"अभ्युद्धरति" इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। "समुदानयति" इति। अत्रापि "निपाता आद्युदात्ताः" (फि।सू।४।८०), "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति।
कथं पुनरत्राह--समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्? (जै।प।वृ।९९),
न चोच्छब्दस्य क्रियावाचित्वम्()? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्()। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्रुद्धरतीति()] ह्रुत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति।
किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्(), तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा।
"देवदत्तः प्रपचति" इति। देवैर्दासीष्टेति "क्तिच्क्तौ च संज्ञायाम्()"
३।३।१७४ इति क्तः; "दो दद्()धोः"
७।४।४६ इति ददादेशः। "तृतीया कर्मणि"
६।२।४८ इत्याद्युदात्तत्वे प्राप्ते "कारकाद्दत्तश्रुतयोरेवाशिषि"
६।२।१४७ इति देवदत्तशब्दोऽन्तोदात्तः। "आमन्द्रैः" इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति।
तस्मिन्? परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे "निपाता आद्युदात्ताः" (फि।सू।४।८०) "उपसर्गश्चाभिवर्जम्()" (फि सू ४।८१) इत्याद्युदात्तत्वमेव भवति।
कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः,
मन्दरशब्दस्याक्रियावाचित्वात्()? इत्यत आह--"याहीत्येतत्? प्रति क्रियायोगादाङित्वेष गतिः" इति। सत्यपि व्यवधाने व्यवहिताश्च
१।४।८१ इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्(),
यद्यपि याहीत्येतत्? प्रत्याङो गतित्वम्(), तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत,
तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह--"तस्य" इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य "अनाश्रितपनिमित्तकम्()" इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्()। न ह्रसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्य()स्मस्तु सति न भवत्येष दोषः;
गतेः परनिमित्तस्याश्रयणात्? तस्य चेहाभावात्()॥