प्रथमावृत्तिः
सूत्रम्॥
परिव्यवेभ्यः क्रियः॥ १।३।१८
पदच्छेदः॥
परिव्यवेभ्यः ५।३ क्रियः ५।१ आत्मनेपदम् १।१ १२
समासः॥
परि च वि च अव च परिव्यवाः, तेभ्यः ॰ इतरेतरद्वन्द्वः।
अर्थः॥
परि, वि अव इत्येवं पूर्वात् {डुक्रीञ् द्रव्यविनिमये} धातोः आत्मनेपदं भवति॥
उदाहरणम्॥
परिक्रीणीते, विक्रीणीते, अवक्रीणीते॥
काशिका-वृत्तिः
परिव्यवेभ्यः क्रियः १।३।१८
डुक्रिञ् द्रव्यविनिमये। ञित्वात् कर्त्रभिप्राये क्रियाफले सिद्धम् आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। परिव्यवेभ्य उत्तरस्मात् क्रीणातेरात्मनेपदं भवति। परिक्रीणीते। विक्रीणीते। अवक्रीणीते। पर्यादय उपसर्गा गृह्यन्ते तेन इह न भवति, वहुवि क्रीणाति वनम्।
लघु-सिद्धान्त-कौमुदी
परिव्यवेभ्यः क्रियः ७३७, १।३।१८
परिक्रीणीते। विक्रीणीते। अवक्रीणीते॥
न्यासः
परिव्यवेभ्यः क्रियः। , १।३।१८
"परिक्रीणीते" इति। "ई हल्यघोः"
६।४।११३ इतीत्त्वम्। "पर्यादय उपसर्गा गृह्रन्ते" इति।
कथम्? क्रिय इति सम्बन्धलक्षणा षष्ठी, न पञ्चमी-- क्रियो ये सम्बन्धिनः पर्यादय इति। अर्थद्वारश्च तेषां सम्बन्धो विशेषणविशेष्यभावलक्षणः। स चोपसर्गैरेव पर्यादिभिः सम्भवति; नान्यैरिति सामथ्र्यादुपसर्गग्रहणं भवति। "बहुवि क्रीणाति" इति। बहवो वयो यस्मिन्निति बहुव्रीहिः। विशब्दोऽत्र पक्षिणि वत्र्तते॥
बाल-मनोरमा
परिव्यवेभ्यः क्रियः ५०९, १।३।१८
परि वि अव एभ्य परस्मात् क्रीञ्दातोरात्मनेपदमित्यर्थः। ञित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह-- अकत्र्रभिप्रायार्थमिति।