क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलि इत्येव, क्रमित्वा। प्रक्रम्य, उपक्रम्य इति बहिरङ्गो ऽपि ल्यबादेशो ऽन्तरङ्गानपि विधीन् बाधते इति पूर्वम् एव दीर्घत्वं न प्रवर्तते।
"अनुनासिकस्य क्विझलोः"
६।४।१५ इत्यादिना नित्ये प्राप्ते विकल्पार्थ वचनम्()। "उपधायाः" इति।
कुत एतत्()? "अचश्च"
१।२।२८ इत्यस्योपस्थानादुपधाया एव क्रमोऽच्त्वात्()।
"क्रमित्वा" इति। "उदितो वा"
७।२।५६ इति पक्ष इडागमः। "प्रक्रम्य" इति। "समासेऽनञ्पूर्वेक्त्वो ल्यप्()"
७।१।३७। ननु दीर्घत्वं कत्वाप्रत्ययमपेक्षत इत्यन्तरङ्गम्()।
ल्यबादेशस्त्वनेकपदाश्रयत्वात्? समासमपेक्षमाणो बहिरङ्गो भवति।
तत्रान्तरङ्गत्वाल्लयबदेशात्? प्रागेव झलादौ दीर्घत्वं कस्मान्न भवति? इत्याह--"बहिरङ्गोऽपि" इत्यादि। "अदो जग्धिर्ल्यप्ति किति" (२।४।
३६) इत्यत्र ज्ञापितमेतत्()--"बहिरङ्गो ल्यबादेशोऽन्तरङ्गान्? विधीन्? बाधते" इति॥