अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवति उदात्तो वा। सु उत्थितः सूत्थितः, सूत्थितः। वि ईक्षते वीक्षते, वीक्षते। वसुकः असि वसुको ऽसि, वसुको ऽसि। सूत्थितः इति सुशब्दः सुः पूजायाम्
१।४।९३ इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सति अव्ययपूर्वप्रकृतिस्वरत्वेन आद्युदात्तः, शेषम् अनुदात्तम् इति च अनुदात्ते पदादौ एकादेशो भवति। वीक्षते, वसुको ऽसि इत्यत्र अपि तिङ्ङतिङः
८।१।२८ इति निघाते कृते ऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणम् विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यति इति।
अनुदात्ते इति किम्? देवदत्तो ऽत्र।
पदादौ इति किम्? वृक्षौ। वृक्षाः।
"सूत्थितः" इति। "कुगतिप्रादयः"
२।२।१८ इति समासः। "अत्र सुशब्दः कर्मप्रवचनीयः" इति। अनेन सुशब्दस्य गतित्वमपनयति। गतित्वे हि सति "गतिर्गतौ"
८।१।७० इति निघातः स्यात्(), ततश्चोदात्तेनानुदात्तस्यायमेकादेशो न स्यात्()। "प्रादिसमासे" इत्यादि। सुशब्द आद्युदात्तः। तत्र हि प्रादिसमासे कृते "तत्पुरुषे तुल्यार्थ"
६।२।२ इत्यादिना पूर्वपदप्रकृतिस्वरत्वादाद्यूदात्तत्वं भवति। अतस्तेन प्रकृतिस्वरत्वेन हेतुनायमादेशः, यतोऽकः सवर्णदीर्घत्वमनुदात्ते पदादौ भवति। सुशब्दस्य ह्राद्युदात्तस्य प्रकृतिस्वरत्वे सति शेषस्यानुदात्तभावोपपत्तेः।
ननु "प्रादिसमासे ["प्रादिप्रसङ्गे" इति वातिकपाठः] कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः" (वा।९६) इत्युक्तम्(),
तत्कथमिह प्रादिसमासः? नैष दोषः; तस्य प्रतिधेधस्यानित्यत्वात्()। अनित्यत्वं तु सुशब्दस्य सुषामादिषु
८।३।९८ प्रयोगाद्विज्ञैयम्()। तस्य हि तत्र "उपसर्गात्सुनोति" (८।३।६५() इत्यादिनैव सिद्धेऽनुपसर्गार्थः पाठः। अनुपसर्गत्वं च सोः "सुः पूजायाम्()"
१।४।९३ इति कर्मप्रवचनीयत्वात्()। अथ वा स्वतिभ्यामन्ये ये प्रादयस्तत्रायं प्रतिषेधः। तथा हि तत्र "स्वती पूजायाम्()" (का।२।२।१८) इति पूजायां स्वतिशब्दयोः प्रातिसमास उक्तः पूजायां च तयोः कर्मप्रवचनीयत्वं विवक्षितम्()।
"दीक्षते" इति। विशब्दो निपरातस्वरेणाद्युदात्तः। अत्रापि "तिङङतिङः"
८।१।२८ ति निघाते कृत एकादेश इत्यनुदात्ते पदादौ भवतीति सम्बन्धनीयम्()। "वसुकोऽसि" इति। वसुशब्दः प्रातिपदिकस्वरेणान्तोदात्तः,
ततः सुप्रन्ययान्तत्वात्? कस्य ह्रसिशब्दे परतः "अतो रोरप्लुतादप्युते"
६।१।१०९ इत्युत्वम्(), तस्य स्थानिवद्भावेन सुप्त्वादनुदात्तत्वमम्(), पूर्वेण सह "आद्गुणः"
६।१।८४ स च पूर्वसूत्रे
८।२।५ णान्तोदात्तः। "असि" इति। "तायस्त्योर्लोपः"
७।४।५० इति सकारलोपे कृते लटि सिपि रूपम्()। अत्र "तिङङतिङः"
८।१।२८ इति निघातेनाकारोऽनुदात्तः, तसयाकारेण सह "एङः पदान्तादति"
६।१।१०५ इति परपूर्वत्वम्()। "स्वरितग्रहणम्()" इत्यादि। कथं पुनरसति स्वरितग्रहणे स्वरित आदेशो भवति, पुनः स्वरितग्रहणं विस्पष्टार्थम्();
न पुनः पक्षे स्वरितविधानार्थम्()? इत्यत आह--"उदात्ते हि" इत्यादि।
उदात्ते हि विकल्पिते यस्मिन्? पक्षे स न भवति तस्मिन्नुदात्तानुदात्तयोरन्तरतमो यस्तेनैव भवितव्यम्(), स च स्वरित एव। अतोऽन्तरेणापि स्वरितग्रहणं स्वरित एव भविष्यति।