प्रथमावृत्तिः
सूत्रम्॥
सार्वधातुकार्धधातुकयोः॥ ७।३।८४
पदच्छेदः॥
सार्वधातुकार्धधातुकयोः ७।२ ८६ गुणः १।१ ८२ अङ्गस्य ६।१ ६।४।१
समासः॥
सार्वधातुकश्च आर्धधातुकश्च सार्वधातुकार्धधातुके, तयोः ॰ इतरेतरद्वन्द्वः।
अर्थः॥
सार्वधातुके आर्धधातुके च प्रत्यये परतः एगन्तस्य अङ्गस्य गुणः भवति।
उदाहरणम्॥
सार्वधातुके -- तरति, नयति, भवति। आर्धधातुके -- कर्त्ता, चेता, स्तोता।
काशिका-वृत्तिः
सार्वधातुकाऽर्धधातुकयोः ७।३।८४
सार्वधातुके आर्धधातुके च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति। तरति। नयति। भवति। आर्धधातुके कर्ता। चेता। स्तोता। सार्वधातुकार्धधातुकयोः इति किम्? अग्नित्वम्। अग्निकाम्यति। यदि हि प्रत्यये सङि इति वा उच्येत, इह अपि स्यात्।
लघु-सिद्धान्त-कौमुदी
सार्वधातुकार्धधातुकयोः ३९०, ७।३।८४
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥
न्यासः
सार्वधातुकार्धधातुकयोः। , ७।३।८४
"चेता, स्तेता" इति। तृच्()। "ऋदुशनस्पुरोदंसोऽनेहसाञ्च"
७।१।९४ इत्यनङ्(), "सर्वनामस्थाने"
६।४।८ इत्यादिना दीर्घः।
"सार्वधातुकार्धधातुकयोरिति किम्()"? इति।
एवं मन्यते--प्रत्यय इति वक्तव्यम्(), सङीति वा, एवं ह्रुच्यमाने भवतीत्यादौ गुणः सिद्ध एव, सङीति प्रत्याहारग्रहणं सनः सकारादारभ्य महिङो ङकारेण। "अग्नित्वम्()" इति। "तस्य भावस्त्वतलौ"
५।१।११८ इति त्वप्रत्ययः। "अग्निकाम्यति" इति। "काम्यच्च"
३।१।९ इति काम्यच्()। "यदि इत्यादि। यदि प्रत्यय इत्युच्येत, त्वाकाम्यचोरपि स्यात्()। अथापि सङीत्युच्येत, काम्यचि स्यात्(); तस्यापि प्रत्याहरेऽन्तर्भावात्()॥
बाल-मनोरमा
सार्वधातुकाद्र्धधातुकयोः १८, ७।३।८४
भू-अ-ति-इति स्थिते--सार्वधातुकाद्र्ध। "इको गुणवृद्धी" इति परिभाषया "इक" इत्युपस्थितेन अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। "मिदेर्गुण" इत्यस्माद्गुण इत्यनुवर्तते। तदाह--अनयोरित्यादिना। तथा च ऊकारस्य गुण ओकारः। अवादेश इति। "ओकारस्येटति शेषः। तथा च परिनिष्ठितं रूपमाह-- भवतीति। भवत इति। कर्तृद्वित्वविवक्षायां भूधातोर्लस्तसादेशे च कृते--झोऽन्तः।