पञ्चम्यर्थे षष्ठी। ऋवर्णान्ताद् धातोर् हलन्ताच् च ण्यत् प्रत्ययो भवति। कार्यम्। हार्यम्। धार्यम् वाक्यम्। पाक्यम्।
"पञ्चम्यर्थे षष्ठी" इति। "व्यत्ययो बहुलम्"
३।१।८५ इत्यनेन।
कस्याः पुनः पञ्चम्या अर्थे षष्ठी? दिग्योगलक्षणायाः। प्रत्ययविधौ हि "परश्च"
३।१।२ इति सम्बन्धात् पञ्चम्या भाव्यम्॥