सर्वं निवृत्तम्, अङ्गस्य इति वर्तते। अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषाम् अङ्गानाम् आकारान्तानां च पुगागमो भवति णौ परतः। अर्ति अर्पयति। ह्री ह्रेपयति। व्ली व्लेपयति। री रेपयति। क्नूयी क्नोपयति। क्ष्मायी क्ष्माप्यति। आकारान्तानाम् दापयति। धापयति। अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर् ग्रहणम्। री इत्यपि री गतिरेषणयोः, रीङ् श्रवणे इति। पुकः पूर्वान्तकरणम् अदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति।
अत्र्तीति श्तिता निर्देशः। ऋकारान्तस्य ग्रहणं मा विज्ञायीति, यथा--"ऋदृशोऽङि गुणः"
७।४।१६ इति। "अर्पयति" इति। हेतुमण्णिच्(), "पुगन्तलघूपधस्य"
७।३।८६ इति गुणः। "ह्येपयति, व्लेपयति" इति। "ह्यी लज्जायाम्()" (धा।पा।१०८५) "व्लो वरणे (धा।पा।१५०२)। "क्नोपयति, क्ष्मापयति" इति। "क्नूयो शब्दे" (धा।पा।४।८५), "क्ष्मायी विधूनने" (धा।पा।४८६)। "लोपो व्योर्वलि"
६।१।६४ इति यकारलोपः। "द्वयोरपि धात्वोग्र्रहणम्()" इति। विसेषाभावात्()।
रोत्येतस्यापि "री गतिशोषणयोः" (धा।पा।१५००),
"रोङ्? श्रवणे" (धा।प।११३८)--इति द्वयोरपि ग्रहणमित्यपेक्ष्यते। ननु च "निरनुबन्धकग्रहणे न सानुबन्धकस्य" (व्या।प।
५३) इति रीङो ग्रहणं न प्राप्नोति? नैष दोषः;
अत्र ह्रल्पाच्तरत्वात्? ह्रोव्ल्यातामन्यतमस्य पूर्वनिपाते कत्र्तव्ये "अल्पाच्तरम्()" (२।२।
३४) इत्येतदनपेक्ष्यार्त्तिशब्दस्य पूर्वं निपातं कुर्वताऽन्यदपि किञ्चिदिह शास्त्रवचनं नापेक्ष्यत इत्येतत्? सूचितम्()। तेन निरनुबन्धकपरिभाषा नापेक्ष्यत इति रीङोऽपि ग्रहणं भवति।
अथ किमर्थं पुनः पुक् पूर्वान्तः क्रियते,
न परादिरेव पुङ्? विधीयताम्(); पुटि सति गुणविधौ पुगन्तग्रहणं न कत्र्तव्यं भवति, "सार्वधातुकार्धधातुकयोः" (७।३।
८४) इत्येवं सिद्धत्वात्? पुटि; अवश्यं पुड्ग्रहणं कत्र्तव्यम्(), अन्यथा हि "अचो ञ्णिति" (७।२।
११५) इति वृद्धिः स्यादिति चेत्()? नैतदस्ति; नाप्राप्ते णिचो वृर्द्धि प्रति निमित्तत्वे पुटं प्रत्यागमित्वमुच्यत इत्युत्तरस्य बाधकं भविष्यतीति नास्ति वृद्धेः प्रसङ्गः। अयं तर्हि परादौ दोषः--दाप्यते,
दाप्यत इति--अत्र णेर्लोपेनापह्मतत्वात्? पकारस्य श्रवणं न स्यादिति? एषोऽप्यदोष-; न हि णिलोपः सर्वापहारी भवति, येन णेर्निवृत्तौ पुडागमोऽपि निवत्र्तत। प्रत्ययलश्रणञ्चास्तीति निवृत्तेऽपि णौ पुटः श्रवणं भविष्यतीत्याह--"पुकः पूर्वान्तकरणम्()" इत्यादि। दापयतेर्लुङ्(), च्लिः, तस्य "णिश्रिद्रु रुआउभ्यः कत्र्तर"
३।१।४८ इति चङि णिलोपः, "णौ चङ्युपधाया ह्यस्वः"
७।४।१ इति ह्यस्वत्वम्(), "चङि"
६।१।११ इति द्विर्वचनम्(), "सन्वल्लघुनि चङ्परे"
७।४।९३ इतीत्त्वम्(), "दीर्घो लघोः"
७।४।९४ इति दीर्घत्वम्()--अदीदपत्()।
अत्र यदि पुट्? क्रियते तदा ह्यस्वत्वं न स्यात्(); अनुपधात्वात्()। पुकि तु सति भवति। अतो ह्यस्वार्थं पुकः पूर्वान्तकरणम्()॥