अभ्यस्तानाम् अजादावनिति लसार्वधातुके परतः आदिरुदात्तो भवति। ददति। ददतु। अधति। दधतु। जक्षति। जक्षतु। जाग्रति। जाग्रतु। अचि इत्येव, दद्यात्। अनिटि इत्येव, जक्षितः। आदिः इति वर्तमाने पुनरादिग्रहणं नित्यार्थम्।
प्रत्ययस्वरेण प्राप्ते तदपवादोऽभ्यस्तानां धातूनामादेर्विधीयते। दधतीत्यादौ "श्नाभ्यस्तयोरातः"
६।४।११२ इत्याकारलोपः, "उभे अभ्यस्तम्()"
६।१।५ इत्यभ्यस्तसंज्ञा। "जक्षति, जाग्रति" इति। अत्रापि "जक्षित्यादयः षट्()"
६।१।६ इति सर्वत्र "अदभ्यस्तात्()"
७।१।४ इति झेरदादेशः। "जक्षितः" इति। पूर्ववदिट्()। अथादिग्रहणं किमर्थम्(), यावता "आदिः सिचोन्यतरस्याम्()" (६।१।
१८७) इत्यत आदिरित्यनुवत्र्तते? इत्यत आह--"आदिरिति वत्र्तमाने इत्यादि। पूर्वकं ह्रादिग्रहणमन्यतरस्यांग्रहणेन सम्बद्धम्(), अतस्तनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्()। तस्मान्नित्यर्थं पुनरादिग्रहणं क्रियते॥