|| devI mAhAtmyam or durgAsaptashatI || || देवी माहात्म्यम् एवं दुर्गासप्तशती || || देवी माहात्म्यम् || || श्री || || श्रीचण्डिकाध्यानम् || ॐ बन्धूककुसुमाभासां पञ्चमुण्डाधिवासिनीम् | स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीम् || त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीम् | पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् || दधतीं संस्मरेन्नित्यमुत्तराम्नायमानिताम् | अथवा या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी | शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ||
|| अथ अर्गलास्तोत्रम् || ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुरृषिः, अनुष्टुप् छन्दः, श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतये सप्तशतिपाठाङ्गत्वेन जपे विनियोगः | ॐ नमश्चण्डिकायै | मार्कण्डेय उवाच | ॐ जय त्वं देवि चामुण्डे जय भूतापहारिणि | जय सर्वगते देवि कालरात्रि नमोऽस्तु ते || १|| जयन्ती मङ्गला काली भद्रकाली कपालिनी | दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते || २|| मधुकैटभविध्वंसि विधातृवरदे नमः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ३|| महिषासुरनिर्नाशि भक्तानां सुखदे नमः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ४|| धूम्रनेत्रवधे देवि धर्मकामार्थदायिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ५|| रक्तबीजवधे देवि चण्डमुण्डविनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ६|| निशुम्भशुम्भनिर्नाशि त्रैलोक्यशुभदे नमः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ७|| वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ८|| अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ९|| नतेभ्यः सर्वदा भक्त्या चापर्णे दुरितापहे | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १०|| स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || ११|| चण्डिके सततं युद्धे जयन्ति पापनाशिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १२|| देहि सौभाग्यमारोग्यं देहि देवि परं सुखम् | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १३|| विधेहि देवि कल्याणं विधेहि विपुलां श्रियम् | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १४|| विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १५|| सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १६|| विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तञ्च मां कुरु | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १७|| देवि प्रचण्डदोर्दण्डदैत्यदर्पनिषूदिनि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १८|| प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे | रूपं देहि जयं देहि यशो देहि द्विषो जहि || १९|| चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २०|| कृष्णेन संस्तुते देवि शश्वद्भक्त्या सदाम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २१|| हिमाचलसुतानाथसंस्तुते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २२|| इन्द्राणीपतिसद्भावपूजिते परमेश्वरि | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २३|| देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २४|| भार्यां मनोरमां देहि मनोवृत्तानुसारिणीम् | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २५|| तारिणि दुर्गसंसारसागरस्याचलोद्भवे | रूपं देहि जयं देहि यशो देहि द्विषो जहि || २६|| इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः | सप्तशतीं समाराध्य वरमाप्नोति दुर्लभम् || २७|| || इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् ||
|| अथ कीलकस्तोत्रम् || ॐ अस्य श्रीकीलकमन्त्रस्य शिवऋषिः, अनुष्टुप् छन्दः, श्रीमहासरस्वती देवता, श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः | ॐ नमश्चण्डिकायै | मार्कण्डेय उवाच | ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे | श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे || १|| सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् | सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः || २|| सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि | एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः || ३|| न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते | विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् || ४|| समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः | कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् || ५|| स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः | समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् || ६|| सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः | कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः || ७|| ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति | इत्थं रूपेण कीलेन महादेवेन कीलितम् || ८|| यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः | स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् || ९|| न चैवापाटवं तस्य भयं क्वापि न जायते | नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् || १०|| ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति | ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः || ११|| सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने | तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभम् || १२|| शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः | भवत्येव समग्रापि ततः प्रारभ्यमेव तत् || १३|| ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च | शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः || १४|| चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः | हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् || १५|| अग्रतोऽमुं महादेवकृतं कीलकवारणम् | निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः || १६|| || इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम् ||
|| अथ देवी कवचम् || अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः , अनुष्टुप् छन्दः , चामुण्डा देवता , अङ्गन्यासोक्तमातरो बीजम् , दिग्बन्धदेवतास्तत्वम् , श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः | ॐ नमश्चण्डिकायै | मार्कण्डेय उवाच | ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् | यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह || १|| ब्रह्मोवाच | अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् | देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने || २|| प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी | तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् || ३|| पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा | सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् || ४|| नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः | उक्तान्येतानि नामानि ब्रह्मणैव महात्मना || ५|| अग्निना दह्यमानास्तु शत्रुमध्यगता रणे | विषमे दुर्गमे चैव भयार्ताः शरणं गताः || ६. न तेषां जायते किञ्चिदशुभं रणसङ्कटे | आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् || ७|| यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते | ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः || ८|| प्रेतसंस्था तु चामुण्डा वाराही महिषासना | ऐन्द्री गजसमारूढा वैष्णवी गरुडासना || ९|| नारसिंही महावीर्या शिवदूती महाबला | माहेश्वरी वृषारूढा कौमारी शिखिवाहना || १०|| लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया | श्वेतरूपधरा देवी ईश्वरी वृषवाहना || ११|| ब्राह्मी हंससमारूढा सर्वाभरणभूषिता | इत्येता मातरः सर्वाः सर्वयोगसमन्विताः || १२|| नानाभरणशोभाढ्या नानारत्नोपशोभिताः | श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः || १३|| इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः | दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः || १४|| शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् | खेटकं तोमरं चैव परशुं पाशमेव च || १५|| कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् | दैत्यानां देहनाशाय भक्तानामभयाय च || १६|| धारयन्त्यायुधानीत्थं देवानां च हिताय वै | नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे || १७|| महाबले महोत्साहे महाभयविनाशिनि | त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि || १८|| प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता | दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी || १९|| प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी | उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी || २०|| ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा | एवं दश दिशो रक्षेच्चामुण्डा शववाहना || २१|| जया मामग्रतः पातु विजया पातु पृष्ठतः | अजिता वामपार्श्वे तु दक्षिणे चापराजिता || २२|| शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता | मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी || २३|| नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके | त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका || २४|| शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी | कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी || २५|| नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका | अधरे चामृताबाला जिह्वायां च सरस्वती || २६|| दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका | घण्टिकां चित्रघण्टा च महामाया च तालुके || २७|| कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला | ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी || २८|| नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी | स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी || २९|| हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च | नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी || ३०|| स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी | हृदये ललिता देवी उदरे शूलधारिणी || ३१|| नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा | मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी || ३२|| कट्यां भगवती रक्षेदूरू मे मेघवाहना | जङ्घे महाबला रक्षेत् जानू माधवनायिका || ३३|| गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी | पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी || ३४|| नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी | रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा || ३५|| रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती | अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी || ३६|| पद्मावती पद्मकोशे कफे चूडामणिस्तथा | ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु || ३७|| शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा | अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी || ३८|| प्राणापानौ तथा व्यानमुदानं च समानकम् | वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना || ३९|| रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी | सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा || ४०|| आयू रक्षतु वाराही धर्मं रक्षतु पार्वती | यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी || ४१|| गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका | पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी || ४२|| धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा | पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा || ४३|| राजद्वारे महालक्ष्मीर्विजया सतत स्थिता | रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु || ४४|| तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी | सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् || ४५|| इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् || पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः || ४६|| कवचेनावृतो नित्यं यत्र यत्रैव गच्छति | तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः || ४७|| यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् | परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् || ४८|| निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः | त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् || ४९|| इदं तु देव्याः कवचं देवानामपि दुर्लभम् | यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः || ५०|| दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः | जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः || ५१|| नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः | स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् || ५२|| अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले | भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः || ५३|| सहजा कुलजा माला डाकिनी शाकिनी तथा | अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः || ५४|| ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः | ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः || ५५|| नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः | मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिः परा भवेत् || ५६|| यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते | तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने || ५७|| जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा | निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा || ५८|| यावद्भूमण्डलं धत्ते सशैलवनकाननम् | तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी || ५९|| देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् | प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः || ६०|| तत्र गच्छति गत्वासौ पुनश्चागमनं नहि | लभते परमं स्थानं शिवेन समतां व्रजेत् || ६१|| || इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम् ||
|| देवी माहात्म्यम् || % || श्रीदुर्गायै नमः || || अथ श्रीदुर्गासप्तशती || || प्रथमोऽध्यायः || विनियोगः अस्य श्री प्रथमचरित्रस्य | ब्रह्मा ऋषिः | महाकाली देवता | गायत्री छन्दः | नन्दा शक्तिः | रक्तदन्तिका बीजम् | अग्निस्तत्त्वम् | ऋग्वेदः स्वरूपम् | श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः | | ध्यानम् | ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् | नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कौटभम् || ॐ नमश्चण्डिकायै || ॐ ऐं मार्कण्डेय उवाच || १|| सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः | निशामय तदुत्पत्तिं विस्तराद्गदतो मम || २|| महामायानुभावेन यथा मन्वन्तराधिपः | स बभूव महाभागः सावर्णिस्तनयो रवेः || ३|| स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः | सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले || ४|| तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् | बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा || ५|| तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः | न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः || ६|| ततः स्वपुरमायातो निजदेशाधिपोऽभवत् | आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः || ७|| अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः | कोशो बलं चापहृतं तत्रापि स्वपुरे ततः || ८|| ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः | एकाकी हयमारुह्य जगाम गहनं वनम् || ९|| स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः | प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् || १०|| तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः | इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे || ११|| सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः | मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् || १२|| मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा | न जाने स प्रधानो मे शूरो हस्ती सदामदः || १३|| मम वैरिवशं यातः कान् भोगानुपलप्स्यते | ये ममानुगता नित्यं प्रसादधनभोजनैः || १४|| अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् | असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् || १५|| संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति | एतच्चान्यच्च सततं चिन्तयामास पार्थिवः || १६|| तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः | स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः || १७|| सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे | इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् || १८|| प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् || १९|| वैश्य उवाच || २०|| समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले || २१|| पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः | विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् || २२|| वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः | सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् || २३|| प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः | किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् || २४|| कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः || २५|| राजोवाच || २६|| यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः || २७|| तेषु किं भवतः स्नेहमनुबध्नाति मानसम् || २८|| वैश्य उवाच || २९|| एवमेतद्यथा प्राह भवानस्मद्गतं वचः || ३०|| किं करोमि न बध्नाति मम निष्ठुरतां मनः | यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः || ३१|| पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः | किमेतन्नाभिजानामि जानन्नपि महामते || ३२|| यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु | तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते || ३३|| करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् || ३४|| मार्कण्डेय उवाच || ३५|| ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ || ३६|| समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः | कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् || ३७|| उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ || ३८|| राजोवाच || ३९|| भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् || ४०|| दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना | ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि || ४१|| जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम | अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः || ४२|| स्वजनेन च संत्यक्तस्तेषु हार्दी तथाप्यति | एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ || ४३|| दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ | तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि || ४४|| ममास्य च भवत्येषा विवेकान्धस्य मूढता || ४५|| ऋषिरुवाच || ४६|| ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे || ४७|| विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् | दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे || ४८|| केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः | ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् || ४९|| यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः | ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् || ५०|| मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः | ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु || ५१|| कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा | मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति || ५२|| लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि | तथापि ममतावर्त्ते मोहगर्ते निपातिताः || ५३|| महामायाप्रभावेण संसारस्थितिकारिणा | तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः || ५४|| महामाया हरेश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती हि सा || ५५|| बलादाकृष्य मोहाय महामाया प्रयच्छति | तया विसृज्यते विश्वं जगदेतच्चराचरम् || ५६|| सैषा प्रसन्ना वरदा नृणां भवति मुक्तये | सा विद्या परमा मुक्तेर्हेतुभूता सनातनी || ५७|| संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी || ५८|| राजोवाच || ५९|| भगवन् का हि सा देवी महामायेति यां भवान् || ६०|| ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज | यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा || ६१|| तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर || ६२|| ऋषिरुवाच || ६३|| नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् || ६४|| तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम | देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा || ६५|| उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते | योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते || ६५|| आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः | तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ || ६७|| विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ | स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः || ६८|| दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् | तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः || ६९|| विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् | विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् || ७०|| निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || ७१|| ब्रह्मोवाच || ७२|| त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका || ७३|| सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता | अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः || ७४|| त्वमेव संध्या सावित्री त्वं देवि जननी परा | त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् || ७५|| त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा | विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने || ७६|| तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये | महाविद्या महामाया महामेधा महास्मृतिः || ७७|| महामोहा च भवती महादेवी महेश्वरी | प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी || ७८|| कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा | त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा || ७९|| लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च | खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा || ८०|| शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा | सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी || ८१|| परापराणां परमा त्वमेव परमेश्वरी | यच्च किंचित्क्वचिद्वस्तु सदसद्वाखिलात्मिके || ८२|| तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया | यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् || ८३|| सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः | विष्णुः शरीरग्रहणमहमीशान एव च || ८४|| कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् | सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता || ८५|| मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ | प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु || ८६|| बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ || ८७|| ऋषिरुवाच || ८८|| एवं स्तुता तदा देवी तामसी तत्र वेधसा || ८९|| विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ | नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः || ९०|| निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः | उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः || ९१|| एकार्णवेऽहिशयनात्ततः स ददृशे च तौ | मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ || ९२|| क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ | समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः || ९३|| पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः | तावप्यतिबलोन्मत्तौ महामायाविमोहितौ || ९४|| उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् || ९५|| श्रीभगवानुवाच || ९६|| भवेतामद्य मे तुष्टौ मम वध्यावुभावपि || ९७|| किमन्येन वरेणात्र एतावद्धि वृतं मया || ९८|| ऋषिरुवाच || ९९|| वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् || १००|| विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः | आवां जहि न यत्रोर्वी सलिलेन परिप्लुता || १०१|| ऋषिरुवाच || १०२|| तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता | कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः || १०३|| एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् | प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते || १०४|| | ऐं ॐ | || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः || १||
|| द्वितीयोऽध्यायः || विनियोगः अस्य श्री मध्यमचरित्रस्य विष्णुरृषिः | श्रीमहालक्ष्मीर्देवता | उष्णिक् छन्दः | शाकम्भरी शक्तिः | दुर्गा बीजम् | वायुस्तत्त्वम् | यजुर्वेदः स्वरूपम् | श्रीमहालक्ष्मीप्रीत्यर्थे मध्यमचरित्रजपे विनियोगः | | ध्यानम् | ॐ अक्षस्रक्परशू गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् | शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् || ॐ ह्रीं ऋषिरुवाच || १|| देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा | महिषेऽसुराणामधिपे देवानां च पुरन्दरे || २|| तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् | जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः || ३|| ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् | पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ || ४|| यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् | त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् || ५|| सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च | अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति || ६|| स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि | विचरन्ति यथा मर्त्या महिषेण दुरात्मना || ७|| एतद्वः कथितं सर्वममरारिविचेष्टितम् | शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् || ८|| इत्थं निशम्य देवानां वचांसि मधुसूदनः | चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ || ९|| ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः | निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च || १०|| अन्येषां चैव देवानां शक्रादीनां शरीरतः | निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत || ११|| अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् | ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् || १२|| अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् | एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा || १३|| यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् | याम्येन चाभवन् केशा बाहवो विष्णुतेजसा || १४|| सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् | वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः || १५|| ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा | वसूनां च कराङ्गुल्यः कौबेरेण च नासिका || १६|| तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा | नयनत्रितयं जज्ञे तथा पावकतेजसा || १७|| भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्य च | अन्येषां चैव देवानां सम्भवस्तेजसां शिवा || १८|| ततः समस्तदेवानां तेजोराशिसमुद्भवाम् | तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः | ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च || १९|| शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् | चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः || २०|| शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः | मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी || २१|| वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः | ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् || २२|| कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ | प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् || २३|| समस्तरोमकूपेषु निजरश्मीन् दिवाकरः | कालश्च दत्तवान् खड्गं तस्यै चर्म च निर्मलम् || २४|| क्षीरोदश्चामलं हारमजरे च तथाम्बरे | चूडामणिं तथा दिव्यं कुण्डले कटकानि च || २५|| अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु | नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् || २६|| अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च | विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् || २७|| अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् | अम्लानपङ्कजां मालां शिरस्युरसि चापराम् || २८|| अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् | हिमवान् वाहनं सिंहं रत्नानि विविधानि च || २९|| ददावशून्यं सुरया पानपात्रं धनाधिपः | शेषश्च सर्वनागेशो महामणिविभूषितम् || ३०|| नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् | अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा || ३१|| सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः | तस्या नादेन घोरेण कृत्स्नमापूरितं नभः || ३२|| अमायतातिमहता प्रतिशब्दो महानभूत् | चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे || ३३|| चचाल वसुधा चेलुः सकलाश्च महीधराः | जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् || ३४|| तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः | दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः || ३५|| सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः | आः किमेतदिति क्रोधादाभाष्य महिषासुरः || ३६|| अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः | स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा || ३७|| पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् | क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् || ३८|| दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् | ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् || ३९|| शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् | महिषासुरसेनानीश्चिक्षुराख्यो महासुरः || ४०|| युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः | रथानामयुतैः षड्भिरुदग्राख्यो महासुरः || ४१|| अयुध्यतायुतानां च सहस्रेण महाहनुः | पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः || ४२|| अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे | गजवाजिसहस्रौघैरनेकैः परिवारितः || ४३|| वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत | बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः || ४४|| युयुधे संयुगे तत्र रथानां परिवारितः | अन्ये च तत्रायुतशो रथनागहयैर्वृताः || ४५|| युयुधुः संयुगे देव्या सह तत्र महासुराः | कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा || ४६|| हयानां च वृतो युद्धे तत्राभून्महिषासुरः | तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा || ४७|| युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः | केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे || ४८|| देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः | सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका || ४९|| लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी | अनायस्तानना देवी स्तूयमाना सुरर्षिभिः || ५०|| मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी | सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी || ५१|| चचारासुरसैन्येषु वनेष्विव हुताशनः | निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका || ५२|| त एव सद्यः सम्भूता गणाः शतसहस्रशः | युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः || ५३|| नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः | अवादयन्त पटहान् गणाः शङ्खांस्तथापरे || ५४|| मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे | ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः || ५५|| खड्गादिभिश्च शतशो निजघान महासुरान् | पातयामास चैवान्यान् घण्टास्वनविमोहितान् || ५६|| असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् | केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे || ५७|| विपोथिता निपातेन गदया भुवि शेरते | वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः || ५८|| केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि | निरन्तराः शरौघेण कृताः केचिद्रणाजिरे || ५९|| श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः | केषांचिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे || ६०|| शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः | विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः || ६१|| एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः | छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः || ६२|| कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः | ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः || ६३|| कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः | तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः || ६४|| पातितै रथनागाश्वैरसुरैश्च वसुन्धरा | अगम्या साभवत्तत्र यत्राभूत् स महारणः || ६५|| शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः | मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् || ६६|| क्षणेन तन्महासैन्यमसुराणां तथाम्बिका | निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् || ६७|| स च सिंहो महानादमुत्सृजन् धुतकेसरः | शरीरेभ्योऽमरारीणामसूनिव विचिन्वति || ६८|| देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः | यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि || ६९|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः || २||
|| तृतीयोऽध्यायः || ॐ ऋषिरुवाच || १|| निहन्यमानं तत्सैन्यमवलोक्य महासुरः | सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् || २|| स देवीं शरवर्षेण ववर्ष समरेऽसुरः | यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः || ३|| तस्य छित्वा ततो देवी लीलयैव शरोत्करान् | जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् || ४|| चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् | विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः || ५|| सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः | अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः || ६|| सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि | आजघान भुजे सव्ये देवीमप्यतिवेगवान् || ७|| तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन | ततो जग्राह शूलं स कोपादरुणलोचनः || ८|| चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः | जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् || ९|| दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत | तेन तच्छतधा नीतं शूलं स च महासुरः || १०|| हते तस्मिन्महावीर्ये महिषस्य चमूपतौ | आजगाम गजारूढश्चामरस्त्रिदशार्दनः || ११|| सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् | हुंकाराभिहतां भूमौ पातयामास निष्प्रभाम् || १२|| भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः | चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् || १३|| ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः | बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा || १४|| युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ | युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः || १५|| ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा | करप्रहारेण शिरश्चामरस्य पृथक् कृतम् || १६|| उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः | दन्तमुष्टितलैश्चैव करालश्च निपातितः || १७|| देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् | बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् || १८|| उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् | त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी || १९|| बिडालस्यासिना कायात् पातयामास वै शिरः | दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् || २०|| एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः | माहिषेण स्वरूपेण त्रासयामास तान् गणान् || २१|| कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान् | लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारितान् || २२|| वेगेन कांश्चिदपरान्नादेन भ्रमणेन च | निःश्वासपवनेनान्यान्पातयामास भूतले || २३|| निपात्य प्रमथानीकमभ्यधावत सोऽसुरः | सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका || २४|| सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः | शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च || २५|| वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत | लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः || २६|| धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः | श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः || २७|| इति क्रोधसमाध्मातमापतन्तं महासुरम् | दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् || २८|| सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् | तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे || २९|| ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः | छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत || ३०|| तत एवाशु पुरुषं देवी चिच्छेद सायकैः | तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः || ३१|| करेण च महासिंहं तं चकर्ष जगर्ज च | कर्षतस्तु करं देवी खड्गेन निरकृन्तत || ३२|| ततो महासुरो भूयो माहिषं वपुरास्थितः | तथैव क्षोभयामास त्रैलोक्यं सचराचरम् || ३३|| ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् | पपौ पुनः पुनश्चैव जहासारुणलोचना || ३४|| ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः | विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् || ३५|| सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः | उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् || ३६|| देव्युवाच || ३७|| गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् | मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः || ३८|| ऋषिरुवाच || ३९|| एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् | पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् || ४०|| ततः सोऽपि पदाक्रान्तस्तया निजमुखात्तदा | अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः || ४१|| अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः | तया महासिना देव्या शिरश्छित्त्वा निपातितः || ४२|| ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् | प्रहर्षं च परं जग्मुः सकला देवतागणाः || ४३|| तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः | जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः || ४४|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः || ३||
|| चतुर्थोऽध्यायः || ॐ ऋषिरुवाच || १|| शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या | तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः || २|| देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या | तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः || ३|| यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च | सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु || ४|| या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः | श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् || ५|| किं वर्णयाम तव रूपमचिन्त्यमेतत् किंचातिवीर्यमसुरक्षयकारि भूरि | किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु || ६|| हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा | सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या || ७|| यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि | स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च || ८|| या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः | मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि || ९|| शब्दात्मिका सुविमल{ग्य}र्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् | देवि त्रयी भगवती भवभावनाय वार्तासि सर्वजगतां परमा{ति}र्हन्त्री || १०|| मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा | श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा || ११|| ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् | अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण || १२|| दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः | प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन || १३|| देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि | विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य || १४|| ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बन्धुवर्गः | धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना || १५|| ध{म्या}र्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति | स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन || १६|| दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि | दारिद्रदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदा{द्र}र्चित्ता || १७|| एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् | संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि || १८|| दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् | लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषुसाध्वी || १९|| खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् | यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् || २०|| दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः | वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् || २१|| केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र | चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि || २२|| त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा | नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते || २३|| शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके | घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च || २४|| प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे | भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि || २५|| सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते | यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् || २६|| खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके | करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः || २७|| ऋषिरुवाच || २८|| एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः | अर्चिता जगतां धात्री तथा गन्धानुलेपनैः || २९|| भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता | प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् || ३०|| देव्युवाच || ३१|| व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् || ३२|| देवा ऊचुः || ३३|| भगवत्या कृतं सर्वं न किंचिदवशिष्यते || ३४|| यदयं निहतः शत्रुरस्माकं महिषासुरः | यदि चापि वरो देयस्त्वयास्माकं महेश्वरि || ३५|| संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः | यश्च म{त्य}र्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने || ३६|| तस्य वित्त{द्धि}र्विभवैर्धनदारादिसम्पदाम् | वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके || ३७|| ऋषिरुवाच || ३८|| इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः | तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप || ३९|| इत्येतत्कथितं भूप सम्भूता सा यथा पुरा | देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी || ४०|| पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् | वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः || ४१|| रक्षणाय च लोकानां देवानामुपकारिणी | तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते || ४२|| | ह्रीं ॐ | || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः || ४||
|| पञ्चमोऽध्यायः || विनियोगः अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः | श्रीमहासरस्वती देवता | अनुष्टुप् छन्दः | भीमा शक्तिः | भ्रामरी बीजम् | सूर्यस्तत्त्वम् | सामवेदः स्वरूपम् | श्रीमहासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः | ध्यानम् घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् | गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् || ॐ क्लीं ऋषिरुवाच || १|| पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः | त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् || २|| तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् | कौबेरमथ याम्यं च चक्राते वरुणस्य च || ३|| तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म च | ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः || ४|| हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः | महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् || ५|| तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः | भवतां नाशयिष्यामि तत्क्षणात्परमापदः || ६|| इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् | जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः || ७|| देवा ऊचुः || ८|| नमो देव्यै महादेव्यै शिवायै सततं नमः | नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् || ९|| रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः | ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः || १०|| कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः | नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः || ११|| दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै | ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः || १२|| अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः | नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः || १३|| या देवी सर्वभूतेषु विष्णुमायेति शब्दिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १४-१६|| या देवी सर्वभूतेषु चेतनेत्यभिधीयते | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || १७-१९|| या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २०-२२|| या देवी सर्वभूतेषु निद्रारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २३-२५|| या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २६-२८|| या देवी सर्वभूतेषु छायारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || २९-३१|| या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३२-३४|| या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३५-३७|| या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ३८-४०|| या देवी सर्वभूतेषु जातिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४१-४३|| या देवी सर्वभूतेषु लज्जारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४४-४६|| या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ४७-४९|| या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५०-५२|| या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५३-५५|| या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५६-५८|| या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ५९-६१|| या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६२-६४|| या देवी सर्वभूतेषु दयारूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६५-६७|| या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ६८-७०|| या देवी सर्वभूतेषु मातृरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७१-७३|| या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७४-७६|| इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या | भूतेषु सततं तस्यै व्याप्त्यै देव्यै नमो नमः || ७७|| चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् | नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || ७८-८०|| स्तुता सुरैः पूर्वमभीष्टसंश्रया- त्तथा सुरेन्द्रेण दिनेषु सेविता | करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः || ८१|| या साम्प्रतं चोद्धतदैत्यतापितै- रस्माभिरीशा च सुरैर्नमस्यते | या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः || ८२|| ऋषिरुवाच || ८३|| एवं स्तवाभियुक्तानां देवानां तत्र पार्वती | स्नातुमभ्याययौ तोये जाह्नव्या नृपनन्दन || ८४|| साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का | शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा || ८५|| स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः | देवैः समेतैः समरे निशुम्भेन पराजितैः || ८६|| शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका | कौशिकीति समस्तेषु ततो लोकेषु गीयते || ८७|| तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती | कालिकेति समाख्याता हिमाचलकृताश्रया || ८८|| ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् | ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः || ८९|| ताभ्यां शुम्भाय चाख्याता सातीव सुमनोहरा | काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् || ९०|| नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् | ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर || ९१|| स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा | सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति || ९२|| यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो | त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे || ९३|| ऐरावतः समानीतो गजरत्नं पुरन्दरात् | पारिजाततरुश्चायं तथैवोच्चैःश्रवा हयः || ९४|| विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे | रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् || ९५|| निधिरेष महापद्मः समानीतो धनेश्वरात् | किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् || ९६|| छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति | तथायं स्यन्दनवरो यः पुरासीत्प्रजापतेः || ९७|| मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता | पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे || ९८|| निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः | वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी || ९९|| एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते | स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते || १००|| ऋषिरुवाच || १०१|| निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः | प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् || १०२|| इति चेति च वक्तव्या सा गत्वा वचनान्मम | यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु || १०३|| स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने | तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा || १०४|| दूत उवाच || १०५|| देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः | दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः || १०६|| अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु | निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् || १०७|| मम त्रैलोक्यमखिलं मम देवा वशानुगाः | यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक् || १०८|| त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः | तथैव गजरत्नं च हृतं देवेन्द्रवाहनम् || १०९|| क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः | उच्चैःश्रवससंज्ञं तत्प्रणिपत्य समर्पितम् || ११०|| यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च | रत्नभूतानि भूतानि तानि मय्येव शोभने || १११|| स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् | सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् || ११२|| मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् | भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः || ११३|| परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् | एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज || ११४|| ऋषिरुवाच || ११५|| इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ | दुर्गा भगवती भद्रा ययेदं धार्यते जगत् || ११६|| देव्युवाच || ११७|| सत्यमुक्तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् | त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः || ११८|| किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् | श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा || ११९|| यो मां जयति संग्रामे यो मे दर्पं व्यपोहति | यो मे प्रतिबलो लोके स मे भर्ता भविष्यति || १२०|| तदागच्छतु शुम्भोऽत्र निशुम्भो वा महाबलः | मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु || १२१|| दूत उवाच || १२२|| अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः | त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः || १२३|| अन्येषामपि दैत्यानां सर्वे देवा न वै युधि | तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका || १२४|| इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे | शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् || १२५|| सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः | केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि || १२६|| देव्युवाच || १२७|| एवमेतद् बली शुम्भो निशुम्भश्चापितादृशः | किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा || १२८|| स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः | तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु यत् || १२९|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देव्या दूतसंवादो नाम पञ्चमोऽध्यायः || ५||
|| षष्ठोऽध्यायः || ॐ ऋषिरुवाच || १|| इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः | समाचष्ट समागम्य दैत्यराजाय विस्तरात् || २|| तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट् ततः | सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् || ३|| हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः | तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् || ४|| तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः | स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा || ५|| ऋषिरुवाच || ६|| तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः | वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ || ७|| स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् | जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः || ८|| न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति | ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् || ९|| देव्युवाच || १०|| दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः | बलान्नयसि मामेवं ततः किं ते करोम्यहम् || ११|| ऋषिरुवाच || १२|| इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः | हुंकारेणैव तं भस्म सा चकाराम्बिका तदा || १३|| अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका | ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः || १४|| ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् | पपातासुरसेनायां सिंहो देव्याः स्ववाहनः || १५|| कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् | आक्रान्त्या चाधरेणान्यान् जघान स महासुरान् || १६|| केषांचित्पाटयामास नखैः कोष्ठानि केसरी | तथा तलप्रहारेण शिरांसि कृतवान्पृथक् || १७|| विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे | पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः || १८|| क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना | तेन केसरिणा देव्या वाहनेनातिकोपिना || १९|| श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् | बलं च क्षयितं कृत्स्नं देवीकेसरिणा ततः || २०|| चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः | आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ || २१|| हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ | तत्र गच्छत गत्वा च सा समानीयतां लघु || २२|| केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि | तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् || २३|| तस्यां हतायां दुष्टायां सिंहे च विनिपातिते | शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् || २४|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भनिशुम्भसेनानीधूम्रलोचनवधो नाम षष्ठोऽध्यायः || ६||
|| सप्तमोऽध्यायः || ॐ ऋषिरुवाच || १|| आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः | चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः || २|| ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् | सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने || ३|| ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः | आकृष्टचापासिधरास्तथान्ये तत्समीपगाः || ४|| ततः कोपं चकारोच्चैरम्बिका तानरीन्प्रति | कोपेन चास्या वदनं मषीवर्णमभूत्तदा || ५|| भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् | काली करालवदना विनिष्क्रान्तासिपाशिनी || ६|| विचित्रखट्वाङ्गधरा नरमालाविभूषणा | द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा || ७|| अतिविस्तारवदना जिह्वाललनभीषणा | निमग्नारक्तनयना नादापूरितदिङ्मुखा || ८|| सा वेगेनाभिपतिता घातयन्ती महासुरान् | सैन्ये तत्र सुरारीणामभक्षयत तद्बलम् || ९|| पार्ष्णिग्राहाङ्कुशग्राहयोधघण्टासमन्वितान् | समादायैकहस्तेन मुखे चिक्षेप वारणान् || १०|| तथैव योधं तुरगै रथं सारथिना सह | निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् || ११|| एकं जग्राह केशेषु ग्रीवायामथ चापरम् | पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् || १२|| तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथासुरैः | मुखेन जग्राह रुषा दशनैर्मथितान्यपि || १३|| बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् | ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तदा || १४|| असिना निहताः केचित्केचित्खट्वाङ्गताडिताः | जग्मुर्विनाशमसुरा दन्ताग्राभिहतास्तथा || १५|| क्षणेन तद्बलं सर्वमसुराणां निपातितम् | दृष्ट्वा चण्डोऽभिदुद्राव तां कालीमतिभीषणाम् || १६|| शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः | छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः || १७|| तानि चक्राण्यनेकानि विशमानानि तन्मुखम् | बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् || १८|| ततो जहासातिरुषा भीमं भैरवनादिनी | काली करालवदना दुर्दर्शदशनोज्ज्वला || १९|| उत्थाय च महासिंहं देवी चण्डमधावत | गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् || २०|| अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् | तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा || २१|| हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् | मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् || २२|| शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च | प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् || २३|| मया तवात्रोपहृतौ चण्डमुण्डौ महापशू | युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि || २४|| ऋषिरुवाच || २५|| तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ | उवाच कालीं कल्याणी ललितं चण्डिका वचः || २६|| यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता | चामुण्डेति ततो लोके ख्याता देवी भविष्यसि || २७|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः || ७||
|| अष्टमोऽध्यायः || ॐ ऋषिरुवाच || १|| चण्डे च निहते दैत्ये मुण्डे च विनिपातिते | बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः || २|| ततः कोपपराधीनचेताः शुम्भः प्रतापवान् | उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह || ३|| अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः | कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः || ४|| कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै | शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया || ५|| कालका दौर्हृदा मौर्वाः कालिकेयास्तथासुराः | युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम || ६|| इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः | निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः || ७|| आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् | ज्यास्वनैः पूरयामास धरणीगगनान्तरम् || ८|| ततः सिंहो महानादमतीव कृतवान्नृप | घण्टास्वनेन तान्नादानम्बिका चोपबृंहयत् || ९|| धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा | निनादैर्भीषणैः काली जिग्ये विस्तारितानना || १०|| तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् | देवी सिंहस्तथा काली सरोषैः परिवारिताः || ११|| एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् | भवायामरसिंहानामतिवीर्यबलान्विताः || १२|| ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः | शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः || १३|| यस्य देवस्य यद्रूपं यथा भूषणवाहनम् | तद्वदेव हि तच्छक्तिरसुरान्योद्धुमाययौ || १४|| हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः | आयाता ब्रह्मणः शक्तिर्ब्रह्माणीत्यभिधीयते || १५|| माहेश्वरी वृषारूढा त्रिशूलवरधारिणी | महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा || १६|| कौमारी शक्तिहस्ता च मयूरवरवाहना | योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी || १७|| तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता | शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ || १८|| यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः | शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम् || १९|| नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः | प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः || २०|| वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता | प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा || २१|| ततः परिवृतस्ताभिरीशानो देवशक्तिभिः | हन्यन्तामसुराः शीघ्रं मम प्रीत्याह चण्डिकाम् || २२|| ततो देवीशरीरात्तु विनिष्क्रान्तातिभीषणा | चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी || २३|| सा चाह धूम्रजटिलमीशानमपराजिता | दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः || २४|| ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ | ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः || २५|| त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः | यूयं प्रयात पातालं यदि जीवितुमिच्छथ || २६|| बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः | तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः || २७|| यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् | शिवदूतीति लोकेऽस्मिंस्ततः सा ख्यातिमागता || २८|| तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः | अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता || २९|| ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः | ववर्षुरुद्धतामर्षास्तां देवीममरारयः || ३०|| सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् | चिच्छेद लीलयाध्मातधनुर्मुक्तैर्महेषुभिः || ३१|| तस्याग्रतस्तथा काली शूलपातविदारितान् | खट्वाङ्गपोथितांश्चारीन्कुर्वती व्यचरत्तदा || ३२|| कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः | ब्रह्माणी चाकरोच्छत्रून्येन येन स्म धावति || ३३|| माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी | दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना || ३४|| ऐन्द्री कुलिशपातेन शतशो दैत्यदानवाः | पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः || ३५|| तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः | वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः || ३६|| नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् | नारसिंही चचाराजौ नादापूर्णदिगम्बरा || ३७|| चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः | पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा || ३८|| इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् | दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः || ३९|| पलायनपरान्दृष्ट्वा दैत्यान्मातृगणार्दितान् | योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः || ४०|| रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः | समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः || ४१|| युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः | ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् || ४२|| कुलिशेनाहतस्याशु बहु सुस्राव शोणितम् | समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः || ४३|| यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः | तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः || ४४|| ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः | समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् || ४५|| पुनश्च वज्रपातेन क्षतमस्य शिरो यदा | ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः || ४६|| वैष्णवी समरे चैनं चक्रेणाभिजघान ह | गदया ताडयामास ऐन्द्री तमसुरेश्वरम् || ४७|| वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः | सहस्रशो जगद्व्याप्तं तत्प्रमाणैर्महासुरैः || ४८|| शक्त्या जघान कौमारी वाराही च तथासिना | माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् || ४९|| स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् | मातॄः कोपसमाविष्टो रक्तबीजो महासुरः || ५०|| तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि | पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः || ५१|| तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् | व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् || ५२|| तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरम् | उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु || ५३|| मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् | रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना || ५४|| भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् | एवमेष क्षयं दैत्यः क्षेणरक्तो गमिष्यति || ५५|| भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे | इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् || ५६|| मुखेन काली जगृहे रक्तबीजस्य शोणितम् | ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् || ५७|| न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि | तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् || ५८|| यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति | मुखे समुद्गता येऽस्या रक्तपातान्महासुराः || ५९|| तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् | देवी शूलेन वज्रेण बाणैरसिभिरृष्टिभिः || ६०|| जघान रक्तबीजं तं चामुण्डापीतशोणितम् | स पपात महीपृष्ठे शस्त्रसङ्घसमाहतः || ६१|| नीरक्तश्च महीपाल रक्तबीजो महासुरः | ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप || ६२|| तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः || ६३|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधो नामाष्टमोऽध्यायः || ८||
|| नवमोऽध्यायः || ॐ राजोवाच || १|| विचित्रमिदमाख्यातं भगवन् भवता मम | देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् || २|| भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते | चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः || ३|| ऋषिरुवाच || ४|| चकार कोपमतुलं रक्तबीजे निपातिते | शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे || ५|| हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् | अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया || ६|| तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः | संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः || ७|| आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः | निहन्तुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः || ८|| ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः | शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः || ९|| चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः | ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ || १०|| निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् | अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् || ११|| ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् | निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् || १२|| छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः | तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् || १३|| कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः | आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् || १४|| आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति | सापि देव्यास् त्रिशूलेन भिन्ना भस्मत्वमागता || १५|| ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् | आहत्य देवी बाणौघैरपातयत भूतले || १६|| तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे | भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् || १७|| स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः | भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः || १८|| तमायान्तं समालोक्य देवी शङ्खमवादयत् | ज्याशब्दं चापि धनुषश्चकारातीव दुःसहम् || १९|| पूरयामास ककुभो निजघण्टास्वनेन च | समस्तदैत्यसैन्यानां तेजोवधविधायिना || २०|| ततः सिंहो महानादैस्त्याजितेभमहामदैः | पूरयामास गगनं गां तथैव दिशो दश || २१|| ततः काली समुत्पत्य गगनं क्ष्मामताडयत् | कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः || २२|| अट्टाट्टहासमशिवं शिवदूती चकार ह | वैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ || २३|| दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा | तदा जयेत्यभिहितं देवैराकाशसंस्थितैः || २४|| शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा | आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया || २५|| सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् | निर्घातनिःस्वनो घोरो जितवानवनीपते || २६|| शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् | चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः || २७|| ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् | स तदाभिहतो भूमौ मूर्च्छितो निपपात ह || २८|| ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः | आजघान शरैर्देवीं कालीं केसरिणं तथा || २९|| पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः | चक्रायुधेन दितिजश्छादयामास चण्डिकाम् || ३०|| ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी | चिच्छेद देवी चक्राणि स्वशरैः सायकांश्च तान् || ३१|| ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् | अभ्यधावत वै हन्तुं दैत्यसैन्यसमावृतः || ३२|| तस्यापतत एवाशु गदां चिच्छेद चण्डिका | खड्गेन शितधारेण स च शूलं समाददे || ३३|| शूलहस्तं समायान्तं निशुम्भममरार्दनम् | हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका || ३४|| भिन्नस्य तस्य शूलेन हृदयान्निःसृतोऽपरः | महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् || ३५|| तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः | शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि || ३६|| ततः सिंहश्चखादोग्रदंष्ट्राक्षुण्णशिरोधरान् | असुरांस्तांस्तथा काली शिवदूती तथापरान् || ३७|| कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः | ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः || ३८|| माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे | वाराहीतुण्डघातेन केचिच्चूर्णीकृता भुवि || ३९|| खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः | वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे || ४०|| केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् | भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः || ४१|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये निशुम्भवधो नाम नवमोऽध्यायः || ९||
|| दशमोऽध्यायः || ॐ ऋषिरुवाच || १|| निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसम्मितम् | हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः || २|| बलावलेपदुष्टे त्वं मा दुर्गे गर्वमावह | अन्यासां बलमाश्रित्य युद्ध्यसे चातिमानिनी || ३|| देव्युवाच || ४|| एकैवाहं जगत्यत्र द्वितीया का ममापरा | पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः || ५|| ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् | तस्या देव्यास्तनौ जग्मुरेकैवासीत्तदाम्बिका || ६|| देव्युवाच || ७|| अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता | तत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव || ८|| ऋषिरुवाच || ९|| ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः | पश्यतां सर्वदेवानामसुराणां च दारुणम् || १०|| शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः | तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् || ११|| दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका | बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः || १२|| मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी | बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः || १३|| ततः शरशतैर्देवीमाच्छादयत सोऽसुरः | सापि तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः || १४|| छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे | चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् || १५|| ततः खड्गमुपादाय शतचन्द्रं च भानुमत् | अभ्यधा वत तां देवीं दैत्यानामधिपेश्वरः || १६|| तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका | धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् | अश्वांश्च पातयामास रथं सारथिना सह || १७|| हताश्वः स तदा दैत्यश्छिन्नधन्वा विसारथिः | जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः || १८|| चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः | तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् || १९|| स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः | देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् || २०|| तलप्रहाराभिहतो निपपात महीतले | स दैत्यराजः सहसा पुनरेव तथोत्थितः || २१|| उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः | तत्रापि सा निराधारा युयुधे तेन चण्डिका || २२|| नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् | चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् || २३|| ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह | उत्पाट्य भ्रामयामास चिक्षेप धरणीतले || २४|| स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगवान् | अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया || २५|| तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् | जगत्यां पातयामास भित्त्वा शूलेन वक्षसि || २६|| स गतासुः पपातोर्व्यां देवी शूलाग्रविक्षतः | चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् || २७|| ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि | जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः || २८|| उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः | सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते || २९|| ततो देवगणाः सर्वे हर्षनिर्भरमानसाः | बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः || ३०|| अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः | ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः || ३१|| जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः || ३२|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधो नाम दशमोऽध्यायः || १०||
|| एकादशोऽध्यायः || ॐ ऋषिरुवाच || १|| देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् | कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः || २|| देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य | प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य || ३|| आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि | अपां स्वरूपस्थितया त्वयैत- दाप्यायते कृत्स्नमलङ्घ्यवीर्ये || ४|| त्वं वैष्णवीशक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया | सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः || ५|| विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु | त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरापरोक्तिः || ६|| सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी | त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः || ७|| सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते | स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते || ८|| कलाकाष्ठादिरूपेण परिणामप्रदायिनि | विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते || ९|| सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके | शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते || १०|| सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि | गुणाश्रये गुणमये नारायणि नमोऽस्तु ते || ११|| शरणागतदीनार्तपरित्राणपरायणे | सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते || १२|| हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि | कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते || १३|| त्रिशूलचन्द्राहिधरे महावृषभवाहिनि | माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते || १४|| मयूरकुक्कुटवृते महाशक्तिधरेऽनघे | कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते || १५|| शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे | प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते || १६|| गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे | वराहरूपिणि शिवे नारायणि नमोऽस्तु ते || १७|| नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे | त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते || १८|| किरीटिनि महावज्रे सहस्रनयनोज्ज्वले | वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते || १९|| शिवदूतीस्वरूपेण हतदैत्यमहाबले | घोररूपे महारावे नारायणि नमोऽस्तु ते || २०|| दंष्ट्राकरालवदने शिरोमालाविभूषणे | चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते || २१|| लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे | महारात्रि महामाये नारायणि नमोऽस्तु ते || २२|| मेधे सरस्वति वरे भूति बाभ्रवि तामसि | नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते || २३|| सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते | भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते || २४|| एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् | पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते || २५|| ज्वालाकरालमत्युग्रमशेषासुरसूदनम् | त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते || २६|| हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् | सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव || २७|| असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः | शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् || २८|| रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् | त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति || २९|| एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् | रूपैरनेकैर्बहुधात्ममूर्तिं कृत्वाम्बिके तत्प्रकरोति कान्या || ३०|| विद्यासु शास्त्रेषु विवेकदीपे- ष्वाद्येषु वाक्येषु च का त्वदन्या | ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् || ३१|| रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र | दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् || ३२|| विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीह विश्वम् | विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः || ३३|| देवि प्रसीद परिपालय नोऽरिभीते- र्नित्यं यथासुरवधादधुनैव सद्यः | पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् || ३४|| प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि | त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव || ३५|| देव्युवाच || ३६|| वरदाहं सुरगणा वरं यन्मनसेच्छथ | तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् || ३७|| देवा ऊचुः || ३८|| सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि | एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् || ३९|| देव्युवाच || ४०|| वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे | शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ || ४१|| नन्दगोपगृहे जाता यशोदागर्भसम्भवा | ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी || ४२|| पुनरप्यतिरौद्रेण रूपेण पृथिवीतले | अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् || ४३|| भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् | रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः || ४४|| ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः | स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् || ४५|| भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि | मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा || ४६|| ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् | कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः || ४७|| ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः | भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः || ४८|| शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि | तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् || ४९|| दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति | पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले || ५०|| रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् | तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः || ५१|| भीमादेवीति विख्यातं तन्मे नाम भविष्यति | यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति || ५२|| तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् | त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् || ५३|| भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः | इत्थं यदा यदा बाधा दानवोत्था भविष्यति || ५४|| तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् || ५५|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणीस्तुतिर्नामैकादशोऽध्यायः || ११||
|| द्वादशोऽध्यायः || ॐ देव्युवाच || १|| एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः | तस्याहं सकलां बाधां शमयिष्याम्यसंशयम् || २|| मधुकैटभनाशं च महिषासुरघातनम् | कीर्तयिष्यन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः || ३|| अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः | श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् || ४|| न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः | भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् || ५|| शत्रुभ्यो न भयं तस्य दस्युतो वा न राजतः | न शस्त्रानलतोयौघात् कदाचित् सम्भविष्यति || ६|| तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः | श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् || ७|| उपसर्गानशेषांस्तु महामारीसमुद्भवान् | तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम || ८|| यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम | सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् || ९|| बलिप्रदाने पूजायामग्निकार्ये महोत्सवे | सर्वं ममैतन्माहात्म्यम् उच्चार्यं श्राव्यमेव च || १०|| जानताजानता वापि बलिपूजां यथा कृताम् | प्रतीक्षिष्याम्यहं प्रीत्या वह्निहोमं तथाकृतम् || ११|| शरत्काले महापूजा क्रियते या च वार्षिकी | तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः || १२|| सर्वाबाधाविनिर्मुक्तो धनधान्यसमन्वितः | मनुष्यो मत्प्रसादेन भविष्यति न संशयः || १३|| श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः | पराक्रमं च युद्धेषु जायते निर्भयः पुमान् || १४|| रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते | नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् || १५|| शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने | ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम || १६|| उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः | दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते || १७|| बालग्रहाभिभूतानां बालानां शान्तिकारकम् | संघातभेदे च नृणां मैत्रीकरणमुत्तमम् || १८|| दुर्वृत्तानामशेषाणां बलहानिकरं परम् | रक्षोभूतपिशाचानां पठनादेव नाशनम् || १९|| सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् | पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः || २०|| विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् | अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या || २१|| प्रीतिर्मे क्रियते सास्मिन् सकृदुच्चरिते श्रुते | श्रुतं हरति पापानि तथारोग्यं प्रयच्छति || २२|| रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम | युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् || २३|| तस्मिञ्छ्रुते वैरिकृतं भयं पुंसां न जायते | युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः || २४|| ब्रह्मणा च कृतास्तास्तु प्रयच्छन्तु शुभां मतिम् | अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः || २५|| दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः | सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः || २६|| राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा | आघूर्णितो वा वातेन स्थितः पोते महार्णवे || २७|| पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे | सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा || २८|| स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् | मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा || २९|| दूरादेव पलायन्ते स्मरतश्चरितं मम || ३०|| ऋषिरुवाच || ३१|| इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा || ३२|| पश्यतां सर्वदेवानां तत्रैवान्तरधीयत | तेऽपि देवा निरातङ्काः स्वाधिकारान्यथा पुरा || ३३|| यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः | दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि || ३४|| जगद्विध्वंसके तस्मिन् महोग्रेऽतुलविक्रमे | निशुम्भे च महावीर्ये शेषाः पातालमाययुः || ३५|| एवं भगवती देवी सा नित्यापि पुनः पुनः | सम्भूय कुरुते भूप जगतः परिपालनम् || ३६|| तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते | सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति || ३७|| व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर | महादेव्या महाकाली महामारीस्वरूपया || ३८|| सैव काले महामारी सैव सृष्टिर्भवत्यजा | स्थितिं करोति भूतानां सैव काले सनातनी || ३९|| भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे | सैवाभावे तथालक्ष्मीर्विनाशायोपजायते || ४०|| स्तुता सम्पूजिता पुष्पैर्गन्धधूपादिभिस्तथा | ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् || ४१|| || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये भगवती वाक्यं द्वादशोऽध्यायः || १२||
|| त्रयोदशोऽध्यायः || ॐ ऋषिरुवाच || १|| एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् | एवंप्रभावा सा देवी ययेदं धार्यते जगत् || २|| विद्या तथैव क्रियते भगवद्विष्णुमायया | तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः || ३|| मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे | तामुपैहि महाराज शरणं परमेश्वरीम् || ४|| आराधिता सैव नृणां भोगस्वर्गापवर्गदा || ५|| मार्कण्डेय उवाच || ६|| इति तस्य वचः श्रुत्वा सुरथः स नराधिपः || ७|| प्रणिपत्य महाभागं तमृषिं संशितव्रतम् | निर्विण्णोऽतिममत्वेन राज्यापहरणेन च || ८|| जगाम सद्यस्तपसे स च वैश्यो महामुने | संदर्शनार्थमम्बाया नदीपुलिनमास्थितः || ९|| स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् | तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् || १०|| अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः | निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ || ११|| ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् | एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः || १२|| परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका || १३|| देव्युवाच || १४|| यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन | मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामिते || १५|| मार्कण्डेय उवाच || १६|| ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि | अत्रैव च निजं राज्यं हतशत्रुबलं बलात् || १७|| सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः | ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् || १८|| देव्युवाच || १९|| स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् || २०|| हत्वा रिपूनस्खलितं तव तत्र भविष्यति || २१|| मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः || २२|| सावर्णिको मनुर्नाम भवान्भुवि भविष्यति || २३|| वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः || २४|| तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति || २५|| मार्कण्डेय उवाच || २६|| इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् | बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता || २७|| एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः | सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः || २८|| इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् | बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता || एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः | सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः || क्लीं ॐ || || स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः || १३|| || श्रीसप्तशतीदेवीमाहात्म्यं समाप्तम् || || ॐ तत् सत् ॐ ||
|| अथ अपराधक्षमापणस्तोत्रम् || ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् | यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः || १|| सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके | इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु || २|| अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् | तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि || ३|| कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे | गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि || ४|| सर्वरूपमयी देवी सर्वं देवीमयं जगत् | अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीम् || ५|| यदक्षरं परिभ्रष्टं मात्राहीनञ्च यद्भवेत् | पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरि || ६|| यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम् | तदस्तु सम्पूर्णतमं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायताम् || ७|| यन्मात्राबिन्दुबिन्दुद्वितयपदपदद्वन्द्ववर्णादिहीनं भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब | मोहादज्ञानतो वा पठितमपठितं साम्प्रतं ते स्तवेऽस्मिन् तत् सर्वं साङ्गमास्तां भगवति वरदे त्वत्प्रसादात् प्रसीद || ८|| प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले | प्रसादं कुरु मे देवि दुर्गे देवि नमोऽस्तु ते || ९|| || इति अपराधक्षमापणस्तोत्रं समाप्तम् ||
|| अथ देवीसूक्तम् || ॐ अहं रुद्रेभिर्वसुभिश्चराम्यह- मादित्यैरुत विश्वदेवैः | अहं मित्रावरुणोभा बिभर्म्यह- मिन्द्राग्नी अहमश्विनोभा || १|| अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् | अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते || २|| अहं राष्ट्री सङ्गमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् | तां भा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् || ३|| मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् | अमन्तवो मां त उपक्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि || ४|| अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः | यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् || ५|| अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ | अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश || ६|| अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे | ततो वि तिष्ठे भुवनानु विश्वो- तामूं द्यां वर्ष्मणोप स्पृशामि || ७|| अहमेव वात इव प्र वाम्या- रभमाणा भुवनानि विश्वा | परो दिवा पर एना पृथिव्यै- तावती महिना सं बभूव || ८|| || इति ऋग्वेदोक्तं देवीसूक्तं समाप्तम् || || ॐ तत् सत् ॐ ||
Encoded by Smt. K. Shankaran and reencoded by Kirk Wortman kirkwort at hotmail.com Proofread by Sunder Hattangadi sunderh at hotmail.com and Kirk Wortman kirkwort at hotmail.com % A note from Kirk Wortman % This text should be 100% accurate now. I proofread it 3 times. % And one of those proofreads used a method which, although time-consuming, is % almost infallible: I actually encoded all 700 shlokas myself and then used % a comparison function in MS-Excel to compare my ITRANS with the original % ITRANS (after conforming the codes to each other, e.g. making all "aa"s into % "A"s), line by line. The only mistakes this method would miss were those % which both the original encoder and myself made - an occurrence which is % extremely unlikely. % % I will also be posting this to Dale's website as soon as I get the time to % format it. % % Here were my sources for the 700 main shlokas that I proofread: % % 1) 2 recordings of Vedic Pandits chanting the entire Devi Mahatmyam, % recorded from the Maharishi Channel, one from October 1999 and the other % from April 2002 (they always broadcast this during the fall and spring % Navaratris, each day of the Navaratri) - there were 2 pandits chanting % together on each tape % % 2) Shri Durga Saptashati, published by Gita Press, Gorakhpur % % 3) Devi Mahatmyam (Glory of the Divine Mother), Sri Ramakrishna Math, % Madras, with English translation, first published 1953 % % % These sources were 99.9% identical with each other. Where there were % differences, I resolved those differences in favor of the pandit recordings % in most cases. In a few cases, I resolved them in favor of the Gita Press % book. The pandit recordings were absolutely mistake-free, which is not % surprising, since these pandits probably chant this text every day and since % they probably chant it mostly from memory. So, it was clear to me that the % recordings were the most authoritative source out of the 3 sources I used. % And it was clear that the Gita Press book was more authoritative than the % Ramakrishna Math book; the latter had many more typos and unclear print than % the former. % % The original encoder obviously used the Ramakrishna Math book as his/her source. % This was clear not only from the fact that there were no differences % between his ITRANS and book, but also from the fact that a substantial % number of his mistakes were due to typos and unclear print that existed in % the book itself.