"क्त्वेति निवृत्तम्" इति। झलादेः क्त्वाप्रत्ययस्यौपदेशिकं कित्त्वमस्त्येवेति तदनुवृत्तेरपार्थकत्वात्। सन्()ग्रहणन्तु प्रथमान्तमिहानुवत्र्तते, तस्य झलित्यनेन सामानाधिकरण्यमुपपन्नम्। अतः सामथ्र्यात् तदादिविधिर्विज्ञायत इत्यत आह-- "झलादिः सन् किद्भवति" इति।
अथ तदन्तविधिः कस्मान्न भवति-- झलन्तः सन्निति? एवं मन्यते-- वृद्धसंज्ञा
१।१।७२ सूत्रादिहादिग्रहणमनुवत्र्तते, तेन झल् विशिष्यते; तस्मात् तदादिविधिरेव विज्ञायिते, न तदन्तविधिरिति।
यदि पुनस्तदन्तविधिः स्यात् तदा किं स्यात्? यत्रातो लोपे कृते झलन्तत्वं सनस्तत्रैव स्यात्-- चिकीर्षितेत्यादौ; चिकीर्षतीत्यादौ तदु न स्यात्, अदन्तत्वात्। अदन्तत्वन्तु सञ्शबकारयोद्र्वयोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावात्।
अथेक इति "इक् स्मरणे" (धा।पा।
१०४७) इत्यस्य धातोग्र्रहणं कस्मान्न भवति? झलिति प्रत्याहारस्यैव युक्तत्वात्; किञ्च-- गर्गादिषु जिगीषुशब्दपाठाच्च। धातुग्रहणे हि सति जयतेः परस्य सनः कित्त्वं न स्यात्, तथा च जिगीषुशब्दो न सिद्ध्येत्। किञ्च-- धातुग्रहणे हि सतीको धातोः समीपगतो हल् न सम्भवतीति "हलन्ताच्च"
१।२।१० इत्येदप्यघटमानं स्यात्। तस्मात् प्रत्याहारस्यैव ग्रहणं न्याय्यम्, न धातोः। "चिचीषति" इति। "अज्झनगमां सनि"
६।४।१६ इति दीर्घः। "एकाचः"
७।२।१० इत्यादिना पूर्वोक्तेनेट्प्रतिषेधः। उत्तरत्रापि यत्रेटः श्रवणं नास्ति, तत्राप्यनेनैव प्रतिषेधो वेदितव्यः।
यत्र तु विशेषोऽस्ति, तत्रासौ वक्तव्य एव। "तुष्टूषति"इति। "शर्पूर्वाः खयः"
७।४।६१ इति खयः शेषः। "शिशयिषते" इति। "पूर्ववत् सनः "
१।३।६२ इत्यात्मनेपदम्। एवमुत्तरत्रापीच्छासन्नन्तादात्मनेपदमनेनैव बोद्धव्यम्।
"किमर्थ पुनः" इत्यादि। अत्र वक्ष्यमाणोऽभिप्रायः। "गुणो मा भूत्" इति। यदर्थमिदमुच्यते तदाह। येनाभिप्रायेण पृष्टवांस्तमाविष्कर्तुमाह-- "अज्झनगमां सनि" इत्यादि। यदि दीर्घत्वे कृतेऽपि गुणः स्यात् तदा दीर्घत्वस्य वैयथ्र्यं स्यात्। तस्मान्मा भूतस्य वैयथ्र्यमिति दीर्घत्वं तद्()गुणस्य बाधकं भविष्यतीति। अत्र दोषमापादयितुमाह-- "यथैव तर्हि" इत्यादि। असति कित्त्वेऽनवकाशं दीर्घत्वं यता गुणस्य बाधकं भवति, तथा-- "तस्मात्" इत्यादि। यत एवमनारभ्यमाण एतस्मिन्नेष दोषोऽनुषज्येत, तस्माद्दीर्घत्वस्यावकाशदानाय कित्त्वमिदमारभ्यते। अथारभ्यमाणेऽप्येतस्मिन् कस्मादेष दोषो न भवतीत्यत आह----"चिचीषति" इत्यादि। कित्त्वे सति तेनैव गुणस्य बाधितत्वात्। चिचीषति, तुष्टूषतीत्यादिषु सावकाशं दीर्घत्वं भवति; तेन च परत्वाण्णिलोपो न बाध्यते। न हि कित्त्वे सति शक्यमेवं वक्तम्-- यथा दीर्घत्वं गुणं बाधते, तथा णिलोपमपीति; यस्मान्न गुणो दीर्घत्वेन बाध्यते,
किं तर्हि? कित्त्वेन। अत्र दीर्घत्वस्यावकाशो दर्शितः णिलोपस्य त्वेषोवकाशः- पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्यादि; ज्ञीप्सतीत्यत्रोभयप्राप्तौ दीर्घत्वं बाधित्वा परत्वात् णिल#ओप एव भवति। "ज्ञा अवबोधने" (धा।पा।१५०७), "मारणतोषणमनिशामनेषु" (धा।पा।८११), "मिच्च" (धा।पा।१६२४)इति चुरादिपाठाण्णिच्। "अर्त्तिह्यी"
७।३।३६ इत्यादिना पुक्। "मितां ह्यस्वः"
६।४।९२ इति ह्यस्वत्वम्। अन्ये तु-- "ज्ञप मारणतोषणनिशामनेषु" (धा।पा।१६२४) इति पठन्ति, ततो णिच्, तत इच्छासन्, "सनीवन्तद्र्ध"
७।२।४९ इत्यादिना पक्षे इडभावः, क"आप्ज्ञपृधामीत्"
७।४।५५ इतीत्वम्, "अत्र लोपोऽभ्यासस्य"
७।४।५८ इत्यभ्यासलोपः। त"णेरनिटि"
६।४।५१ इति णिलोपः।
"इकः कित्त्वम्" इत्यादि। अथ किमर्थमिक उत्तरस्य सनः कित्त्वं विधीयते, किमर्थमिको झलिति योगविभागः क्रियते, नन्वेकमेवेदं सूत्रं पठितव्यम्,
"इको झल् हलन्ताच्च" इति? प्रयोजनमाह--- "गुणो मा भूत्" इति। चिचीषतीत्यादौ "सार्वधातुकार्धधातुकयोः"
७।३।८४ इति गुणः प्राप्नोति, स मा भूदित्येवमर्थं कित्त्वं विधीयते। नैतदस्ति प्रयोजनम्; यस्मात् "अज्झनगमां सनि"
६।४।१६ इति नाप्राप्ते गुणे दीर्घत्वमारभ्यते, अतो दीर्घारम्भाद् गुणो न भविष्यतीति; अन्यथा हि दीर्घग्रहणमनर्थकं स्यात्। ननु च चुकूषते इत्यत्र दीर्घवचनस्य सार्थकत्वम्, अत्र हि गाङकुटादिसूत्रेण
१।२।१ ङित्त्वे सति गुणो न प्रवत्र्तते, नैतदस्ति; न ह्रेकमुदाहरणं प्रति योगारम्भं प्रयोजयति। यदि ह्रेतत् प्रयोजनमभिमतं स्यात्, णिग्रहणमेव कुर्यात्। समुदायामात्रादपेक्षया वा "पुरस्तादपदादाः" इत्यादिका परिभाषा नास्त्येवेति।