सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत् सन्नन्तादात्मनेपदम् भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन एव सन्नन्तादपि भवति। अनुदात्तङित आत्मनेपदम्
१।३।१२ आस्ते, शेते। सन्नन्तादपि तदेव निमित्तम् आसिसिषते, शिशयिषते। नेर् विशः
१।३।१७ निविशते, निविविक्षते। आङ उद्गम्ने
१।३।४० आक्रमते, आचिक्रंसते। इह न भवति, शिशत्सति, मुमूर्षति। न हि शदिम्रियतिमात्रम् आत्मनेपदनिमित्तम्।
किं तर्हि? शिदाद्यपि, तच् च इह न अस्ति। यस्य च पूर्वत्र एव निमित्तभावः प्रतिशिध्यते, तत् सन्नन्तेश्वप्यनिमित्तम् अनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते,
मीमांसते इति? अनुदात्तङित इत्येव सिद्धम् आत्मनेप्दम्। अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति।
"पूर्ववत्" इति। "तेन तुल्यं क्रिया चेद्वतिः"
५।१।११४ इति वतिः।। पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते। स चावधिः श्रुतत्वात्सन्नेव विज्ञायत इत्याह-- "सनः पूर्वो यो धातुः" इति। यद्येवम्, अवधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात्त सन्नन्तादात्मनेपदं भवतीति, न तत्रैतल्लभ्यते;
कुतस्तर्हि स्यात्? धातुमात्रात्, नैतदस्ति; एवं ह्रात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात्।
अथ प्रत्ययान्तात् स्यात्? एवमपि सन्ग्रहणमनर्थकं स्यात्, पूर्ववत् प्रत्ययादिति वाच्यं स्यात्। तस्मात् पत्र्यासन्नं सनं त्यक्त्वा न युक्त्वा न युक्ताऽन्यन्यस्याश्रुतस्य परिकल्पनेति सन्न्तादेव भवतीति विज्ञायते। "येन" इत्यादिना वत्यर्थमाचष्टे। "तदेव निमित्तम्" इति। अनुदात्तेत्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद्वचनसामथ्र्यान्निमित्तं भवति। "असिसिषते" इति। इटि कृते "अजादेर्द्वितीयस्य"
६।१।२ इति सिशब्दस्य द्विर्वचनम्। "निविविक्षते" इति। "विश प्रवेशने" (धा।पा।१४२४), पूर्ववत् कित्त्वषत्वकत्वानि। "आचिक्रंसते" इति। आत्मनेपदनिमित्तत्वात् "स्नुक्रमोरनात्मनेपदनिमित्ते"
७।२।३६ इतीण् न भवति।
"शिशत्सति", मुमूर्षति"इति। अत्र सनो यः पूर्वो भागः, तस्यात्मनेपदनिमित्तत्वमस्ति; शीयते, म्रियत इत्यात्मनपददर्शनात्। तत आत्मनेपदेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह-- "इह न भवति" इत्यादि। किं कारणमित्याह-- "न हि" इत्यादि।
किं तर्हि? "शिदाद्यपि"इति। शिच्छब्देनात्र शिद्भावित्वं शित्सम्बन्धित्वञ्चोक्तम्। आदिशब्देन लुङलिङोग्र्रहणम्, तच्चेह नास्तीति न ह्रत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्वं वास्ति; शित्प्रत्ययस्यास्मिन् विषयेऽत्यन्तासम्भवात्, नापि म्रियतेः परौ लुङलिङौ स्तः; तस्मान्नेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तीति न भवत्यात्मनेपदम्।
इह तर्हि कस्मान्न भवति-- अनुचिकीर्षति,
पराचिकीर्षतीति? करोतेर्हि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम्, अतस्त्दविवक्षायां सनन्तादपि तेन भवितव्यमित्याह-- "यस्य च" इत्यादि। गन्धनादिष्वर्थेषु पूर्वत्रासनन्तावस्थायाम् "अनुपराभ्यां कृञः"
१।३।७९ इत्यनेन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां सनन्तादप्यात्मनेपदनिमित्ताभावान्न भवति।
"अथ जुगुप्सते, मीमांसत इत्यत्र कथमात्मनेपदम्, यावता "पूर्ववत्सनः"
१।३।६२ इत्युच्यते, न च गुपादिषु सनः प्रागेवात्मनेपदं भवतीति; अतः पूर्ववदित्यतिदेशाभावान्न भवितव्यमात्मनेगदेनेत्यत आह-- "इह" इत्यादि। "जुगुप्सते"इति। "गुप्तिज्किद्भ्यः सन्"
३।१।५ इति सन्। "मीमांसते" इति। "मानबध"
३।१।६ इत्यादिना सन्, अभ्यासस्य "सन्यतः"
७।४।७९ इतीत्वे दीर्घः। कथं पुनरिह "अनुदात्तङित आत्मनेपदम्"
१।३।१२, यावता गुपादाववयवेऽनुदात्तेत्वं लिङ्गम्, न जुगुप्सादौ समुदाय इत्यत आह -- "अवयवे कृतम्" इत्यादि। यथा गोः कर्णादाववयवे कृतं लिङगं समुदायस्य विशेषकं भवति, तथा गुपादाववयवे कृतमनुदात्तेत्त्वं समुदायस्य जुगुप्स इत्येवमादेर्विशेषक्रं भवति। यद्येवम्, गोपयति, तेजयति, सङ्केतयतीत्येवमादावपि प्राप्नोति, सत्यम्; स्यादेतत्-- अवयवेकृतं लिङगं तस्य समुदायस्य गोर्विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति; सनन्तं पुनर्न व्यभिचरति; णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम्; वात्र्तमेतत्, सनन्तमपि व्यभिचरतीति विनापि तेन गोपयतीत्यादौ सम्भवात्। तस्मात् समुदायं यं गुपादिर्न व्यभिचरति, तस्यासम्भवात् सर्वस्य गुपादावयवे कृतमनुदात्तेत्त्वं लिङ्गं समुदायस्य विशेषकं भविष्यति। ततश्च गोपयतिप्रभृतिभ्योऽप्यात्मनेपदं प्राप्नोतीत्येव। एवं तर्हि "निगरणचलनार्थेभ्यश्च"
१।३।८७ इत्यत्र चकारोऽनुक्तसमुध्चयार्थः क्रियते। तेन गुपादिभ्यो ण्यन्तेभ्यः परस्मैपदात्मनेपदापवादो भविष्यति॥