ङी इत्यनेन ङीप्, ङीष्, ङीन् इत्येते प्रत्ययाः सामान्येन गृह्यन्ते, एवम् आप्-शब्देन अपि टाप्, डाप्, चाप् इत्येते प्रत्ययाः।
अधिकारः अयम्, आपञ्चमाध्यायपरिसमाप्तेः, इतोऽग्रे ङ्यन्तात्, आबन्तात्, प्रातिपदिकात् च वक्ष्यमाणाः प्रत्ययाः भवन्ति॥
"अधिकारोऽयम्" इति। स्वरितेनासञ्जितत्वात्। "आ पञ्चमाध्यायपरिसमाप्तेः" इति। अनेनाधिकारस्यावधिं दर्शयति। ततः परं नायमनुवत्र्तते; अस्वरितत्वात्। "स्वादिषु कप्पर्यन्तेषु" इति। अधिकारस्य विषमाचष्टे। "ङी इति ङीप्ङीष्ङीनां सामान्येन ग्रहणम्" इत्यादि। "ङी" इति विशेषकराननुबन्धानुत्सृज्य यत् सामान्यं ङीमात्रं तदिह गृह्रते। "टाब्डाप्चापामाप्" इति। सामान्येन ग्रहणमिति प्रकृतेन सम्बन्धः। ननु च ङ्यादीनां बहुत्वाद्बहुवचनेन भवितव्यम्, तत्कथं "ङ्याप्प्रातिपदिकात्"
४।१।१ इत्येकवचनेन निर्देश इत्याह --"तेषाम्" इत्यादि। समाहारद्वन्देनेह ङ्यादीनामयं निर्देशः कृत इत्यर्थः। इतरेतरयोगे हि द्वन्द्वे स्याद्बहुवचनम्। न चायमितरेतरयोगे द्वन्द्वः,
किं तर्हि? समाहारे। तस्य चैकार्थत्वादेकवचनमेव युक्तम्। "समाहारनिर्देशः" इति वचनमितरेतरयोगनिवृत्त्यर्थम्,सामासन्तरनिवृत्त्यर्थञ्च, अन्यथा हि ङ्यापोः प्राप्तिपदिकं ङ्याप्प्रातिपदिकमित्यपि षष्ठीसमास आशङ्क्येत। ततो ङ्यन्तमाबन्तञ्च समासप्रातिपदिकं यत् ततः स्याद् राजकुमार्यादिभ्यः न तु केवलेभ्यः कुमार्यादिभ्यः। ङ्यापोस्तु विधानेनैव प्रातिपदिकं प्रकृतिः स्यात्। तस्मात् समाहार द्वन्द्वेनायं निर्देशः। तत्र तु त्रयं प्रकृतित्वेनाधिक्रियते, तेन सर्वतो भवति।
अथ कथं पुनरत्र विग्रहः? केचिदाहुः-- "ङीश्च आप्च प्रातिपदिकञ्चेति। ननु च "अप्रत्ययः" (१।२।
४५) इति प्रातिपदिकसंज्ञाप्रतिषेधाद् ङीश्चेति विभक्त्युत्पत्तिर्न स्यात्? उच्यते; नायं प्रत्ययः, अपि तु प्रत्ययानुकरणमिदम्। एवमपि "प्रकृतिवदनुकरणं भवति" (व्या।प।
११३) इति स्यादेव प्रतिषेधः? नैष दोषःच अनुकरणं द्वैधम्-- अर्थस्य, शब्दमात्रस्य चेति। ज्ञापितमाचार्येणैतद् द्वेधा निर्देशात् -- "परिव्यवेभ्यः क्रियः"
१।३।१८ , "विपराभ्यां जेः"
१।३।१९ इतीयङादेशस्य करणाकरणाभ्याम्। अतोऽत्र शब्दमात्रमनुकृतम्, न त्वर्थसहितम्। तेनात्र "अप्रत्ययः"
१।२।४५ इति नास्त्येव प्रतिषेधः। प्रकृतिवदतिदेशस्त्वर्थवत्यनुकरणे। ननु चेवमपि हल्ङ्यादिलोपेन (६।१।
६८) भाव्यम्? उच्यते; ङ्यन्तात् सुलोपः, न ङीमात्रात्।
व्यपदेशिवद्भावात् स्यादिति चेत्? न; "व्यपदेशवद्भावोऽप्रातिपदिकेन" (शाक।प।६५) इत्युच्यते, प्रातिपदिकञ्चदम्। तस्मात् "ङीश्च" इति। अथ प्रत्ययविधिविषयैषा परिभाषा पूर्वादिनिः"
५।२।८५ "सपूर्वाच्च" (५।२।
८७) इत्यत्र ज्ञापितत्वात्? न चायं प्रत्ययविधिः,
कस्तर्हि? लोपविधिरिति, अतः परिभाषा न प्रवत्र्तत इत्यस्त्येव व्यपद#एशिवद्भाव इति ततः प्रवत्र्तते लोपशास्त्रम्। अतः सुलोपेन भवितव्यम्-- ङी चेति। सामान्येन परिभाषाप्रवृत्तिमाश्रित्य ङीश्चेति विग्रहः।
अन्यस्त्वाह-- "प्रयोगस्य एव कुमारी, गौरीत्यादिषु य ईकारः सोऽत्रानुकृत एव लुप्तविभक्तिकः,तेन ङी इत्येव भवति। यद्येवम्,
कुतो ङकारः सामान्यग्रहणार्थ आसज्यते? ननु चानुक्रियमाणेनार्थेनार्थवत्त्वात् पुनरपि विभक्त्युत्पत्तिः प्राप्नोति,
ततश्च ङीश्चेति भवितव्यम्? नैतदस्ति; प्राक्कालभाविनी या विभक्तिस्तां प्रत्ययलक्षणेनाश्रित्याप्रत्यय
१।२।४५ इति प्रतिषेधात्। अथापि स्यात्-- "न ङिसम्बुद्ध्योः"
८।२।८ इति ज्ञापकात् प्रत्ययलक्षणेनाप्रत्यय
१।२।४५ इति प्रातिपदिकसंज्ञा न प्रतिषिध्यते" इति। असदेतत्; नलोपविधिविषयमेवैतज्ज्ञापकम्। अतोऽत्र नास्त्येव प्रत्ययलक्षणेन प्रातिपदिकसंज्ञाप्रतिषेध इति स्थितमेतत्।
ननु च प्रत्ययत्वे सति "परश्च"
३।१।२ इति वचनात् परे भवन्तः स्वादयः पूर्वां प्रकृतिमाक्षिप्य भवन्ति, न ह्रन्यथा परत्वमुपपद्यते, तस्य परत्वस्य पूर्वापेक्षत्वात्, न च ङ्यादिभ्योऽन्या प्रकृतिरुपपद्यते। तत्र ङ्याप्प्रातिपदिकग्रहणमन्तरेणापि पारिशेष्यादियमेव प्रकृतिर्लभ्यते तथा हि, प्रकृत्यन्तरं धातुरिति-- तिङन्तञ्च, वाक्यञ्च। प्रत्यया अपि स्वादयः, टाबादयः अणादयश्च। तत्र धातोस्तावत् स्वादिभिर्न भवितव्यम्, ते ह्रेकत्वादिष्वर्थेषु विधीयमानास्तद्वन्तं शब्दमाक्षिपन्ति। न च धातुरेकत्वादिमान्। अथाप्यविशेषणोत्पद्यन्ते,
उत्पन्नानां तु नियमः क्रियते? तथापि न #ऐव तेषां धातोरुत्पत्तिर्युक्ता; सामान्यविहितानां स्वादीनां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात्।
टाबादयस्तर्हि धातोर्भवेयुरिति चेत्? स्यादेतत्। असति ङ्याप्प्रातिपदिकग्रहणेऽकारान्तेभ्यो धातुभ्यो जुगुप्सादिभ्यः "अतः"
४।१।४ इति टाप् स्यात्, अपिद्भ्यो वञ्चुप्रभृतिभ्यः "उगितश्च"
४।१।६ इति ङीप् स्यात्, नकारान्तेभ्यो मन्प्रभृतिभ्यः "ऋन्नेभ्यो ङीप्" (४।१।
५) इति ङीप्प्रत्ययः इति? एतच्च नास्ति ; यतः स्त्रियां टाबादयो विधीयन्ते, क्रियावचनश्च धातु#ः। क्रियायाश्चासत्त्वभूतत्वाल्लिङ्गेन योगो नास्ति; तस्य द्रव्यधर्मत्वात्। एतेन तिङन्ताद्वाक्याच्च टाबादीनामुत्पत्तिः प्रतिक्षिप्ता; तयोरपि क्रियाप्रधानत्वात्। अणादीनामपि नैव धातोरुत्पत्तिरुपपद्यते। ते ह्रपत्यादिनार्थेन सम्बन्धे सति विधीयन्ते। धातुवाच्यस्यार्थस्यासत्त्वभूतत्वाद्यथा स्त्रीत्वेन योगो न सम्भवति, तथाप्यपत्यादिना ह्रर्थेन। एतेन तिङन्ताद्वाक्याच्चाणादीनामुत्पत्तिर्निरस्ता; तदर्थस्यापि क्रियाप्रधानस्यापत्यादिना सम्बन्धाभावात्। देवदत्तस्य पचति यस्तस्यापत्त्यमिति सत्यपि सम्बन्धे "तिङश्च"
५।३।५६ इति ज्ञापकान्न भवति। येऽपत्यादिनार्थेन सम्बन्धे तद्धिता विधीयन्ते तेऽनन्तरोक्तया नीत्या मा भून्,
ये तु स्वार्थे विधीयन्ते तैर्युक्तमेव भवितुमिति चेत्? वात्र्तमेतत्; यथैव हि स्वादीनां सामान्यविहितानां विशेषविहितैस्तव्यदादिभिर्बाधितत्वात् तदुत्पत्तिर्नोपपद्यते तथा स्वार्थिकानामपि सामान्यविहितानां स्वार्थिकैस्तुमुन्नादिभिर्विशेषविहितैर्बाधितत्वान्नोपपद्यत एव।
तिङन्तात् तर्हि के स्युरिति चेत्? ज्ञापकान्न भविष्यन्ति। यदयं क्वचित् तद्धितविधौ तिङ्गर्हणं करोति-- "अतिशायने तमबिष्ठनौ"
५।३।५५ "तिङश्च"
५।३।५६ इति, क्वचित् तद्धितविधौ तिङ्ग्रहणं करोति-- "अतिशायने तमबिष्ठनौ"
५।३।५५ "तिङश्च"
५।३।५६ इति, तज्ज्ञापयति-- तिङन्तात् तद्धिता न भवन्तीति।
वाक्यात् तर्हि भवेयरिति चेत्? अनभिधानान्न भविष्यन्ति। न हि "देवदत्तस्या()आकः" इत्युक्ते वाक्यार्थगता अज्ञातादयोऽर्थाः कप्रत्ययेन द्योत्यन्ते,
किं तर्हि? अ()आशब्दगता एव।
स्वादिभिरपि नैव तिङन्ताद्भवितव्यम्, तेषां ह्रेकत्वादयोऽर्थाः,ते च तिङभिरेवोक्ताः। न चोक्तर्थानां प्रयोगे युक्तः; "उक्तार्थानामप्रयोगः" (व्या।प।६०) इति वचना। ननु चोक्तार्थानामपि प्रयोगो दृश्यते,
यथा-- एको द्वौ बहव इति चेत्? युक्तोऽत्र प्रयोगः वचनग्रहणात्। "प्रातिपदिक" इत्यादौ हि सूत्रे वचनग्रहणस्यैतत् तेषां भवति; तत्रास्याः परिभाषाया उपस्थानात्। तेन लिङ्गविशिष्टानामपि सर्वादीनां सर्वनामकार्यमुपपद्यते। यद्येवम्,
इममेव न्यायमाश्रित्य शक्यं ङ्याब्ग्रहणमकर्त्तुम्? नैतदस्ति; न हि प्रातिपदिकसंज्ञा लिङ्गविशिष्टस्यार्थवतः शब्दरूपस्य भवितुमर्हति; "अप्र्तयय"
१।२।४५ इति प्रतिषेधात्। न च प्रातिपदिकसंज्ञाविधौ सर्वेऽर्थवन्तः संज्ञिनः स्वरूपेण शक्या दर्शयितुम्; तेषामानन्त्यात्। यद्येवम्, "णाविष्ठवत् प्रातिपदिकस्य" (वा।८१३) इत्यत्रापि तर्हीयं परिभाषा नोपतिष्ठते; स्वरूपाग्रहणात्, ततश्च लिङ्गव्शीष्टेष्वष्ठवद्भावो न स्यात्।
तत्र को दोषः? कुमारीमाचष्टे कुमारीयतीत्यत्र टिलोपो न स्यात्? नैष दोषः; बहुलमिष्ठवद्भाव इष्यते, तथा च चुरादौ पठ()ते "प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च" (चुरा।ग।सू।१८६) इति। तस्माद्बहुलवचनाल्लिङ्गविशिष्टस्यापीष्ठवद्भावो भविष्यति।
"किञ्च" इत्यादना प्रयोजनान्तरं समुच्चिनोति। तदिति ङ्यापोः प्रत्यवर्शः। ङ्यन्तादाबन्ताच्च तद्धितविधानं यथा स्यादित्येवमर्थं च ङ्याब्ग्रहणम्। "कालितरा" इति। कालशब्दाज्जनपदादिसूत्रेण
४।१।४२ ङीप्, तदन्तात् "द्विवचनविभज्योपपदे"
५।३।५७ इत्यादिना तरप्, "घरूपकल्प"
६।३।४२ इत्यादिना ह्यस्वः। "हरिणितरा" इति। हरितशब्दात् "वर्णादनुदात्तात् तोपधातो नः"
४।१।३९ इति ङीप्, तकारस्य नकारः, "अट्कुप्वाङ्"
८।४।२ इत्यसति ङ्याब्ग्रहणे परत्वादातिशयिकः स्यात्। अ()स्मस्तु सति ङ्यापोस्तद्धितविधाने प्रकृतित्वेनाश्रयणात् पूर्वं ङ्याब्भ्यां भवितव्यमिति तदन्तात् तद्धितविधिः सिध्यति। ननु चान्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तदिताः, तथा हि-- "समर्थानां प्रथमाद्वा"
४।१।८२ इत्यधिकाराद्विभक्त्यन्ताते उत्पद्यन्ते, विभक्तयश्च कर्माद्यपेक्षाः, कर्मादयश्च बाह्रक्रियानिमित्तत्वाद्बहिरङ्गाः ततश्च निमित्तस्य बहिरङ्गत्वात् तद्धिता अपि बहिरङ्गाश्रया एव भवन्ति; लिङ्गस्य तु सम्बन्ध्यन्तरानपेक्षत्वादन्तरङ्गत्वञ्च, अतस्तन्निमित्ता अपि टाबादयोऽन्तरङ्गा भवन्ति, ततश्चान्तरङ्गत्वादेव टाबादिभिस्तावद्भवितव्यम्,
पश्चात् तदन्तात् तद्धितैरित्यपार्थकं ङ्याब्ग्रहणम्? नैतदस्ति; तदन्तात् तद्धितविमधानार्थं ङ्याब्ग्रहणमित्यत्र हि वाक्ये तद्धितग्रहणेन स्वार्थिका ये तद्धितास्त एव विवक्षिताः। इममेवार्थं सूचयितुं कालितरा, हरिणितरेति स्त्रीप्रत्ययान्तात् स्वार्थिक एव तरप्प्रत्यय उदाह्मतः।
स्वार्थिकेषु च "समर्थानाम्"
४।१।८२ इत्येतन्नानुवत्र्तते। तथा हि क्ष्यति वृत्तिकारः-- "स्वार्थिकप्रत्ययावधिश्चायमधिकारः "प्राग्दिशो विभक्तिः"
५।३।१ इति यावत्। स्वार्थिकेषु ह्रस्योपयोगो नास्ति" इति। एवञ्च सति विभक्त्युत्पत्तिमनपेक्ष्य प्रातिपदिकादेव स्वार्थिकैर्भवितव्यमिति कुतस्तेषां बहिरङ्गत्वम् ! नन्वेवमपि कालितरेत्याद्यनुदाहरणम्; तरप्प्रत्ययस्य बहिरङ्गत्वात्। स हि यद्यपि विभक्त्युत्पतिं()त नापेक्षते, प्रतियोगिनं तु बाह्रार्थमपेक्षत एव,
स्त्रीप्रत्ययस्य तु न कश्चित् प्रतियोग्यपेक्षेति तस्यान्तरङ्गत्वम्? नैष दोषः; उदाहरणदिगियं वृत्तिकारेण दर्शिता।
एतानि त्वत्रोदाहरणानि दर्शयितव्यानि-- एनिका, श्येनिका, रोहिणिकेति। अत्र हि यदि पूर्वं तद्धितः स्यात् तदेतश्यतरोहितशब्देभ्योऽज्ञाताद्यर्थविवक्षायां कप्रत्यये "वर्णादनुदात्तात् तोपधात् तो नः"
४।१।३९ इत्यनेन ङीब्नकारौ न स्याताम्। यदि तर्हि ङ्याबन्तात् तद्धितविधानार्थं ङ्याब्ग्रहणम्, समासान्ता अपि तदन्तादेव स्युः, ततश्च बहवो गोमन्तोऽस्यां नगर्यामिति स्यात्, बहुव्रीहौ कृते "उगितश्च"
४।१।६ इति ङीप्, ततश्च "नद्यृतश्च"
५।४।१५३ इति कपि बहुगोमतीकेति रूपं स्यात्,
बहुगोमत्केति चेष्यते? नैष दोषः; न हि समासान्ताः समासादुत्पद्यन्ते।
किं तर्हि? अकृत एव समासे तदर्थादुत्तरपदात्। तथा हि "न कपि"
७।४।१४ इत्यत्र वक्ष्यति वृत्तिकारः-- "गोस्त्रियोरुपसर्जनस्य"
१।२।४८ इत्ययमपि ह्यस्वः कपि न भवति, समासार्थे ह्रुत्तरपदे कपि कृते पश्चात् समासेन भवितव्यमिति स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवति" इति। न च बहवो गोमन्तोऽस्यां नगर्यामित्यत्र वाक्ये समासार्थमुत्तरपदं स्त्रियां वत्र्तत इति प्राक्कपैव भवितव्यम्, पश्चात् समासेन, ततः स्त्रीप्रत्ययेन प्रत्ययानुपूव्र्या बहुगोमत्केति सिद्धं भवति।
यिद तह्र्रकृत एव समासे तदर्थादुत्तरपदात् समासान्ता भवन्ति, तदा "नञस्तत्पुरुषात्" (५।४।
७१) इत्यत्र "नञढः परे वक्ष्यमाणा य ऋगादयस्तदन्तात् तत्पुरुषात् समासान्ता न भवन्ति" इत्येष वृत्तिग्रन्थो विरुध्यते, तेब्यस्तत्पुरुषसमासार्थेभ्यः समासान्ता न भवन्तीति वक्तव्यं स्यात्? नञः प्रकृतत्वात् स एव विज्ञायते। "तत्पुरुषात्"
५।४।७१ इत्यत्रापि तत्पुरुषशब्दस्तादथ्र्यात् तत्पुरुषार्थ उत्तरपदे वत्र्तते। तत्र पुनः ऋगादेः श्रुतत्वादृगादिरेव विज्ञायते, तदन्तात् तत्पुरुषादिति च व्यधिकरणे पञ्चम्यौ। ततोऽयमर्थः नञः परे य ऋगादयस्ते समीपभूता यस्य नञस्तस्मात् परं यत्तत्पुरुषार्थमृगादिपदं ततः समासान्तो न भवतीति। अथ वा-- अवयववचनोऽन्तशब्दः, समानाधिकरण एव पञ्चम्यौ; तादथ्र्यात्। ऋगाद्यन्तं तत्पुरुषार्थं युदत्तरपदं तदेव। तदन्तात् तत्पुरुषार्थादित्युक्तम्। ततश्चायमर्थः नञः परे य ऋगादयस्तदन्तात् तत्पुरुषार्थादुत्तरपदात् समासान्ता न भवन्तीति। तत् पुनस्तदन्ततत्पुरुषार्थम्। उत्तरपदं सामथ्र्यादृगाद्येव विज्ञायते। "बहुव्रीहौ संख्येये डजबहुगणात्"
५।४।७३ इत्यत्र तर्हि योऽयं वृत्तिग्रन्थः-- "संख्येये योऽयं बहुव्रीह#इर्वत्र्तते तस्मादबहुगणान्ताड्डच्प्रत्ययो भवति" इति,
तस्य विरोधः? नास्ति विरोधः; अत्र हि बहुव्रीह्रर्थमुत्तरपदमेव तादथ्र्याद्बहुव्रीहिरित्युक्तं भवति। तदयमर्थः-- संख्येये यद्बहुव्रीह्रर्थमुत्तरपदं वत्र्तते तस्माड्ड्च्प्रत्ययो भवतीति। अनया दिशाऽप्यन्य एवञ्जातीया विरोधाः परिहत्र्तव्याः। तदेवं स्थितमेवैतत्-- तदन्तात् तद्धितविधानार्थं ह्राब्ग्रहणमिति, विप्रतिषेधात् तद्धितविधानार्थं ङ्याब्ग्रहणमिति, विप्रतिषेधात् तद्धितवलीयस्त्वमिति।
यद्येवम्, "युनस्तिः"
४।१।७७ "ऊङुतः"
४।१।६६ इत्येतयोरपि त्यूङोग्र्रहणं कस्मान्न विज्ञायते, तदन्तात् तद्धितोत्पत्तिर्यथा स्यात्-- युवतितरा,
ब्राहृबन्धूतरेति? "नद्याः शेषस्यान्यतरस्याम्"
६।३।४३ इत्यूङो विकल्पेन ह्यस्वत्वं न कत्र्तव्यम्; ह्राब्ग्रहणस्योपलक्षणार्थत्वात्। "स्त्रियाम्"
४।१।३ इति प्रकृत्य येषां विधानं तदुपलक्षणार्थमिह ङ्याब्ग्रहमम्। अतस्त्यूङोरपि ग्रहणमिह कृतमेव वेदितव्यम्।
ङ्याब्ग्रहणं यद्युपलक्षणार्थम, अन्यतरस्यैव ग्रहणं कत्र्तव्यम्,
एकेनापि हि स्त्रीप्रत्यया उपलक्ष्यन्त एव? सत्यमेतत् ; वैचित्र्यार्थं तु द्वयोग्र्रहणम्। "यावादिभ्यः कन्"
५।४।२९, "लोहितान्मणौ"
५।४।३०, "वर्णे चानित्ये"
५।४।३१ इत्यनेन तु विकल्पेन स्वार्थिकेन स्त्रीप्रत्ययस्य बाधनमिष्यते। तत्र यदा बाधा तदा लोहितशब्दात् कनि टापि कृते चेत्वे लोहितिकेति भवितव्यम्; यदा तु न बाधा तदा " वर्णादनुदात्तात्तोपधात् तो नः"
४।१।३९ इति ङीब्नकारयोः कनि च "केऽणः"
७।४।१३ इति ह्यस्वत्वे कृते लोहिनिकेति भवितव्यम्।
तस्माद्वक्तव्यमेवैतत्-- लोहिताल्लिङ्गबाधनं वेति॥