उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति। अनुदात्तस्य इति वर्तते। अग्नी। वायू। वृक्षैः। प्लक्षै। उदात्तेन इति किम्? पचन्ति। यजन्ति। लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोः अयम् एकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात्।
"अनुदत्तस्य" इति। उदात्तेन सहानुदात्तस्य यस्मिन्नेकादेशः स उदात्तः स्यात्(), न तु स्वरितः। स्वरिते प्राप्त इदमारभ्यते। उदाहरणेष्वग्निप्रभृतयः प्रातिपदिकस्वरेणान्तोदात्ताः (फि।सू।१।१) विभक्तिस्तु "अनुदात्तौ सुप्तितौ"
३।१।४ इत्यनुदात्ता। "अग्नी, वायू" इति। "प्रथमयोः पूर्वसवर्णः"
६।१।९८ इति दीर्घः। "वृक्षी, प्लक्षौ इति। "वृद्धिरेचि"
६।१।८५ इति वृद्धिः।
"पचन्ति, यजन्ति" इति। "अतो गुणे"
६।१।९४ पररूपत्वम्()। "द्वयोरनुदात्तयोरयमेकादेशः" इति। ननु च "उदात्तादनुदात्तस्य स्वरितः"
८।४।६५ इति शबकारस्य स्वरितत्वे कृते स्वरितानुदात्तयोरयमेकादेशः,
तत्कथं द्वयोरनुदात्तयोरिति? एवमाह--"पररूपे कत्र्तव्ये स्वरितस्यासिद्धत्वात्()"॥