गोशदात् परं सर्वनामस्थानं णित् भवति। णित्कार्यं तत्र भवति इत्यर्थः। गौः, गावौ, गावः। तपरकरणं किम्? चित्रगुः। शबलगुः। कथं हे चित्रगो, हे शबलगव इति? अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति सम्बुद्धिजसोर्गुने कृते णित्त्वं न भवति। अथ वा गोतः इति सम्बधलक्षणा षष्ठी, गोतः सम्बन्धि यत् सर्वनामस्थानम् इति। यच् च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद् गोः सर्वनामस्थानम् इत्युच्यते। चित्रगुशब्दात् तु सर्वनामस्थानं तदन्यपदार्थसैकत्वादिनाह। तपरकरणं तु निर्देशर्थम् एव। केचितोतो णितिति पठन्ति, द्योशब्दादपि यत् सर्वनामस्थानं विद्यते तदर्थम्। द्यौः, द्यावौ, द्यावः। गोतः इत्येतदेव तपरकरणनिर्देशातोकारान्तोपलक्षणं द्रष्टव्यम्। वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम्।
णिदिति संज्ञा वाऽनेन क्रियते--गोतः परं सर्वनामस्थानं णिद्भवति, णित्संज्ञं भवतीत्यर्थः; अथ वा--गोतः परस्य सर्वनामस्थधानस्य णकार इत्संज्ञको भाव्यते, तेन गोतः परसक्य सर्वनामस्थानस्य णकार इत्संज्ञको भवतीति; आदेशो वा विधीयते--गोतः परस्य सर्वनामस्थानस्य णिणकारानुबन्धवानादेशो भवति; अतिदेशो क्रियते--गोतः णिद्भवति, णिद्वद्भवतीत्यर्थः, विनापि वतिना वत्यर्थो गम्यते, यथा--गाङकुटादिसूत्रे
१।२।१। तत्राद्ये पशे संज्ञोच्चारिता संज्ञिनं प्रत्याययतीति णित्प्रदेशेषु कृत्रिमत्वादस्यैव सर्वनामस्थानस्य ग्रहणं प्राप्नोति, न ण्वुलादीनाम्()। द्वितीये तु णकार इत्संज्ञकः सर्वनामस्थानस्य प्रसज्येत।
तृतीये तु पुनर्णित्? सर्वनामस्थानं न क्वचिद्दृष्टमिति। य एवैते ष्वुलादयस्य एवादेशाः प्रसज्येरन्नित्येते दोषा आद्येषु त्रिषु पक्षेषु यथाक्रमं प्रतिविधेयाः। तत्प्रतिविधाने प्रतिपत्तिगौरवं स्यात्(),
अतिदेशपक्षे तु न किञ्चित्? प्रतिविधेयम्(), अतः स एव साधुरिति। तमेवाश्रित्याह--"गोशब्दात्()" इत्यादि। "णित्कार्यम्()" इत्यादिना णिद्भवतीत्यस्यार्थं व्याचक्षणः कार्यातिदेशोऽयमित्याचष्टे। गौरिति वृद्धिर्णित्कार्यम्()।
"चित्रगुः" इति। यत्र बहुव्रीहौ कृते "गोस्त्रियोरुपसर्जनस्य "
१।२।४८ इति ह्यस्वः। तत्रासति तपरकरणे "अङ्गाधिकारे तस्य तदुत्तरपदस्य" (पु।प।वृ।८५) इति वचनात्तदन्तविधिमभ्युपगम्य स्थानिवद्भावेन गोशब्दान्तमेतदङ्गं भवतीति णिद्भावः प्राप्नोति। तपकरणे तु ततकालनियमे सति न भवति; भिन्नकालत्वात्()। "तपरस्तत्कालस्य"
१।१।६९ इत्यत्राण्ग्रहणस्य निवृत्तत्वादनणोऽपि तत्कालनियमो भवत्येव।
"कथम्()" इत्यादि। सत्यपि तपरकरणं "ह्यस्वस्य गुणः"
७।३।१०८, "जसि च"
७।३।१०९ इति सम्बुद्धिजसोर्गुणे कृते हे चित्रगो, हे चित्रगव इत्यत्र प्राप्नोति। तत्कालत्वादित्यभिप्रायः। ननु च लक्षमप्रतिपदोक्तपरिभाषया (व्या।प।
३) न भविष्यति? नैतदस्ति; यत्र हि स्थानिवद्भावस्तत्रैवा नोपतिष्ठते; अध्यया हि स्थानिवद्भावोऽनर्थकः स्यात्()। "अङ्गवृत्ते पुन" इत्यादि परीहारः। एष तु हे चित्रगवित्यत्र परीहारः, न तु चित्रगव इत्यत्र; अनिष्ठितत्वात्()। अवादेशे हि कृते निष्ठितत्वमत्र भविष्यति, न च गुणमात्रे; अप्रयोगार्हत्वात्()।
अत एवाव्यापकत्वादस्य परीहारस्यापरितुष्यन्? परिहारान्तरमाह--"अथ वा" इत्यादि। स्यादेतत्()--अत्रापि गोः सम्बन्धि सर्वनामस्थानमानन्तर्यलक्षणेन भवति सम्बन्धेनेति/ अत आह--"यच्च" इत्यादि। यद्यानन्तर्यलक्षणेन गोः सम्बन्धि सर्वनामस्थानं गृह्रते तदा षष्ठ()आश्रयणामनर्थकं स्यात्(), पञ्चम्येवाश्रयितव्येति; क्रमव्यतिक्रमे प्रयोजनाभावात्()।
तस्मात्? षष्ठ()आश्रयणसामथ्र्याद्गोशब्दस्यार्थस्य य एकात्वादयस्तेषु यत्सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते।
तत्? पुनर्गोशब्दस्यैकत्वादीनां वेदितव्यम्()। आदिशब्देन द्वित्वादिपरि ग्राहः।
तत्रैतत्? स्यात्()--चित्रगुशब्दादपि यत्? सर्वनामस्थानं तद्गोशब्दस्यार्थस्यैकत्वादिषु वत्र्तते? इत्याह--"चित्रगुशब्दात्()" इत्यादि।
यदि यद्गोः सम्बन्धि सर्वनामस्थानं तस्य णिद्भावो विधीयते, तदा तपरकरणमनर्थकं स्यात्(), तद्धि चित्रगुरित्यादौ मा भूदित्येवमर्थं क्रियते। न चात्र प्राप्तिः, न ह्रत्र गोः सम्बन्धि सर्वनामस्थानम्(),
किं तर्हि? अन्यपदार्थस्येत्याह--"तपरकरणं" तु इत्यादि।
"केचित्()" इत्यादि।
किमर्थं पुनस्त एवं पठन्ति? इत्याह--"द्योशब्दोऽपि" इत्यादि। य त्वेदं न पठन्ति "गोतः" इति,
तेषां द्योशब्दात्? परस्य सर्वनामस्थानस्य णिद्भावो न सिध्यतीत्याह--"गोत इत्येतदेव" इत्यादि।
कथं पुनरेतदोकारान्तोपलक्षणार्थं शक्यं विज्ञातुम्()? इत्याह--"वर्णनिर्देशेषु" इत्यादि। यथा "वृद्धिरादैच्()"
१।१।१, "अदेङ्गुणः"
१।१।२ इत्यवमादिषु योगेषु वर्णस्तपरो निर्दिश्यत इति तपरकरणं वर्णनिर्देशेषु हि प्रसिद्धम्()।
तस्मादिहापि तपरनिर्देशात्? "गोतः" इत्येतदोकारान्तोपलक्षणं द्रष्टव्यमिति।
अतो वचनात्? तपरकरणं वर्णनिर्देशार्थ मेवेत्यस्यैवौकारान्तोपलक्षणार्थं विज्ञायते॥