अजन्तानाम् अङ्गानं हनिगम्योश्च सनि झलादौ परे दीर्घो भवति। अजन्तानाम् विवीषति। तुष्टूषति। चिकीर्षति। जिहीर्षति। हन् जिघांसति। गम् अधिजिगांसते।
गमेरिङादेशस्य इति वक्तव्यम्। इह मा भूत् सञ्जिगंसते वत्सो मात्र इति। स्वर्गं लोकं समजिगांसतिति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, तदन्येषाम् अपि दृश्यते
६।३।१३६ इत्यनेन भवति। अथ वा इह अज्ग्रहणं न कर्तव्यम्। सनि दीर्घो भवति इत्येतावदेव सूत्रं कर्तव्यम्।
तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धम् अजन्तस्य दीर्घत्वम्? तत् क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति।
ततो न वक्तव्यम् इदं गमेरिङादेशस्य इति।
"उपधायाः"
६।४।७ इति निवृत्तम्(), अत एव वृत्तौ "उपधायाः" इति नोक्तम्()।
कः पुनस्तदनुवृत्तौ दोषः स्यात्()? व्यञ्जनस्यापि दीर्घत्वं प्रसज्येत। चिकीर्षति, तुष्टूषतीत्यत्र हि यथा "अचः"
१।२।२८ इति वचनादचो भवति, तथा "उपधायाः" इति वचनादनचोऽपि स्यात्()। यद्येवम्(), हनिगम्योरच्युपधाया दीर्घत्वं न स्यात्(),
कस्य तर्हि स्यात्()? "अलोऽन्त्यस्य" (१।१।
५२) इत्यन्त्यस्य? नैतदस्ति;
अत्र हि दीर्घग्रहणेन यत्? "अचः"
१।२।२८ इत्युपस्थापितं तद्धनिगमिभ्यां विशेषयिष्यामः--अचो दीर्घो भवति स चेद्धनिगम्योरिति। यद्येवम्(),
अभ्यासस्यापि स्यात्()? नैतत्(); कृतदीर्घस्यैव द्विर्वचनविधानात्()।
कुत एतत्()? द्विर्वचनात्? दीर्घस्य परत्वात्()। "तुष्टूषति" इति। "शर्पूर्वाः खयः शेषः" ["शेषः" इति सूत्रे नास्ति--७।४।६१]
७।४।६१। "चिकीर्षति" इति। "ऋत इद्धातोः"
७।१।१०० इतीत्त्वम्(), रपरत्वम्(), "हलि च"
८।२।७७ इति दीर्घः, अभ्यासस्य "कुहोश्चुः"
७।४।६२ इति चुत्वम्()। "जिघांसति" इति। "अभ्यासाच्च"
७।३।५५ इति हन्तेः कुत्वम्()--घकारः, अभ्यासस्य पूर्ववच्चुत्वम्()--झकारः, तस्य "अभ्यासे चर्च"
८।४।५३ इति जकारः। "अधिजिघांसते" इति। "इङश्च"
२।४।४८ इतीङो गमिरादेशः, "पूर्ववत्सनः"
१।३।६२ इत्यात्मनेपदम्()। "सञ्जिगांसते" इति। अत्रापि "पूर्ववत्सनः"
१।३।६२ इति तङ।
गमेह्र्रसनन्तात्? "समो गम्युच्छि"
१।३।२९ इत्यादिनात्मनेपदं विहितम्()। इङोऽपि "अनुदात्तङितः"
१।३।१२ इत्यादिना। यदि गमेरिङादेशस्येति वचनं,
तत्कथं छन्दस्यनिङादेशस्यापि स्वर्गं लोकं समजिगांसदित्यत्र दीर्घत्वं दृश्यते? इत्याह--छन्दसि यदनिङादेशस्यापि" इत्यादि। "समजिगांसत्()" इति। गमेः सनन्ताल्लुङ,
"गमेरिट्? पस्मैपदेषु
७।२।५८ इतीडागमो न भवति; "न वृद्भ्यश्चतुभ्र्यः"
७।२।५९ इत्यत्र नेति योगविभागात्()।
"इह" इत्यादिना यदुक्तं "गमेरिङादेशस्य" (वा।७७५) इति, तत्प्रत्याचष्टे। "सनि" इति प्रथमो योगः, हनिगम्योस्तु दीर्घविधानाय "हनिगम्योः" इति द्वितीयो योगः कत्तव्य इत्यभिप्रायः।
कथं पुनरेतावति योगे क्रियमाणेऽजन्तस्यैव दीर्घत्वं सिध्यति? इत्यत आह--"तत्र" इत्यादि। "गृह्रमाणस्य" इति। कृद्योगे कर्मणि षष्ठी। "विशेषणे"इति। भावे ल्युट्()। विशेषणमनजनतव्यवच्छेदाय। यत्र ह्यस्वदीर्घप्लुताः शिष्यनेते तत्र "अचश्च"
१।२।२८ इत्येतदुपतिष्टते, तत्राङ्गस्य दीर्घो भवति,
किंविशिष्टस्याचः? एवमचा गृह्रमाणस्याङ्गस्य विशेषणे व्यवच्छेदे सति विनाऽप्यज्ग्रहणेनान्तस्यैव दीर्घत्वं सिद्धम्(), यथा--"अकृत्सार्वधातुकयोः"
७।४।२५ इत्यत्र। तस्मादपार्थकत्वान्न कत्र्तव्यमेव।
किमर्थं तद्धि क्रियते? इत्याह--"तत्क्रियते" इति। प्रवत्र्तनं प्रवृत्तिः=व्यापारः, तस्य भेदो नानात्वम्()। प्रवृत्तिभेदश्चैकस्यां सत्यामावृत्तो न सम्भवतीत्यावृत्तिरभ्युपगन्तव्या। ननु च "अचश्च" (१।२।
२८) इत्यस्योपश्ताने सति द्वे अज्ग्रहणे भवत इति किमित्यावृत्तिराश्रीयते? नैतदस्ति; असति ह्रजग्रहणे "अचश्च"
१।२।२८ इत्यस्योपस्थानं भवति।
अत्राजग्रहणे तु सति निर्दिष्टस्थानिकत्वात्? "अचश्च"
१।२।२८ इत्येतन्नोपतिष्टते, यथा "अचो ञ्णिति"
७।२।११५ इत्यत्रेक्परिभाषा "अजन्तस्याङ्गस्य" इत्यादिना प्रवृत्तिभेदेनाङ्गमचा गमिञ्च विशेषयति।
"ततो न वक्तव्यमिदम्()" इति। अज्गरहणेनैवैतत्प्रतिपाद्यसयार्थस्यासिद्धत्वात्()। न हीङादेशमुक्त्वाऽन्यो गमिरचः स्थाने सम्भवति॥