सतुक्कस्य छस्य वस्य च क्रामात् श् ऊठ् इत्यादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति। पृच्छतीति प्राट्। आयतं स्तौतीति आयतस्तूः। कटं प्रवते कटप्रूः। जूरुक्तः। श्रयति हरिं श्रीः॥
यदि केवलस्य च्छकारमात्रस्य ग्रहणं क्रियते, तदा "प्रच्छ ज्ञीप्सायाम्()" (धा।पा।
१४१३) इत्यस्य क्तप्रत्यये कृतेऽन्तरङ्गत्वात्? "च्छे च"
६।१।७१ इति तुकि कृते छकारमात्रस्य शकारादेशे कृते पृट्ष्ट इत्यनिष्टं रूपं स्यात्()।
सतुक्कसय ग्रहणे तु सति स्थान्यन्तर्भावात्? तुगप्यादेशेन निवर्त्त्यत इति न भवत्येव दोषप्रसङ्ग इत्येतदालोच्य सतुक्कस्य ग्रहणमिति दर्शयितुमा--""छ" इत्येतस्य सतुक्कस्य" इति। सतुक्कस्य ग्रहणं "यजयाचयतविच्छप्रच्छिरक्षो नङः"
३।३।९० इति ङित्करणादवगम्यते। तस्य हि ङित्करणस्यैतत्प्रयोजनम्()--विश्न इत्यत्र "पुगन्तलघूपधस्य"
७।३।८६ इति गणो मा भूदिति; यदि चात्र तुग्रहितः केवल एव च्छकारः स्थानित्वेन परिगृह्रते तदा तुकि कृते छकारमात्रस्य सकारे कृते गुरूपधत्वादेव गुणोन भविष्यतीति ङित्करणमनर्थकं स्यात्। सतुक्कस्य तु ग्रहणे कृते तुकि सतुककस्यैव शकारादेशः क्रियते, ततश्च लध्व्यामुपधायां समुपजातायां गुणः प्राप्नोतीति तत्प्रतिषेधार्यं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्(); सतुपजातायां गुणः प्राप्नोतीति तत्प्रतिषधार्()थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्(); सतुपजातायां गुणः प्रप्नोतीति तत्प्रतिषेधार्थं ङित्करणं क्रियमाणमथवद्भवतीत्येके वर्णयन्ति, एतच्चायुक्तम्(); सतुक्कस्याप्यादेशे कृते निष्ठितमङ्गं भवति, प्रयोगार्हत्वात्()। तत्र "अङ्गवृत्ते पुनरङ्गवृत्तावविधिर्निष्ठितस्य" (व्या।प।३८) इत्यनया परिभाषया गुणो न भविष्यतीति।
तस्मात्? सतुक्कस्याप्यादेशे क्रियमाणे सति ङित्करणमनर्थकमेव,
कथं तेन सतुक्कस्य ग्रहणमवसीयते? एवं तर्हि "ननौ पृष्टपरतिवचने (३।२।
१२०) इति निर्देशात्? सतुक्कस्य ग्रहणमवसीयते। तुग्रहितस्य ग्रहणे पृट्ष्टेत्येवं यथोक्त प्राक्()। नङस्तु ङित्करणं "अनित्यमागमशासनम्()" (व्या।प।९९) इति ज्ञापनार्थम्()। अनित्यत्वे हि तस्य यदा तुगभावस्तदाऽसति ङित्करणे गुणः प्रसज्येत। ननु चासति प्रयोजने ज्ञापकं भवति, अस्ति च तस्य ङित्करणस्य प्रयोडजनम्(),
किं तत्()? ग्रह्रादिसूत्रेण (६।१।
१६) प्रच्छेः सम्प्रसारणं यथा स्यादिति? नैतदस्ति; न हि प्रच्छेर्नङि सम्प्रसारणमिष्यते।
कथमेतज्ज्ञायते? "प्रश्ने चासन्नकाले"
३।२।११७ इति निर्देशात्()।
तदेतत्? ङित्करणम्? "अनित्यमागमशासनम्" (व्या।प।९९) इत्यस्य ज्ञापकमेव। अथ तु सतुक्कस्यापि ग्रहणे कथं सतुक्कस्यादेशो भवति, य#आवता "अलोऽन्त्यस्य" (१।१।
५२) इति वचनादन्त्यस्यैव स्यात्()? नैतदस्ति; सतुक्कस्य ग्रहणसामथ्र्यान्न भविष्यति। एवमपि तदन्तस्याङ्गस्य स्यात्()। "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इति तदन्तस्य न भविष्यति। "प्रश्नः" विश्न" इति। "प्रच्छ ज्ञीप्सायाम्()" (धा।पा।१४१३) "विच्छ गतौ" (धा।पा।१४२३) "यजयाच"
३।३।९० इति नङ्()।
"अन्तरङ्गत्वात्()" इत्यादि। "छे च" (६।१।
७३) इति ह्यस्वस्य वर्णस्य तुग्विधीयत इति वर्णाश्रयत्वात्? तुगन्तरङ्गः, शकारस्त्वङ्गाश्रयः।
तत्राङ्गस्यैव तावद्? प्रत्ययाश्रयत्वाद्वहिरङ्गत्वम्()। किं पुनस्तदाश्रयस्य शकारस्य। ननु च "वार्णादाङ्गं बलीयः" (व्या।प।
३९) इति शकारस्यैव बलीयस्त्वम्()? नैतदस्ति; यत्र ह्राङ्गवार्णयोर्युगपदेकनिमित्तमाश्रित्य प्राप्तिस्तत्रास्या उपस्थानं भवति। यथा "इयाय" इत्यत्र यमेवाकारमाश्रित्य "इको यणचि"
६।१।७४ इत्यभ्यासेकारकस्य यणादेशः प्राप्नोति, तमेवाकारमाश्रित्य "अभ्यासस्यासवर्णे"
६।४।७८ इतीयङपि। तत्र युगपदेकत्रोभयप्राप्तौ "वार्णादाङ्गं बलीयः" (व्या।प।३९) इत्यस्या उपस्थाने सत्यङ्गकार्यमिङेव भवति। इह तु प्रागेव नङुत्पत्तेश्छकारमाश्रित्य तुक्प्राप्नोति, उत्तरकालं नङि विहिते तदाश्रः शकार इति भिन्नाश्रयत्वम्(), अतो नेयमुपतिष्टते।
"सिदेः" इति। "षिवु तन्तुसन्ताने" (धा।प।११०८) इत्यस्य। "औणादिके नप्रत्यये" इति। "धापृवस्यजतिभ्यो नः" (द।उ।५।
३९) इति वादिभ्यो विधीयमानो नप्रत्ययो बहुलवनात्? सिवेरपि भवति। केनचित्()"सिवेष्ठेर्यू च" (द।उ।४।५) ["सिवेष्टेरूच"--इत्युत्त्वम्()] इत्यनेन सूनशब्दस्य व्युत्पत्तये नकारो विधीयते,
दीर्घोच्चारणसामथ्र्यात्? तत्र गुणो न भवति। ये तु स्योनशब्दव्युत्पत्तय एवेदं सूत्रं वर्णयन्ति, तेषां दीर्घोच्चारणमनर्थकं स्यात्()। त न हि ह्यस्वस्य दीर्घस्य वा गुणे कृते कश्चिद्विशेषोऽस्ति।
"लघूपधगुणात्? पूर्वमूठ्? क्रियते" इति। "अन्तरङ्गत्वात्()" इति। वक्ष्यमाणो हेतुरिहापि द्रष्टव्यः। गुणो ह्राद्र्धधातुकमङ्गसम्बन्धिनीञ्चोपधां लध्वीमिग्लक्षणां विशिष्टामेवाश्रयति। ऊडादेशस्त्वनुनासिकादिं प्रत्ययमङ्गसम्बन्धिताविशिष्टं वकारमात्रम्()?। तस्माद्गुणो बहिरङ्गः। ऊडादेशस्त्वन्तरङ्गः।
अतोऽन्तरङ्गत्वाल्लधूपधगुणात्? पूर्वमेवोठ्? क्रियते।
ततर कृतेऽन्तरङ्गत्वाद्यणादेश इति लघूपधगूणात्? पूर्व क्रियत इति प्रकृतेन सम्बन्धः। अन्तरङ्गत्वं तु वर्णाश्रयत्वाद्यणादेशस्य। ननु च "वर्णादाङ्गं बलीयः" (व्या।प।३९) इत्याङ्गस्य गुणस्यैव बलीयस्त्वम्(),
ततः स एव यणादेशात्? पूर्वं कस्मान्न क्रियते? इत्याह--"नानाश्रयत्वात्()" इत्यादि। यत्र ह्रुभावप्याङ्गवार्णौ विधी एकं निमित्तमाश्रित्य प्राप्नुतस्तत्रेयमुपतिष्ठत इत्युक्तम्()। इह तु यणादेश ऊडाश्रयः, गुणस्त्वाद्र्धधातुकाश्रय इति भिन्नाश्रयत्वम्()। अतो नैयं परिभाषोपतिष्टते।
"शब्दप्राट्()" इति। शब्दं पृच्छतीति "क्विब्वचि" (वा।२८८) इत्यादिना क्विप्(), दीर्घश्च, वश्चादिसूत्रेण
८।२।३६ शकारस्य षकारः, तस्यापि जश्तवं डकारः, तस्यापि चर्त्वं टकारः। "गोविट्()" इति। "विच्छ गतौ" (दा।पा।१४२३) गां विच्छतीति क्विप्()। "क्विप्च"
३।२।७६ इत्यनेन। तथा "अक्षुद्यः, हिरण्यष्ठ्यूः" इत्यत्रापि दिविष्ठिविभ्याम्()। ननु यणादेशोऽन्तरङ्गो वर्णाश्रयत्वात्()। ऊडादेशस्तु प्रत्ययाश्रयत्वाद्बहिरङ्गः, तत्र "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।
४२) इति यणादेशनात्र न भवितव्यम्()? इत्यतद आह--"असिद्धं बहिरङ्गमन्तरङ्गे" इत्यादि। यत्र द्वयोरचोरानन्तर्य्यं तत्रैषा प्रतिषिध्यते "नाजानन्तर्ये बहिष्ट्वपरक्लृप्तिः" (व्या।प।४४) इति। अस्या अयमर्थः--अचोरानन्तर्ये सति बहिरङ्गपरिभाषा न प्रकल्पते, न भवतीत्यर्थः। अत्रार्थे ज्ञापकम्--"षत्वतुकोरसिद्धः"
६।१।८३ इति तुकि कत्र्तव्येऽसिद्धवचनम्()। तस्य ह्रेतदेव प्रयोजनम्()--अधीत्येत्यत्र सवर्णदीर्घस्यासिद्धत्वाद्ध्रस्वलक्षणस्तुग्यथा स्यादिति।
यदि चाचोरानन्तर्ये बहिरङ्गपरिभाषा स्यात्? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कत्र्तव्ये पदद्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तदैकपदाश्रयत्वादन्तरङ्गे तुकि कत्र्तव्ये पद्द्वयाश्रयत्वाद्बहिरङ्गस्यैकादेस्यासिद्धत्वं भविष्यतीति किमसिद्धवचनेन? तत्क्रियतेजानन्तर्ये बहिरङ्गपरिभाषा नास्तीति ज्ञापनार्थम्()। "हिरण्यष्ठ्यूः" इत्यत्र "धात्वादेः षः सः" (६।१।
६४) इति सत्वं न भवति; "सुब्धातुष्टिवुष्वष्कतीनं प्रतिषेधो वक्तव्यः" (वा।६७१) इति वचनात्()।
"पृष्टः" इति। ग्रह्रादिसूतद्रेण
६।१।१६ सम्प्रसारणम्(), पूर्ववत् षत्वं ष्टुत्वञ्च। "द्युभ्याम्()" इति। "दिव उत्()"
६।१।१२७ इत्युत्तवम्()।
"येऽत्र क्ङितीति नानुवत्र्तयन्ति तेषामन्यत्राप्यनेन विधिना भवितव्यम्(), ततः द्युभ्याम्(), द्युभिरिति न सिध्यतीति मन्यमान आह--"कथं द्युभ्याम्(), द्युभिरिति ऊठि कृते" इति।
ऊठि कृते न किञ्चित्? सिध्यतीत्यर्थः। "दिव उदिति तपरत्वान्मात्राकालो भविष्यति" इति। "दिव उत्()"
६।१।१२७ इत्यत्र तपरकरणं न कत्र्तव्यम्()।
यद्यपि हि "भाव्यमान उकारः सवर्णान्? गृह्णाति" (चान्द्र प।४४), तथाप्यान्तरतम्यादर्धमात्राकालस्य व्यञ्जनस्य मात्राकाल एवोकारो भविष्यति।
न दीर्घ इति किं तन्निवृत्त्यर्थेन तपरकरणेन? तक्रियते लक्षणान्तरेणापि यो दीर्घः प्राप्नोति स मा भूदित्येवमर्थम्()। तेनात्र "दिव उत्त"
६।१।१२७ इत्यनेनैव तपरत्वान्मात्राकालो भविष्यति, अन्यथा यदि "च्छ्वोः शूडनुनासिके च" (६।४।
१९) इत्यनेन दीर्घः स्यात्? ततो निष्फलं "दिव उत्()"
६।१।१२७ इत्यत्र तपरकरणं स्यात्(); व्यावर्त्त्याभावात्()।
अथ वा "ऊठि कृते" इत्युत्तरेण परिहारग्रन्थेन सम्बध्यते। तत्रायमर्थः--क्रियतां नाम सामान्येन क्ङिति चाखिति चोठ्()। कृतेऽपि तत्र "एकादेशविकृतमनन्यवद्भवति" (व्या।प।१६) इति तस्यैव स्थाने "दिव उत्()"
६।१।१२७ इत्यनेन तपरत्वाद्ध्रस्वो भविष्यति।
एतदेव हि तस्य प्रयोजनम्()--ऊठ्स्थाने भवन्? मात्रिको यथा स्यात्(), आन्तरतम्याद्दीर्घो मा भूदिति। अ()स्मश्च व्याख्याने यदुकग्तम्()--"दिव उदिति तपकरणमूठो निवृत्त्यर्वम्(), द्युभ्याम्(),
द्युभिरित्यत्र परत्वादूठ्? प्राप्नोति" इति तद्विरुध्यते। न हि तेनोत्त्वस्योठः स्थान्यादेशभाव उपपद्यते,
किं तर्हि? बाध्यबाधकभावः। तथा हि तस्यायम्रथो वण्र्यते--ऊठो निवृत्त्यर्थ बाधनार्थ तपरकरणम्()।
असति हि तस्मिन्? परत्वाटूठ्? प्राप्नोति,
तस्मात्? तद्बाधनार्थं तपरकरणम्()। परमप्यूठं बाधित्वाऽनेनैवमात्रिक उकारो यथा स्यादिति नास्ति विरोधः। ये हि स्थान्यादेशभावमिच्छन्ति त एवं ग्रन्थं व्याचक्षते। ऊठो निवृत्त्यर्थ स्थानिभूतस्योठो निवृत्त्यर्थमित्यर्थः। ऊडादेशे कृत ऊठ्()स्थितिमतो निवृत्तिर्यथा स्यादित्येवमर्थं तपरकरणमित्यर्थः।
परत्वादूठ्? प्राप्नोतीत्यत्र विहितश्च। श्रुतिमानित्यध्याहाय्र्यम्()।
तदेतदुक्तं भवति--अत्र हि परत्वादूड्()विहितः सन्? श्रतिमानेव प्राप्नोति, निवृत्तिमांश्चेष्यते।
तस्मात्? तस्य निवृत्तये तपरत्वमिति। अतपरेऽप्यादेशे विधीयमाने सत्यूठो निवृत्तिर्भवत्येव;
निवृत्तिधर्मत्वात्? स्थानिनः। उच्यते चेदं तपरकरणसूठो निवृत्त्यर्थमिति। तत्र वचनसामथ्र्याद्यस्यां निवृत्तौ सत्यां विशेषो भवति तदर्थं तपरकरणमिति विज्ञायते। ततश्च सामथ्र्यादिदमुक्तम्()--भवत्यूठो ह्यस्वादेशार्थं तपरकरणमिति। यतस्तपर आदेशे सत्यूठो या निवृत्तिः क्रियते तस्यां सत्यां विशेषो भवति। नातपरे। अतपरे ह्रादेशे सत्यान्तरतम्याद्दीर्घस्य दीर्घ एव स्यादिति कुतो विशेषः।
किं पुनः किद्ग्रहणे निवृत्ते सतीष्टं सिध्यति, यदर्तं केचिदत्र क्ङितीति नानुवत्र्तयन्तीत्याह--"छशां षः इत्यत्र" इत्यादि। क्ङिद्ग्रहणे निवृत्ते सत्यविशेषेण क्ङिति चाक्ङिति चानेने च्छकारस्य शकारो विधीयते, तेन व्रश्चादिसूत्रे
८।२।६६ छग्रहणं न कत्र्तव्यं भवेत्()। शकारस्य षत्वविधानेनैव सर्वस्य षत्वस्याभावाच्छकारस्य षत्वविधानार्थं व्रश्चादिसूत्रे
८।२।३६ छग्रहणं कत्र्तव्यमेव। अथ तेषां कथं प्रष्ठेति सिध्यति,
यावता तुकि कृते छकारमात्रस्य षत्वे प्रट्ष्टेत्यनिष्टं रूपं प्राप्नोति? नैष दोषः, ते हि व्रश्चादिसूत्रे
८।२।३६ सतुक्कस्य च्छकारस्य ग्रहणमिच्छन्ति।
ऊडयं यदि टित्? स्यात्? "आद्यन्तौ टकितौ"
१।१।४५ इत्यादौ स्यात्()। तत्र यद्यपि वकारस्य वलि लोपे कृते सत्यक्षद्यूरित्यादि सिध्यति, जूरित्यादि तु न सिध्ये। टित्त्वे हि सति ज्वरत्वरादि (६।४।
२०) सूत्रेणैको वकारात्? पूर्वमूडपरोऽकारादिति द्वावूठौ स्याताम्()।
तस्मादूठष्ठित्त्वमङ्गीकत्र्तव्यम्? न टित्त्वम्()। तस्यापि ठित्त्वस्य यदि प्रयोजनं न स्याद्वैयथ्र्य स्यादित्येतच्चेतसि कृत्वोडादेशस्य यट्ठित्त्वं तस्य प्रयोजनं दर्शयितुमाह--"ऊठष्ठित्करणम्()" इत्यादि। एवं ब्राऊवता "एत्येधत्यूठ्सु"
६।१।८६ इत्यत्रापि ठित एव ग्रहणं भवति। एवं ह्रूठष्ठित्करणस्य विशेषणार्थतोपपद्यते, यदि तत्रापि ठित एव ग्रहणं भवति, नान्यथा। यद्यत्र ठकारोऽनुबन्धो न क्रियते तदा "एत्येधत्यूठ्सु"
६।१।८६ इत्यत्रापि न कत्र्तव्यम्(); ठकारानुबन्धवत ऊकारस्य क्वचिदसम्भवात्()। एवञ्चोच्यमाने प्रौउहते, प्रोहत इत्यत्रापि वृद्धिः स्यात्()। तस्माद्विशेषणार्थं ठित्करणं क्रियते। ठकारस्य तु श्रवणं न भवति; कृतचत्र्वस्य निर्देशात्()। यदि तर्हि ठिदयम्(), "एत्येधत्यूठ्सु"
६।१।८६ इत्यत्रापि ठित एव ग्रहणम्(), एवं सति "वाह ऊठ्()"
६।४।१३२ इत्यस्य तत्र ग्रहण#ं न स्यात्(), ततश्च प्रष्ठौह इत्यत्र वृद्धिर्न स्यादित्यत आह--"वाह ऊठित्ययमपि" इत्यादि। ठकारस्यापि पूर्ववदेवाश्रवणम्()॥