निष्ठायां सेटि परतो णेर्लोपो भवति। कारितम्। हारितम्। गणितम्। लक्षितम्।
सेटि इति किम्? संज्ञपितः पशुः। सेड्ग्रहणसामर्थ्यादिह पूर्वेण अपि न भवति। सनीवन्तर्ध
७।२।४९ इति ज्ञपेरिटि विकल्पिते यस्य विभाषा
७।२।१५ इति निष्ठायां प्रतिषेधः। अथ पुनः एकाचः इति तत्र अनुवर्तते,
तदा नित्यम् अत्र भवितव्यम् एव इडागमेन इति सेड्ग्रहणम् अनर्थकम्? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात्। अकृते हि तत्र णिलोपे सति कारितम् इत्यत्र एकाच उपदेशे ऽनुदात्तात्
७।२।१० इति इटः प्रतिषेधः प्रसज्येत।
"गणितम्(), लक्षितम्()" इति। "गण संख्याने" (धा।पा।१८५३) "लक्ष दर्शनाङ्कनयोः" (धा।पा।१५३८)।
"संज्ञपितः पशुः" इति। ननु चात्र यदि "सेटि" इति वचनादनेन न भवितव्यम्(),
तदा पूर्वसूत्रेण कस्मान्न भवति? इत्याह--"सेङ्ग्रहणसामथ्र्यात्()" इत्यादि।
यदि ह्रनिटि पूर्वेण णिलोपः स्यात्? सेङ्ग्रहणमनर्थकं स्यात्(), "निष्ठायाम्()" इत्येवं ब्राऊयात्(), आरम्भसामथ्र्यादेव हि सेङर्थो भविष्यति।
तस्मात्? सेङ्ग्रहणसामथ्र्यात्? पूर्वेणापि "संज्ञापितः पशुः" इत्यत्र णिलोपो न भवति।
कथं पुनरत्र सेङ्? निष्ठा न भवति? इत्याह--"सनीवन्तर्ध" इत्यादि। "अथ" इत्यादि। अथ "यस्य विभाषा"
७।२।१५ इत्यत्र "एकाच उपदेशेऽनुदात्तात्()"
७।२।१० इत्यत्र एकाज्ग्रहणमनुवर्तते,
ततोऽनेकाच्त्वाज्ज्ञपेः प्रतिषेधाभावाद्? भवितव्यमिडागमेन निष्ठायाम्()।
तस्मात्? सेङ्ग्रहणमनर्थकं स्यात्(); व्यावर्त्त्याभावात्()।
ननु च "ज्ञप्तः" इत्यत्र मा भूदित्येवमर्थं सेङ्ग्रहणं भविष्यति? नैतदस्ति; क्रियमाणेऽपि सेङ्ग्रहणे "वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः"
७।२।२७ इति निपातानादत्र भवितव्यमेव णिलोपेन।
यदि तह्र्रनर्थकं सेङ्ग्रहणम्(),
तत्? किमर्थं क्रियते? इत्याह--"तत्? क्रियते" इत्यादि। पूर्वमिडागमे कृते सेटि निष्ठायां जातायां पश्चाण्णिलोपो यथा स्यादित्येवमर्थं सेङ्ग्रहणं कृतम्()। कः पुनरकृत इटि णिलोपे सति दोषः स्यात्(),
यन्निवृत्त्यर्थं पूर्वमिडागम इष्यते? इत्याह--"अकृते हि" इत्यादि। असति सेङ्ग्रहणे कारित इति स्थिते णिलोपः प्राप्नोति,
इट्? च्(), तत्र कृताकृतप्रसङ्गित्वेन णिलोपेनैव भवितव्यम्();
णिलोपे च सत्येकदेशविकृतसयानन्यत्वात्? स एवायं करोतिरिति "एकाच उपदेशेऽनुदात्तात्()"
७।२।१० इतीट्()प्रतिषेधः प्रसज्येत, ततश्च "कारितम्()" इत्येतन्न सिद्ध्येत्()।
तस्मात्? सेङ्ग्रहणं कत्र्तव्यम्()॥
निष्ठायां सेटि। णेर्लोपः स्यादिति। सेषपूरणमिदम्। "णेरनिटी"त्यतो णेरिति, "आतो लोपः" इत्स्माल्लोप इति चानुवर्तते इति भावः। "अनिटी" ति निषेधादप्राप्ते आरम्भः। "टु ओ ()इआ गतिवृद्ध्योः" अस्मात् क्ते आह ()आईदित इति नेडिति। संप्रसारणमिति। यजादित्वादिति भावः। संप्रासरणे सति पूर्वरूपे "हलः" इति दीर्घे "ओदितश्चे"ति निष्ठानत्वे रूपमाह--शून इति। यद्यपि मूले "ओदितश्चे"त्यत्र उच्छून इत्युदाह्मतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः। अत्र अलविधित्वेऽपि "हल" इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम्। न च नित्यत्वात्संप्रसारणपूर्वरूपयोः "श्र्युकः कितीत"त्येव निषेधसिद्धेः ()इआग्रहमं व्यर्थमिति वाच्यम्, "श्र्युकः किती"त्यत्र "एकाच उपदेशे" इत्यत उपदेशे इत्यनुवृत्तेः। तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ ()इआग्रहणम्। अत एव "स्तीर्त्वे"त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम्। ईदित उदाहरति-- दीप्तैति। "दीपी दीप्तौ" दिवादिः। ईदित्त्वान्नेट्। गूढ इति। ऊदित्त्वेन वेट्कत्वात् "यस्य विभाषे"ति नेट्। ढत्वधत्वष्टुत्वढलोपदीर्घाः। वनु वतः। तनु तत इति। "उदितो वे"ति क्त्वायां वेट्कत्वात् "यस्य विभाषे"ति नेट्। "अनुदात्तोपदेशे"ति नकालोपः। पतेः सनीति। "पत्लृ गतौ" अस्य "तनिपतिदरिद्राणानुपसङ्ख्यान"मिति सनि वेटक्त्वात् "यस्य विभाषे"ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः।
"पतित" शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति। एषां "सेऽसिचि कृतचृतछृदतृदनृतः" इति सकारादौ वेट्कतया "यस्य विभाषे"त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः। ततश्च एषामीदित्करणात् "यस्य विभाषे"ति इण्निषेधस्य अनित्यत्वं विज्ञायते। एवं च कृतादीनां "यस्य विभाषे"ति इण्निषेधस्याऽभावसंभावनायां "()आईदितः" इण्निषेधार्थमीदित्त्वमर्थवत्।तथा च पतितशब्दे "यस्य विभाषे"त्यनित्यत्वान्न भवतीत्यर्थः। तेनेति। "यस्य विभाषे"त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः। धावितमिति। "स्वरतिसूती" धूञो वेट्कत्वेऽपि "यस्य विभाषे"ति निष्ठायामिण्निषेधः स्यादित्यत आह-- यस्य विभाषेत्यत्रेति।
संप्रसारणमिति। "वचिस्वपी"त्यनेन। शून इति। टुओ()इआ गतिवृद्ध्योः। "हलः" इति दीर्घः। "ओदितश्च" इति निष्ठातस्य नः। गूढ इति। "यस्य विभाषे"ति नेट्। ढत्वधत्वष्टुत्वढलोपदीर्घाः। वतः तत इति। "अनुदात्तोपदेशे"ति नलोपः। सनि केट्कत्वादिति। "तनिपतिदरिद्रातिभ्यः सनो वा इड्वाच्यः" इति वचनात्। कृन्तत्यादीनामिति। "()आईदित" इति निष्ठायामनिट्त्वार्थं कृती छेदने, चृती हिंसाग्रन्थनयोः, नृती गात्रविक्षेपे इत्यतेषामीदित्त्वकरणेन "यस्य विभाषे"त्यस्याऽनित्यत्वज्ञापनाद्वा पतित इति सिद्धमित्यर्थः।