एङः पदान्तादति
६।१।१०५ इत्यतः पदग्रहणम् अनुवर्तते। दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः। निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति। तपरकरनम् ऊठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति। अत्र हि परत्वातूथ् प्राप्नोति।
पदस्य इति किम्? दिवौ। दिवः।
दिवोऽन्तादेश उकारः स्यात् पदान्ते। सुद्युभ्यामित्यादि॥ चत्वारः। चतुरः। चतुर्भिः। चतुर्भ्यः॥
"सानुबन्धकत्वात्()" इति।
कस्य धातोरनन्तरम्()? प्रकृतत्वात्? तस्यैव। दीव्यतिर्घातुः सानुबन्धः, प्रतिपदिकं तु दिवित्येतन्निरनुबन्धकम्(), निरनुबन्धकस्य च सूत्र उपादानम्();
तस्मात्? "निरनुबन्धकस्य ग्रहणे न सानुबन्धकस्य" (व्या।प।५३) इति प्रातिपदिकस्येदं ग्रहणम्(), न धातोरिति। "द्युकामः" इति। दिविकामोऽस्येति बहुव्रीहिः, दिवं कामयत इति वा।
"शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः" (वा।२२९) इति णप्रत्ययः। "द्युमान" इति। द्यौरस्यास्तीति "तदस्यास्त्यस्मिन्निति मतुप्()"
५।२।९३। "विमलद्यु दिनम्()" इति। विमला द्यौरस्मिन्निति बहुव्रीहिः। "अक्षद्यूभ्याम्(), अक्षद्यूभिः" इति। अक्षशब्द उपपदे दीव्यतेर्धातोः क्विप्(), "च्छ्षोः शूडनुनासिके च"
६।४।१९ इत्यूठ्()।
अथ तपकरणं किमर्थम्(), यावता यद्यपि "ऋत उत्()" (६।१।
१११) इत्यत्र तपकरणेन "भाव्यमानोऽप्युकारः सवर्णान्? गृह्लाति" (चां।प।पा।४४) इति ज्ञापितम्(), तथाप्यत्रान्तर्यतोऽद्र्धमात्राकालस्य व्यजञ्जनस्य मात्रिक एव भविष्यति;
न दीर्घः? इत्यत आह--"तपकरणम्()" इत्यादि। यद्यप्यनेन दीर्गो न प्राप्नोति,
लक्षणान्तरेण तु द्युभ्यां द्युभिः--इत्यत्रोठ्? प्राप्नोति, अतः स मा भूदित्येवमर्थं तपरकरणम्()। स्यादेतत्()। ननु चोठ्प्राप्तिरेव नास्ति,
किं तन्निवृत्त्यर्थेन तपरकरणेन? इत्यत आह--"द्युभ्याम्(), द्युभिः" इति। "अत्र हि" इत्यादि। उत्त्वस्यावकाशो यत्र झलादिः क्विप्परो न विद्यते--विमलद्यु दिनमिति, ऊठोऽवकाशः--अक्षद्यूभ्यामिति; द्युभ्यामित्यादावुभयप्रसङ्गे परत्वादूठ् प्राप्नोति, तपरकरणादुत्त्वमेव भवति। यदि तर्हि प्राप्तस्योठो निवृत्त्ये तपरकरणं क्रियते, एवं सति "चछ्वोः शूडनुनासिके च" (६।४।
१९) इत्यतर कथं "द्युभ्याम्? द्युभिः" इति परेण चोदिते यद्वक्ष्यति--"ऊठि कृते "दिव उत्()" इति परत्वान्मात्राकालो भविष्यति" इति, तद्विरुध्यते;
तस्योठि कृतेऽभिनिवृत्ते तस्य स्थाने मात्राकाल उकारो भविष्यतीत्ययमर्थः? नास्ति विरोधः; "ऊठि कृते" इत्यस्य हि ग्रन्थस्य पूर्वेण चोद्यग्रन्थेन सह सम्बन्धः, नेतरेण परिहारग्रन्थेन।
तत्र "केचिदत्र क्ङितीति नानुवत्र्तयन्ति" इत्यस्मिन्? दर्शनान्तरे उपन्यस्ते "कथं द्युभ्यां द्युभिरित्यूठि कृते" इति देश्यम्()। तत्रायं चोदयितुरभिप्रायः--यदि क्ङितीति नानुवत्र्तेत, तदा द्युभ्यां द्युभिरितयतराप्यूडेव कत्र्तवयः, ततश्चोठि कृते कथं द्युभ्यां द्युभिरिति सिध्यति, यावता द्यूभ्यां द्यूभिरिति भवितव्यमित्यस्य देश्यस्य "दिव उत्()" इति तपरत्वान्मात्राकालो भविष्यतीत्येष परिहारः।
अत्राप्ययं परिहत्र्तरभिप्रायः--तपरकरणस्यैतदेव प्रयोजनम्()--ऊठ्? मा भूदति; अन्यथा तदनर्थकं स्यात्(),
तस्मादुत्त्वमेव कत्र्तव्यम्? न तूड्भाव इति। ये तु "क्ङिति" इत्यनुवत्र्तयन्ति, तेषां तपरकरणं विस्पष्टार्थम्()॥