प्रथमावृत्तिः
सूत्रम्॥
स्थानिवदादेशोऽनल्विधौ॥ १।१।५५
पदच्छेदः॥
स्थानिवत् ० ५८ आदेशः १।१ ५८ अनल्विधौ ७।१
समासः॥
अल्विधौ इत्यत्र अर्थानुरोधात् चतुर्विधः समासः।
(१) अलः (५।१) परस्य विधिः अल्विधिः, पञ्चमीतत्पुरुषः।
(२) अलः (६।१) स्थाने विधिः अल्विधिः, षष्ठीतत्पुरुषः।
(३) अलि विधिः अल्विधिः, सप्तमीतत्पुरुशः।
(४) अला विधिः अल्विधिः, तृतीयातत्पुरुषः।
न अल्विधिः अनल्विधिः, तस्मिन् अनल्विधौ, नञ्तत्पुरुषः॥
स्थानम् अस्य अस्ति इति स्थानी {५।२।११४} इत्यनेन इनिः-प्रत्ययः।
अर्थः॥
आदेशः स्थानिवत् भवति, अल्विधिं वर्जयित्वा। तत्र आदेशाः अष्टधा भवन्ति - धातु-अङ्ग-कृत-तद्धित-अव्यय-सुप्-तिङ्-पदादेशाः॥
उदाहरणम्॥
धात्वादेशः - भविता, भवितुम्, भवितव्यम्। वक्ता, वक्तुम्, वक्तव्यम्।
अङ्गादेशः - केन, काभ्याम्, कैः।
कृदादेशः - प्रकृत्य, प्रहृत्य।
तद्धितादेशः - दध्नि संस्कृतम् दधिकम्, अद्यतनम्।
अव्ययादेशः - प्रकृत्य, प्रहृत्य।
सुबादेशः - पुरूषाय, वृक्षाय।
तिङादेशः - अकुरुताम्, अकुरुतम्।
पदादेशः - ग्रामो नः स्वम्, ग्रामो वः स्वम्।
अल्विधौ स्थानिवत् न भवति, तद्यथा -
अलः (५।१) विधिः - द्यौः, पन्थाः, सः।
अलः (६।१) विधिः - द्युकामः।
अलि (७।१) विधिः - कः इष्टः।
अला (३।१) विधिः - महोरस्केन, व्यूढोरस्केन।
काशिका-वृत्तिः
स्थानिवदादेशो ऽनल्विधौ १।१।५६
स्थान्यादेशयोः पृथक्त्वात् स्थान्याश्रयं कार्यम् आदेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते। स्थानिना तुल्यं वर्तते इति स्थानिवत्। स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा। न अल्विधिरनल्विधिः इत्यर्थः।
किम् उदाहरणम्? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदाऽदेशाः। धात्वादेशो धातुवद् भवति। अस्तेर् भूः
२।४।५२। ब्रुवो वचिः
२।४।५३। आर्धधातुकविशये प्रागेवाऽदेशेषु कृतेषु धातोः
३।१।९१ इति तव्याऽदयो भवन्ति। भविता। भवितुम्। भवितव्यम्। वक्ता। वक्तुम्।
वक्तव्यम्। अङ्गाऽदेशो ऽङ्गवद् भवति केन। काभ्याम्। कैः। किमः कः
७।२।१०३ इति काऽदेशे कृते ऽङ्गाऽश्रया इनदीर्घत्वाइस्भावाः भवन्ति। कृदादेशः कृद्वद् भवति प्रकृत्य। प्रहृत्य। क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक्
६।१।६९ इति तुग् भवति। तद्धिताऽदेशः तद्धितवद् भवति दाधिकम्। अद्यतनम्। कृत्तद्धितसमासाश्च
१।२।४६ इति प्रातिपदिकसंज्ञा भवति। अव्ययाऽदेशो ऽव्ययवद् भवति प्रस्तुत्य। प्रहृत्य। उपहृत्य। उपस्तुत्य। अव्ययादाप्सुपः
२।४।८२ इति सुब्लुग् भवति। सुबादेशः सुब्वद् भवति वृक्षाय। प्लक्षाय। सुपि च
७।३।१०२ इति दीर्घत्वं भवति। तिङादेशः तिङ्वद् भवतिअकुरुताम्। अकुरुतम्। सुप्तिङनतं पदम्
१।४।१४ इति पदसंज्ञा भवति। पदाऽदेशः पदवद् भवति ग्रामो वः स्वं। जनपदो नः स्वम्। पदस्य
८।१।१६ इति रुत्वं भवति।
वत्करनं किम्? स्थानी आदेशस्य संज्ञा मा विज्ञायि इति। स्वाऽश्रयम् अपि यथा स्यात्। आङो यमहनः
१।३।२८ आहत, आवधिष्ट इति आत्मनेपदम् उभयत्र अपि भवति।
आदेशग्रहणं किम्? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात्। पचतु एरुः
३।४।८६।
अनल्विधौ इति किम्? द्युपथितदादेशा न स्थानिवद् भवन्ति। द्यौः, पन्थाः, सः इति। हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल्
६।१।६६ इति सुलोपो न भवति।
लघु-सिद्धान्त-कौमुदी
स्थानिवदादेशोऽनल्विधौ १४४, १।१।५५
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
न्यासः
स्थानिवदादेशोऽनल्विधौ। , १।१।५५
स्थानं प्रसङ्गः, स च पूर्वमुक्तस्वरूपः। अतिदेशोऽनेकप्रकारः- निमित्ताति-
देशः; व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, कार्यातिदेशश्चेति। तत्र
तावन्निमित्तमशक्यमतिदेष्टुम, न हि धात्वादिधर्माः शब्दप्रवृत्तिनिमित्तभूता धात्वादिव्यक्त्याश्रिता वस्त्वन्तरमादेशं प्रापयितुम्, प्रापयितुं पार्यन्ते; यथा-
ब्राआहृणवदस्मिन् क्षत्रिये वर्त्तितव्यमिति ब्राआहृणशब्दप्रवृत्तिनिमित्तं न शक्यं क्षत्रिये प्रापयितुम्, तद्वत् तस्मादशक्यत्वात् नेह निमित्तादेश आश्रीयते। नापि
व्यपदशातिदेशः; संज्ञासंज्ञिसम्बन्धादभिन्नत्वात्। संज्ञासंज्ञिसम्बन्धे हि वत्करण-
स्यानर्थक्यं स्यात्, विनापि तेन तत्सिद्धेः। अप्रधानत्वाच्च नात्र व्यपदेशातिदेशो युक्त आश्रीयतुम्। अत एव शास्त्रातिदेशोऽपि। अप्रधानत्वं तु तयोरपि कार्यं
प्रत्यङ्गभूतत्वात्। रूपातिदेशस्याप्याश्रयणमयुक्तम्" निष्फलत्वात्। यदि ह्रादेशस्य स्थानिनोरूपमतिदिश्येत; आदेशस्य वैयथ्र्यं स्यात्। "द्विर्वचनेऽचि"
१।१।५८ इत्यत्र रूपातिदेशेऽपि न भवत्यादेशवैयथ्र्यम्, द्वर्वचनादुत्तरकालं श्रवणार्थत्वात्। तस्मादतिदेशान्तराश्रयणस्यायुक्तत्वात् कार्यातिदेश आश्रीयते। "स्थानिना तुल्यं वर्तते" इति। तत्तुल्यकार्यत्वात्, "तेन तुल्यम्"
५।१।११४। "स्थान्याश्रयेषु" इति।
स्थानी आश्रय एषामिति बहुव्रीहिः। "अनलाश्रयेषु" इति। अल आश्रय एषामिति बहुव्रीहि
कृत्वा न अळाश्रयाणि अनलाश्रयाणीति नञ्समासः। अनन्तरोक्तमेवार्थं विस्पष्टीकर्तृमाह- "स्थान्यलाश्रयाणि" इत्यादि। स्थानी अल् आश्रयोयेषां तानि तथोक्तानि। आश्रयग्रह-णेन सूत्रे योऽल्विधिशब्दः, सोऽलाश्रयो विधिरल्विधिरित्युत्तरपदलोपी समास इति
दर्शयति। स पुनः समासो मयूरव्यंसकादित्वात् समासं कृत्वा नञ्समासः कृतः। न
अल्विधिरनल्विधिः" इति।
पुनरलाश्रयो विधिः? यो वर्णमात्राश्रितः। यस्तु समुदाया-
श्रितः सोऽनलाश्रयः। कार्यशब्देन क्मसाधनेन विधिशब्दस्यार्थमाचक्षाणः "विधीयते"
इति विधिरिति तस्य कर्मसाधत्वं दर्शयति।
"किमुदाहरणय्िति प्रश्नः। "धात्वाद्यादेशाः प्रयोजनम्" इत्युत्तरम्।
प्रयुज्यतेऽनेनेति प्रयोजनम्, उदाहरणेन च प्रयुज्यत इति। अर्थात् प्रश्नानुरूपं
प्रतिवचनम्।
ननु चार्धधातुके परतो भाव्यमादेशाभ्याम्, तत्र किमत्रादेशेनेत्यत आह-
"आर्धधातुके विषये" इति। "प्रकृत्य" इत्यादि। "कुगति"
२।२।१८ इत्यादिना समासः,
"समासेऽनञ्पूर्वे क्त्वो ल्यप्"
७।१।३७।
"दधिकम्" इति। दध्ना संस्कृतमिति "दध्नष्ठक्"
४।२।१७। "अद्यतनम्" इति।
"सायंचिरम्"
४।३।२३ इत्यादिना ट()उप्रत्ययः, तुडागमश्च, योरनादेशः।
"अकुरुताम्कुरुतम्" इति। कृञो लङ्, "तस्थस्थमिपाम्"
३।४।१०१ इत्यादिना तसस्ताम्, थसस्तम्, तनादित्वात् "तनादिकृञ्भ्य उः"
३।१।७९, धातोर्गुणः। "अत उत्
सार्वधातुके"
६।४।११०।
ग्रामो वृ स्वम्, जनपदो नः स्वम्" इति। युष्मदस्मदोः षष्ठी, "बहुवचनस्य
वस्नसौ"
८।१।२१ इति वस्नसादेशौ।
"वत्करणं किम्" इति? विनापि तेन तदर्थो गम्यते, यथा "असंयोगाल्लिट्
कित्"
१।२।५ इत्यादावित्यभिप्रायः। "स्थानो" इत्यादि। प्रायेण ह्रस्मिन् पादे "वृद्धिरादैच्"
१।१।१ इत्यादीनि सूत्राणि संज्ञासंज्ञिसम्बन्धार्थान्येव दृष्टानि। अतोऽसति वत्करणे स्थान्यादेशस्य संज्ञा विधीयत इति विज्ञायते। तदेवं मा विज्ञायी-
त्येवमर्थं वत्करणम्। किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह-- "स्वाश्रयमपि" इत्यादि। संज्ञा हिसंज्ञिप्रत्ययनार्था न स्वतः कार्यं प्रतिपद्यते, अपि तु तत्प्रत्यायितः संज्ञीति। अत्र यदि स्थान्यादेशस्य संज्ञा स्यात्, आदेशस्यैव हि
संज्ञिनः कार्यं स्यात्,न संज्ञाभूतस्य स्थानिनः। ततश्च "आङो यमहनः"
१।३।२८ इति
वधेरादत्मनेपदं स्यात्, न हन्तेः।वत्करणे तु सत्यतिदेशोऽयं भवति, अतिदेशेन चान्य-
सम्बन्धिकार्यमन्यत्र सम्पाद्यते;न तु तत्र स्वाश्रयं निवर्त्त्यते। तथा हि "ब्राआहृणवदस्मिन् क्षत्रिये वत्र्ततव्यम्" इत्यतिदेशे तद्()ब्राआहृणसम्बन्धिकार्यं क्षत्रिये भाव्यते। न तु ब्राआहृणस्य यत् स्वाश्रयमग्रभोजनादि तद्()व्यावर्त्त्यते। स्वाश्रयमपीत्यपिशब्दादतिदेशप्रापितमादेशे पराश्रितमपि। "आहत" इति। हन्तेरलुङ, "हनः सिच्"
१।२।१४ इति कित्त्वम्। "अनुदात्तोपदेश"
६।४।३७ इत्यादिनाऽनुनासिकलोपः। "ह्स्वादङ्गात्"
८।२।२७ इति सिचो लुक्। "आवधिष्ट" इति। "आत्मनेपदेष्वन्यतरस्याम्"
३।१।५४ इति वधादेशः, इट्, "अतो लोपः"
६।४।४८ षत्वष्टुत्वे।
"आदेशग्रहणं किम्" इति। सथानीति सम्बन्धिशब्दोऽयम्। तत्र यथा "पितृवत्
स्थूलः" इत्युक्तेऽन्तरेणाप्यत्र पुत्रग्रहणं सम्बन्धिशब्दत्वात् पुत्र इति गम्यते,तथा स्थानिवदित्युक्ते विनाप्यादेशग्रहणेन सम्बन्धिशब्दत्वादादेश एव स्थानिवद्
भवतीति विज्ञायत इत्यभिप्रायः। "आनुमानिकस्य" इत्यादि। "अस्तेर्भूः"
२।४।५२ इत्यादौ स्थान्यपि शब्देन साक्षात् प्रत्याय्यते, आदेशोऽपि। पचत्वित्यत्र स्थान्यपि,
आनुमानिक आदेशोऽपि। तथा हि- "एरुः"
३।४।८६ इत्यत्र न वस्तुत इकार एव स्थानी
, अपि तु तिशब्दः। नाप्युकारमात्र आदेशः,
तर्हि? तुशब्दः। लाघवार्थं तु तदेकदेशयो-रिकारोकारयोरुच्चारणम्। तेनैकदेशद्वारेण समुदायस्य समुदाय एवादेशो विधीयते। तत्र
यथा विषाणेनैकदेशेनोपलब्धेन विषाणी समुदायोऽनुमीयते, तथैकदेशेनेकारेणोकारेण तिशब्दस्तुशब्दश्च। अत्र च शास्त्रे यस्य च क्रियाबिसम्बन्धः साक्षाच्छब्दादेव प्रतीयते,
यस्य च कुतश्चिदर्थप्रकरणादेरनुमीयते,तयोः पूर्वस्य प्राधान्यमितरस्य विपर्यय
इष्यते। तथा हि- "सहयुक्तेऽप्रधाने"
२।३।१९ इत्यत्र वृत्तिकारः "पुत्रेण सहागतः" इत्याद्युदाह्मत्य वक्ष्यति- "पितुरत्र क्रियादिसम्बन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम्" इति। प्रधानेतरयोश्च सन्निधाने प्रधानस्यैव
कार्येण सम्प्रत्ययो युक्तः। तथा चाह- "प्रधाने कार्यसम्प्रत्ययात् सिद्धम्" इति।
अत्र हि यद्यादेश इत नोच्येत, ततो य आदेशशब्देनोपादाय विधीयमानत्वात् प्राधान्यमनुभवति तस्यैव स्थानिवद्भावः स्यात्, नाप्रधानस्यानुमानिकस्य। तस्मात् तस्यापि स्थानि-वद्भावो यथा स्यादित्येवमादेशग्रहणम्। तेन पचत्वित्यादावपि "सुप्तिङन्तं पदम्" (१।४१४) इति पदसंज्ञा सिद्धा भवति।
कुतः पुनरेतववसीयते? "एरुः"
३।४।८६ इत्यनेनैकदेश-द्वारेण तुःशब्दः समुदायो विधीयते, न पुनर्यथाश्रुतमिकारमात्रस्योकारमात्रमेवेति; पचत्वित्यत्र पदसंज्ञाकार्योपलब्धेः, तद्धि न विना पदसंज्ञया, सापि न विना तिङवद्
भावेन, सोऽपि न विना समुदायोदेशेनेति। तस्मिन् हि सति स्थानिवद्भावेन यत्न-
प्रतिपादितेन तिङभावो लभ्यते; नान्यथेति गतमेतत्।
अथानुमानिके गृहीते कथमितरस्य
ग्रहणं लभ्यते? एवं मन्यते स्थानिवदित्येतावानेको योगः कत्र्तव्यः, एतेन योगेनादेशः प्रधानभूतः सम्बन्धिशब्दत्वाल्लभ्यते। तत आदेश द्वितीयो योगः, आनुमानिकस्य स्थानि-
वद्भावाय। अत्र च स्थानिवदिति वत्र्तते। एवमुभयोः प्रत्यक्षानुमानशिष्ट()ओग्र्रहणमुपपद्यते।
"अनल्विधौ" इति। द्वयोरपि योगयोः शेषभूतः। "द्युपथित्यदादेशा" इत्यादि। "दिव औत्" "पथिमथ्यृभुक्षामात्"
७।१।८५, "त्यदादीनामः"
७।१।१०२ इत्येते "
हल्ङ्याब्भ्यः"
६।१।६६ सुलोपे कत्र्तव्ये न स्थानिवद्भवन्ति; तस्य हल्मात्रमाश्रित्य प्रवृत्तेरलाश्रयत्वात्॥
बाल-मनोरमा
स्थानिवदादेशोऽनल्विधौ ५१, १।१।५५
ननु सुध् य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेनाच्त्वाद्च्परकत्वात्कथं धकारस्य द्वित्वमिति शङ्का ह्मदि निधाय तस्य स्थानिवद्भावप्रापकसूत्रमाह-स्थानिवदादेशः। गुरुस्थानापन्ने गुरुपुत्रादौ स्थानापत्त्या तद्धर्मलाभो लोकतः सिद्धः। कुशादिस्थानापन्नेषु शरादिषु च वैदिकन्यायसिद्धः। इह तु शास्त्रे स्वं रूपं शब्दस्येति वचनात्स्थानिधर्मा आदेशेषु न प्राप्नुयुरिति तत्प्राप्त्यर्थं स्थानिवदादेश इत्यारब्धम्। "स्थानं प्रसङ्ग" इत्युक्तम्। यस्य स्थानेऽन्यद्विधीयते तत्स्थानि। येन विधीयमानेन अन्यत्प्रसक्तं निवर्तते स आदेशः। स्थानिना तुल्यः स्थानिवत्। "तेन तुल्य"मिति वतिप्रत्ययः। आदेशः स्थानिना तुल्यो भति। स्थानिधर्मको भवतीति यावत्। अलिति वर्णपर्यायः। विधीयत इति विधिः=कार्यम्। अलाश्रयो विधि अल्विधिः अनल्विधिः। अलाश्रयभिन्ने कार्ये कर्तव्ये इति प्रतीयमानोऽर्थः। अलाश्रयकार्ये कर्तव्ये स्थानिवन्न भवतीति फलितम्। अलाश्रयेति सामान्यवचनात् अला विधिः, अलः परस्य विधिः, अलो विधिः?लि विधिश्चेति सर्वसंग्रहः। अला विधौ यथा-व्यूढोर स्केन। अत्र विसर्जनीयस्य सः" इति विसर्गस्थानिकस्य सकारस्य व#इसर्गत्वमाश्रित्य अड्व्यवाय इति णत्वं प्राप्तं न भवति। अलः परस्य विधौ यथा-द्यौः। "दिव औ"दिति वकारस्थानिकस्य औकारस्य स्थानिवद्भावेन हल्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः प्राप्तो न भवति। अलो विधौ यता द्युकामः। "दिव उ"दिति वकारस्थानिकस्य उकारस्य स्थानिवद्भावेन वकारत्वात् "लोपो व्योर्वली"ति लोपः प्राप्तो न भवति। अलि विधौ यथा-क इष्टः। यजेः क्तः। अत्र यकारस्थानिकसंप्रसारणस्य इकारहस्य स्थानिवद्भावेन हश्त्वात् हशि चे"त्युत्वं प्राप्तं न भवति। अल् चेह स्थानिभूतः, स्थान्यवयवश्च गृह्रते। ततश्च आदेशस्य स्थानिभूतो योऽल्, स्थान्यवयवश्च योऽल्, तदाश्रयविधौ न स्थानिवदिति फलति। तत्र स्थानीभूताऽल्विधौ व्यूढोरस्केनेत्युदाह्मतमेव। यथा वा-धिवि प्रीणन इति धातोर्लटि प्रथमपुरुषस्य झेरन्तादेशे "धिन्विकृण्व्योर च" इति विकरणस्य उकारस्य यणि वकारे सति तस्य स्थानिवद्भावेनार्धधातुकत्वात् स्वतो वलादित्वाच्च इडागमः प्राप्तो न भवति, वकारस्य स्थानिभूतो योऽल् उकारः, तदादेशं वकारमार्धधातुकत्वेनाश्रित्य प्रवर्तमानस्य इटः स्थान्यलाश्रयत्वात्। स्थान्यवयवालाश्रयविधौ यथा प्रतिदीव्य। इह क्त्वादेशस्य य इत्यस्य स्थानिवद्भावेन बलाद्यार्धधातुकत्वादिडागमः प्राप्तो न भवति। इडागमस्य वलादित्वविषये स्थान्यवयवभूतालाश्रयत्वात्। तदेतदाह-आदेशः स्थानिवत्स्यान्नतु स्थान्यलाश्रयविधाविति। स्थान्यलाश्रयेत्यत्र स्थानीति किम्?। रामाय। इह "सुपि चे"ति दीर्घस्य यञादिसुबाश्रयस्य आदेशगतयकाररूपालाश्रयत्वेऽपि तस्मिन् कर्तव्ये यादेशस्य स्थानिवद्भावेन सुप्त्वं भवत्येव, दीर्घस्य आदेशगतयकाररूपालाश्रयत्वेऽपि स्थान्यलाश्रयत्वाऽभावात्। न च नीञ्धातोर्ण्बुलि अकादेशे वृद्धौ नै-अक इति स्थिते ऐकारस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात्, ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते। ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत्। अनेनेति। उदाह्मतेन स्थानिवत्सूत्रेण इह=सुध्य् इत्यत्र ईकारस्थानिकस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः। कुत इत्यत आह--अनल्विधाविति तन्निषेधादिति। स्थानिवत्त्वनिषेधादित्यर्थः। यकारादेशस्थानीभूतो योऽल् ईकारः तद्गतमच्त्वं यकारे आश्रित्य प्रवर्तमानस्य यकारद्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः।
तत्त्व-बोधिनी
स्थानिवदादेशोऽनल्विधौ ४४, १।१।५५
स्थानिवदादेशो। आदेशे कृते स्वरूपभेदात्स्थानिप्रयुक्तकार्याणप्रवृत्तावतिदेश आरभ्यते। "अस्तेर्भूः"। आर्धधातुके विवक्षिते धात्वादेशो धातुवत्। तेन "अचो य"-दित्यादिधातुप्रत्ययः-भव्यं बभूव। "किमः कः"। अङ्गादेशोऽङ्गवत्। तेन इनादेशदीर्घैस्वभावाः। केन काभ्यां कैः। आदेशग्रहणं किमर्थम्?, "स्थानिव"दित्येतावतैव संबन्धिशब्दमहिम्ना तल्लाभात्, यथा "पितृवदधीते" इत्युक्ते "पुत्र" इति गम्यते इति चेदत्रादुः,--द्विविध आदेशः,-प्रत्यक्ष आनुमानिकश्चेति। "अस्तेर्भूः" इत्यादिः प्रत्यक्षः। "तेस्तुः" इत्यादिस्त्वानुमानिकः। "एरुः" इत्यत्र हि इकारेणेकारान्तः स्थानी अनुमीयते, उकारेण चोकारान्त आदेशः। तथाच "तेस्तु"रिति फलितोऽर्थः, तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नत्वानुमानिकस्य। आदेशग्रहणसामथ्र्यात्तूभयपरिग्रहः, तेन पचत्वित्यादेस्तिङ्न्तत्वात्पदसंज्ञा सिध्यतीति। ननु "एरु"-रित्यादि यथाश्रुतमेवास्तु, एकदेशविकृतस्याऽनन्यत्वात्पदत्वं भविष्यतीति चेन्नः, अर्थवत्येव स्थानादेशभावविश्रान्तेर्वाच्यत्वात्तस्यैवाऽत्र प्रसङ्गाऽसंभवात्। तथाहि-"षष्ठी स्थानेयोगे"त्युक्तम्। स्थानं च प्रसङ्गः। स चार्थवतः , अर्थप्रत्ययार्थं शब्दप्रयोगात्। यद्यपि च्लेः सिजादावसंभवीदं, तथापि सति संभवे अर्थप्रयुक्त एव प्रसङ्गो ग्राह्र इत्यनेनैवादेशग्रहणेन ज्ञाप्यते। उक्तं च--सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने। एकदेशाविकारे हि नित्यत्वं नोपपद्यते"॥ इति पदमिहार्थवत्, पद्यतेऽनेनेति व्युत्पत्तेः। यद्यपि सर्वविकारे सुतरां नित्यत्वानुपपत्ति स्तथापीह विकार एव नास्तीति तात्पर्यम्। एतच्च शब्दकौस्तुभे स्पष्टम्॥ अनल्विधाविति किम्?। यश्चाला विधिः, यश्चालः परस्य विधिः, यश्चालो विधिः, यश्चालि विधिस्तत्र मा भूत्। तत्राऽला विधौ यथा--व्यूढोरस्केन। अत्र सकारस्य स्थानिवत्त्वेन विसर्गवदट्त्वमाश्रित्य "अड्व्यवाये" इति णत्वं प्राप्तम्। अलः परस्य यथा--द्यौः, पन्थाः। इह हल्ङ्यादिलोपो न। अलो विधौ यथा--द्युकामः। लोपो व्योर्वली"ति लोपो न। न चोत्त्वविधिसामथ्र्याल्लोपोन भवेदिति शङ्क्यम् ; "द्युयान"मित्यादौ तस्य सावकाशत्वात्। अलि विधौ--यजेः क्तः। क इष्टः। "हशि चे"त्युत्वं न। न चेह स्थानिबद्भावेन जातेप्युत्वे आद्गुणेऽवादेशे च कृते "हलि सर्वेषा"मिति नित्यं लोपेन "क इष्ट" इति रूपं सिध्यत्येवेति वाच्यम् ; "कयिष्ट" इति रूपान्तराऽसिद्धिप्रसङ्गात्। सिद्धान्ते तु "भोभगोअघोअपूर्वस्ये"ति यस्य लोपविकल्पे "क इष्टः" "कयिष्ट" इति रूपद्वयमभ्युपगम्यते। अलं चेह स्थान्यवयव एव गृह्रते, तेन "रामाये"त्यादौ "सुपि चे"ति दीर्घः सिध्द्यति, तद्विधौ हि यञादित्वमाश्रितम्। यञ् चादेशावयवो न तु स्थान्यवयवः। तथा "अरुदिता"मित्यादौ "रुदादिभ्यः-" इति वलादिलक्षण इट् च सिध्यति। तदेतदाह्मन तु स्थान्यलाश्रय #इति। आश्रयणं चेह यथाकथञ्चिन्न तु प्राधान्येनैवेत्याग्रहः। तेन "प्रपठ()ए"त्यत्र वलादिलक्षण इण्न॥