आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियम् अङ् प्रत्ययो भवति। क्तिनो ऽपवादः। प्रदा। उपदा। प्रधा। उपधा श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा।
"श्रदन्तरोः"इत्यादि। उपसर्गे इवोपसर्गवत्। यादृश्युपसर्गे वृत्तिः प्रत्ययोत्पत्तिलक्षणा, तादृश्येव तयोरपि भवति। तेन यथा प्रधा, उपधेत्युपसर्गे भवति, तथा श्रदन्तरोरपि श्रद्धा, अन्तर्धेति। न चेयं वृत्तिरुपसंख्यानसाध्या; यतः श्रद्धाशब्दस्तारकादिषु च पाठात् साधुत्वमनुभवति। अन्तर्धाशब्दोऽपि ज्ञापकात्, यदयं "अन्तर्धौयेनादर्शनमिच्छति"
१।४।२८ इत्यन्तर्धिशब्दस्य किप्रत्ययान्तस्य निर्देशं करोति, तततो ज्ञायते-- भवत्यन्तःशब्द उपसर्गकार्यस्य निमित्तमिति; अन्यथा हि तस्मिन्नुपपदे "उपसर्गे घोः किः"
३।३।९२ इति किप्रत्ययो न स्यात्, ततश्च "अन्तर्धौ" इति निर्देशो नोपपद्यते॥