पदस्य इति वर्तते। प्रातिपदिकस्य पदस्य यो ऽन्त्यो नकारः तस्य लोपो भवति। राजा। राजभ्याम्। राजभिः। राजता। राजतरः। राजतमः।
प्रातिपदिकग्रहणं किम्? अहन्नहिम्।
अन्तग्रहणं किम्? राजानौ। राजानः। प्रातिपदिकग्रहणम् असमस्तम् एव सुपां सुलुकिति षष्ठ्या लुका निर्दिष्टम्।
अह्नो नलोपप्रतिषेधो वक्तव्यः। अहः। अहोभ्याम्। अहोभिः। रो ऽसुपि
८।२।६९, अहन्
७।२।६८ इति रेफरुत्वयोरसिद्धत्वात् नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ, हे ऽहः,
हे दीर्घातो निदाघेति? तत्र समाधिमाहुः। अहनिति रुविधौ यदुपादीयते प्रथमैकवचनान्तम् अकृतनलोपं तदावर्त्यते, तत्र एकया आवृत्त्या तदेवं रूपं नलोपाभावार्थम् अन्वाख्यायते, द्वितीययापि तस्य रुः विधीयते।
"प्रातिपदिकस्य" इति, "पदस्य" इति समानाधिकरणे षष्ठ्यौ।
"अहन्नहिम्()" इति। हन्तेर्लङ्(), तिप्(), हल्ङ्यादिलोपः"
६।१।६६ अदादित्वाच्छपो लुक्()। "अधातुः"
१।२।४५ इति प्रतिषेधादिह प्रातिपदिकत्वं नास्ति। "राजा, राजानौ, राजानः" इति। असर्वनामस्थाने पदसंज्ञाप्रतिषेधादिह
१।४।१७ प्रातिपदिकस्यावयवोऽन्तो नकारो भवति। "प्रातिपदिकान्तस्य" इति। षष्ठीतत्पुरुषेऽत्रोत्तरपदप्रधानत्वादस्यैव पदस्य तद्विशेषणं युक्तम्(), न तु गुणभूतस्य। प्रातिपदिकेनान्तशब्देन चात्र नकारो विशेषितः, स च नकारः प्रातिपदिकस्यान्तर्भूतः। "पदस्य" इति। अनिष्टयोरपि व्यधिकरणयोः पदप्रातिपदिकान्()तर्योर्विशेषणविशेष्यभावेन भवितव्यम्()--प्रातिपदिकान्तस्येति, पदस्येति। पदस्य योऽवयवः सोऽपि प्रातिपदिकस्येत्यर्थः। एवञ्च सति क्रियमाणेऽप्यन्तग्रहणे राजानौ, राजान इत्यत्र प्राप्नोत्येव नलोपः, भवति ह्रत्रापि पदावयवः प्रातिपदिकस्यान्तो नकारः()--इत्येतच्चोद्यमपाकर्तुमाह--"प्रातिपदिकग्रहणमसमस्तमेव" इति।
ततश्च तस्य "पदस्य" इत्येतत्? समानाधिकरणविशेषणं युक्तमेवेत्यभिप्रायः।
यदि तह्र्रसमस्तमेव प्रातिपदिकग्रहणं षष्ठ()आश्रयणं प्राप्नोतीत्यभिप्रायः? इत्यत आह--"सुपां सुलक्()" इति।
अनेन यत्? षष्ठ()आं लुक्? तेन ल#उका निर्दिष्टं प्रातिप्रार्तिपदिकग्रहणम्(), अतो न भवति षष्ठ्याः प्रसङ्गः।
"अहः" इति। "स्वमीर्वपुंसकात्()"
७।१।२३ इति सोर्लुक्(), "रोऽसुपि"
८।२।६९ इति नकारस्य रेफः। प्रत्ययलक्षणेनाह्नः
१।१।६१ सुप्परता नास्ति; "लुमता लुप्ते प्रत्ययलक्षणं नास्ति"
१।१।६२ इति वचनात्()। "अहोभ्याम्(), अहोभिः" इति। "अहन्()"
८।२।६८ इति रुत्वम्, "हशि च"
६।१।११० इत्युत्वम्(), "आद्गुणः"
६।१।८४। ननु च प्राप्तिपूर्वकः प्रतिषेधो भवति; इह च रेफरुत्वयोः कृतयोर्नलोपस्य प्राप्तिरेव नास्ति,
नकाराभावात्? त()त्क प्रतिषेधेन? इत्यत आह--"अहन्()"
८।२।६८ "रोऽसुपि"
इति आदिश्येते। तद्रेफो रुत्पञ्च द्वयमप्येतदनवकाशम्(), अतो लोपे न भवति; अन्यथा हि तयोर्विधानमनर्थकं स्यादित्यत आह--"सावकाशम्()" इत्यादि। सम्बुद्धौ हि लोप न; "न ङिसम्बुद्ध्योः"
८।२।८ इति प्रतिषेधात्()।
अतस्तत्रोभयमप्येतत्? सावकाशम्()। "हे दीर्घाहो निदाघ" इति। दीर्घाण्यहानि यस्मिन्निदाघ इति बहुव्रीहिः, तत्सम्बुद्धिः, हल्ङ्यादिलोपः
६।१।६६। सत्यपि लोपे प्रत्ययलक्षणेन सुप्परतास्ती ति "रोऽसुपि"
८।२।६९ इत्येतन्न प्रवत्र्तते, "अहन्()"
८।२।६८ इति रुत्वमेव भवति।
"अहन्()" इति। "प्रथमैकवचनान्तम्()" इत्यादि। तत्र "अहन्()" (८।२।
६८) इति रुत्वविधौ यदुपादीयते तदावत्र्तते--इत्येतावति वक्तव्ये "अहन्()" इत्यनेन सूत्रेण केवलं रुत्वमादेशो न विधीयते, अपि त्वावृत्तिन्यायादहन्नित्येतच्छब्दरूपमन्वाख्यायते--इत्यत्रोपपत्तिप्रदर्शनार्थम्? "प्रथमैकवचनान्तमकृतनलोपम्()" इत्युक्तम्()। यदि ह्रादेशनात्रमहन्नित्यनेन विधीयते, तदादेशसम्बन्धे षष्ठ()आ भवितव्यमिति षष्ठ्युपादीयेत, न प्रथमा। प्रथमया ह्रुपादीयमानं कृतनकारलोपमुपादीयेत, नकारलोपलक्षणस्य भावात्(); न चैव कृतम्();
तस्मात्? प्रथमान्तस्याकृतनकारलोपस्योपादानदवसीयते--अहन्निति रूपस्यान्वाख्यानं क्रियत इति। अन्वाख्यायते--साधुत्वेन प्रतिपाद्यत इत्यर्थः।
किमर्थम्()? नलोपाभावार्थम्()। "नलोपः प्रातिपदिकान्तस्य"
८।२।७ इत्यनेन लोपो मा भूदित्येवमर्थम्()॥