प्रथमावृत्तिः
सूत्रम्॥
इट ईटि॥ ८।२।२८
पदच्छेदः॥
इटः ५।१ ईटि ७।१ सस्य ? लोपः ?
अर्थः॥
इट् उत्तरस्य सकारस्य लोपः भवति, ईटि परतः
उदाहरणम्॥
अदेवीत्, असेवीत्, अकोषीत्, अमोषीत्
काशिका-वृत्तिः
इट ईटि ८।२।२८
इटः उत्तरस्य सकारस्य लोपो भवति ईटि परतः। अदावीत्। अलावीत्। असेवीत्। अकोषीत्। अमोषीत्। इटः इति किम्? अकार्षीत्। अहार्षीत्। ईटि इति किम्? अलाविष्टाम्। अलाविषुः।
लघु-सिद्धान्त-कौमुदी
इट ईटि ४४८, ८।२।२८
इटः परस्य सस्य लोपः स्यादीटि परे। (सिज्लोप एकादेशे सिद्धो वाच्यः)। आतीत्। आतिष्टाम्॥
न्यासः
इट ईटि। , ८।२।२८
"अदेवीत्()" इति। "नेटि"
७।२।४ इति वृद्धिप्रतिषेधे कृते लघूपधगुणः, "अस्तिसिचोऽपृक्ते"
७।३।९६ इतीट्()॥
बाल-मनोरमा
इट ईटि ११०, ८।२।२८
इट ईटि। "इट" इति पञ्चमी। रात्सस्येत्यतः सस्येति, संयोगान्तस्येत्यतो लोप इति चानुवर्तते। तदाह--इटः परस्येति। एवं च आति स् ई त् इति स्थिते सकारस्यलोपे आति ईत्--इति स्थिते सवर्णदीर्घे आतीदिति रूपं वक्ष्यति।
तत्र सलोपस्याऽसिद्धत्वात्कथं सवर्णदीर्घं इत्यत आह-- सिज्लोप एकादेशे सिद्धो वक्तव्य इति। आतिष्टामिति। लुङस्तस्। तस्य ताम्। च्लेः सिच्। तस्य इटि आचि वृद्धौ षत्वम्। अपृक्तत्वाऽभावेन ईडभावात्सलोपो न। आतिषुरिति। लुङो झिः। च्लेः सिच्। जुस् इट् आट् वृद्धिः। षत्वं रुत्वविसर्गौ। आतीः आतिष्टम् आतिष्ट। आतिषम् आतिष्व आतिष्म।
तत्त्व-बोधिनी
इट ईटि ८५, ८।२।२८
"संयोगान्तस्य लोपः"इत्यतो लोप इति, "रात्सस्ये"त्यतः सस्येति चानुवर्तते। तदाह-- लोपः स्यादिति। इटः किम्?। अहार्षीत्। ईटि किम्?। आतिष्टाम्। आतिषु।
सिज्लोप एकादेशे सिद्धो वाच्यः। सिज्लोप इति। अत्र वदन्ति-- सलोप इति वक्तव्ये सिज्ग्रहणं "झलो झली"त्यादिसूत्रत्रयं सिज्विषयकमिति ज्ञापनार्थम्। तेनेह सोमस्तुत्। स्तोता। द्विष्रकटराम्। द्विष्टमाम्। "धि चे"ति सूत्रे तु वामनमते सिचो लोपः। भाष्यमते तु सस्येति भेदो बोध्य इति।