"गच्छ" इति। गमेर्लोट्(), "इषुगमियमां छः"
७।३।७७ इति छत्वम्()। "धाव" इति। "धावु गतिशुद्ध्योः" (धा।पा।६०१) अथ वा सर्त्तेः "पाघ्रा"
७।३।७८ इत्यादिना धावादेशः। "युहि, रुहि" इति। अदावित्वाच्छपो लुक्()। "लुनोहि, पुनीह" इति। "प्वादीनां ह्यस्वः"
७।३।८० इति ह्यस्वत्वम्(), "ई हल्यधोः"
६।४।११३ इतीत्त्वम्()।
ननु चेत्त्वे कृते सत्यनकारान्तत्वान्न भविष्यति,
ततः किमेतन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--"ईत्वसय" इत्यादि। असिद्धत्वान्तु पूर्ववत्()॥
अतो हेः। "अत" इति पञ्चमी। हेरिति षष्ठी। "चिणो लु"गित्यतो लुगित्यनुवर्तते। तदाह--अतः परस्येति। भवेति। हिविधानं तु स्तुहीत्याद्यर्थमिति भावः। भवतादिति। आशिषि लोटः सिपि तस्य "सेह्र्रपिच्चे"ति हिभावे शपि गुणावादेशयोः "अतो हे" रिति लुकं परत्वाद्बाधित्वा "तुह्रो"रिति पक्षे तातङिति भावः। भवतमिति। थसि शपि गुणेऽवादेशे चभव थस् इति स्थिते"लोटो लङ्व"दिति लङ्वत्त्वात्तस्थस्थमिपामितिथसस्तमादेशे रूपम्। एवं भवतेति। थस्य तादेश इति विशेषः।