गमेर् धातोः सकारादेरार्धधातुकस्य परस्मैपदेसु इडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति।
गमेः इति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्।
परस्मैपदेषु इति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य अज्झनगमां सनि
६।४।१६ इति दीर्घत्वम्। से इत्येव, गन्तास्मि, गन्तास्वः, गन्तास्मः। आत्मनेपदेन समानपदस्थस्य गमेः अयम् इडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च, संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वम् इति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस् तस्मात् सकारादेरार्धधातुकस्य इड् भवति। तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकरणस्य इत्येव भवितव्यम्।
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥
"गम्लृ गतौ" (धा।पा।९८२)। गमिरयमनुदात्तत्वादनिट्()। योऽपि "सनि च" (२।४।
४७) इति "इण्? गतौ" (धा।पा।१०४५) इत्यस्य गमिरादेशः, यश्च "इण्वदिक इति उक्तव्यम्()" (वा।
१६७) इति "इक्? स्मरणे" (धा।पा।१०४७) इत्येतस्य, यश्च "इङश्च" (२।४।
४८) इति "इङ्? अध्ययने" (धा।पा।१०४६) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्()। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्()। "गमिष्यति, अगमिष्यत्()" इति। अनादेशस्य गमेरुदाहरणम्()। "जिगमिषति" इति।
एतत्? तस्येणादेशस्य, इगादेशस्य वा।
अथेडिते वत्र्तमाने पुनरिङ्ग्रहणं किमर्थम्()? इत्याह--"इङ्ग्रहणं नित्यार्थम्" इति। तद्धि ["तद्धि पूर्वकमिङ्ग्रहण्()। "उदितो वा" इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्(), अतस्तदनुवृत्तौ" इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं "उदितो वा"
७।२।५६ इति वाग्रहणेन सम्बद्धम्(), अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्(),
तथा च विकल्पेनेट्? प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। "संगंसीष्ट" इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्(), "समो गम्पृच्छि"
१।३।२९ इत्यादिनाऽऽत्मनेपदम्(), "सुट् तिथोः"
३।४।१०७ इति सुट्(), धत्वम्(), ष्टुत्वम्()। "सञ्जिर्गसते" इति। "पूर्ववत्सनः"
१।३।६२ इत्यात्मनेषदम्()। "अधिजिगांसते" इति। गमेरिङादेशस्य प्रत्युदाहरणम्()। अथ सञ्चिगंसत इत्यत्र "अज्झनगमां सनि" (६।४।
१६) इति दीर्घत्वं कस्मान्न भवति? इत्याह--"गमेरिङादेशस्य" इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य।
तथा हि तत्रोक्तम्()--गमेरिङादेशस्येति वक्तव्यमिति।
यदि परस्मैपदेष्वित्युच्यते,
तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह--"आत्मनेपदेन" इत्यादि। "समानपदस्थस्य" इति। एकपदस्थस्येत्यर्थः। "अन्यत्र सर्वत्रैवेष्यते" इति। एतच्च "कृत्यपि हि" इत्यादिना विसपष्टीकरोति। "सञ्जिगमिषिता, अधिजिगमिषिता" इति। कृत्युदाहरणे द्वे। "जिगमिव त्वमिति" इति।
एतत्? परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्(), सिप्(), "सेह्र्रपिच्च"
३।४।८७ इति सेहिंरादेशर()#ः, "अतो हेः"
६।४।१०५ इति लुक्()।
कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते--योगविभागः कत्र्तव्यः; "गमेरिट" इत्येको भागः, तत्र "से" इत्यनुवत्र्तते--सकारादावार्थधातुके गमेरिडागमो भवति। ततः "परस्मैपदेषु" इति द्वितीयो योगो नियमार्थः।
स चायं नियमो यद्यविशेषेण स्यात्? तदा पूर्वयोगोऽनर्थकः स्यात्()।
तस्मात्? तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ्()---सिङ्()विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति।
"पदशेषकारस्य पनः" इत्यादि। पदशेषकारः पुनरेवं मन्यते---परस्मैपदेष्विति नेयं परसप्तमी,
किं तर्हि? विषयसप्तमी,
परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड्? भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः,
तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड्? भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्()। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्()। तथा हि--सम्पूर्वाद्गमेः "समो गम्युच्छि"
१।३।२९ इत्यादिनाऽऽत्मनेपदं विहितम्()।
अधिपूर्वादपि स्थानिवद्भावात्? "अनुदात्तङितः"
१।३।१२ इत्यनेनात्मनेपदमिति॥