गतिसंज्ञकाश्च प्राऽदयो भवन्ति क्रियायोगे। प्रकृत्य। प्रकृतम्। यत् प्रकरोति। योगविभाग उत्तरार्थः। उत्तरत्र गतिसंज्ञा एव यथा स्यात्। उपसर्गसंज्ञा मा भूत्। ऊरीस्यातित्यत्र उपसर्गप्रादुर्भ्याम् अस्तिर् यच्परः
८।३।८७ इति षत्वं प्रसज्येत। चकरः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तरः
६।२।४९ इति स्वरः, उपसर्गात्
८।४।१४ ८।३।६५ इति णत्वषत्वे च भवतः। कारिकाशब्दस्य उपसङ्ख्यानम्। कारिकाकृत्य। कारिकाकृतम्। यत् कारिका करोति।
पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्। पुनरुत्स्यूतं वासो देयम्। गतिर् गतौ
८।१।७० इति निघातो भवति। चनो हितः। गतिरनन्तरः
६।२।४९ इति स्वरः। गतिप्रदेशाः कुगतिप्राऽदय
२।२।१८ इत्येवम् आदयः।
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (गतिकारकेतरपूर्वपदस्य यण् नेष्यते)। शुद्धधियौ॥
"प्रकृत्य" इति। गतिसंज्ञायां सत्यां "कुगतिप्रादयः"
२।२।१८ इति समासः। "समासेऽनञ्पूर्वे क्त्वो ल्यप्"
७।१।३७ इति ल्यप्। "प्रकृतम्" इति। "क्ते च"
६।२।४५ इत्यनुवर्तमाने "गतिरनन्तरः"
६।२।४९ इति प्रकृतिस्वरेणाद्यदात्तः प्रशब्दः। "यत्प्रकरोति" इति। प्रशब्दादनन्तरस्य "तिङङतिङः"
८।१।२८ इति निघाते प्राप्ते "निपातैर्यद्यदि"
८।१।३० इत्यादिना प्रतिषेधे तिपः पित्त्वादनुवदात्तत्वम्। "सतिशिष्टस्वरस्य बलीयस्त्वमन्यत्र विकरणस्वरेभ्यः" (वा; ९;६।१।१५८) इति विकरणस्वरस्य प्रत्ययाद्युदात्तत्वं न भवति। करोतेरेव तु भवति-- "धातोः"
६।१।१५६ इति। शेषमनुदात्तं भवति। प्रशब्दस्य "उपसर्गाश्चाभिवर्जम्" (फि।सू।४।८१) इत्याद्युदात्तत्वे प्राप्ते "गतिर्गतौ"
८।१।७० इति निघातेऽनुवर्तमाने "तिङि चोदात्तवति"
८।१।७१ इति करोतिशब्दे तिङन्त उदात्तवति परतोऽनुदात्तत्वं भवति। तत्र हि "पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः"
८।१।६७ इत्यतोऽनुदात्तमिति वर्तते। एतच्च प्रयोजनत्रयमुत्तरत्र गतिसंज्ञाया वेदितव्यम्।
अथ किमर्थो योगविभागः,
न गतिग्रहणं पूर्वयोगग एव क्रियते? इत्यत आह- "योगविभाग उत्तरार्थः" इति। "उत्तरत्र " इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। यद्युत्तरत्राप्युपसर्गसंज्ञा स्यात्, तदा किं स्यादित्यत आह-- "ऊरीस्यादित्यत्र " इत्यादि।
"चकारः संज्ञासमावेशार्थः" इति। असति चकार एकसंज्ञाधिकारादेकत्र संज्ञाद्वयस्य विधानात् पर्यायः स्यात्, न समावेशः। "प्रणीतम्" इत्यादिना संज्ञासमावेशस्य फलं दर्शयति। "गतिरनन्तर इति स्वरः" इति। उदाहरणद्वयेऽपि "उपसर्गादिति णत्वषत्वे भवतः" इति। "प्रणीतम्" इति। "उपसर्गादसमासेऽपि णोपदेशस्य"
८।४।४३ इति णत्वम्। "अभिषिक्तम्" इति। "उपसर्गात्सुनोति"
८।३।६५ इत्यादिना षत्वम्।
"कारिका" इत्यादि। धात्वर्थनिर्देश एतदुपसंख्यानं कत्र्तव्यम्। योऽन्यः कत्र्तरि कारिकाशब्दो ण्वुलन्तः, तस्य कारिकां कृत्वेत्येवं भवति। "उपाख्यान" शब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतिपादनम्-- उत्तरसूत्रे चकार्सयानुक्तसमुच्चयार्थत्वात् कारिकाशब्दस्य गतिसंज्ञा भवतीति।
"पुनश्चनसौ" इत्यादि। पुनश्चनः शब्दौ छन्दसि विषये गतिसंज्ञकौ च भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तूत्तरसूत्रे चकारस्यानुक्तसमुच्चयार्थतामाश्रित्य कत्र्तव्यम्। "पुनरुस्त्यूतम्" इति। "षिवु तन्तुसन्ताने" (धा।पा।११०८), निष्ठा, उदित्वात् "इदितो वा"
७।२।५६ इति विभाषेट्त्वात् "यस्य विभाषा"
७।२।१५ इतीट्()प्रतिषेधः; "च्छवोः शूडनुनासिके च"
६।४।१९ इति वकारस्योठ्, यणादेशः। "चनोहितम्" इति। "दधातेर्हिः"
७।४।४२ इति नहिरादेशः, "गतिरनन्तरः"
६।२।४९ इति प्रकृतिस्वरे णाद्युदात्तत्वम्। चनः शब्दो हि "निपाता आद्युदात्ता भवन्ति" (फि।सू।४।८०) इत्याद्युदात्तः॥
गतिश्च। उपसर्गसंज्ञायाः समावेशार्थश्चकारः। अन्यथा "आ कडारा"दिति पर्यायः स्यात्। तत्फलं तु "प्रणेय"-मित्यादौ "उपसर्गादसमासेऽपी"ति णत्वम्, "गतिकारके"ति कृदुत्तरपदप्रकृतिस्वरसिद्धिश्चेति दिक्। निस्निर्दुस्दुरिति। "उपसर्गस्यायतौ" इति निर्दुरोर्लत्वं। निलयते, दुलयते। निसो दुसश्च रुत्वस्याऽसिद्धित्वाल्लत्वाऽभावः,-निरयते, दुरयते॥