सूत्रम्
ण्यासश्रन्थो युच्॥ ३।३।१०७
काशिका-वृत्तिः
ण्यासश्रन्थो युच् ३।३।१०७
ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्याम् च स्त्रियाम् युच् प्रत्ययो भवति। अकारस्य अपवादः। कारणा। हारणा। आसना। श्रन्थना।
कथम् आस्या? ऋहलोर् ण्यत्
३।१।१२४ भविष्यति। वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्य एव उत्सर्गापवादस्य। श्रन्थिः क्र्यादिर्गृह्यते श्रन्थ विमोचनप्रतिहर्षयोः इति , न चुरादिः श्रन्थ ग्रन्थ सन्दर्भे इति। ण्यन्तत्वेन एव सिद्धत्वात्। घट्टिवन्दिविधिभ्य उपसङ्ख्यानम्। घट्टना। वन्दना। वेदना। घट्टेः भौवादिकस्य ग्रहणं घट्ट चलने इति, न चुअरादिकस्य, तस्य णेः इत्येव सिद्धत्वात्।
इषेरनिच्छार्थस्य युज् वक्तव्यः। अध्येषणा। अन्वेषना। परेर्वा। पर्येषना, परीष्टिः।
लघु-सिद्धान्त-कौमुदी
ण्यासश्रन्थो युच् ८७२, ३।३।१०७
अकारस्यापवादः। कारणा। हारणा॥
न्यासः
ण्यासश्रन्थो युच्। , ३।३।१०७
"अकारस्यापवादः" इति। "अ प्रत्ययात्"
३।३।१०२, "गुरोश्च हलः"
३।३।१०३ इति द्वाभ्यां यथायोगं प्राप्तस्य।
"कथमास्या" इति। न कथञ्चित्। अः स्यादासेः, अनेन सूत्रेण युज्वा भविष्यति, नान्य इति भावः। "ऋहलोण्र्यत्"
३।१।१२४ इत्यादि परिहारः। ननु च वासरूपविधिना ण्यत्प्रत्ययः स्यात्, स च वासरूपविधिः स्त्रियां न भवति, "अस्त्रियाम्"
३।१।९४ इति प्रतिषेधात्, तत् किमुच्यते-- "ऋहलोण्र्यत्" (३।१।
१२४) इति ण्यद्भविष्य(ती)ति? इत्यत आह-- "वासरूप" इत्यादि। एध चार्थस्तत्रैव प्रतिपादितः।
"उपसंख्यानम्" इति। प्रतिपादनमित्यर्थः। तत्रेदं प्रतिपादनम्--- वक्ष्यमाणं बहुलग्रहणमुभयोरपि योगयोः शेषः, तेन घट्टिप्रभृतिभ्यो भविष्यीति।
"वक्तव्यः"इति। व्याख्येय इत्यर्थः। व्याख्यानं तदेव बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "अन्वेषणा" इति। "इष गतौ" (धा।पा।११२७),
"इष आभीक्ष्ण्ये" (? ) इति वा॥
तत्त्व-बोधिनी
ण्यासश्रन्थो युच् १५६६, ३।३।१०७
आसनेति। आस्यतेऽस्यामिति विग्रहः। "ऋहलोण्र्य"दिति ण्यत्प्रत्यये त्वास्या। न च स्त्रीप्रत्यये वाऽसरूपविधिर्नेति शङ्क्यम्, अपवादस्य युचः स्त्रीप्करणस्थत्वेऽपि उत्सर्गस्य ण्यतस्तदभावात्। घट्टिवन्दि। विदिर्लाभार्थो गृह्रते। ज्ञानार्थस्य तु संवित्तिः। इषेरिति। अनिच्छार्थस्य युच्। इच्छार्थस्य् त्विषेरिच्छेत्येव।