दधातेरङ्गस्य हि इत्ययम् आदेशो भवति तकारादौ किति प्रत्यये परतः। हितः। हितवान्। हित्वा।
धुमास्था"
६।४।६६ इति सूत्रेणेत्त्वे प्राप्ते दधातेर्हिरादेशो विधीयते। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। तेन यङ्लुगन्तस्य हिरादेशो न भवति--दाधीतः, दाधीतवान्(), दाधीत्वेति॥
दधातेर्हिः। तादौ कितीति। शेषपूरणमिदम्। "द्यतीस्तयती"त्यतस्तदनुवृत्तेरिति भावः। दो दद्धोः "द" इति षष्ठ()न्तम्। तदाह-- दा इत्स्येति। "दथ्" इति च्छेदः। तदाह-- दथ् स्यादिति। तवर्गद्वितीयान्तोऽयमादेशः। तादौ कितीति। "ति किती"त्यनुवृत्तेरिति भावः। चत्र्वमि#इत। "खरि चे"ति थकारस्य तकार इत्यर्थः। दात इति। दाप्दैपो रूपम्। "अदा"वित्युक्तेर्घुत्वाऽभावान्न दद्भावः। तान्तो वेति। तवर्गप्रथमान्त इत्यर्थः। नन्वेवं सति "विदत्त " मित्यादौ "दस्ती"त्युपसर्गस्य दीर्घत्वापत्तिः। तत्र हि "द" इति षष्ठी सप्तम्यर्थे। इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति-- न चैवमिति। आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः। तकारादाविति। "दस्ती"त्यत्र द इति षष्ठी तीत्यत्रान्वेति। तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः। उत्तरपदाधिकारात्। ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः। दान्तो वा धान्तो वेति। तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः। न चेति। दान्तत्वे निष्ठानत्वं, धान्तत्वे "झषस्तथो"रिति धत्वं च न शङ्क्यमित्यन्वयः। संनिपातेति। दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः।