सन्ध्यात्यागे प्रायश्चित्तं - सर्वथा सन्ध्यालोपे प्रति सन्ध्यमेकोपवासोऽवृतमष्टोत्तरशतसहस्रं वा गायत्रीजपः । अत्यशक्तौ सत्यां सन्ध्यालोपे शतगायत्रीजपः द्व्यहं त्र्यहं लोपे तदावृत्तिः ततः परं कृच्छ्रादि कल्प्यम् । (ध. सिं. सा.) । राष्ट्रभङ्गे नृपक्रोधे रोगार्त्ते सूतकेऽपि च । सन्ध्यावन्दनविच्छित्तिर्न दोषाय कदाचन । (जमदग्निः) ॥ इति गायत्र्यावाहनं सम्पूर्णम् । इति सन्ध्याप्रयोगः सम्पूर्णः । Proofread by Paresh Panditrao, NA, KS Sheshadri Sharma
% Text title            : Sandhya Prayogah
% File name             : sandhyAprayogaH.itx
% itxtitle              : sandhyAprayogaH (sandhyAdhyAnamAvAhanancha mantrAchamanam gAyatryAvAhanam sahitam)
% engtitle              : sandhyAprayogaH
% Category              : major_works, pUjA
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao, NA, KS Sheshadri Sharma
% Indexextra            : (Scan)
% Latest update         : December 24, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org