क्तान्ते च उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरं भवति। गोहितम्। अश्वहितम्। मनुष्यहितम्। गोरक्षितम्। अश्वरक्षितम्। वनं तापसरक्षितम्। अश्वशब्द आद्युदात्तः। मनुष्यशब्दो ऽन्तस्वरितः। परिशिष्ट पूर्वपदमन्तोदात्तम्। गोभ्यो रक्षितम् इति सम्प्रदाने चतुर्थी।
"अ()आशब्द आद्युदात्तः" इति। क्वन्परत्ययान्तत्वत्()। "मनुष्यशब्दोऽन्तस्वरितः" इति। "मनोर्धातावञ्यतौ षुक्च"
४।१।१६१ इति यत्प्रत्ययान्तत्वात्()। "परिशिष्टमन्तोदात्तम्()" इति।
तत्? पुनर्गोशब्दः, तापसशब्दश्च। तत्र "गमेर्डोस्()" (द।उ।२।११) [गोमर्डोः--द।उ; पं।उ।] इति डोस्प्रत्ययान्तत्वाद्गोशब्दः प्रत्ययस्वरेणान्तोदात्तः। तापसशब्दोऽपयण्प्रत्ययान्तत्वात्()। स हि "तपःसहरुआआभ्यां विनीनी" (५।२।
१०२) "अण्? च"
५।२।१०२ इत्यण्प्रत्ययान्तो व्युत्पाद्यते। अथ "गोरक्षितम्()" इति कथमिदमस्योदाहरणम्(), यावता गोभ्यो रक्षिमिति तादर्थ्ये चतुर्थी,
तत्र हि योगत उत्तरपदेन भवितवयम्()? इत्यत आह--"गोभ्यो रक्षितम्()" इत्यादि। न ह्रत्र गवार्थं रक्षित इत्येषोऽर्थो विवक्षितः,
किं तर्हि? गोभ्यो रक्षितं दीयते इत्येतदध्याहार्यम्()।
तस्मात्? सम्प्रदान एषा चतुर्थी,
तत्? कुतस्तादथ्र्यम्()!॥