सूत्रम्
नञस्तत्पुरुषात्॥ ५।४।७१
काशिका-वृत्तिः
नञस् तत्पुरुषात् ५।४।७१
नञः परे वक्ष्यमाणा ये राजादयस् तदन्तात् तत्पुरुषात् समासान्तो न भवति। अराजा असखा। अगौः। तत्पुर्षातिति किम्? अनृचो माणवकः। अधुरं शकटम्।
न्यासः
नञस्तत्पुरुषात्?। , ५।४।७१
"अराजा" इति। तत्पुरुषऽयम्()।
"अनृचो माणवकः, अधुरं शकटम्()" इति। द्वावपि बहुव्रीहि। पूर्ववदकारः॥
बाल-मनोरमा
नञस्तत्पुरुषात् ९४१, ५।४।७१
निन्दानवगमान्न टचो निषेधः। नञस्तत्पुरुषात्। शेषपूरणेन सूत्रं व्याचष्ट--समासान्तो नेति। नञ्पूर्वंपदात्तत्पुरुषात्समासान्तो नेति फलितम्। अधुरं शकटमिति। अविद्यमाना धूर्यस्येति विग्रहः। नञ्पूर्वपदत्वेऽप्यतत्पुरुषत्वात् "ऋक्पू"रिति समासान्तस्य न निषेधः।
तत्त्व-बोधिनी
नञस्तत्पुरुषात् ८१४, ५।४।७१
नञस्तत्पुरुषात्। "नञः"इति षष्ठी। नञः सम्बन्धी यस्तत्पुरुषो नञवयवकस्तस्मादित्यर्थः।