पूर्वम्: ५।४।१३३
अनन्तरम्: ५।४।१३५
सूत्रम्
जायाया निङ्॥
५।४।१३४
काशिका-वृत्तिः
जायाया निङ्
५।४।१३४
जायाशब्दान्तस्य बहुव्रीहेर् निङादेशः भवति। युवतिः जाया यस्य युवजानिः। वृद्धजानिः।
न्यासः
जायाया निङ्।
, ५।४।१३४
"निङादेशो भवति" इति।
आदेशत्वमस्य पूर्ववद्?
ङित्त्वादेव विज्ञायते। "युवजानिः" इति। लोपो व्योर्वलि"
६।१।६४
इति यलोपः। "स्त्रियाः पुंवत्()"
६।३।३३
इति पुंवद्भावः॥