परस्मिन् इति निमित्त-सप्तमी। विधानं विधिः।
परनिमित्तकः अजादेशः पूर्वविधौ कर्त्तव्ये स्थानिवत् भवति। पूर्वेण सूत्रेण अल्विधौ स्थानिवद्भावस्य निषेधः प्राप्नोति, अनेन सूत्रेण पुनः प्रतिप्रसूयते॥
पूर्वणानल्विधौ स्थानिवद्भाव उक्तः। अल्विध्यर्थमिदमारभ्यते। आदेशः स्थानिवतिति वर्तते। अचः इति स्थानिनिर्देशः। परस्मिनिति निमित्तसप्तमी। पूर्वविधौ इति विषयसप्तमी। अजादेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद् भवति। पटयति। अवधीत्। बहुखट्वकः। पटुमाचष्टे इति णिचिटिलोपे कृते तस्य स्थानिवद्भावातत उपधायाः
७।२।११६ इति वृद्धिर् न भवति। अवधीत् अतो लोपस्य स्थानिवद्भावदतो हलादेर् लघोः
७।२।७ इति हलन्तलक्षणा वृद्धिर् न भवति। बहुखट्वकः इति आपो ऽन्यतरस्याम्
७।४।१५ इति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्ते ऽन्त्यात् पूर्वम्
६।२।१७३ इति स्वरो न भवति।
अचः इति किम्? प्रश्नः। आक्राष्टाम्। आगत्य। प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्च्Hवोः शूडनुनासिके च
६।४।१९ इति छकारस्य शकारः परनिमित्तकस् तुकि कर्तव्ये न स्थानिवद् भवति। आक्राष्टाम् इति झलो झलि
८।२।२६ इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि
८।२।४१ इति ककारे कर्तव्ये न स्थानिवद् भवति। आगत्य इति वा ल्यपि
६।४।३८ इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद् भवति।
परस्मिनिति किम्? युवजानिः वधूटीजानिः। वैयाघ्रपद्यः। आदीध्ये। युवजानिः इति जायायाः निङ्
५।४।१३४ न परनिमित्तकः, तेन यलोपे न स्थानिवद् भवति। वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति। आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टेरेत्वस्यापरनिमित्तकत्वाद् यीवर्णयोर् दीधीवेव्योः
७।४।५३ इति लोपो न भवति।
पूर्वविधौ इति किम्? हे गौः। बाभ्रवीयाः। नैधेयः। हे गौः इति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद् भवति। बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच् छः
४।२।११३ इति छः। हलस् तद्धितस्य
६।४।१५० इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद् भवति। नैधेयः आतो लोप इटि च
६।४।६४ इत्याकारलोपः, इतश्च अनिञः
४।१।१२२ इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद् भवति।
परनिमित्तोऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। अवधीत्। अहनिष्यत्॥ यु मिश्राणामिश्रणयोः॥ ३॥
अल्विध्यर्थमिदम्। परनिमित्तोऽजादेशः स्थानिवत् स्यात्स्थानि भूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इति स्थानिवत्वान्नोपधावृद्धिः। कथयति। अग्लोपित्वाद्दीर्घसन्वद्भावौ न। अचकथत्॥ गण संख्याने॥ ३॥ गणयति॥
किमर्थमिदमुच्यते? अनल्विधौ स्थानिवद्भावः उक्तः, अल्विध्यर्थमिदम्। पटयतीत्यादौ "अत उपधायाः"
७।२।११६ इति वृद्धिरलाश्रया; अकारस्योपधाया अल्त्वात्। तस्मात् पूर्वेण न प्राप्नोतीत्येके एव परनिमित्तक एव पूर्वविधावेव कत्र्तव्ये स्थानिवद् भवतीति नियमार्थमित्यन्ये।
"अच इति स्थानिनिर्देशः" इति। "अचः" इत्यनेन स्थानषष्ठ()न्ततां दर्शयति। "परस्मिन्निति सप्तमीति" इति। न परसप्तमी, परशब्देनैव परस्योक्तत्वादित्यभिप्रायः। "
पूर्वविधौ" इति, "विषय" इति। प्रकृतत्वात् स्थानवद्भावस्येति गम्यते, पूर्वविधौ विषये स्थानिवद्भवति, नान्यस्मिन्नित्यर्थः। पूर्वस्य विधिः पूर्वविधिः। विधि-
शब्दश्चायं कर्मसाधनः-- विधियत इति विधिः। भावसाधनो वा-- विधानं विधिरिति। कर्म-
साधने ह्रेतस्मिन् पूर्वस्येति शेषलक्षणा षष्ठी। पूर्वस्य व्यवस्थितस्य लब्धसत्ताक-
स्य सम्बन्धिनि कार्ये कत्र्तव्य इत्यर्थः। भावसाधने तु "पूर्वस्य " इति कृद्योग-
लक्षणा कर्मणि षष्ठी। पूर्वस्यापरिनिष्पन्नस्य विधाने कत्र्तव्य इत्यर्थः।
पूर्वस्मिन् विधातव्य इति यावत्।
पूर्वत्वं पुनरिहादेशापेक्षम्, अजपेक्षम्, निमित्तापेक्षं वा; एषामेवादेशा-
दीनामिह सन्निधानात्। तत्रादेशः स्वरितत्वात् सन्निहितः, इतरयोस्त्वत्रैव सूत्र उपादानात्। ननु च त्रिष्वप्येषु दोषः, तत्कथमादेशाद्यपेक्षया पूर्वत्वं शक्यमाश्रयि-
तुम्, आदेशापेक्षे हि पूर्वत्व आश्रीयमाणे "पटयति" इत्यादौ स्थानिवद्भावो न सिध्यति; लोपो हि तत्रादेशः, न च तेन पूर्वपरता सम्भवति; तस्याभावरूपत्वात्।
स्यादेतत्- लोपस्य यः स्थानी तदपेक्षया पौर्वापर्यमस्तीतित तद्()द्वारेणादे-
शापेक्षयाप्यौपचारिकं तद् भविष्यतीति वार्तमेतत्; बहुखद्()वकादिषु मुख्ये पौर्वा-
पर्ये सत्यौपचारिककल्पनाया अयुक्तत्वात्। "व्यक्तिः पदार्थः" इत्यस्य दर्शनस्याश्रयणाददोषः। व्यक्तौ हि पदार्थे प्रतिलक्ष्यं लक्षणं प्रवत्र्तते। तत्र यदि पटयतीत्या-दिष्वौपचारिकत्वात् पौर्वापर्यस्य स्थानिवद्भावो न स्यात्, यदेतद्विषयं लक्षणं -
तस्यानवकाशत्वाद् वैयथ्र्यं स्यात्, अयं तर्हि दोषः प्रथमस्तावत्पक्षोऽयुक्तः।
द्वितीये तु काममेष दोषो न भवति। तथा हि - तत्र योऽचः पूर्वस्तस्य विधौ कत्र्तव्ये स्थानिवद्भवतीत्येषः सूत्रार्थः, इह च "न य्वाभ्यां पदान्ताभ्याम"
७।३।३ इति
वचनात् प्रगेवैजागमाद् यणादेशेन भवितव्यम्। तेन नास्त्यैचोरजपेक्षं पूर्वत्वमिति न भवति स्थानिवद्भावः, तदभावादैचोरायावावपि न प्राप्नुतः; किन्त्वत्र "अचः" इत्येतदा-
देशविशेषणार्थं षष्ठ()न्तं प्रतिज्ञातम्, न तु पञ्चम्यन्तम्। तदा चाचः तदा पञ्चम्य-न्तं सम्पद्यते। अयं तर्हि दोषः-- इह "तन्वन्ति" इत्युप्रत्ययस्य यणादेशकृत इट्
प्राप्नोति, न ह्रत्राचः पूर्वस्य व्यवस्थितस्य किञ्चित्कार्यं विधीयते; यतो यणादेशस्य स्थानिवद्भावादिडागमो न स्यात्। तृतीये तु पक्षे यणादेश एव निमित्तात् पूर्वः। तस्य व्यवस्थितस्येटि विधातव्ये स्थानिवद्भावो लभ्यत इति न भवति तन्वन्तीत्यत्रेट्
प्रसङ्गः; किन्त्वाद्ये पक्षे यो दोषः, स इहापि प्रसज्येत। "वैयाकरणः, सौव()आम्"
इत्यत्रापि य्वौ निमित्तात् पूर्वौ भवत इति। ननु च निमित्तात् पूर्वस्य कार्ये विधातव्ये स्थानिवद्भाव उच्यते, न चेह निमित्तात् पूर्वयोर्व्योः किञ्चित् कार्यं विधीयते। न ह्रायावादेशौ य्वोः कार्यम्,
किं तर्हि? ऐचः,नैतदस्ति; ऐचो हि यत् कार्यं
तद् य्वोरपि सम्बन्धि भवत्येव, तयोस्तद्भक्तयोस्तदवयवभूतत्वात्।
अत्रोच्यते-- आद्यन्तयोः पक्षयोर्यो दोष उक्तः, स तावन्न भवति; यस्माद् बहिरङ्गावैचौ, तद्धितश्रयत्वादङ्गाश्रयत्वाच्च; अन्तरङ्गावायावौ, तद्धितनिरपेक्षत्वाद् वर्णाश्रयत्वाच्च। "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।४२) इत्यसिद्धत्वादैचोरायावौ नभ भविष्यतः। इतरस्मिन्नपि पक्षे यो दोष उक्तः, सोऽपि न भवत्येव; तत्र कर्मसाधने सर्वमिष्टं न सिध्यतीति भावसाधनोप्याश्रीयते। तेन तन्वन्तीत्यत्रेट एवापरिनिष्पन्न-
स्याचः पूर्वस्य विधाने कत्र्तव्ये स्थानिवद्भावः सिद्धो भवति। कर्मसाधनेऽप्यदोषः; यणादेश एवात्राचः पूर्वः, तस्य विधाने कत्र्तव्ये एव। न हि यणादेशात् पूर्वस्य
व्यवस्थितस्य कस्यचिदिड् विधीयते,
किं तर्हि? यणादेशस्यैव। भावसाधने तु तस्मिन्न
दोषः; यणादेशात् पूर्वस्यापरिनिष्पन्नस्येट एव विधानात्। तस्मात् तत्रापि पक्षे भावसाधन एव विधिशब्दोऽङ्गीकत्र्तव्यः।
"पटयति" इति। "तत्करोति तदाचष्टे" इति णिच्, "णाविष्ठवत् प्रातिपदिकस्य"
(वा।८१३)इति टिलोपः। ननु चात्र व्यवधानात् पूर्वत्वं न सम्भवति; नैष दोषः; व्यवहितेऽपि हि पूर्वशब्दो वत्र्तते, यथा-"मथुरायाः पूर्वं पाटलिपुत्रम्" इति। ननु च
द्वितीया समर्थाण्णिजुत्पद्यते, तत्रान्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां सत्यां जश्त्वे सति पडयतीति भवितव्यम्। टिलोपस्य स्थानिवद्भावाज्()जश्त्वं न भवतीति चेत्, न; जश्त्वविधौ स्थानिवद्भावप्रतिषेधात्, नैष दोषः; "तदाचष्टे" इत्यत्र हि
तदिति न द्वितीयासमर्थादिति,
कुतस्तर्हि? कर्मणि इति।
कुत एतत्? अर्थनिर्देश-
परत्वात्। एतदुक्तं भवति- कर्मसंज्ञकात् तदाचष्ट इत्यस्मिन्नर्थे णिज् भवतीति।
तस्मादसुबन्धाण्णिजुत्पत्तेः पदसंज्ञाया अभावाज्()जश्त्वं न प्रवत्र्तते। "अवधीत्"
इति। हन्तेर्लुङ, "हनो वध लुङि"
२।४।४२ इति वधशब्दोऽदन्त आदेशः, "अतो लोपः"
६।४।४८, "आर्धधातुकस्येट्"
७।२।३५, "अस्तिसिचोऽपृक्त"
७।३।९६ इतीट्,िट ईटि"
८।२।२८ इति सिचो लोपः। "हलन्तलक्षण" इति। "वदव्रज"
७।२।३ इत्यादेः
सूत्राद्धल्ग्रहणानुवृत्तेः "अतो हलादेर्लघोः"
७।२।७ इति वृद्धिर्हलन्तलक्षणा। "बहुखट्()वकः" इति। ननु च "स्वरविधिं प्रति न स्थानिवद्भवति" इति प्रतिषेधं वक्ष्यति,
अतः स्थानिवद्भावस्य प्राप्तिरेव नास्तीत्ययुक्तमेतदुदाहरणम्, नैतत्; विशेषे हि स
प्रतिषेधः--स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद् भवतीति। न चायं लोपाजादेशः स्वरो न भवतीति खकाराकारस्योदात्तत्वं न भवति। "कपि पूर्वम्"
६।२।१७२ इत्युत्तर-
पदान्तोदात्तत्वमेव भवति।
"प्रश्नः" इति। "यजयाचयतवितच्छप्रच्छ"
३।३।९० इत्यादिना नङ। "तुकि न
स्थानिवद्भवति" इति। तुकि कत्र्तव्ये न स्थानिवद्भवतीत्यर्थः। यदि हि स्याच् छकारमात्रस्य शादेशे कृते स्थानिवद्भावाद्विहितस्य तुकः श्रवणं स्यादित्येके, एतच्चायुक्तम्; अत्र ह्रन्तरङ्गत्वात् "छे च"
६।१।७१ इति तुकैव प्राग् भवितव्यम्।न चात्रेद-
मस्ति "वार्णादाङ्गं बलीयः" (व्या।परि।३९) इति, नानाश्रयत्वात। यत्र ह्रेकं निमित्तमाश्रित्ययुगपद् वार्णमाङ्गं च प्राप्नोति, तत्रेदमुपतिष्ठते, यता-- "इयाय" इति।
अत्राकारमाश्रित्याभ्यासेकारस्य "इको यणचि"
६।१।७४ इति यण् प्राप्नोति, "अभ्यास-
स्यासवण्र्ये"
६।४।७८ इतीयङ च। तत्र "वार्णादाङ्गं बलीयः" (व्या।परि।३९) इत्यस्योपस्थानादियङेव भवति। प्रश्न इत्यत्र तु शादेशमनुनासिकमाश्रयति, तुक् पुनश्छकारम्;
अतो नानाश्रयत्वान्नोपतिष्ठते। तस्मात् तुकात्र भवितव्यमेव। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा "च्छ्वोः शूडनुनासिके च"
६।४।१९ इत्यत्र यद्वक्ष्यति वृत्तिकारः--
"अन्तरङ्गत्वात् "छे च"
६।१।७१ इति तुकि कृते सतुक्कस्यायमादेशः" इति, तद्विरुध्यते।
अन्ये तु व्याचक्षते--"च्छवोः शूडनुनासिके च"
६।४।१९ इति सूत्रे "सतुक्क-
स्य च्छकारस्य निर्देशः" इत्येव केनचिदाचार्येण शिष्याः प्रतिपादिताः, केनचित्तु
"तुग्विरहितस्य शुद्धस्य" इत्येवम्, उभयं चैतत् प्रमाणम्। द्वैतत्वे तत्राङ्गेन वा च्छ्वौ विशेष्येते, छकारवकाराभ्यां वाङ्गमिति। तत्राद्ये पक्षेऽङ्गस्य यश्छस्तस्य शादेश इति। वाक्यार्थः; सतुक्कस्य च स्थानित्वेनोपादानात्। अन्तरङ्गे तुकि कृते
"नानार्थके अलोऽन्त्यविधिः" (व्या।प।६२) इति तदन्तविध्यभावात् समुदायस्यैवादेशो भवति। यदा शकारविधौ सतुक्कस्य च्छकारस्य निर्देशः, प्रश्न इत्येतत् तदानीमज्ग्रहण-
स्याप्रत्युदाहरणमेव; तुकः पुनः प्रसङ्गाभावात्। यदा तु च्छकारवकाराभ्यामङ्गं
विशेष्यते, तदा छकारान्तस्याङ्गस्य स्थानित्वम्। अस्मिन् पक्षे शविधौ शुद्ध एव छकार उपात्तो वेदितव्यः। अन्तरङ्गत्वात् तु पूर्वं तुकि कृते पश्चादलोऽन्त्यपरिभाषाया उपस्थानात् उपस्थानात् छकारमात्रस्य शकारः। तस्मिन् कृते निमित्ताभावात् तुको
निवृत्तिः; यथा-- स्थातेत्यत्र षत्वनिवृत्तौ ष्टुत्वस्य। अत्र पक्षे प्रश्न
इत्येतत् प्रत्युदाहरणमज्ग्रहणस्य। यद्यत्र स्थानिवद्भावः स्यात्, तुकः प्रत्यावृत्तिर्भवेत्; निमित्तसद्भावात्, यथा-- "प्रत्यष्ठात्" इत्यत्र ष्टुत्वस्य। "तुकि न
स्थानिवद्भवति" इत्यस्यायमर्थः- योऽसौ निमित्ताभावान्निवृत्तस्तुगासीत्, तमेव
पश्चात् प्रत्यावत्र्तमानं प्रति न स्थानिवद्भवतीति पुनः प्रत्यावृत्तिरेव।
"पूर्वविधिः" इति। ननु च यद्यत्र तुकः प्रत्यावृत्तिः स्यान् नङो ङित्करणम-र्थकं स्यात्। तद्धि प्रच्छः प्रसारणार्थ वा विच्छेर्गुणप्रतिषेधार्थ वा क्रियते।
तत्र प्रच्छेर्नङि सम्प्रसारणेन न भवितव्यम्; "प्रश्ने चासन्नकाले"
३।२।११७ इति
निपातनात्। यदि च स्थानिवद्भावे सति तुकः प्रत्यावृत्तिः स्यात्र् ततो गुणप्रतिषेधार्तमपि स्यात्, अलघूपधत्वादेव गुणो न भविष्यति,
ततश्चानर्थकमेवैतत् स्यात्? नानर्थकम्; "अनित्यमागमशास्त्रम्" (व्या।प।९९) इति ज्ञापनार्थत्वात्। अनित्यत्वज्ञपाने
त्वागमशासनस्य "स्नक्रमोरनात्मनेपदनिमित्ते" (७।२।
३६) इत्यत्र यद्वक्ष्यति--
"क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः" इति, तन्न वक्तव्यं इति। "उछि उञ्छे" (धा।पा।२१५), "विछ गतौ" (धा।पा।१४२४), "सनाद्यन्ता
धातवः"
३।१।३२ इत्येवमादयो निर्देशाश्चोपन्ना भवन्ति।
"आक्राष्टाम्" इति। "कृष विलेखने" (धा।पा। ९९०) आङ्पूर्वाल्लुङ; च्लिः, "
स्पृशमृशकृषतृपदृपां सिज् वा" (वा।२०७) इत्युपसंख्यानात् क्सस्यापवादः पक्षे सिच्, ततस्ताम् "अनुदात्तस्य चदुपधस्यान्यतरस्याम्"
६।१।५८ इत्यमागमः, यणादेशः,
"वदव्रजः"
७।२।३ इत्यादिना वृद्धिः।
"वैयाघ्रपद्यः" इति। व्याघ्रस्यैव पादावस्येति बहुव्रीहिः। "पादस्य लोपोऽहस्त्यादिभ्यः"
५।४।१३८ इत्यन्तलोपः। व्याघ्रपादिति स्थिते गर्गादित्वाद् यञ्, "
पादः पत्"
६।४।१३० इति पद्भावः। "आदीध्ये" इति। अदादित्वाच्छपो लुक्।
अथात्र
टेरेत्त्वात् प्रागेव कस्माल्लोपो न भवति? स्यात्, यदि "परस्मिन्" इत्युच्यमाने तु स्थानिवद्भावाभावात् कृते टेरेत्त्वे न प्राप्नोतीत्यनित्यो लोपः। टेरेत्त्वं तु
कृताकृतप्रसङ्गित्वान्नित्यम्। तस्मात् तदेव पूर्वं भवति।
"हे गौः"इति। "गोतो णित्"
७।१।९० इति णित्त्वात् सर्वनामस्थानस्य
"अचो ञ्णिति"
७।२।११५ वृद्धिः। "सम्बुद्धिलोपे कत्र्तव्ये" इति। "एङ ह्यस्वात्
सम्बुद्धेः"
६।१।६७ इत्यनेन। "बाभ्रव्यस्य" इति। बभ्व्रोरपत्यमिति "मधुबभ्व्रो-
र्बाहृणकौशिकयोः"
४।१।१०६ इति यञ्, "ओर्गुणः"
६।४।१४६ "वान्तो यि प्रत्यये"
६।१।७६ इति वान्तादेशः, आदिवृद्धिः, बाभ्रव्य इति स्थिते "वृद्धाच्छः"
४।२।११३ "यस्येति च"
६।४।१४८ इत्यकारलोपः। "अवादेशो न स्थानिवद्भवति" इति। ननु चासत्यपि
स्थानिवद्भावे "सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य" (व्या।परि।१२) इति न भवितव्यमेवात्र यलोपेन, तथा हि-- यकारादववादेशेनात्मलाभः प्रतिलब्धः इति नोत्सहते स तं बाधितुम्; नैतदस्ति; सङ्घातो ह्रत्र सन्निपातलक्षणः, नावयवो हल्; सत्यपि वा तस्य
सन्निपातलक्षणत्वे न भवत्येव दोष-; अनित्यत्वात् सन्निपातलक्षणपरिभाषायाः। अनित्य-
त्वं तु "न लोपः सुप्स्वर"
८।२।२ इत्यादौ सूत्रे ज्ञापयिष्यतते। "नैधेयः" इति। निपूर्वो डुधाञ् (धा।पा।१०९२), "उपसर्गे घोः किः"
३।३।९२, आतो लोपः,निधि इति स्थिते द्वयचः "इतश्चानिञः"
४।१।१२२ इति ढक्। ननु पूर्वस्माद् विधिः पूर्वविधिरिति पञ्चमीसमासस्याप्यभीष्टत्वात् पूर्वस्मादपि विधौ कत्र्तव्ये स्थानिवद्भावेन भाव्यम्,
तथा हि "ठस्येकः"
७।३।५० इत्यत्र वक्ष्यति- "मथितं पण्यमस्य माथितिक इत्यत्र
यस्येति लोपे कृते "इसुसुक्तान्तात्कः"
७।३।५१ इति स्थानिवद्भावादिकस्य कादेशः
प्राप्तः; सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न भवति,अकारलोपस्य स्थानि-
वद्भावत्वात्; पूर्वस्मादपि विधौ स्थानिवद्भवति" इति। तदेवं यस्मात् पूर्वस्मादपि
विधौ स्थानिवद्भावोऽनेन भवति, तस्मात् " हे गौः" इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदारणानि, नैष दोषः; इत्यादिष्वपि स्थानिवद्भावेन भवितव्यमेवेत्ययुक्तान्येतानि प्रत्युदाहरणानि, नैष दोषः; पूर्वस्माद् विधौ
कत्र्तव्येयः स्थानिवद्भावाः,तस्यानिवत्वात्। अत एव चानित्यत्वादप्रधानभूतोऽसाविति वृत्तावस्य सूत्रस्य पूर्वस्मादिति न प्रतिपादितस्तदेवा प्राधान्यस्य दर्शयितुम्।
कुतः पुनस्तस्यानित्यत्वमवसितम्? "निष्ठायां सेटि"
६।४।५२ इत्यत्र सेड्ग्रहणात्।तदेवमर्थं क्रियते- इटि कृते णिलोपो यथा स्यादिति। यदि ह्रकृत एव तस्मिन् णिलोपः
स्यात्, कारितमित्यत्रेडागमो न स्यात्; "एकाच" इति प्रतिषेधात्।
तथा च तत्र
वक्ष्यति-- " सेडिति किम? "संज्ञापितः पशुः" "सनीवन्तर्ध"
७।२।४९ इति ज्ञपेरिड्
विकल्प्यते। "यस्य विभाषा"
इति निष्ठायामिट्प्रतिषेधः। अथ पुनरेकाच इति
तत्रानुवत्र्तते, तत्र निष्ठायाम् "अत्र भवितव्यमिडागमेन" इति। सेड्ग्रहणमनर्थकं
स्यात्; तत् क्रियते कालावधारणार्थम्। इडागमे कृते णिलोपो यथा स्यात्" इति। अकृते
त()स्मष्टिलोपे सति कारितमित्यत्र "एकाच उपेदेशेऽनुदात्तात्"
७।२।१० इति प्रतिषेधः इटः प्रसज्येत। यदि च रपूर्वस्माद् विधौ कत्र्तव्ये नित्यं स्थानिवद्भावः स्यात्, णिलोपस्य स्थानिवद्भावे सत्यनेकाचत्वादिट्प्रतिषेधस्य प्रसङ्ग एव नास्तीति
सेड्ग्रहणम् न कुर्यात्, कृतं च; ततोऽवसीयते-- "पूर्वस्माद् विधानित्यः स्थानि-
वद्भावः" इति। तेन गौरित्यादिषु पूर्वस्माद् विधौ कत्र्तव्ये स्थानिवद्भावो न भवति।
अथ विधिग्रहणं किमर्थम्,
यावता पूर्वस्येत्येवं सिद्धम? तथा हि, कार्यापे-
क्षया षष्ठी भविष्यति-पूर्वस्य विधौ कत्र्तव्य इति, नैतदस्ति; असति हि विधिग्रहणे यदि पूर्वस्येत्युच्येत, पूर्वस्येत्युच्येत, पूर्वस्माद् विधौ स्थानिवद्भावो न
स्यात्। अथ पूर्वस्मादित्युच्येत, पूर्वस्य विधौ न स्यात्। विधिग्रहणे सति षष्ठीसमासः पञ्चमीसमासश्च लभ्यत इति सर्वत्र सिध्यति। तस्मात् समासद्वयार्थं विधिग्रहणं
कत्र्तव्यम्॥