यस्य समुदायस्य अचां मध्ये आदिः अच् वृद्धिः भवति, तत् समुदायरूपं वृद्धसंज्ञकं भवति।
यस्य इति समुदाय उच्यते। अचां मद्ये यस्य वृद्धिसंज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसज्ञ्जं भवति। अचाम् इति जातौ बहुवचनम्। शालीयः। मालीयः। औपगवीयः। कापटवीयः। आदिः इति किम्? सभासन्नयते भवः साभासन्नयनः। वा नामधेयस्य वृद्धसंज्ञा वक्तव्या। देवदत्तीयाः। दैवदत्ताः। गोत्रान्तादसमस्तवत्प्रत्य्त्यो भवतीति वक्तव्यम्। घृतप्रधनो रौढिः घृतरौढिः। तस्य छात्रा घृतरौढीयाः। ओदनप्रधानः पाणिनिः ओदनपाणिनिः। तस्य छात्रा ओदनपाणिनीयाः। वृद्धाम्भीयाः। वृद्धकाश्यपीयाः। जिह्वाकात्यहरितकायवर्जम्। जैह्वाकाताः। हारितकाताः।
"यस्येति समुदाय उच्यते" अचां मध्ये यस्यादिर्वृद्धिसंज्ञकस्तस्यैव शब्दरूपस्य संज्ञा विधीयते। तच्च नियोगतः समुदायात्मकमेवेति सामथ्र्याद् यस्येति सामान्यप-देनापि समुदाय एवाभिधीयते। संज्ञिनिर्देशार्थं यस्येति वचनम्। अचां मध्य इत्यादिना वृद्धिसंज्ञिनः समुदायादेकदेशस्य निर्धारणं दर्शयन्नचामित्यस्य निर्धारणषष्ठीत्वं
दर्शयति। आदिशब्दस्त्विहोपक्रमे वत्र्तते, उपक्रमम्यते इत्युपक्रमः, प्रथमत उच्चारित इत्यर्थः। अचामिति बहुवचननिर्देशाद् यस् बहूनामचां मध्ये वृद्धिसंज्ञक आदिभूतः,
तस्यैव वृद्धसंज्ञया भवितव्यम्; न तु यस्य द्वयोर्मध्ये इति चोद्यमपाकर्तुमाह--
"अचाम्" इत्यादि।
यदि तह्र्रचामिति निर्धारणषष्ठीयम्, एवं सति समानजातीयस्यैव निर्धारणं भवतीत्यचां मध्ये वृद्धिकोऽजेव यथा स्यादित्येषोऽर्थः स्यात्। तथा च सत्याकारो
यस्यादिस्तस्य संज्ञा न स्यादा()आलायन इत्यादेः, न ह्राकारस्य मुख्यमच्त्वमस्ति;
अक्ष्वसन्निवेशात्। उपचरितं तु स्यात् ; "अणुदित्सवर्णस्य चाप्रत्ययः"
१।१।६८
इत्येनेनानचोऽपि सतोऽच्कार्यकरणात्। न च मुक्ये सति गौणस्याश्रयणं युक्तम्, गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययात्, नैष दोषः; व्याप्तेन्र्यायादाकारस्यापि गौणमच्त्वमाश्रित्य भविष्यति,अन्यथा ह्रैज्ग्रहणमेव कुर्यात्, न वृद्धिग्रहणम्। "शालीयः,
मालीयः, इत्यादि। अत्र वृद्धसंज्ञायां सत्याम् "वृद्धाच्छः" श्
४।२।११३ इति च्छो भवति।
ननु च शालामालाशब्दयोः कापटुशब्दस्य च संज्ञया न भवितव्यम्, न ह्रेषां
वृद्धिसंज्ञक आदिः,
किं तर्हि? हल्,नैतदेवम्; विद्यमानोऽपि ह्रत्र हल् नापेक्ष्यते,अजपेक्षस्यादित्वस्याश्रयणात्। एतदेव ह्रज्ग्रहणस्य प्रयोजनम्।
कतं नाम तदपेक्ष-
यादित्वं विज्ञायेतेति? अन्यथा तत्र कर्तव्यमेव स्यात्। अज्ग्रहणे क्रियमाणे सत्यमर्थो भवति। अचां मध्ये यस्य यो वृद्धिसंज्ञकोऽजेवादिभूत इति। अन्येभ्योऽज्भ्यो
यस्य वृद्धिसंज्ञकः प्रागुच्चार्यत इति यावत्। तेन शालाशब्दादेरपि संज्ञा सिध्यति।
"साभासन्नयनः" इति। अत्र वृद्धिसंज्ञाभावादणेव भवति, न तु च्छः। यदि पुनरा-दिग्रहणं न क्रियेत ततो यस्याप्यचां मध्ये वृद्धिसंज्ञकः कश्चित् सभासन्नयनादेस्त-
स्याप्येषा संज्ञा स्यात्। अत्र यद्यपि वृद्धिशब्दः श्रूयते, तथापि तल्लिङ्गकपरि-
भाषा नोपतिष्ठते। यसमाद् यत्र नियतस्थानिके गुणवृद्धी विधीयते तत्र स्थानिनियमार्थासा व्याप्रियते। एतच्च प्रागेवोक्तम्। न चेह गुणवृद्ध्योर्विधानम्, अतो नात्र
व्यापारस्तस्याः। तेन यस्याप्यनियतस्थानिको वृद्धिसंज्ञक आदिभूतः, तस्यापि संज्ञा
सिद्धा भवति। "वा नामधेयस्य" इत्यादि। ये पुरुषैव्र्यवहाराय संकीत्र्यमानाः शब्दा
देवदत्त इत्येवमादयः, तेषामेषा संज्ञा वेदितव्या। तेष्वेव नामधेयशब्दो रूढः,न तु ये जात्यादिनिमित्तका गवादिशब्दा अनादिव्यवहारान्तः पातिनस्तेषु। ननु च
काश्यादिपाठात् "काश्यादिभ्यः"
४।२।११५ ठञ्()ञिठाभ्यां भवितव्यम्, तदयुक्तं
देवदत्तीय इति च्छप्रत्ययान्तस्योदाहरणम्, नैष दोषः; यो हि देवैदत्तो देवदत्त इति
क्रियानिमित्तको देवदत्तशब्दः, तस्यैव तत्र पाठः,न संज्ञाशब्दस्य। तेन संज्ञाभूताद्देवदत्त शब्दाद् यदा वृद्धसंज्ञा तदा छो भवति,अन्यथा त्वण्। "गोत्रान्तात्" इत्यादि। तथाऽसमस्तात्त केवलाद्()गोत्रप्रत्ययान्ताद् वृद्धाच्छप्रत्ययो भवति तथा समस्ताद-वृद्धादपि। "घृतरौढिः" इति। "समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपद-लोपश्च" (वा।८३) इति समासः। एवमुत्तर रूढस्यापत्यम्, पाणिनस्यापत्यम्-- "अत इञ्"
४।१।९५ इतीञ्। बाह्वादिषु "सम्भूयोऽम्भसः सलोपश्च" (ग।सू।६६) इति पठ()ते।
काश्यपशब्दो बिदादित्वादञन्तः। "जैह्वाकाताः, हारितकाताः" इति। कात्यशब्दो गर्गादियञन्तः। जिह्वाचपलः कात्यः, जिह्वाकात्यः। हरितभक्षः कात्यः हरितकात्यः, ताभ्यामौत्सर्गिक एवाण्, "यस्येति च"
६।४।१४८इत्यकारस्य लोपः; "आपत्यस्य च तद्धितेऽनाति"
६।४।१५१ इति यकारस्य॥